कदा ?; कुत्र ?; किम् ?
कदा ? कुत्र ? किम् ?
कदा ?
एतेषां प्रश्नानाम् उत्तरम् लिखतु –
भवान् कदा उत्तिष्ठति ?
अहं पञ्चवादने उत्तिष्ठामि ।
भवान् कदा विद्यालयं गच्छति ?
अहं सप्तवादने विद्यालयं गच्छामि ।
सूर्योदयः कदा भवति ?
सूर्योदयः षड्वादने भवति।
भवती कदा क्रीडति ?
अहं सायं चतुर्वादने क्रीडामि।
दीपावली कदा भवति ?
दीपावली प्रायः नवम्बर मासे भवति।
वर्षा ऋतुः कदा आगच्छति ?
वर्षा ऋतुः जून मासे आगच्छति।
कुत्र ?
एतेषां प्रश्नानाम् उत्तरम् लिखतु –
यथा - भवान् कुत्र वसति ?
अहं देहली नगरे वसामि ।
भवती कुत्र कार्यं करोति ?
अहं वित्तकोषे कार्यं करोमि ।
रमेशः प्रतिदिनं कुत्र गच्छति ?
रमेशः प्रतिदिनं क्रीडाँगनं गच्छति।
महोदयस्य कारयानं कुत्र अस्ति ?
महोदयस्य कारयानं गृहे अस्ति ।
भवान् श्वः कुत्र गमिष्यति ?
अहं श्वः मुम्बई नगरं गमिष्यामि।
बिहार राज्यस्य राजधानी कुत्र अस्ति ?
बिहार राज्यस्य राजधानी पटना नगरे अस्ति।
महाकाल मन्दिरं कुत्र अस्ति ?
महाकाल मन्दिरं उज्जैन नगरे अस्ति ।
किम् ?
एतेषां प्रश्नानाम् उत्तरम् लिखतु –
भवान् किम् पठति ?
अहं रामायणं पठामि ।
सुनील किम् क्रीडति ?
सुनील पादकन्दुकं क्रीडति ।
भवती किम् पाठयति ?
अहं संस्कृतं पाठयामि ।
गृहस्य पुरतः किम् अस्ति ?
गृहस्य पुरतः वाटिका अस्ति ।
विद्यालयस्य पृष्ठतः किम् अस्ति ।
विद्यालयस्य पृष्ठतः ग्रन्थालयः अस्ति ।
शिशुः किम् खादति ?
शिशुः रोटिकां खादति ।
अभ्यासः
एतेषां प्रश्नानाम् उत्तरम् लिखतु –
भवती कदा कार्यालयं गच्छति ?
------------------------------------
भवान् कदा मैसूरु नगरे गमिष्यति ?
------------------------------------
विशालस्य गृहं कुत्र अस्ति ?
------------------------------------
भारत देशस्य संसद भवन कुत्र अस्ति ?
-------------------------------------
बालकः प्रभाते किम् खादति ?
------------------------------------
माता आपणतः किम् आनयति ?
------------------------------------