४६. यः - सः , या-सा

From Samskrita Vyakaranam
(Redirected from ४६. यः - सः , या-सा)
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yaH-saH-yA-sA
Jump to navigation Jump to search
Home

यः - सः, या - सा

पठत अवगच्छत

यः ------सः या------सा
यः लिखति सः लेखकः। या लिखति सा लेखिका ।
यः कृषि-कार्यं करोति, सः कृषकः। या गायति सा गायिका ।
यः चित्रं रचयति सः चित्रकारः। या नृत्यं करोति सा नर्तकी ।
यः पचति सः पाचक । या पचति सा पाचिका ।
यः काष्टं तक्षति सः तक्षकः।   या विक्रयणं करोति सा विक्रयिका ।
यः अध्यापयति सः अध्यापकः। या अध्यापयति सा अध्यापिका
यः वाहनं चालयति सः चालकः। या यानं चालयति सा चालिका ।
यः निरीक्षणं करोति सः निरीक्षकः। या चिकित्सां करोति सा वैद्या ।
यः श्रावयति सः श्रावकः । या कार्यं करोति सा कार्यकर्त्री।


अभ्यासः

१. उचितपदम् उपयुज्य रिक्तस्थानानि पूरयतु ---

यः ज्ञातुम् इच्छति सः जिज्ञासुः या निरीक्षणं करोति सा----------
यः शास्त्रं जानाति सः------ या तन्त्रं जानाति सा----------
यः क्रीडति सः --------------- या नयति सा ------------------
यः सिञ्चति सः------------- या शिक्षयति सा------------
यः पाठयति सः --------- या याजयति सा -----------


२. उदाहरणं दृष्ट्वा एते के इति लिखतु

गायकः - यः गायति सः गायकः ।
धारकः - ---------
हारकः - --------
वाहकः - --------
उत्पादकः - --------
याजकः - ---------
दाहकः - --------
बोधकः - ---------
अध्यापिका---------
लेखिका-----------
दायिका---------
वाचिका---------
दर्शिका--------
नर्तिका---------
कारिका---------


यः - सः, या - सा pdf


PAGE 46