३. परिचयः

From Samskrita Vyakaranam
(Redirected from ३. परिचयः)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/paricayaH
Jump to navigation Jump to search
Home

चित्रं पठत अवगच्छत च | ( मम/ भवतः / भवत्याः )

पुंलिङ्गम् (Masculine)
स्त्रीलिङ्गम् (feminine)

विशेषः –


* भवतः - पुंलिङ्गे | भवत्याः – स्त्रीलिङ्गे |

* “नाम” इत्यत्र विसर्गः (:) नास्ति | अनुस्वारः (ं) अपि नास्ति |


एतत् संभाषणम् उच्चैः पठत अवगच्छत च –

आचार्यः – सर्वेभ्यः स्वागतम् | नमस्काराः | मम नाम अरुणः | भवतः नाम किम् ?


रमेशः – मम नाम रमेशः |


आचार्यः – भवत्याः नाम किम् ?


लता – मम नाम लता |


आचार्यः – मम नाम किम् ?


छात्राः – भवतः नाम अरुणः |


आचार्यः – मम पुस्तकम् | मम मुखम् | मम पादः | एवं सर्वे वदन्तु | पुस्तकं , चित्रं , मित्रं , वृक्षः, हस्तः, लेखनी |


छात्राः – मम पुस्तकम् | मम चित्रम् | मम मित्रम् | मम वृक्षः | मम हस्तः | मम लेखनी |


आचार्यः – भवतः पुस्तकम् | भवतः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवतः मित्रम् | भवतः वृक्षः | भवतः हस्तः | भवतः लेखनी |


आचार्यः – भवत्याः पुस्तकम् | भवत्याः चित्रम् | एवं क्रमेण वदन्तु |


छात्राः – भवत्याः मित्रम् | भवत्याः वृक्षः | भवत्याः हस्तः | भवत्याः लेखनी |


परिचयः

अभ्यासाः (मम / भवतः / भवत्याः )

१. यथोदाहरणं रिक्तस्थानानि पूरयत –  


यथा – रामः – भवतः नाम किम् ?

रावणः – मम नाम रावणः |


सीता – भवत्याः नाम किम् ? 

शूर्पणखा  – मम नाम शूर्पणखा

  1. विनोदः - _____   _____ ? प्रकाशः - _____ _____ |
  2. द्रोणः   - _____   _____ ?  एकलव्यः - _____ _____ |
  3. अर्जुनः  - _____   _____ ? सुभद्रा  - _____ _____ |
  4. आञ्जनेयः - _____   _____ ? भीमः - _____ _____ |
  5. बृहन्नला - _____    _____ ? उत्तरा  - _____ _____ |


२. नामानुगुणं प्रश्नं पृच्छन्तु |


यथा - १. नारायणः – भवतः नाम किम् ?


  1. श्रीशः - ____________________________ ?
  1. ललिता - ___________________________ ?
  1. नलिनी - ____________________________ ?
  1. दिवाकरः - ___________________________ ?
  1. पद्मा - ______________________________ ?
  1. तपनः - _____________________________ ?


३. भवतः , भवत्याः , मम , नाम , किम्  


१. मम नाम रामः | _______________ नाम किम् ?


२. ___________________ नाम दिनेशः |


३. ________________ नाम _________ ?


४. मम _______________ रुक्मिणी |  


५. _________________ नाम किम् ?


६. ___________________ नाम अरुणः |


४.  [मम पुस्तकम् | भवतः पुस्तकम् | भवत्याः पुस्तकम् | ] एतेन क्रमेण अधः सूचितानां शब्दानाम् उपयोगं कृत्वा वाक्यानि रचयन्तु |


ग्रामः , देशः , राज्यम् , कुञ्चिका , स्यूतः , कथा , पत्रिका , धनम् , आसन्दः , भगिनी  

  1. ______ ग्रामः | _______ ग्रामः | __________ ग्रामः |
  1. __________ |____________ | ____________ |
  1. __________ | ____________| ____________ |
  1. __________ | _ __________ |_____ _______ |
  1. __________ | ___________ | ____ ________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |
  1. __________ | ___________ | _____________ |


परिचयः pdf

परिचयः PPT with audio

परिचयः PPT without audio


PAGE 3