13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi: Difference between revisions

From Samskrita Vyakaranam
13---bhAShita-saMskRutam/Introductory-Sanskrit-lessons/yadi-tarhi
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 8: Line 8:
===<big>एतानि वाक्यानि पठतु, अवगच्छतु च</big>===
===<big>एतानि वाक्यानि पठतु, अवगच्छतु च</big>===


#<big>यदि परिक्षा भवति तर्हि छात्राः पठन्ति।</big>
#<big>यदि परीक्षा भवति तर्हि छात्राः पठन्ति।</big>
#<big>यदि जलम् अस्ति तर्हि सस्यानां सेचनं भवति।</big>
#<big>यदि जलम् अस्ति तर्हि सस्यानां सेचनं भवति।</big>
#<big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>
#<big>यदि आसन्दः अस्ति, तर्हि सः उपविशति।</big>

Revision as of 17:03, 30 April 2024

Home

यदि, तर्हि इति अव्ययपदानि

यदि - If , तर्हि - Then.


एतानि वाक्यानि पठतु, अवगच्छतु च

  1. यदि परीक्षा भवति तर्हि छात्राः पठन्ति।
  2. यदि जलम् अस्ति तर्हि सस्यानां सेचनं भवति।
  3. यदि आसन्दः अस्ति, तर्हि सः उपविशति।
  4. यदि वृष्टिः भवति तर्हि नदीषु, सरोवरेषु, कूपेषु च जलं वर्तते ।
  5. यदि पिता सायङ्काले शीघ्रम् आगच्छति तर्हि आवाम् आपणं गच्छावः।
  6. यदि सर्वे मिलित्वा कुर्वन्ति तर्हि कार्यं सुलभतया शीघ्रतया च समाप्तं भवति ।
  7. यदि शालागमने विलम्बः भवति तर्हि अध्यापकः तर्जयति।
  8. यदि अवकाशः भवति तर्हि अद्य भवतीं मेलिष्यामि।


अभ्यासः

१. उपरितन उदाहरणानि अनुसृत्य अधो भागे वाक्यानि रचयतु ।

यथा –

१.  पुष्पाणि सन्ति। माला भवति । 

यदि पुष्पाणि सन्ति तर्हि माला भवति।

२. आम्रफलानि पक्वानि सन्ति । अहं क्रीणामि।

३.  पिता कन्दुकम् आनयति। बालकाः क्रीडन्ति।

४. अभ्यासः सम्यक् भवति। छात्राः उत्तीर्णाः भवन्ति।

५. संस्कृतं पठन्ति। बहु लाभः भवति।

६. विद्युत् अस्ति। दिपः ज्वलति।

७. सैनिकाः सन्ति। देशस्य रक्षणं भवति।

८. भवान् औषधं पिबति। स्वस्ठः भवति।

९. लोकयानं वेगेन न गच्छति। समये तत्र न प्राप्नुमः।

१०. श्वः विरामः भवति। चलनचित्रमन्दिरं गमिष्यामः।


अभ्यासः 

२. अधः शब्दद्वयं निर्दिष्टम् अस्ति | शब्दद्वयं प्रयुज्य “यदि - तर्हि” युक्तानि वाक्यानि लिखतु |

उदा-     

निद्रा- शयनम् 

यदि निद्रा आगच्छति तर्हि शयनं करोतु |

1.ज्वर: - औषधम् 

…… ……अस्ति …… …… आवश्यकम्।

 2. बुभुक्षा - भोजनम् 

…… ……अस्ति …… …… आवश्यकम्।

3.पिपासा - जलम् 

…… ……अस्ति …… …… आवश्यकम्।

4. दृष्टिदोषः - उपनेत्रम् 

…… ……अस्ति …… …… आवश्यकम्।

5. धनम् - उद्योगः 

…… …… अपेक्षितं…… …… आवश्यकः।

6. शान्तिः - सत्सङ्गः

…… ……अपेक्षिता…… …… आवश्यक:।

7. क्षीरम्  - धेनुः

…… ……अपेक्षितं…… …… आवश्यकी।

8. कार्यसिद्धिः  -  परिश्रमः 

…… ……अपेक्षिता…… …… आवश्यकः।

9. चाकलेहः  -  धनम्

…… ……अपेक्षितः…… …… आवश्यकम्।

10. तृप्तिः  -  समाजसेवा 

…… ……अपेक्षिता…… …… आवश्यकी।


अभ्यासः 

३. समीरः शय्यादिवस्त्राणि भाटकार्थं ददाति | भाटकविवरणम् अधोभागे दत्तमस्ति

वस्तुनाम  एकदिनस्य  दिनद्वयस्य  दिनत्रयस्य 
शय्या  ४.०० ७.०० १०.००
वस्त्रकटः  ५.०० ९.०० १२.००
उपधानम्  २.०० ४.०० ५.००
आच्छादकम्  १.०० २.०० ३.००


उपरितनविवरणस्य आधारेण किं वस्तु कति दिनानि नीतं चेत् कियत् मूल्यं दातव्यम् इति “यदि-तर्हि” इति उपयुज्य लिखतु ।

उदा- यदि शय्या एकं दिनं नीयते तर्हि भाटकं चत्वारि रूप्यकाणि । 


1.  …………शय्या  दिनद्वयं नीयते ……….भाटकं ……… ………. ।

2.  ………….शय्या …………  …………… भाटकं ……… ……… ।

3.  …………वस्त्रकटः …………  …………  ……… ……………….।

4. …………वस्त्रकटः …………  …………  ……… ………………..।

5.  …………वस्त्रकटः …………  …………  ……… ……………….।

6. …………उपधानम् …………  …………  ……… ……………….।

7. …………उपधानम् …………  …………  ……… ……………….।

8.  …………उपधानम् …………  …………  ……… ………………।

9. …………आच्छादकम् …………  …………  ……… ……………।

10. …………आच्छादकम् …………  …………  ……… …………..।

11.  …………आच्छादकम् …………  …………  ……… ………….।


यदि, तर्हि pdf


PAGE 29