14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions
14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH
Content added Content deleted
Vamsisudha (talk | contribs) No edit summary |
Vamsisudha (talk | contribs) No edit summary |
||
Line 352: | Line 352: | ||
==== <big>५) '''उत्तरपदाधिकारः'''</big> ==== |
==== <big>५) '''उत्तरपदाधिकारः'''</big> ==== |
||
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति |अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति |</big> |
<big>कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति |अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति | यथा विश्वमित्रः इति समासे पूर्वपदस्य स्वरस्य दीर्घत्वं भूत्वा विश्वामित्रः इति भवति |</big> |
||
अधुना तत्पुरुषसमासस्य प्रभेदानाम् अध्ययनं भवति – |
|||
अ) सामान्यतत्पुरुषसमासः; आ) नञ्प्रभृतयः; इ) कर्मधारयसमासः; ई) द्विगुसमासः चेति |
|||
'''अ) सामान्य-तत्पुरुषसमासाः''' |
|||
द्वितीयतत्पुरुषात् आरभ्य सप्तमीतत्पुरुषः पर्यन्तं तत्सम्बद्धसूत्राणि अग्रे विवृतानि | अष्टाध्यायां प्रथमातत्पुरुषसमासस्य कृते सूत्रं न उक्तम् | प्रथमतत्पुरुषः इत्यस्य एकदेशिसमासः इति व्यवहारः अस्ति व्याकरणे | अयं एकदेशिसमासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति | |
|||
'''a) द्वितीयातत्पुरुषसमासः''' |
|||
द्वितीया-तत्पुरुषसमासस्य विषये षट् सूत्राणि सन्ति – २.१.२४ -२.१.२९ पर्यन्तम् | क्रमेण एतेषां सूत्राणां विषये पठिष्यामः। |
|||
1) द्वितीयान्तस्य सुबन्तस्य श्रित-अतीत- पतित-गत-अत्यस्त-प्राप्त-आपन्नश्च, एतै पदैः सह द्वितीया-तत्पुरुषसमासः भवति। |
|||
'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) = द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न इत्येतैः सुबन्तैः सह समस्यते | द्वितीयान्तं सुबन्तं श्रितादिभिः सह समस्यते, तत्पुरुषश्च समासो भवति | श्रितश्च, अतीतश्च, पतितश्च, गतश्च, अत्यस्तश्च, प्राप्तश्च आपन्नश्च तेषामितरेतरद्वन्द्वः, श्रितातीतपतितगत्यस्त्प्राप्तापन्नास्तैः | '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति; तेन बलेन तदन्तविधिः भूत्वा द्वितीयान्तः इति अर्थः लभ्यते | द्वितीया प्रथमान्तं, श्रित-अतीत-पतित- गत-अत्यस्त -प्राप्त-आपन्नैः तृतीयान्तं, द्विपदमिदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''तत्पुरुषः''' (२.१.२२) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रं— '''द्वितीया सुप् श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः सुब्भिः सह विभाषा तत्परुषः समासः''' | |
|||
अस्मिन् सूत्रे द्वितीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं द्वितीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण | द्वितीयान्तं पदं समासे पूर्वं तिष्ठति इति अर्थः लभ्यते। |
|||
यथा – |
|||
कष्णं श्रितः = कष्णश्रितः | कृष्णश्रितः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति। |
|||
अलौकिकविग्रहवाक्यं '''→''' कृष्ण + अम् + श्रित + सु '''→''' समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति | '''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण कृष्णं इति द्वितीयान्तं सुबन्तं पदं समर्थेन श्रितः इति सुबन्तेन सह समस्यते। |
|||
कृष्ण + अम् + श्रित + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण। |
|||
कृष्ण + अम् + श्रित + सु '''→''' इदानीं सुप्-प्रत्ययस्य लुक् (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | |
|||
कृष्ण + अम् + श्रित + सु '''→''' इत्यस्मिन् अम्, सु इत्यनयोः लुक् → कृष्ण + श्रित'''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'कृष्ण' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | |
|||
कृष्ण + श्रित '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमविभक्तौ यत् पदं निर्दिष्टं समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) |अस्मिन् सूत्रे द्वितीया इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति | अत्र कृष्ण इति पदं द्वितीयान्तपदस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति। |
|||
कृष्ण + श्रित'''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति | '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते | उत्तरपदम् अस्ति श्रित इति, तस्य लिङ्गम् अस्ति पुल्लिङ्गम्, अतः कृष्णश्रित इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं'''→ कृष्णश्रित + सु → स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्''' (४.१.२) इति सूत्रणे सुबुत्पत्तिः भवति | सु इति प्रत्ययस्य उकारस्य इत्संज्ञा भूत्वा '''तस्य लोपः''' ( १.३.९) इति सूत्रेण तस्य लोपः भवति | कृष्णश्रितस् → '''सुप्तिङन्तं पदम् (१.४.१४)''' इत्यनेन पदसंज्ञा भवति | |
|||
कृष्णश्रितस् → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्ते सकारस्य स्थाने रु-आदेशो भवति | कृष्णश्रितरु इति भवति | उकारस्य इत्संज्ञा भूत्वा तस्य लोपः भवति | कृष्णश्रितर् इति भवति | |
|||
कृष्णश्रितर् → '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति अवसानावस्थायाम्, अतः '''कृष्णश्रितः''' इति समस्तपदं सिद्धं प्रथमाविभक्तौ एकवचने | |
|||
एवमेव सर्वासु विभक्तिषु रूपाणि साधयितुं शक्यते | रूपाणि रामवत् भवन्ति | |
|||
अन्यानि उदाहरणानि - |
|||
नरकं श्रितः = नरकश्रितः | |
|||
दुःखम् अतीतः = दुःखातीतः |दुःख+अम् +अतीतः +सु इति अलौकिकविग्रहः। |
|||
कान्तारम् अतीतः (one who is beyond) =कान्तारातितः | |
|||
कूपं पतितः = कूपपतितः | कूपम्+अम् +पतितः +सु इति अलौकिकविग्रहः। |
|||
पतितः नरकम् =नरकपतितः | |
|||
ग्रामं गतः = ग्रामगतः | ग्रामम्+अम् +गतः +सु इति अलौकिकविग्रहः। |
|||
तरङ्गम् अत्यस्त: (crossed) = तरङ्गात्यस्तः | |
|||
सुखं प्राप्तः= सुखप्राप्तः | सुखम्+अम् +प्राप्तः +सु इति अलौकिकविग्रहः। |
|||
सुखम् आपन्नः (प्राप्तः इत्यर्थः) =सुखापन्नः | |
|||
दुःखम् आपन्नः = दुःखापन्नः | |
|||
कष्टम् आपन्नः = कष्टापन्नः | |
|||
'''गम्यादिनाम् उपसङ्ख्यानम्''' इति वार्तिकेन द्वितीयान्तं सुबन्तं गमी, गामी, बुभुक्षु इत्येतैः शब्दैः समस्यते | |
|||
ग्रामं गमी = ग्रामगमी | ग्रामम्+अम्+ गमिन्+सु इति अलौकिकविग्रहः। |
|||
ग्रामं गामी = ग्रामगामी । |
|||
अन्नं बुभुक्षुः =अन्नबुभुक्षुः । |
|||
मधु पिपासुः = मधुपिपासुः |
|||
गुरुं शुश्रुषुः = गुरुशुश्रुषुः। |
|||
'''कृत्तद्धितसमासाश्च (१.२.४६) =''' कृदन्ताः, तद्धितान्ताः, समासाः च अपि प्रातिपदिकसंज्ञकाः | कृच्च, तद्धितश्च, समासश्च, कृत्तद्धितसमासाः इतरेतरद्वन्द्वः | कृत्तद्धितसमासाः प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | अर्थवदधातुरप्रत्ययः प्रातिपदिकम् (१.२.४५) इत्यस्मात् अर्थवत्, प्रातिपदिकम् इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— '''अर्थवन्तः कृत्तद्धितसमासाः च प्रातिपदिकानि |''' |
|||
'''सुपो धातुप्रातिपदिकयोः (२.४.७१) =''' धातोः च प्रातिपदिकस्य च अवयवरूपेण विद्यमानस्य सुप्-प्रत्ययस्य लुक् भवति | यदि कश्चन सुप्-प्रत्ययः कस्यचित् धातोः प्रातिपदिकस्य वा अवयवरूपेण विद्यमानः अस्ति, तर्हि तस्य सुप्-प्रत्ययस्य लुक् भवति | धातुश्च प्रातिपदिकं च तयोरितरेतरयोगद्वन्द्वः, धातुप्रातिपदिके, तयोर्धातुप्रातिपदिकयोः |सुपः षष्ठ्यन्तं, धातुप्रातिपदिकयोः षष्ठीद्विवचनान्तम् |ण्यक्षत्रियार्षञितो यूनि '''लुगणिञोः ( २.४.५८)''' इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः अस्ति |अनुवृत्ति-सहित-सूत्रम्'''— धातुप्रातिपदिकयोः सुपः लुक् |''' |
|||
समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनं किम् इति प्रश्नः उदेति? |
|||
समस्तपदस्य प्रातिपदिकसंज्ञायाः प्रयोजनद्वयं वर्तते | प्रातिपदिकसंज्ञा अस्ति चेत् एव '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समस्तपदस्य अवयवभूतानां सुप् -प्रत्ययानां लुक् भवति | एतत् प्रातिपदिकसंज्ञायाः प्रथमं प्रयोजनम् |समस्तपदस्य प्रातिपदिकसंज्ञा अस्ति चेत् एव सुप् -प्रत्ययाः विधीयन्ते '''ङ्याप्प्रातिपदिकात्''' ( ४.१.१) इति सूत्रेण यदा सुप्- प्रत्ययाः विधीयन्ते तदा एव पदत्वं सिद्ध्यति '''सुप्तिङन्तं पदम्''' (१.४.४१) इति सूत्रेण | अपदं न प्रयुञ्जीत इति नियमात् लोके पदम् एव प्रयोक्तव्यम्। |
|||
'''सुप्तिङन्तं पदम् (१.४.१४) =''' सुबन्तानां तिङन्तानां च पदसंज्ञा भवति | तर्हि यस्य पदस्य अन्ते सुप्-प्रत्ययः अस्ति, तत् सुबन्तं; यस्य पदस्य अन्ते तिङ्-प्रप्रत्ययः अस्ति, तत् तिङन्तम् | एकविंशतिः सुप्-प्रत्ययाः सन्ति; अष्टादश तिङ्-प्रत्ययाः सन्ति | |
|||
'''ससजुषो रुः (८.२.६६)''' = पदान्ते सकारस्य च सजुष्-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत् पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम् | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः |''' |
|||
'''विरामोऽवसानम् (१.४.११०) =''' वर्णानाम् अभावः अवसानसंज्ञकः | विरामः प्रथमान्तम्, अवसानं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णं— '''विरामः अवसानम् |''' |
|||
'''खरवसानयोर्विसर्जनीयः (८.३.१५) =''' पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम् | खर् च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम् |''' |
|||
2) स्वयम् इति अव्ययस्य क्तप्रत्ययान्तेन सह द्वितीया-तत्पुरुषसमासः भवति | |
|||
'''स्वयं क्तेन''' (२.१.२५) = ‘स्वयम्’ इति अव्ययं क्तप्रत्ययान्तेन समर्थेन सुबन्तेन सह विकल्पेन समस्यते, तत्पुरुषश्च समासो भवति |स्वयम् आत्मना इत्यस्यार्थे वर्तते | '''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति | परन्त्तु ‘द्वितीया’ इति न सम्बद्ध्यते, अयोग्यत्वात् | अर्थात् '''स्वयम्''' इति पदम् अव्ययम् अस्ति | अतः तस्य विभक्तेः लुक् भवति '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रं वदति अव्ययात् परस्य आप्-प्रत्ययानाम् सुप्-प्रत्ययानाम् च लुक्-भवति इति | अत्र स्वयम् अव्ययम् इति कृत्वा द्वितीयान्तं पदं भवितुं न अर्हति | एतस्मात् कारणात्, द्वितीया इति अनुवृत्तस्य पदस्य अन्वयः न भवति अस्मिन् सूत्रे | यद्यपि द्वितीया इति पदस्य अन्वयः नास्ति तथापि तस्य अनुवृत्तिः भवति | किमर्थं चेत् द्वितीयाग्रहणम् उत्तरार्थम् अनुवर्तते |स्वयम् अव्ययम्, क्तेन तृतीयान्तम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |अनुवृत्ति-सहित-सूत्रम्— '''स्वयम् सुप् क्तेन सुपा सह विभाषा द्वितीया तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे स्वयम् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं स्वयम् इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |द्वितीयान्तं पदं समासे पूर्वं तिष्ठति। |
|||
स्वयं कृतः = स्वयङ्कृतः | स्वयं +कृत+सु इति इति अलौकिकविग्रहः। |
|||
स्वयं धौतौ = स्वयंधौतौ पादौ | |
|||
स्वयं विलीनं = स्वयंविलीनम् आज्यम्। |
|||
3) खट्वा इति शब्दस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति निन्दार्थक-विषये |अत्र समासः '''नित्यं''' भवति यतोहि व्यस्तप्रयोगे निन्दा न अवगम्यते |क्षेपे इत्युक्ते निन्दा इत्यर्थः अस्ति। |
|||
'''खट्वा क्षेपे''' (२.१.२६) = खट्वा इति द्वितीयान्त-शब्दः क्तान्तेन सह क्षेपे गम्यमाने समस्यते, तत्पुरुषश्च समासो भवति | क्षेपो निन्दा, स च समासार्थ एव, तेन विभाषा अधिकारेऽपि '''नित्यसमासः''' एव अयम् | '''अयं समासः नित्यसमासः यतोहि वाक्येन न निन्दा अवगम्यते''' | खट्वा प्रथमान्तं, क्षेपे सप्तम्यन्त खट्वाशब्दो द्वितीयान्तः | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः यतोहि वाक्ये निन्दा न अवगम्यते |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |'''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्— '''द्वितीया खट्वा सुप् क्तेन सुपा सह क्षेपे तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे खट्वा इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं खट्वा इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |द्वितीयान्तं पदं समासे पूर्वं तिष्ठति। |
|||
खट्वारूढो जाल्मः (नित्यसमासः) |अयं समासः नित्यसमासः अतः व्यस्तप्रयोगः न शक्यते |खट्वारूढो जाल्मः इति वाक्यस्य अर्थः अस्ति यः पुरुषः नियमस्य उल्लघनं कृत्वा गृहस्थाश्रमं प्रविष्टवान् अस्ति इति |अस्मिन् वाक्ये निन्दार्थः प्रतीयते |अतः '''खट्वा क्षेपे''' (२.१.२६) इति सूत्रेण समासः विहितः अस्ति |खट्वा+अम् + आरूढ+सु इति अलौकिकविग्रहः अस्ति। |
|||
खट्वाप्लुतः (यः कुमार्गं गच्छति) । |
|||
4) सामि इति अव्ययस्य क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति |सामि इति अव्ययम् अर्धशब्दस्य पर्यायः अस्ति | |
|||
'''सामि''' (२.१.२७) = सामि इति अव्ययशब्दस्य क्त्प्रत्ययान्तेन सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति |सामि इत्यव्ययमेकपदमिदं सूत्रम् |सामि इत्येतदव्ययम् अर्धशब्दपर्यायः अस्ति, तस्य अव्ययसंज्ञा इति कारणेन तस्य द्वितीयया सह सम्बन्धः नास्ति |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति पन्तु अस्मिन् सूत्रे विधीयमानः समासः नित्यः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |'''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रं— '''सामि सुप् क्तेन सुपा सह द्वितीया तत्परुषः समासः विभाषा।''' |
|||
उदा |
|||
सामि कृतं = सामिकृतम् (अत्र समासः भवति न वा रूपं समानम् एव अस्ति तर्हि समासस्य का आवश्यकता अस्ति |समाधानम् अस्ति यत् सामिकृतम् इत्यस्य रूपभेदः नास्ति तथापि तद्धितप्रत्ययस्य विषये रूपभेदः भवति |सामिकृत इति प्रातिपदिकात् अपत्यार्थे इञ् इति तद्धितप्रत्ययः विधीयते चेत् सामिकृतिः इति पदं निष्पन्नं भवति |समासः न भवति चेत् सामि, कृतम् च भिन्ने पदे स्तः अतः तद्धितप्रत्ययः न विधीयते | वस्तुतः सामिकृतिः इत्यादीनां पदानां प्राप्त्यर्थम् एव एतत् सूत्रं अपेक्षितम्। |
|||
सामि पीतं = सामिपीतम्। |
|||
5) कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह द्वितीया-तत्पुरुषसमासः भवति| |
|||
'''कालाः''' (२.१.२८) = कालवाचिनः द्वितीयान्ताः शब्दाः क्तान्तेन सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति |कालाः प्रथमाबहुवचनान्तमेकपदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य यद्यपि अधिकारः अस्ति तथापि अस्मिन् सूत्रे विधीयमानः समासः नित्यः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |'''स्वयं क्तेन''' (२.१.२५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रं— '''द्वितीयाः कालाः सुपः क्तेन सुपा सह तत्परुषाः समासाः ।''' |
|||
अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |द्वितीयान्तं पदं समासे पूर्वं तिष्ठति। |
|||
यथा – |
|||
मासं प्रमितः = मासपमितः प्रतिपच्चन्द्रः (मासं परिच्छेत्तुम् आरब्धवान् इत्यर्थः |मासस्य आरम्भे यः चन्द्रमा इति |चन्द्रमसः द्वारा मासः क्रमशः वृद्धिं प्राप्नोति |मास+अम्+ प्रमित+सु इति अलौकिकविग्रहः । |
|||
6) कालवाचिनः द्वितीयान्त-शब्दस्य अत्यन्तसंयोगे सुबन्तेन सह द्वितीया-तत्पुरुषसमासः विकल्पेन भवति| |
|||
'''अत्यन्तसंयोगे च''' (२.१.२९) = कालवाचिनः द्वितीयान्ताः शब्दाः अत्यन्तसंयोगे गम्यमाने सुपा सह समस्यन्ते विभाषा, तत्पुरुषश्च समासो भवति |अत्यन्तश्चासौ संयोगोऽत्यन्तसंयोगः, तस्मिन् अत्यन्तसंयोगे कर्मधारयः |अत्यन्तसंयोगे सप्तम्यन्तं, चाव्ययम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''द्वितीया श्रितातीतपतितगत्यस्त्प्राप्तापन्नैः''' (२.१.२४) इत्यस्मात् सूत्रात् द्वितीया इत्यस्य अनुवृत्तिः अस्ति |अनुवृत्ति-सहित-सूत्रं— '''अत्यन्तसंयोगे द्वितीयाः कालाः सुपः सुपा सह विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे कालाः इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं कालाः इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |द्वितीयान्तं पदं समासे पूर्वं तिष्ठति। |
|||
यथा— |
|||
मुहूर्तं सुखं = मुहूर्तसुखम् |द्विक्षणात्मकं सुखम् |मुहूर्त+अम् + सुख+सु इति अलौकिकविग्रहः |व्यस्तप्रयोगे मुहूर्तं इत्यस्य द्वितीया विभक्तिः भवति '''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रेण |'''कालाध्वनोरत्यन्तसंयोगे''' (२.३.५) इति सूत्रं वदति यत् कालशब्देभ्यो अध्वशब्देभ्यश्च द्वितीया विभक्तिः भवति अत्यन्तसंयोगे गम्यमाने। |
|||
'''b) तृतीयातत्पुरुषसमासः''' |
|||
तृतीयातत्पुरुषसमाससम्बद्धसूत्राणि (२.१.३० - २.१३५) पर्यन्तं षट् सूत्राणि सन्ति |क्रमेण अवलोकयाम। |
|||
तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह विकल्पेन समस्यते |तृतीया तत्कृतेन गुणवचनेन समस्यते |तृतीया तत्कृतेन अर्थेन समस्यते । |
|||
1) तृतीयान्त-सुबन्तस्य गुणवचनेन, अर्थ इति शब्देन च सह तृतीयातत्पुरुषसमासः भवति |अर्थात् तृतीयान्तं तृतीयान्तार्थकृतगुणवचनेनार्थेन च सह विकल्पेन समस्यते |तृतीया तत्कृतेन गुणवचनेन समस्यते |तृतीया तत्कृतेन अर्थेन समस्यते | |
|||
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) = तृतीयान्तं तत्कृतेन गुणवचनेन, तत्कृतेन अर्थ-शब्देन सह समस्यते |तृतीयान्तं सुबन्तं, तृतीयान्तार्थेन सम्पादितः गुणवाची प्रातिपदिकेन सह एवञ्च अर्थ-शब्देन सह समस्यते |'''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः भवति, तेन तृतीया इत्युक्ते तृतीयान्तः इति अर्थः भवति |तृतीया प्रथमान्तं, तत्कृत इति लुप्ततृतीयाकम्; अर्थेन तृतीयान्तं, गुणवचनेन तृतीयान्तम्, अनेकपदमिदम् सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् तत्कृतार्थेन गुणवचनेन सुपा सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रे तृतीयान्तपदार्थः गुणे, अर्थे च हेतुः स्यात् |अस्य सूत्रस्य अर्थद्वयं वर्तते – |
|||
१) तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते | |
|||
२) तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते | |
|||
१) तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते – पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं गुणवाचिशब्दः भवति | |
|||
तृतीयान्तं पदं तत्कृतेन गुणवचनेन समस्यते इति उक्तं, तर्हि गुणवचनं नाम किम् इति अवगन्तव्यम्। |
|||
गुणः सर्वदा द्रव्यम् आश्रित्य एव तिष्ठति |गुणः यस्मिन् द्रव्ये अस्ति तद् बोधकः शब्दः गुणवचनः इति उच्यते |यथा मृदुत्वम् इति गुणः अस्ति |मृदुपुष्पम् इति वदामः चेत् मृदुत्वम् इति गुणः पुष्पे वर्तते |मृदुत्वम् इति गुणः यस्मिन् वस्तुनि वर्तते तादृशवस्तु गुणवचनम् इति उच्यते |अस्मिन् सूत्रे गुणः इत्यनेन न केवलं गुणः, क्रिया अपि तस्मिन् अन्तर्भूतः |पचनम् इति ल्युडन्तः शब्दः अस्ति |पचनम् इति शब्दः पचनक्रियां बोधयति |तर्हि पाचकः इति गुणवचनः शब्दः अस्ति |यस्मिन् सा पचनक्रिया विद्यते सः पाचकः | एतादृशाः शब्दाः गुणवचनशब्दाः इति कथ्यन्ते। |
|||
मृदुत्वम् = गुणः, मृदु (पुष्पं) – गुणवचनम् |
|||
पचनं = क्रिया, पाचकः = गुणवचनम् |
|||
कश्चित् गुणवचनशब्दः अस्ति तस्य गुणस्य उत्पादने हेतुः तृतीयान्तशब्देन उच्यते |यथा शङ्कुलया खण्डः |खण्डः नाम खण्डनक्रियां प्राप्तः कश्चित् |शङ्कुला खण्डः देवदत्तः इति महाभाष्ये उदाहरणम् |खण्डनक्रिया यस्मिन् सः खण्डः |खण्डशब्दः गुणवचनः | खण्डनक्रिया इति यः गुणः, तस्य हेतुः शङ्कुला |शङ्कुलया कृता खण्डनक्रिया यस्मिन् अस्ति सः शङ्कुलाखण्डः | |
|||
शङ्कुलया खण्डः = शङ्कुलाखण्डः |तत्कृतार्थेन गुणवचनेन इत्यस्य एतत् उदाहरणम् अस्ति। |
|||
खण्डनक्रिया अस्य अस्ति इति खण्डः |खण्डः इति शब्दः गुणवचनः | |
|||
खण्डनक्रिया तत्कृता = शङ्कुला कृता। |
|||
अत्र शङ्कुलया इति तृतीयान्तं पदम् अस्ति |शङ्कुला इत्युक्ते छूरिका इति |छुरिकायाः गुणवाचकशब्दः अस्ति खण्डः इति |छुरिकायाः प्रयोगः अस्माभिः क्रियते खण्डनार्थम् |खण्डनं भवति छुरिकायाः कारणेन अतः अत्र तृतीयातत्पुरुषसमासः भवति '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इति सूत्रेण |शङ्कुलया खण्डः इत्यस्य अर्थः अस्ति यत् वस्तु छुरिकया छिन्नं जातम् इति |अधुना शङ्कुलया इति तृतीयान्तपदस्य खण्डः इति गुणवाचकशब्देन सह समासः भवति |अत्र प्रक्रिया चिन्तनीया |शङ्कुला+टा +खण्ड+सु इति अलौकिकविग्रहः। |
|||
अन्यत् उदाहरणम् – |
|||
पङ्केन कलुषम् = पङ्ककलुषम्। |
|||
कुसुमेन सुरभिः = कुसुमसुरभिः |सुरभिगन्धः कुसुमेन उत्पद्यते। |
|||
किरिणा काणः – किरिकाणः |काणत्वम् इत्युक्ते अन्धत्वम् |अन्धत्वम् इति गुणः |काणः = अन्धः, गुणवचनः |काणत्वे करणं किरिः (वराहः) | |
|||
२) तृतीयान्तं पदं तत्कृतेन अर्थेन समस्यते |इदानीम् अर्थशब्देन सह समस्तपदस्य उदाहरणं पश्यामः |अर्थशब्दस्य बहवः अर्थाः सन्ति |अत्र अर्थशब्दस्य धनम् इति अर्थः अस्ति |अतः धनवाचिनः अर्थशब्दस्य ग्रहणं भवति |पूर्वपदं तृतीयान्तं पदं भवति, उत्तरपदं धनवाचिशब्दः भवति | |
|||
धान्येन अर्थः = धान्यार्थः |धान्येन हेतुना यत् धनं सम्पादितम् इत्यर्थः |अत्र '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यनेन समासः भवति |तृतीयान्तं सुबन्तं धान्येन इति पदम् अस्ति, तस्य अर्थः इति शब्देन सह समासः भवति |अत्र प्रक्रिया चिन्तनीया। |
|||
अन्यानि उदाहरणानि – |
|||
विद्यया अर्थः = विद्यार्थः; |
|||
पुण्येन अर्थः = पुण्यार्थः |
|||
हिरण्येन अर्थः = हिरण्यार्थः |
|||
फलेन अर्थः = फलार्थः |
|||
गृहेन अर्थः – गृहार्थः |
|||
धनेन अर्थः = धनार्थः |
|||
चौर्येण अर्थः = चौर्यार्थः |
|||
अक्षणा काणः(blindness) '''→''' अत्र तृतीयातत्पुरुषसमासः न सम्भवति यतोहि काणः अक्षणा न उत्पन्नः। |
|||
2) तृतीयान्तस्य सुबन्तस्य पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह तृतीयातत्पुरुषसमासः भवति | |
|||
'''पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः''' (२.१.३१) = तृतीयान्तं सुबन्तं पूर्व-सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्ण इत्येतैः सह समस्यते, तत्पुरुषश्च समसो भवति |ऊनार्थोयस्य स उनार्थः, बहुव्रीहि; पूर्वश्च सदृशश्च समश्च ऊनार्थश्च कलहश्च निपुणश्च मिश्रश्च श्लक्ष्णशच तेषामितरेतर्योगद्वन्द्वः पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णास्तैः |र्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः तृतीयान्तमेकपदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने उच्यते | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रं— '''तृतीया सुप् पूर्व- सदृश-सम-ऊनार्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः सुब्भिः सह विभाषा तत्पुरुषः समासः''' '''।''' |
|||
अस्मिन् सूत्रे तृतीया इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं तृतीया इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
उदाहरणानि— |
|||
पूर्वः '''→''' मासेन पूर्वः =मासपूर्वः |मास+टा+ पूर्व+सु इति अलौकिकविग्रहः |संवत्सरेण पूर्वः = संवत्सरपूर्वः | |
|||
सदृश '''→''' मात्रा सदृशः = मातृसदृशः |मातृ+टा+ सदृश+सु इति अलौकिकविग्रहः |पित्रा सदृशः = पितृसदृशः | |
|||
सम '''→''' मात्रा समः = मातृसमः | |
|||
ऊनार्थ '''→''' माषेण ऊनम्=माषोनम् |ऊनम् इत्युक्ते न्यूनम् इत्यर्थः |माषेण विकलम् = माषविकलम् |विकलम् इति शब्दः ऊनार्थे अस्ति | |
|||
कलह '''→'''वाचा कलहः = वाक्कलहः | |
|||
निपुण '''→''' वाचा निपुणः= वाङ्निपुणः |आचरेण निपुणः = आचारनिपुणः | |
|||
मिश्र'''→''' गुडेन मिश्रः = गुडमिश्रः |तिलेन मिश्रः = तिलमिश्रः | |
|||
श्लक्ष्ण '''→'''आचारेण श्लक्ष्णः =आचारश्लक्ष्णः | |
|||
'''मिश्रग्रहणे सोपसर्गस्यापि ग्रहणम्, मिश्रं चानुपसर्गमसन्धौ इत्यत्रानुपसर्गग्रहणात्''' इति वार्तिकम् |अर्थात् सूत्रे मिश्र इति शब्दः उक्तः, तस्य द्वारा उपसर्गयुक्तस्य मिश्र-शब्दस्य अपि ग्रहणं भवति |अतः सम्मिश्रः इत्यादीनाम् अपि ग्रहणं भवति |अस्य प्रमाणं '''मिश्रं चानुपसर्गमसंधौ''' (६.२.१५४) इति सूत्रमेव |उक्तसूत्रे यदि पाणिनिना उपसर्गयुक्तेन मिश्रशब्देन सह समासः न इष्टः तर्हि उत्तरपदे उपसर्गयुक्तस्य मिश्र-शब्दस्य प्रयोगः एव न क्रियते |इदं सूत्रमेव ज्ञापकम् अस्ति यत् मिश्रशब्दस्य द्वारा उपसर्गयुक्तस्य मिश्रशब्दस्य अपि ग्रहणम् इति | |
|||
गुडेन सम्मिश्रः = गुडसम्मिश्रः |गुड+टा+ सम्मिश्र+सु इति अलौकिकविग्रहः। |
|||
प्रकृतसूत्रे ऊन इति शब्दः उक्तः, तेन सह प्रयुक्तानां समानार्थकानां शब्दानाम् अपि ग्रहणं क्रियते |परन्तु पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति यतोहि यदि तथा विवक्षितः आसीत् तर्हि सम इति शब्दस्य पृथक्तया उल्लेखः न क्रियते सूत्रे |अतः पूर्व-सदृश-सम इत्येतेषां शब्दानां समानार्थकानां ग्रहणं नास्ति। |
|||
'''अवरस्योपसङ्ख्यानम्''' इति वार्तिकम् अस्ति |अस्य अर्थः एवम् अस्ति – तृतीयान्तं समर्थं सुबन्तं अवर-प्रकृतिक-सुबन्तेन सह समस्यते |अस्मिन् वार्तिके तृतीया इति पदस्य अनुवृत्तिः भवति प्रकृतसूत्रात् |अनेन वार्तिकेन मासेन अवरः = मासावरः इति तृतीयातत्पुरुषसमासः भवति |संवत्सरेण अवरः = संवत्सरावरः इति तृतीयातत्पुरुषसमासः भवति | |
|||
3) कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति | |
|||
'''कर्तृकरणे कृता बहुलम्''' (२.१.३२) = कर्तरि करणे च या तृतीया, तदन्तं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |कर्तरि या तृतीया विभक्तिः करणे वा या तृतीया विभक्ति सा कृदन्तेन बहुलं समस्यते | |
|||
कर्ता च करणञ्च तयोः समाहारद्वन्द्वः कर्तृकरणं, तस्मिन् कर्तृकर्णे |कर्तृकरणे सप्तम्यन्तं, कृता तृतीयान्तं, बहुलं प्रथमान्तं, त्रिपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः यद्यपि अस्ति तथापि तस्य सम्बन्धः न भवति सूत्रार्थेन सह यतोहि अत्र बहुलम् इति शब्दस्य ग्रहणं अस्ति येन विशिष्टार्थस्य उपलब्धिः भवति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रं— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह बहुलं तत्परुषः समासः।''' |
|||
भाष्यकारस्य मतानुसारेण बहुलम् इति शब्दस्य प्रयोगेन सूत्रे कृत् इति शब्देन केवलं क्त-प्रत्ययस्यैव ग्रहणं करोति |अतः केवलं क्त-प्रत्ययान्तानां शब्दानाम् उदाहरणानि एव द्रष्टुं शक्यन्ते | |
|||
बहुलम् इति शब्दस्य व्याकरणे लक्षणम् एवम् अस्ति – |
|||
क्वचित्प्रवृत्तिः, क्वचितदप्रवृत्तिः क्वचिद्विभाषा क्वचिदन्यदेव | |
|||
अत्र बहुलम् इति शब्दस्य योगार्थः अस्ति - बहून अर्थान् लाति इति |अनेकान् अर्थान् प्राप्नोति इति |बहुलम् इति शब्दस्य व्याकरणे बहवः अर्थाः सन्ति |कुत्रचित् नित्यं इत्यस्मिन् अर्थे भवति कुत्रचित् विकल्पेन इत्यस्मिन् अर्थे भवति कुत्रचित् प्रसक्तिः एव न भवति, कुत्रचित् अन्यः एव अर्थः अस्ति (निर्धारितार्थं विहाय अन्यः अर्थः) |अस्मिन् सूत्रे बहुलम् इत्यस्य विकल्पेन इत्यर्थः स्वीक्रियते | |
|||
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
रामेण बाणेन हतो वाली |अस्मिन् वाक्ये '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तृपदस्य करणस्य च तृतीया भवति | |
|||
रामेण हतः = रामहतः |कर्तरि तृतीयायाः कृदन्तेन सह समासः |राम +टा + हत+सु इति अलौकिकविग्रहवाक्यम् |'''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इति सूत्रेण तृतीयातत्पुरुषसमासः । |
|||
बाणेन हतः = बाणहतः |करणे तृतीयायाः कृदन्तेन सह समासः । |
|||
हरिणा त्रातः = हरित्रातः |त्राणक्रियायां हरिः कर्ता। |
|||
नखैः भिन्नः = नखभिन्नः |भेदनक्रियायां नखाः करणम् | |
|||
अत्र एका परिभाषा वर्तते – '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' |नखैर्निभिन्नः।परिभाषायाः अर्थः अस्ति यत् कृदन्तपदेन सह गतिपूर्वकस्य कारकपूर्वकस्य च ग्रहणं भवति |अस्याः परिभाषायाः बलेन गतिपूर्वकस्य कारकपूर्वकस्य च कृदन्तस्य सुबन्तेन सह समासः क्रियते | |
|||
गतिः इति काचित् संज्ञा वर्तते व्याकरणे |गतिः इत्युक्ते उपसर्गः इति। |
|||
नखैः निर्भिन्नः = नखनिर्भिन्नः इति तृतीयातत्पुरुषसमासः भवति '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इति सूत्रेण |नख+भिस् + निर् +भिन्न+सु इति अलौकिकविग्रहवाक्यम् | |
|||
भिन्नः इति कृदन्तस्य निर् इति गतिसंज्ञके योजिते अपि नखैर्निर्भिन्नः इति समासः भवति | अत्रापि तृतीयातत्पुरुषसमासः भवति '''कृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्''' इति परिभाषायाः साहाय्येन | |
|||
बहुलं ग्रहणेन कुत्र अप्रवृत्तिः इति चेत् दात्रेण लूनवान् इत्यत्र | |
|||
दात्रेण लूनवान् = अत्र करणार्थे दात्रेण इति तृतीयान्तस्य शब्दस्य कृत्प्रत्ययान्तेन लूनवान् इति शब्देन सह समासः भवति | |
|||
4) कर्तरि करणे च तृतीयान्तस्य सुबन्तस्य कृदन्तेन सह तृतीयातत्पुरुषसमासः भवति स्तुतिविषये नो चेत् निन्दार्थकविषये | |
|||
'''कृत्यैरधिकार्थवचने''' (२.१.३३) = कर्तृकरणयो: या तृतीया, तदन्तं सुबन्तं कृत्यैः सह समस्यते अधिकार्थवचने गम्यमाने विभाषा, तत्पुरुषश्च समासो भवति | अस्मिन् सूत्रे कृत्यप्रत्ययाः उक्ताः |एते कृत्प्रत्ययाः सन्ति |'''तव्यत्तव्यानीयरः''' (३.१.१६) इत्यस्मात् सूत्रात् आरभ्य '''ण्वुल्तृचौ''' ( ३.१.१३३) इति सूत्रपर्यन्तं ये प्रत्ययाः उक्ताः ते सर्वे कृत्य-प्रत्ययाः सन्ति | अधिकः= अध्यारोपितोऽर्थ:= अधिकार्थः तस्य वचनम् अधिकार्थवचनं, तस्मिन् अधिकार्थवचने, षष्ठीतत्पुरुषः |कृत्यैः तृतीयान्तम् अधिकार्थवचने सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |तत्पुरुषः (२.१.१२) इत्यस्य अधिकारः |'''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यस्मात् सूत्रात् कर्तृकरणे इत्यस्य अनुवृत्तिः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्— '''कर्तृकरणे तृतीया सुप् कृता सुपा सह अधिकार्थवचने विभाषा तत्परुषः समासः।''' |
|||
अधिकार्थवचनम् इत्युक्ते स्तुतेः विषये अथवा निन्दायाः विषये, किमपि अधिकं वदनम् अधिकार्थवचनम् इति उच्यते | |
|||
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
यथा— |
|||
वातेन छेद्यं तृणम् = वातच्छेद्यम् |वायुना तृणम् उच्छिद्यते |अत्र तृणस्य अन्यन्तकोमलतां वक्तुम् अधिकार्थवचनम् अस्ति | वातच्छेद्यम् इति समासे स्तुतिः, निन्दा, द्वयोः अर्थयोः उदाहरणम् अस्ति |अर्थात् तृणस्य तादृशकोमलता अस्ति येन वायुना सुलभेन उच्छिद्यते |अत्र स्तुतेः उदाहरणम् अस्ति | तृणस्य कोमलतायाः कारणेन सर्गमात्रेण तृणम् उच्छिद्यते |अत्र निन्दायाः उदाहरणम् अस्ति | वात+टा + छेद्य +सु इति अलौकिकविग्रहः |छिद्-धातुतः कृत्यसंज्ञकः ण्यत्-प्रत्यय विधीयते चेत् छेद्य इति कृत्यप्रत्ययान्तः शब्दः निष्पन्नः भवति |समासे '''छे च''' (६.१.७२) इति सूत्रेण ह्रस्वस्य तुगामः भवेति छे परे |तदनन्तं '''स्तोः श्चुनाः श्चुः''' (८.४.४०) इति सूत्रेण श्चुत्वं भवति |अतः वातच्छेद्यम् इति समासः भवति '''कृत्यैरधिकार्थवचने''' (२.१.३३) इति सूत्रेण | |
|||
काकपेया नदी= काकैः पेया |तादृशी नदी यस्यां जलमेव नास्ति अथवा जलं न्यूनम् अस्ति |अत्र स्तुतिः, निन्दा च द्वयोः अर्थः अस्ति | काक +भिस् + पेया +सु इति अलौकिकविहग्रहः | पा-धातुतः कृत्यसंज्ञकः यत् प्रत्ययः विधीयते चेत् पेया इति स्त्रीलिङ्गरूपं निष्पन्नं भवति | |
|||
'''छे च''' (६.१.७२) = छकारे परे ह्रस्वस्वरस्य तुक्-आगमो भवति | तुक् कित् अस्ति अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन यस्य आगमः अस्ति (अत्र 'ह्रस्वस्वरस्य'), तस्य अन्ते आयाति | छे सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७०) इत्यस्मात् ह्रस्वस्य, तुक् इत्यनयोः अनुवृतिः | '''संहितायाम्''' (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''ह्रस्वस्य तुक् छे च संहितायाम्''' | |
|||
अत्र काशिकारस्य मतेन कृत्य-प्रत्ययेन द्वारा अत्र केवलं यत्, ण्यत् प्रत्ययोः एव ग्रहणम् न तु तव्यदादिनाम्।कृत्यग्रहणे यण्नयतोर्गहणं कर्तव्यम् |अतः काकिः पातव्या इत्यादिषु समासः न भवति | |
|||
5) व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति | |
|||
'''अन्नेन व्यञ्जनम्''' (२.१.३४) = व्यञ्जनवाचि तृतीयान्तं सुबन्तम् अन्नवाचिना सुबन्तेन सह समस्यते, विभाषा तत्पुरुषश्च समासो भवति |अन्नं स्वादुं कर्तुम् उपयोगी व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तपदस्य अन्नवाचिना सुबन्तेन सह समासः भवति | अन्नेन तृतीयान्तं, व्यञ्जनं प्रथमान्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्—'''तृतीया व्यञ्जनं सुप् अन्नेन सुपा सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
स्वादिष्टान्नस्य करणार्थं सस्कारकद्रव्यस्य आवश्यक्ता अस्ति, तस्य नाम व्यञ्जनम् इति |सस्क्रियते गुणविशेषतया क्रियते अनेन इति संस्कारो दध्यादिः | |
|||
यथा – |
|||
दध्ना ओदनः = दध्योदनः |दधि+टा + ओदन+सु इति अलौकिकविग्रहः |'''अन्नेन व्यञ्जनम्''' (२.१.३४) इति सूत्रेण तृतीयातत्पुरुषसमासः क्रियते |अत्र इको यणचि इति सूत्रेण यण्-सन्धिः क्रियते। |
|||
6) व्यञ्जनवाचिनः तृतीयान्तस्य सुबन्तस्य अन्नवाचिना सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति | |
|||
'''भक्ष्येण मिश्रीकरणम्''' ( २.१. ३५) = मिश्रीकरणवाचि तृतीयान्तं सुबन्तं पदं भक्ष्यवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो विकल्पेन भवति |मिश्रिकरणं नाम मेलनम् इत्यर्थः अस्ति | भक्ष्येण तृतीयान्तं मिश्रीकरणं प्रथमान्तम् |मिश्रीकरणं नाम मेलनम्, मिश्रणम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०) इत्यस्मात् सूत्रात् तृतीया इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्—'''तृतीया मिश्रीकरणं सुप् भक्ष्येण सुपा सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे मिश्रणक्रियाद्वारा सामर्थ्यम् |अर्थात् गुडेन धानाः इत्यस्मिन् तृतीयान्तं पदं गुडेन इत्यस्य अर्थः मिश्रितः अस्ति |अत्र करणार्थकस्य तृतीयान्तस्य उदाहरणम् अस्ति |अतः गुडः करणम् अस्ति, कर्म च धानाः इति |गुडेन धानाः इत्यस्मिन् मिश्रिणक्रियायाः प्रयोगः यद्यपि प्रकटितः नास्ति तथापि अन्तर्भूतः अस्ति एव अथवा आक्षिप्ता क्रिया अस्ति |आक्षिप्तायाः मिश्रणक्रियायाः द्वारा गुडशब्दः धानाः इति शब्देन सह परम्परया सामर्थ्यम् अस्ति इति स्वीक्रियते | |
|||
अस्मिन् सूत्रे '''तृतीया''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''तृतीया''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
यथा – |
|||
गुडेन (मिश्रिताः) धानाः = गुडधानाः |नाम धान्यपदार्थः गुडेन मिश्रितः अस्ति |गुड+ टा + धान+सु इति अलौकिकविग्रहः | |
|||
आहत्य वयं तृतीयातत्पुरुषसमासस्य विषये षट् सूत्राणि पठितवन्तः |अग्रे चतुर्थीतत्पुरुषसमासस्य विषये पठामः । |
|||
'''c) चतुर्थीतत्पुरुषसमासः''' |
|||
चतुर्थीतत्पुरुषसमासस्य विषये एकमेव सूत्रम् अस्ति |अधः लिखितोऽस्ति |चतुर्थ्यन्तवाचकपदस्य अर्थ-बलि-हित-सुख- रक्षित च इत्येतैः सह चतुर्थीतत्पुरुषसमासः नित्यं भवति |यत्र प्रकृति-विकृतिभावः भवति तत्र चतुर्थीतत्पुरुषसमासः भवति |यथा कुण्डलं कर्तुमेव हिरण्यम् अस्ति | |
|||
'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) = तदर्थ-अर्थ-बलि-हित-सुख-रक्षित इत्येतैः सह चतुर्थ्यन्तं समस्यते, तत्पुरुषश्च समासो भवति |तदर्थेन प्रकृतिविकारभावे समासो अयम् इष्यते |चतुर्थ्यन्तं पदं, चुतुर्थ्यन्तपदस्य कृते यत् वस्तु अस्ति, तदवाचकपदेन सह तथा अर्थ-बलि-हित- सुख- रक्षित च इत्येतैः शब्दैः सह विकल्पेन समस्यते |तस्मै इदं तदर्थम् |तदर्थञ्च अर्थश्च बलिश्च हितं च सुखं च तेषां इतरेतर-योग-द्वन्द्व-तदथार्थ-बलिहित्सुखरक्षितानि, तस्तदर्थार्थबलिहितसुखरक्षितैः |चतुर्थी प्रथमान्तं, तदथार्थबलिहितसुखरक्षितैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रं'''— चतुर्थी सुप् तदर्थ-अर्थ-बलि-हित-सुख-रक्षितैः सुब्भिः सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे चतुर्थी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं चतुर्थी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
अस्मिन् सूत्रे तदर्थः इत्युक्ते चतुर्थ्यन्तार्थाय यत् तद्वाचिना अर्थादिभिश्च चतुर्थ्यन्तं विकल्पेन समस्यते पूर्वपदे चतुर्थीविभक्तेः प्रत्ययः अस्ति इति कारणेन तदन्तं पदं चतुर्थ्यन्तं भवति , तस्य चतुर्थ्यन्तस्य पदस्य कृते यः वाचकः शब्दः अस्ति, तेन सह समासः भवति |यथा यूपाय दारुः = यूपदारुः | |
|||
कारकप्रकरणे तादर्थ्ये चतुर्थी विभक्तिः भवति |'''तादर्थे चतुर्थी वाच्या''' इति वार्तिकम् अस्ति |'''चतुर्थी सम्प्रदाने''' ( २.३.१३) इति सूत्रभाष्ये पठितम् एतत् वार्तिकम् |तस्मै इदं तदर्थम् |तदर्थस्य भावः तादर्थ्यं, तस्मिन् तादर्थ्ये |अर्थेन नित्यसमासः भवति |चतुर्थी तत्पुरुषसमासः भवति |वार्तिकार्थः अस्ति – तस्मिन् प्रयोजने अस्मिन् अर्थे चतुर्थी विभक्तिः भवति |यत् वस्तू प्राप्तुं कोपि किमपि कार्यं करोति तत् तदर्थम् इति वदामः |तदर्थस्य भावः तादर्थ्यम् इति वदामः। |
|||
'''तादर्थ्ये चतुर्थी वाच्या''' इत्यस्य उदाहरणम् अस्ति '''-''' मुक्तये हरिं भजति |मुक्तिं प्राप्तुं हरेः भजनं क्रियते |अत्र मुक्तिः प्रयोजनम् अस्ति, तदर्थम् एव हरेः भजनं भवति |अतः तादर्थ्या भवति मुक्तिः |अतः मुक्ति-शब्दे '''तादर्थ्ये चतुर्थी वाच्या''' इति वार्तिकेन चतुर्थी भूत्वा मुक्तये भवति |वाक्यं भवति मुक्तये हरिं भजति इति । |
|||
'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रे तदर्थेन प्रकृतिविकृतिभावः एव गृह्यते |अस्मिन् सूत्रे प्रकृतितः विकृतिः यत्र प्राप्यते तादृशस्य तदर्थस्य एव ग्रहणं क्रियते | |
|||
यथा यूपाय दारु =यूपदारु (दारु इत्यक्ते काष्ठम्, यज्ञाय काष्ठम् इत्यर्थः) । |
|||
अलौकिकविग्रहः = यूप+ङे +दारु+सु |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः क्रियते | एकं द्रव्यं अपरस्य द्रव्यस्य प्रयोजकं भवति |दारुः नाम काष्ठं, यूपः नाम यज्ञ-स्तम्भः |यज्ञार्थं यः स्तम्भः निर्मीयते तस्य निर्माणार्थं दारोः प्रयोगः क्रियते |काचित् प्रकृतिः भवति , मूलपदार्थः, तस्य विकारेण विकृतिः जायते |यथा दारुः एव प्रकृतिः अस्ति, यूपः एव विकृतिः यतोहि दारोः प्रयोगेन यूपस्य निर्माणं भवति |दारुयूपयोः मध्ये प्रकृतिविकृतिभावः अस्ति, अतः यूपदारुः इति समासः भवति । |
|||
समस्तपदस्य प्रातिपदिकं यूपदारु इति भवति |तत्पुरुषसमासे '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति |दारु इति शब्दः नपुंसकलिङ्गे अस्ति अतः समस्तपदस्य लिङ्गं नपुंसकलिङ्गे भवति |अधुना यूपदारु इति प्रातिपदिकात् सुप् प्रत्ययः विधीयते |यूपदारु +सु |समस्तपदं नपुंसकलिङ्गे अस्ति इति कारणेन '''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रेण सु, अम् इत्यनयोः लुक् भवति |अतः यूपदारु इति समस्तपदं निष्पन्नं भवति | |
|||
रूपाणि एवं भवन्ति |
|||
यूपदारु यूपदारुणी यूपदारूणि |
|||
यूपदारु यूपदारुणी यूपदारूणि |
|||
तृतीयाविभक्तेः आरभ्य रूपाणि गुरुः शब्दवत् भवन्ति। |
|||
यत्र यत्र तादर्थ्ये चतुर्थी भवति तत्र सर्वत्र समासः भवति इति नास्ति |'''तदर्थेन अत्र प्रकृतिविकृतिभावः एव इष्टः''' इति वार्तिकम् अस्ति | यत्र प्रकृतिविकृतिभावः भवति तत्रैव चतुर्थीतत्पुरुषसमासः भवति | |
|||
'''स्वमोर्नपुंसकात्''' (७.१.२३) = नपुंसकात् अङ्गात् सु, अम्-इत्यनयोः लुक् (लोपः) |सुश्च अम् तयोरितरेतरद्वन्द्वः स्वमौ, तयोः स्वमोः |स्वमोः षष्ठ्यन्तम्, नपुंसकात् पञ्चम्यन्तम्, द्विपदमिदं सूत्रम् |'''षड्भ्यो लुक्''' (७,१,२२) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहितसूत्रम्— '''नपुंसकात् अङ्गात् स्वमोः लुक्''' । |
|||
कुण्डलाय हिरण्यम् = कुण्डलहिरण्यं (सुवर्णं कुण्डलस्य उत्पादनार्थम्) |मूलं सुवर्णम् अस्ति, सुवर्णस्य विकारेण कुण्डलं निर्मीयते |प्रकृतिविकृतिभावः अस्ति इति कारणेन अत्रापि समासः भवति । |
|||
किन्तु रन्धनाय स्थाली( पाकार्थं पात्रम्) |अत्र तादर्थ्ये चतुर्थी इत्यनेन रन्धनाय इति चतुर्थी विभक्तिः भवति परन्तु समासः न भवति |अत्र समासः न भवति यतोहि प्रकृतिविकृतिभावः नास्ति |स्थाली प्रकृतिः अस्ति परन्तु रन्धनं विकृतिः नास्ति |भोजनं स्थाली इति कारणेन न उत्पन्नम् |भोजनं तु पाकसमग्रीं उपयुज्य भवति |अर्थात् तदर्थवाचकेन सुबन्तेन चतुर्थ्यन्ते सुबन्ते न कोऽपि विकारः जातः इति कारणेन समासः न भवति |अत्र रन्धनाय स्थाली इति व्यस्तप्रयोगः एव तिष्ठति | |
|||
अन्यानि उदाहरणानि |
|||
भूतेभ्यः बलिः = भूतबलिः |भूत+भ्यस्+ बलि +सु । |
|||
गोभ्यः हितम् = गोहितम् |गो+भ्यस् +हित+सु |समासप्रक्रियानन्तरं गोहित इति प्रातिपदिकं निष्पन्नं भवति |अधुना गोहित+सु इति सुप् प्रत्ययः विधीयते |हितम् इति नपुंसकलिङ्गे विवक्षितम् इत्यनेन गोहित इति समस्तपदं नपुंसकलिङ्गे भवति |अधुना '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति |गोहोत +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → गोहित +अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → गोहितम् इति समस्तपदं निष्पन्नं भवति | |
|||
गोभ्यः सुखं =गोसुखम् |
|||
गोभ्यः रक्षितं = गोरक्षितम् |
|||
'''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः '''नित्यः भवति न तु विकल्पेन''' अपि च अर्थ-शब्दस्य लिङ्गं विशेष्यं अनुसृत्य भवति | |अर्थ इति शब्देन प्रयोजनम् इत्यर्थः स्वीक्रियते |'''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण समासः विकल्पेन भवति परन्तु अर्थ-शब्देन सह तु समासः नित्यः इति कारणेन एव वार्तिकम् उक्तम् |नित्यसमासः यतोहि अत्र अस्वपदनिग्रहः भवति। |
|||
सामान्यतया तत्पुरुषसमासे '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन उत्तरपदम् अनुसृत्य समस्तपदस्य लिङ्गं भवति |परन्तु अत्र अर्थ-शब्देन सह समासः यदि भवति तर्हि '''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति सूत्रेण लिङ्गनिर्णयः न भवति अपि तु विशेष्यं अनुसृत्य अर्थ-शब्दस्य लिङ्गं भवति। |
|||
द्विजाय अयं = द्विजार्थः (सूपः) |अलौकिकविग्रहः = द्विज +ङे + अर्थ +सु |अत्र तदर्थं इति सूचनार्थम् अर्थशब्दस्य प्रयोगः कृतः |अलौकिकविग्रहे '''अर्थेन नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्''' इति वार्तिकेन अर्थ-शब्देन सह समासः क्रियते | अत्र सूपः इति पदं विशेष्यम् अस्ति, तत् पदं पुंलिङ्गे अस्ति इति कारणेन समासः पुंलिङ्गे भवति |द्विजार्थः इति समासः निष्पन्नः भवति |यदि विशेष्यं नपुंसकलिङ्गे अथवा स्त्रीलिङ्गे भवति तर्हि समासः द्विजार्थम् अथवा द्विजार्था इति भवति यथा अधः प्रदर्शितः अस्ति | |
|||
द्विजाय इयम् =द्विजार्था (यवागूः) |
|||
द्विजाय इदम् = द्विजार्थं (पयः) । |
|||
तस्मै इदम् = तदर्थम् |
|||
भोजनार्थं गच्छामि इति वाक्ये भोजनार्थं क्रियाविशेषणम् अस्ति न तु समासः |'''क्रियाविशेषणानां कर्मत्वं नपुंसकलिङ्ग च वक्तव्यम्''' इति वार्तिकेन क्रियाविशेषणं नपुंसकलिङ्गे, द्वितीया विभ्क्तौ एकवचने भवति। |
|||
'''d) पञ्चमीतत्पुरुषसमासः''' |
|||
पञ्चमी-तत्पुरुषस्य विषये त्रीणि सूत्राणि सन्ति |क्रमेण अलोकयाम। |
|||
1) पञ्चन्यन्त-सुबन्तस्य भय इति सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति | |
|||
'''पञ्चमी भयेन''' (२.१.३७) = पञ्चम्यन्तं सुबन्तं भयशब्देन सुबन्तेन सह समस्यते विकल्पेन, तत्पुरुषश्च समासो भवति |पञ्चमी प्रथमन्तं, भयेन तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''पञ्चमी सुप् भयेन सुपा सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
चोराद्भयं = चोरभयम् |चोर+ङसि + भय+सु |'''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः अम्-आदेशः भवति |चोरभय +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → चोरभय+अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → चोरभयम् इति समस्तपदं निष्पन्नं भवति | |
|||
'''भयभीतभीतिभीभिरिति वाच्यम्''' इति वार्तिकेन प्रकृतसूत्रे भयेन इति पदस्य स्थाने '''भयभीतभीतिभीभिः''' इति वक्तव्यम् |अनेन भीत-भीति-भी इत्येतैः शब्दैः सह पञ्चम्यन्तं सुबन्तं समस्यते । |
|||
यथा – |
|||
वृकात् भीतः = वृकभीतः |वृकभीतिः |वृकभीः । |
|||
भाष्यकारेण पञ्चमी भयेन इति सूत्रस्य योगविभागं कृत्वा पञ्चम्यन्तं सुबन्तं अन्येन सुबन्तेन सह समस्यते |तदनुसृत्य वार्तिकस्य आवश्यकता नास्ति |अतः वृकाद् भीः= वृकभीः, भयाद् भीतः = भयभीतः, सिंहाद् भीतिः = सिंहभीतिः इत्यादयः समासाः भवन्ति | |
|||
2) पञ्चन्यन्त-सुबन्तस्य अपेत-अपोढ- मुक्त- पतित-अपत्रस्त च इत्येतैः सुबन्तैः सह पञ्चमी-तत्पुरुषसमासः भवति | |
|||
'''अपेतापोढमुक्तपतितापत्रस्तैरल्पशः''' (२.१.३८) = कुत्रचित् पञ्चम्यन्तं सुबन्तं अपेत-अपोढ-मुक्त-पतित-अपत्रस्त इत्येतैः सह, तत्पुरुषश्च समासो भवति |अपेतश्च अपोढश्च मुक्तश्च पतितश्च अपत्रस्तश्च तेषाम् इतरेतरयोगद्वन्द्वः, अपेतापोढमुक्तपतितापत्रस्तास्तैः |अपेतापोढमुक्तपतितापत्रस्तास्तैः तृतीयान्तम्, अल्पशः अव्ययम् |सूत्रे अल्पशः इत्यस्य अर्थः अस्ति कुत्रचित् |तन्नाम कुत्रचित् पञ्चम्यन्तं सुबन्तं उक्तैः सुबन्तैः सह समासः भवति | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति | अनुवृत्ति-सहित-सूत्रं— '''अल्पशः''' '''पञ्चमी सुप् अपेत-अपोढ- मुक्त-पतित-अपत्रस्त सुब्भिः सह विभाषा तत्परुषः समासः।''' |
|||
सूत्रे अल्पशः इति शब्दस्य प्रयोजनं किम्? अल्पशः इति योजनेन सूत्रं सूचयति यत् केषाञ्चन पञ्चम्यन्तपदानां एव समासः भवति एतैः उक्तैः शब्दैः सह, सर्वत्र न भवति |प्रासादात् पतितः, भोजनादपत्रस्तः इत्येतेषां समस्तपदानां विषये चतुर्थी-तत्पुरुषः न भवति अपि तु '''कर्तृकरणे कृता बहुलम्''' (२.१.३२) इत्यनेन तृतीया-तत्पुरुषसमासः एव भवति। |
|||
अस्मिन् सूत्रे पञ्चमी इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं पञ्चमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
सुखाद् अपेतः = सुखापेतः (सुखात् दूरम् इत्यर्थः) |सुख +ङसि + अपेत +सु | |
|||
कल्पनायाः अपोढः = कल्पनापोढः (कल्पनात् बाधितः) । |
|||
चक्राद् मुक्तः = चक्रान्मुक्तः (चक्रात् मुक्तिः इत्यर्थः) |अत्र '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इत्यनेन पदान्तस्य यरः अनुनासिको वा स्यात् अनुनासिके परे |अतः चक्रान्मुक्तः इति समासः भवति | |
|||
स्वर्गात् पतितः = स्वर्गपतितः |
|||
तरङ्गाद् अपत्रस्तः = तरङ्गापत्रस्तः |
|||
3) स्तोकार्थे, अन्तिकार्थे, दूरार्थे, कृच्छ्रशब्दः च, यानि पञ्चम्यन्त-पदानि सन्ति, तेषां क्तप्रत्ययान्तेन सुबन्तेन सह पञ्चमी-तत्पुरुषसमासः भवति | |
|||
'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) =स्तोक-अन्तिक-दूर इत्येवम् अर्थाः शब्दाः, कृच्छ्रशब्दश्च, पञ्चम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति |स्तोकार्थकः (स्तोकः = अल्पः), अन्तिकार्थकः (अन्तिकः = समीपः), दूरार्थकः तथा कृच्छ्रशब्दः, एतेषां पञ्चंयन्त- सुबन्तपदानां क्तप्रत्ययान्तेन सुबन्तेन सह समासः विकल्पेन भवति, तत्पुरुषश्च समासो भवति | |स्तोकञ्च अन्तिकञ्च दूर्ञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूराणि, तेऽर्थाः येषां ते स्तोकान्तिकदूरार्थाः, बहिव्रीहिः |स्तोकान्तिकदूरार्थाश्च कृच्छ्रञ्च तेषामितरेतरद्वन्द्वः स्तोकान्तिकदूरार्थकृच्छ्राणि |स्तोकान्तिकदूरार्थकृच्छ्राणि प्रथमान्तं, क्तेन तृतीयान्तं, द्विपदं सूत्रम् | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिमाणः इति कृत्वा बहुवचने भवति | '''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''पञ्चमी भयेन''' (२.१.३७) इत्यस्मात् सूत्रात् पञ्चमी इत्यस्य अनुवृत्ति |अत्र पञ्चमी इति शब्दस्य वचनपरिणां कृत्वा बहुवचने भवति |अनुवृत्ति-सहित-सूत्रं— '''स्तोकान्तिकदूरार्थकृच्छ्राणि पञ्चम्यः सुपः सुब्भिः सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् समासे '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण स्तोकादिभ्यः परे या पञ्चमी विभक्तिः अस्ति तस्य लुक न भवति उत्तरपदे परे |तन्नाम स्तोकादिभ्यः परा या पञ्चमी तस्याः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण लुक् न स्यात् |अत्र '''अलुगुत्तरपदे''' (६.३.१) इति सूत्रस्य पूणानुवृत्तिः |'''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रम् अलुक्समासस्य सूत्रम् अस्ति |अलुक् समासः पृथक् समासः न |एतेषु समासेषु पूर्वपदस्य सुप् प्रत्ययस्य लोपः निषिध्यते सः एव अलुक् समासः इति उच्यते | अलुक् समसे विग्रह समासयोः रूपभेदः न भवति |तर्हि समासः किमर्थं क्रियते इति चेत् समासे कृते स्वरः भिन्नः भवति |वेदेषु एव इदं प्रयोजनम् अस्ति |अपि च पदानां क्रमे भेदः वर्तते यतोहि यस्य पदस्य उपसर्जनसंज्ञा अस्ति तस्मात् तस्य पूर्वप्रयोगः |समासः नास्ति चेत् स्तोकात् मुक्तः नो चेत् मुक्तः स्तोकात् इति वक्तुं शक्यते |समासे कृते स्तोकमुक्तः इति एव वक्तुं शक्यते |अलुक् समासस्य बहूनि उदाहरणानि सन्ति यथा परस्मैपदम्, आत्मनेपदम् इत्यादीनि | |
|||
स्तोकातद् मुक्तः = स्तोकान्मुक्तः (विभक्तेः अलुक् भवति) । |
|||
स्तोकान्मुक्तः इति समस्तपदस्य शास्त्रीय-प्रक्रिया अधो लिखितः अस्ति। |
|||
अलौकिकविग्रहवाक्यं '''→''' स्तोक +ङस् + मुक्त + सु '''→'''समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण |पुनः अत्र '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण तत्पुरुषसंज्ञा अपि भवति |'''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) इति सूत्रेण स्तोकाद् इति पञ्चम्यन्तं सुबन्तं पदं समर्थेन मुक्त इति क्तान्तसुबन्तेन सह समस्यते। |
|||
स्तोक +ङसि + मुक्त + सु '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण। |
|||
स्तोक +ङसि + मुक्त + सु '''→''' इदानीं सुप्-प्रत्ययस्य लुक् (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप् प्रत्ययानां लोपः भवति स्म परन्तु '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इत्यनेन पञ्चम्याः अलुक् स्यात् | | |
|||
स्तोक +ङसि + मुक्त '''→'''इत्यस्मिन् सु इत्यस्यैव लुक् → स्तोक +ङसि + मुक्त |
|||
स्तोक +ङसि + मुक्त '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति |अत्र समासविधायकसूत्रम् अस्ति '''स्तोकान्तिकदूरार्थकृच्छ्राणि क्तेन''' (२.२.३९) |अस्मिन् सूत्रे पञ्चमी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति |अधुना '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति |अत्र स्तोकाद् इति पदं पञ्चम्यन्तं पदम् अतः तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति। |
|||
स्तोक +ङसि + मुक्त '''→''' इदानीं '''टाङसिङसामिनात्स्याः''' (७.१.१२) इत्यनेन अदन्तात् अङ्गात् परस्य टा, ङसिँ, ङस् प्रत्यययानां क्रमेण इन, आत्, स्य इत्येते आदेशाः भवन्ति '''→''' स्तोक +आत्+ मुक्त। |
|||
स्तोक +आत् + मुक्त '''→''' अत्र '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनेन सवर्णदीर्घसन्धिं कृत्वा स्तोकात् + मुक्त इति भवति '''→''' अधुना '''झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं कृत्वा स्तोकाद्+ मुक्त इति भवति, तदनन्तरं '''यरोऽनुनासिकेऽनुनासिको वा''' (८.४.४५) इति सूत्रेण अनुनासिकसन्धिं कृत्वा स्तोकान्मुक्त इति भवति | |
|||
स्तोकान् + मुक्त '''→''' इदानीं लिङ्गस्य वचनस्य च निर्णयः भवति |'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन द्वन्द्वतत्पुरुषयोः उत्तरपदस्य लिङ्गं विधीयते |उत्तरपदम् अस्ति मुक्त इति, तस्य लिङ्गं पुंलिङ्गं विवक्षितम्, अतः स्तोकान्मुक्त इति समस्तपदस्य लिङ्गं भवति पुलिङ्गं'''→ स्तोकान्मुक्त + सु →''' रुत्वविसर्गौ कृत्वा '''स्तोकातन्मुक्तः''' इति समस्तपदं प्रथमाविभक्तौ एकवचने'''।''' |
|||
एवमेव अन्येषु उदाहरणेषु अपि पूर्वपदस्य विभक्तेः अलुक् भवति '''पञ्चन्याः स्तोकादिभ्यः''' (६.३.२) इति सूत्रेण। |
|||
अन्तिकाद् आगतः = अन्तिकादागतः |
|||
अभ्याशाद् आगतः = अभ्याशादगतः |
|||
दूराद् आगतः = दूरादागतः |
|||
कृच्छ्राद् आगतः = कृच्छ्रादागतः । |
|||
स्तोकात् मोक्षः = अत्र समासः न भवति यतोहि मोक्षः इति पदं क्तप्रत्ययान्तः शब्दः नास्ति। |
|||
'''e) सप्तमीत्पुरुषसमासः''' |
|||
अष्टाध्यायां पञ्चमी-तत्पुरुषस्य विषये सूत्राणि उक्त्वा तदनन्तरं सप्तमीतत्पुरुषसमासः एव उक्तः न तु षष्ठीतत्पुरुषसमासः |द्विगुसमासस्य, कर्मधार्यसमासस्य च विषये उक्त्वा तदनन्तरमेव षष्ठीतत्पुरुषस्य विषये उच्यते |अतः एव वयमपि प्रथमं सप्तमी-तत्पुरुषसमासस्य विषये पठित्वा तत्पश्चात् षष्ठीतत्पुरुषस्य विषये पठिष्याम |सप्तमीतत्पुरुषस्य विषये नवसूत्राणि सन्ति |२.१.४० इत्यस्मात् सूत्रात् आरभ्य २.१.४८ इति सूत्रपर्यन्तम् |क्रमेण परिशीलयाम। |
|||
1) सप्तम्यन्तं पदं शौण्डादिगणे पठितैः शब्दैः सह समस्यते, सप्तमीतत्पुरुषः च भवति | |
|||
'''सप्तमी शौण्डैः''' (२.१.४०) = सप्तम्यन्तं पदं शौण्डाऽदिभिः समर्थसुबन्तपदैः सह समस्यते, तत्पुरुषाश्च समासो भवति |सप्तमी प्रथमान्तं, शौण्डैः तृतीयान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने स्वीक्रियते |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् शौण्डैः सुब्भिः सह विभाषा तत्परुषः समासः।''' |
|||
शौण्डदिगणे एते शब्दाः सन्ति – '''शौण्ड, धूर्त, कित्व, व्याड, प्रवीण, संवीत, अन्तर, अधिकरणार्थप्रधान अन्तर्, अधि, पटु, पण्डित, कुशल, चपल, निपुण।''' |
|||
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति। |
|||
अक्षेषु शौण्डः = अक्षशौण्डः |अक्ष+सुप् +शौण्ड+सु | |
|||
अक्षेषु धूर्तः = अक्षधूर्तः | |
|||
काव्ये निपुणः = काव्यनिपुणः |काव्य+ङि+निपुण+सु |एवमेव शास्त्रनिपुणः। |
|||
कार्ये कुशलः = कार्यकुशलः |एवमेव तर्ककुशलः |
|||
गुहायां संवीतः = गुहासंवीतः |
|||
ईश्वरे अधीनः = ईश्वराधीनः |
|||
स्त्रीषु धूर्तः = स्त्रीधूर्तः |
|||
अक्षेषु कितवः =अक्षकितवः |
|||
अक्षेषु व्याडः = अक्षव्याडः |
|||
कार्ये कुशलः = कार्यकुशलः | |
|||
कर्मणी प्रवीणः = कर्मप्रवीणः |
|||
गुहायां संवीतः = गुहासंवीतः |
|||
पठने पटुः = पठनपटुः |
|||
सभायां पण्डितः = सभापण्डितः |
|||
वाचि चपलः = वाक्चपल। |
|||
शौण्डादिगणे अधि इति शब्दः अपि पठितः अतः तेन सह अपि सप्तमीतत्पुरुषसमासः भवति |यथा— |
|||
ईश्वरे अधीनः = ईश्वाराधीनः | |
|||
अलौकिकविग्रहः – ईश्वर+ङि +अधि | '''सप्तमी शौण्डैः''' (२.१.४०) इति सूत्रेण समासे कृते, प्रातिपदिकसंज्ञां कृत्वा, सुप् प्रत्यययोः लुक् भवति |ईश्वरः इति सप्तम्यन्तस्य पूर्वनिपातः भूत्वा ईश्वराधि इति भवति |अधुना '''अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः''' ( ५.४.७) इति सूत्रेण 'अषडक्ष', 'आशितङ्गु', 'अलङ्कर्म', 'अलम्पुरुषः' एतेभ्यः शब्देभ्यः, तथा च 'अधि' यस्य उत्तरपदम् अस्ति तादृशात् शब्दात् स्वार्थे ख-प्रत्ययः भवति |अतः ईश्वराधि+ख '''→आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्''' ( ७.१.२) इति सूत्रेण प्रत्ययस्य आदिस्थितस्य फ्-ढ्-ख्-छ्-घ्- इत्येतेषाम् क्रमेण आयन्-एय्-ईन्-ईय्-इय्- आदेशाः भवन्ति |अतः ईश्वराधि+ईन '''→''' अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति, अतः ईश्वराध्+ईन '''→''' ईश्वराधीन इति भवति |अधुना सुबुत्पत्तिः भूत्वा ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति। |
|||
यदि अधि इति शब्दः शौण्डादिगणे न पाठितः तर्हि अधि इति अव्ययेन सह अव्ययीभावसमासः कर्तव्यः येन अमादेशं कृत्वा अधीश्वरम् इति समस्तपदं निष्पन्नं भवति |परन्तु अधि शब्दः तु शौण्डादिगणे पाठितः अतः सप्तमीतत्पुरुषसमासः करणीयः येन ईश्वराधीनः इति समस्तपदं निष्पन्नं भवति। |
|||
2) सप्तम्यन्तं पदं सिद्ध, शुष्क, पक्व, बन्ध, इत्येतैः सह समस्यते, सप्तमीतत्पुरुषः च भवति | |
|||
'''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) = सिद्ध-शुष्क-पक्व-बन्ध इत्येतैः सह सप्तम्यन्तं पदं समस्यते, तत्पुरुषश्च समासो भवति |सिद्धश्च सुष्कश्च पक्वश्च बन्धश्च तेषाम् इतरेतरयोगद्वन्द्वः सिद्धशुष्कपक्वबन्धास्तैः |सिद्धशुष्कपक्वबन्धास्तैः तृतीयान्तं चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् सिद्धशुष्कपक्वबन्धैश्च सुब्भिः सह विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति |अस्मिन् सूत्रे ये शब्दाः उक्ताः ते शौण्डादिगणे न सन्ति इत्यतः एव '''सिद्धशुष्कपक्वबन्धैश्च''' (२.१.४१) इति सूत्रं कृतं पाणिनिना | |
|||
यथा— |
|||
साङ्काश्ये सिद्धः = साङ्काश्यसिद्धः |साङ्काशय+ङि + सिद्ध +सु। |
|||
आतपे शुष्कः = आतपशुष्कः |आतप+ङि+ शुष्क +सु। |
|||
स्थाल्यां पक्वः = स्थालीपक्वः |स्थाली +ङि+ पक्व+सु । |
|||
चक्रे बन्धः = चक्रबन्धः |चक्र+ङि+ बन्ध+सु | |
|||
3) निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | |
|||
'''ध्वाङ्क्षेण क्षेपे''' (२.१.४२) = निन्दार्थे वर्तमाने सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते ।सप्तम्यन्तं सुबन्तं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति क्षेपे गम्यमाने (निन्दार्थस्य ज्ञाने) |ध्वाङ्क्षः नाम काकः इति |ध्वाङ्क्षेण तृतियान्तं, क्षेपे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् ध्वाङ्क्षेण सुपा सह क्षेपे विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति। |
|||
तीर्थे ध्वाङ्क्षः इव = तीर्थध्वाङ्क्षः |अनवस्थितः इत्यर्थः |नाम यथा काकः एकस्मिन् स्थाने न तिष्ठति तथैव यः छात्रः एकस्मिन् स्थाने वासं कृत्वा न पठति परन्तु यः इतः ततः गच्छति पठनार्थम् |तीर्थ+ङी+ ध्वाङ्क्ष +सु । |
|||
तीर्थे काकः इव = तीर्थकाकः |तीर्थ+ङि + काक+सु। |
|||
तीर्थे वायसः इव = तीर्थवायसः |तीर्थ+ङि +वायस+सु |अत्र सर्वत्र तीर्थः नाम गुरुः अथवा गुरुकुलः इति |अतः एव सहपाठिनः इत्यस्य उल्लेखः सतीर्थ्यः इति क्रियते। |
|||
अस्मिन् समासे इव इति पदस्य अर्थः समासे अन्तर्भूतः |यत्र निन्दायाः प्रतीतिः नास्ति तत्र समासः न भवति |यथा तीर्थे ध्वाङ्क्षः तिष्ठति – नाम तीर्थे काकः तिष्ठति इति |अस्मिन् वाक्ये केवलं तीर्थे काकः तिष्ठति इति एव ज्ञायते अतः निन्दा नास्ति, अतः समासः न भवति | |
|||
4) ऋणे, उद्धारे, सप्तम्यन्तं पदं यत्प्रत्ययान्तेन(कृत्यप्रत्ययान्तेन) सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | |
|||
'''कृत्यैर्ऋणे''' (२.१.४३) = सप्तम्यन्तं पदं कृत्यप्रत्ययान्तैः सह समस्यते, तत्पुरुषश्च समासो भवति ऋणे गम्यमाने |अवश्यम्भावितार्थे वर्तमाने कृत्यप्रत्ययान्तेन सुबन्तेन सह सप्तम्यन्तं सुबन्तं विकल्पेन समस्यते |ऋणस्य अवधिः निश्चितः चेत् तत्र ऋणशब्दः आवश्यकः, अर्थात् ऋणशब्दः अवश्यम्भावितार्थस्य ( that which is necessary) वाचकः |'''तव्य, तव्यत्, यत्, अनीयर्, क्यप्, ण्यत्, इन्''' - एते प्रत्ययाः कृत्यप्रत्ययाः सन्ति |परन्तु अस्मिन् सूत्रे कृत्यप्रत्ययः इत्यनेन केवलं यत् प्रत्ययस्य एव ग्रहणं इष्यते न अन्यस्य इति उक्तं भाष्ये |कृत्यैः तृतीयान्तम्, ऋणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इत्यस्य अनिवृत्तिः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''सप्तमी सुप् कृत्यैः सुब्भिः सह ऋणे विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति। |
|||
अस्मिन् सूत्रे ऋणम् इति शब्दस्य ग्रहणं नियोगस्य उपलक्षणार्थम् अस्ति, अर्थात् कालस्य निश्चिततां बोधयति | नियोगः नाम निश्चितकालस्य बोधः |यत्र कालस्य निश्चिततायाः बोधः अस्ति तत्र इदं सूत्रं कार्यं करोति। |
|||
अ) मासे अवश्यं देयम् ऋणम्= मासेदेयम् (ऋणम्)- यत् ऋणं मासे एव अवश्यं प्रतिदापनीयम् | |
|||
मास +ङि + देय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्-प्रत्ययस्य लुक् (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः मास +ङि + देय+सु इत्यत्र मास+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति। |
|||
अधुना मास +इ +देय → आद्गुणः इत्यनेन गुणसन्धः भवति → मासेदेय इति भवति। |
|||
अग्रे सुबुत्पत्तिः भवति अतः मासेदेय+सु → मासदेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि देयम् इति पदं ॠणम् इति पदस्य विशेषणम् अस्ति |समासः न भवति चेत् वाक्यं भवति मासे देयम् इति | |
|||
देयम् इति पदं कथं निष्पन्नं भवति? |
|||
दा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |दा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' दी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → दे+य = देय इति प्रातिपदिकम्। |
|||
आ) पूर्वाह्णे गेयं = पूर्वाह्णेगेयं सामम् (सामवेदस्य गेयः भागः) |दिनस्य पूर्वभागे गानार्थं योग्यम् अस्ति सामवेदः |पूर्वाह्ण+ङि + गेय+सु → '''कृत्यैर्ऋणे''' (२.१.४३) इति सूत्रेण समासः विधीयते |'''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |'''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन सुप्-प्रत्ययस्य लुक् (लोपः) भवति स्म परन्तु अत्र '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |अतः पूर्वाह्ण+ङि + गेय+सु इत्यत्र पूर्वाह्ण+ङि इत्यस्य सुप्प्रत्ययस्य लुक् न भवति '''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) इति सूत्रेण |ङि इति प्रत्यये '''लशक्वतद्धिते''' इति सूत्रेण ङकारस्य इत्संज्ञा भवति |'''तस्य लोपः''' इत्यनेन ङकारस्य इत्संज्ञा भवति। |
|||
अधुना पूर्वाह्णे +इ +गेय → आद्गुणः इत्यनेन गुणसन्धः भवति → पूर्वाह्णेगेय इति भवति। |
|||
अग्रे सुबुत्पत्तिः भवति अतः पूर्वाह्णेगेय +सु → पूर्वाह्णेगेयम् इति समस्तपदं नपुंसकलिङ्गे भवति यतोहि गेयम् इति पदं सामम् इति पदस्य विशेषणम् अस्ति |समासः न भवति चेत् वाक्यं भवति पूर्वाह्णे गेयम् इति | |
|||
गेयम् इति पदं कथं निष्पन्नं भवति? |
|||
गै इति एजन्तधातोः आत्वं भवति '''आदेच उपदेशेऽशिति''' (६.१.४५) इति सूत्रेण, गा इति भवति |अग्रे गा इति धातुतः यत् प्रत्ययः विधीयते '''अचो यत्''' (३.१.९७) इति सूत्रेण |गा+ यत् '''→ ईद्यति''' (६.४.६५) इति सूत्रेण ईकारः आदेशो भवति आकारन्तस्य अङ्गस्य यति परतः '''→''' गी+य → '''सार्वधातुकार्धधातुकयोः''' (७.३.७४) इति सूत्रेण इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे → गे+य = गेय इति प्रातिपदिकम्। |
|||
'''तत्पुरुषे कृति''' '''बहुलम्''' (६.३.१४) = तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |तत्पुरुषे सप्तम्यन्तं, कृति सप्तम्यन्तं, बहुलं प्रथमान्तम् |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इत्यस्मात् सूत्रात् सप्तम्याः इत्यस्य अनुवृत्तिः | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्य अधिकारः अस्ति |अनुवृत्ति-सहितसूत्रम्— '''तत्पुरुषे सप्तम्याः अलुक् कृति''' '''बहुलम्''' '''|''' |
|||
अस्मिन् सूत्रे बहुलम् इति पदेन कुत्रचित् विकल्पेन भवति कुत्रचित् न भवति | |
|||
यथा – |
|||
स्तम्बे रमते = स्तम्बेरमः/ स्तम्बरमः |अर्थाः तृणस्य गुच्छं दृष्ट्वा यः रमते यथा गजः, अथवा धेनुः |स्तम्ब+ङि + रम+सु |रमः इति अच्प्रत्ययान्तः शब्दः |अच् प्रत्ययः कृत्प्रत्ययः | |
|||
कर्णे जपति = कर्णेजपः, कर्णजपः | |
|||
'''आदेच उपदेशेऽशिति''' (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः; '''अलोन्त्यस्य''' (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''लिटि धातोरनभ्यासस्य''' (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''एचः धातोः आत् उपदेशे अशिति''' | |
|||
5) संज्ञायां विषये सप्तम्यन्तं पदं सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |यत्र यत्र संज्ञायाः विषयः अस्ति तत्र समासः नित्यं भवति। |
|||
'''संज्ञायाम्''' (२.१.४४) = संज्ञायां विषये सप्तयन्तं पदं सुपा सह समस्यते, तत्पुरुषश्च समासो भवति |संज्ञा समुदस्य उपाधिः अस्ति |सज्ञायाम् इति सप्तम्यन्तमेकपदं सूत्रम् |यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते |यत्र संज्ञा अस्ति तत्र समासः नित्यः |विग्रहवाक्येन संज्ञायाः बोधः न भवति किन्तु समासानन्तरं संज्ञायाः प्रतीतिः उत्पद्यते |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''संज्ञायां सप्तमी सुप् सुपा सह तत्परुषः समासः |''' |
|||
अनेन सूत्रेण यः समासः विधीयते सः नित्यः यतोहि संज्ञायाः प्रतीतिः विग्रहवाक्येन न बुद्ध्यते अतः समासाभावपक्षः न भवति | |
|||
अस्मिन् सूत्रे सप्तमी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रणे उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं सप्तमी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |सप्तम्यन्तं पदं समासे पूर्वं तिष्ठति। |
|||
यथा— |
|||
अरण्ये तिलकाः = अरण्येतिलकाः (वनस्य नाम) |एतत् पदं संज्ञापदम् अस्ति |संज्ञार्थस्य विवक्षायां '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण नित्यसमासः भवति |अलौकिकविग्रहवाक्यं – अरण्य+ङि + तिलक+जस् '''→ संज्ञायाम्''' (२.१.४४) सूत्रेण समासविधानं भवति |तत्पश्चात् प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति ।'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण अदन्तात् अरण्यात् उत्तरस्य सप्तम्याः अलुक् भूत्वा '''→''' अरण्य+इ इत्यत्र गुणसन्धिं कृत्वा अरण्ये इति भवति |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति | |
|||
वने कशेरुकाः = वनेकशेरुकाः (कशेरुकः = backbone) |वन+ङि + कसेरुक +जस् | |
|||
यधि स्थिरः = युधिष्ठिरः |यध्+ङि = स्थिर+सु |'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रं वदति हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |अनेन सूत्रेण यध् इति हलन्तात् प्रातिपदिकात् उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग्भवति।अतः युधि इति सप्तम्यन्तं रूपं तिष्ठति |तत्पश्चात् '''गवियुधिभ्यां स्थिरः''' (८.३.९५) इति सूत्रेण गवियुधिभ्याम् उत्तरस्य स्थिः इत्यस्य सकारस्य मूर्धन्यादेशो भवति।अतः युधि इत्यस्य उत्तरस्य स्थिरः इत्यस्य सकारस्य षत्वं भवति |यथा -गविष्ठिरः, युधिष्ठिरः इत्यादयः। |
|||
एवमेव वनेकिंशुकाः, वनेहरिद्रकाः, अरण्येमोषकाः, कूपेपिशाचकाः इत्यादीनि उदाहरणानि | एतानि सर्वाणि पदानि संज्ञा-पदानि सन्ति। |
|||
'''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) = हलन्तात् अदन्तात् च उत्तरस्याः सप्तम्याः संज्ञायाम् अलुग् भवति |हल् च अत् च तयोरितरेतरयोगद्वन्द्वः, हलदौ तौ अन्ते यस्य सः हलन्तः तस्मात् हलदन्तात् |हलदन्तात् पञ्चम्यन्तं, सप्तम्याः षष्ठ्यन्तं, संज्ञायां सप्तम्यन्तम् '''अलुगुत्तरपदे''' (६.३.१) इत्यस्य अधिकारः अस्ति |अनुवृत्ति-सहितसूत्रम्— '''हलदन्तात् सप्तम्याः अलुक् संज्ञायाम् ।''' |
|||
यथा- युधिष्ठिरः, त्वचिसारः। |
|||
त्वचिसारः = त्वचिसारः |यस्य त्वचि बलम् अस्ति |अत्र सप्तमीतत्पुरुषसमासः भवति '''संज्ञायाम्''' (२.१.४४) इति सूत्रेण |त्वच्+ङि + सार+सु |त्वच् इति हलन्तः शब्दः अतः '''हलदन्तात् सप्तम्याः संज्ञायाम्''' (६.३.९) इति सूत्रेण तस्मात् यः सप्तम्यन्तः सुप्प्रत्ययः अस्ति तस्य लुक् न भवति। |
|||
6) दिनस्य, रात्रेः च अवयववाचीनि सप्तम्यन्तपदानि क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | |
|||
'''क्तेनाहोरात्रावयवाः''' (२.१.४५) = अहरवयवाः रात्र्यवयवाश्च सप्तम्यन्ताः क्तान्तेन सह समस्यन्ते, तत्पुरुषश्च समासो भवति |दिनस्य, रात्रेः च अवयववाचि सप्तम्यन्तं सुबन्तं क्तप्रत्ययान्तेन सह समस्यते ।अहोरात्रावयवाः इत्युक्ते दिनस्य अवयववाची शब्दः अपि च रात्रेः अवयववाची शब्दः इति ।अहन् च रात्रिश्च अहोरात्रं, तस्य अवयवाः अहोरात्रावयवाः, द्वन्द्वगर्भषष्ठीतत्पुरुषः |क्तेन तृतीयान्तं, अहोरात्रावयवाः प्रथमान्तम् || '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रं— '''अहोरात्रावयवाः सप्तम्यः सुपः क्तेन सुपा सह विभाषा तत्परुषः समासः |''' |
|||
यथा— |
|||
पूर्वाह्णे कृतं = पूर्वाह्णकृतम् |दिनस्य पूर्वभागे सम्पादितम् |पूर्वाह्ण+ङि + कृत+सु |पूर्वाह्णः इति पदं दिनम् इति पदस्य अवयववाचिपदम्। |
|||
अपररात्रे कृतं = अपररात्रकृतम् |अपररात्र+ङि + कृत+सु |अपररात्रिः इति पदं रात्रिः इति पदस्य अवयववाचिपदम्। |
|||
एवमेव पूर्वरात्रकृतं, मध्याह्नकृतं, मध्यरात्रकृतम् | |
|||
7) तत्र इति सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | |
|||
'''तत्र''' (२.१.४६) = तत्र इत्येतत् सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |तत्र इति सप्तम्यन्तं सुबन्तं अव्ययं क्तेन सुबन्तेन सह समस्यते |तत्र इति अव्ययमेकपदं सूत्रम् |'''सप्तम्यास्त्रल्''' (५.३.१०) इति सूत्रेण तद् इति प्रातिपदिकस्य सप्तम्यन्तात् स्वार्थे "त्रल्" प्रत्ययः भवति , तत्र इति रुपं निष्पन्नं भवति |'''तद्धितश्चासर्वविभक्तिः''' ( १.१.३८) इति सूत्रेण तत्र इति शब्दस्य अव्ययसंज्ञा भवति ।'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति | '''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''तत्र सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |''' |
|||
यथा— |
|||
तत्र भुक्तं = तत्रभुक्तम् |तत्र +भुक्त+सु |भुज् इति धातुतः क्तप्रत्ययस्य योजनने भुक्त इति प्रातिपदिकं निष्पद्यते। |
|||
तत्र भुक्तस्य इदम् इति अर्थे तद्धित- अण्प्रत्ययस्य योजनेन तात्रभुक्तम् इति पदं निष्पन्नं भवति। |
|||
8) निन्दार्थे सप्तम्यन्तं पदं क्तान्तेन सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति | |
|||
'''क्षेपे''' (२.१.४७) = क्षेपे ( निन्दार्थे) गम्यमाने सप्तम्यन्तं पदं क्तान्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |क्षेपे इति सप्तम्यन्तमेकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |अधिकारः |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— ''' सप्तमी सुप् क्तेन सुपा सह विभाषा तत्परुषः समासः |''' |
|||
यथा— |
|||
अवतप्ते नकुलस्थितः = अवतप्तेनकुलस्थितः | यथा आतपे नकुलः इतस्ततः भ्रमति तथैव एतस्य पुरुषस्य गतिः अपि अस्ति |अवतप्ते+ङि + नकुलस्थित+सु |'''क्षेपे''' (२.१.४७) इति सूत्रेण समासः विधीयते |यथा अस्माभिः पूर्वं दृष्टं, अत्रापि सामन्यसमासप्रक्रिया भवति |परन्तु अत्र '''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रेण अवतप्त+ङि इत्यस्मिन् सुप् लुक् न भवति |अत्र गुणसन्धिं कृत्वा अवतप्ते इति भवति |'''तत्पुरुषे कृति बहुलम्''' (६.३.१४) इति सूत्रं वदति तत्पुरुषे समासे कृदन्ते उत्तरपदे सप्तम्याः बहुलम् अलुग् भवति |समस्तपदं भवति अवतप्तेनकुलस्थितः । |
|||
एवमेव |
|||
प्रवाहे मूत्रितम् = प्रवाहेमूत्रितम् (नद्यां मूत्रत्यागः |निन्दार्थे अस्ति। |
|||
भस्मनि हुतम् = भस्मनिहुतम् |भस्मे हवनं करोति |निन्दार्थे अस्ति। |
|||
9) निन्दार्थे सप्तम्यन्तं पदं ध्वाङ्क्षवाचिना सुबन्तेन सह समस्यते, सप्तमीतत्पुरुषः च भवति |अत्र समासः नित्यं भवति। |
|||
'''पात्रेसमितादयश्च''' ( २.१. ४८) = निन्दार्थे (क्षेपे) गम्यमाने पात्रेसमितादयः शब्दाः क्तातेन सुबन्तेन सह समस्यते, तत्पुरुषसंज्ञा च भवति | समुदायः एव निपात्यते |यद्यपि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति तथापि अयं नित्यसमासः अस्ति यतो हि विग्रहवाक्येन संज्ञायाः बोधः न जायते |पात्रेसमितः आदिर्येषां ते पात्रेसमितादयः बहुव्रीहिः |पात्रेसमितादयः प्रथमान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |अत्र सुपा इति शब्दस्य वचनपरिणामं कृत्वा बहुवचने भवति |'''सप्तमी शौण्डैः''' (२.१.४०) इत्यस्मात् सूत्रात् सप्तमी इति पदस्य अनुवृत्तिः अस्ति |'''क्षेपे''' (२.१.४७) इत्यस्मात् सूत्रात् क्षेपे इत्यस्य अनुवृत्तिः भवति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''क्तेनाहोरात्रावयवाः''' (२.१.४५) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्ति |अनुवृत्ति-सहित-सूत्रं— '''पात्रेसमितादयश्च सप्तम्यः सुपः क्तेन सुपा सह तत्परुषः समासः |''' |
|||
पात्रेसमितादिगणे बहवः शब्दाः सन्ति |अयं गणः आकृतिगणः अस्ति अतः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति |तेषु केषाञ्चन धातूनां सप्तमीविभक्तेः अलुक् अपि भवति |यथा- पात्रेसमिताः, पात्रेबहुलाः, मातारिपुरुषः, पितरिशूरः, गेहेशूरः इत्यादयः | |
|||
यथा – |
|||
पात्रे समिताः = पात्रेसमिताः |भोजनसमसे एव सङ्गताः, न तु कार्ये |यः भोजनपात्रे एव एकत्रितः अस्ति परन्तु कार्यसमये कुत्रापि न प्रकटितः भवति |'''पात्रेसमितादयश्च''' ( २.१. ४८) इति सूत्रेण नित्यसमासः भवति |अलौकिकविग्रहवाक्यं – पात्रे+ङि + समिता+जस् '''→ पात्रेसमितादयश्च''' ( २.१. ४८) सूत्रेण समासविधिः, प्रातिपदिकसंज्ञा विधीयते, सुप् लुक् भवति इति सामन्यसमासक्रमः अस्ति |परन्तु अत्र सुप् लुक् न भवति यतो हि '''पात्रेसमितादयश्च''' ( २.१. ४८) सूत्रेण निपातनात् विभक्तेः अलुक् भूत्वा पात्रेसमिताः इति समस्तपदं निष्पन्नं भवति | |
|||
सम्+इण् गतौ इति धातुतः क्तप्रत्ययः क्रियते चेत् समितः इति रूपं निष्पन्नं भवति। |
|||
गेहे शूरः = गेहेशूरः |यः गृहे एव वीरः अस्ति, बहिः भीतः अस्ति |गेह+ङि + शूर+सु |प्रक्रिया यथापूर्वम् | |
|||
गेहे नर्दी = गेहेनर्दी |गृहे एव यः गर्जति। |
|||
पात्रेसमितादिगणे बहवः शब्दाः सन्ति तेषु केचन अत्र दीयन्ते '''– पात्रेसमिताः, पात्रेबहुलाः, कूपकच्छपः, कूपमण्डूकः, नगरकाकः, गेहेशूरः, गेहेनर्दी, गोष्ठेशूरः, गोष्ठेपटुः, गोष्ठेपण्डितः इत्यादयः।''' |
|||
पात्रेसमितादिगणः आकृतिगणः अस्ति |अतः अन्ये शब्दाः अपि तस्मिन् अन्तर्भवन्ति |शिष्टप्रयोगं दृष्ट्वा ज्ञातुं शक्यते अन्ये शब्दाः के इति | |
|||
'''समासविधायकसूत्रेषु योगविभागस्य कल्पना''' |
|||
केषुचित् ग्रन्थेषु समासविधायकसूत्रेषु नाम द्वितीया आरभ्य सप्तमी पर्यन्तं ये मुख्यतत्पुरुषसमासाः सन्ति तेषां योगविभागः क्रियते |अस्य कारणम् इदम् यत् शिष्टैः बहवः तत्पुरुषसमासाः प्रयुक्ताः येषां समर्थनं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) एतैः सूत्रैः न सम्भवति यतो हि एतेषु सूत्रेषु श्रित, बलि, भय इत्यादाभिः शब्दैः सह एव समासस्य विधानं क्रियते |अतः एतेषां सूत्राणां विभजनं कृत्वा विविधानां तत्पुरुषसमासप्रयोगानां समर्थनं भवति | एतादृशविभजनस्य नाम योगविभागः इति कथ्यते | यथा '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रे द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते, अन्यैः पदैः सह न समस्यते |अतः एव अस्य सूत्रस्य योगविभागं कृत्वा सूत्रद्वयं कुर्मः | प्रथमसूत्रेण द्वितीयान्तं सुबन्तं श्रित-अतीत-पतित-गत-अत्यस्त-प्राप्त-आपन्न, एतैः शब्दैः सह समस्यते। |
|||
द्वितीयसूत्रेण द्वितीयान्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते |अत्र न कस्यापि शब्दविशेषस्य अपेक्षा नास्ति अतः अनेकेषु स्थलेषु समासः सम्भवति |एतादृशः योगविभागः '''तृतीया तत्कृतार्थेन गुणवचनेन''' (२.१.३०), '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.२६), '''पञ्चमी भयने''' (२.१.३७), '''सप्तमी शौण्डैः''' (२.१.४०) , एतेषां सूत्राणां विषये अपि क्रियते । |
|||
एतादृशयोगविभागेन एतेषां समासानां समर्थनं भवति – |
|||
१) वेदं विद्वान् = वेदविद्वान् |वेद +अम् + विद्वस्+सु |द्वितीयातत्पुरुषसमासः। |
|||
२) मदेन अन्धः = मदान्धः |मद+टा+अन्ध+सु |तृतीयातत्पुरुषसमासः। |
|||
३) धर्माय नियमः = धर्मनियमः |धर्म +ङे+ नियम +सु |चतुर्थीतीयातत्पुरुषसमासः। |
|||
४) द्विजाद् इतरः = द्विजेतरः |द्विज+ङसि + इतर +सु |पञ्चमीतत्पुरुषसमासः। |
|||
५) भुवने विदितः = भवनविदितः |संसारे यः प्रसिद्धः ।भवन +ङि + विदित +सु |द्वितीयातत्पुरुषसमासः। |
|||
'''f) षष्ठीतत्पुरुषसमासः''' |
|||
अष्टाध्यायां द्वितीयाध्यायस्य प्रथमपादे पञ्चमीतत्पुरुषसमासस्य अनन्तरं षष्ठीतत्पुरुषसमासं त्यक्त्वा सप्तमीतत्पुरुषस्य विषये उक्तम् अस्ति |तत्पश्चात् कर्मधारयस्य विषये उक्तम् |अग्रे द्वितीयाध्यायस्य द्वितियपादे आदौ षष्ठीतत्पुरुषस्य अपवादाः उक्ताः २.२.१ इत्यस्मात् सूत्रात् आरभ्य-२.२.७ इति सूत्रपर्यन्तं, तदनन्तरं षष्ठीतत्पुरुषस्य विषये उक्तम् अस्ति | |
|||
षष्ठीतत्पुरुषस्य विषये विधायकं सूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति |अनेन सूत्रेण यत् किमपि षष्ठ्यन्तं सुबन्तं, सुबन्तेन सह समस्यते, षष्ठीतत्पुरुषसमासः च भवति |इदं सूत्रं स्वतन्त्रम् अस्ति यतोहि एतत् सूत्रं अन्यं सूत्रम् अवलम्ब्य नास्ति |एतस्य अधिकनियमाः न सन्ति |अन्यानि समाससूत्राणि तु बद्धानि सन्ति। |
|||
यदि विशेषणं पूर्वं वक्तुम् इच्छामः तर्हि '''विशेषणं विशेष्येण बहुलम्''' (२.१.५७) इति सूत्रस्य आवश्यकता अस्ति |'''विशेषणं विशेष्येण बहुलम्''' (२.१.५७) इति सूत्रे विशेषणवाचि सुबन्तं विशेष्यवाचिना समानाधिकरणेन सुबन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति |यथा नीलं च तत् उत्पलं च, नीलोत्पलम् इति समासः। |
|||
यदि विशेष्यं पूर्वं वक्तुम् इच्छामः तर्हि '''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति |'''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इति सूत्रे साधारणधर्मस्य अप्रयोगे सति उपमेयं व्याघ्रादिभिः उपमानवचनैः सह समस्यते, तत्पुरुषश्च समासो भवति |'''उपमितं व्याघ्रादिभिः सामान्याप्रयोगे''' (२.१.५६) इत्यनेन विशेष्यं पूर्वं तिष्ठति, अन्यत्र सर्वत्र '''षष्ठी'''(२.२.८) इति सूत्रेण विशेष्यं पूर्वं तिष्ठति |अनयो सूत्रयोः विवरणम् अग्रे कर्मधारयसमासे दक्ष्यामः |अत्र स्मर्तव्यः अंशः अयं यत् '''षष्ठी''' (२.२.८) इति सूत्रं पूर्वसूत्राणाम् अपवादः अस्ति यतोहि इदं सूत्रं पूर्वसूत्राणां पूर्वनिपातनक्रमस्य परिवर्तनं करोति |तदर्थम् एव अन्यानि तत्पुरुष-समास-सम्बद्धसूत्राणि उक्त्वा तदनन्तरम् इदं '''षष्ठी''' (२.२.८) इति सूत्रं उक्तम् | |
|||
'''षष्ठी''' (२.२.८) = षष्ठ्यन्तं सुबन्तं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |षष्ठी प्रथमान्तम् एकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रं— '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
आस्मिन् सूत्रे षष्ठ्यन्तं सुबन्तं अन्येन सुबन्तेन सह समस्यते, अत्र कोऽपि विशिष्टनियमः नास्ति। |
|||
यथा - राज्ञः पुरुषः = राजपुरुषः |राजन् +ङस् +पुरुष+सु | |
|||
'पुरुष + सु+राजन् + ङस् ' इति अलौकिकविग्रहवाक्यम् । |
|||
'पुरुष + सु+राजन् + ङस् ' → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण |तदनन्तरं '''तत्पुरुषः''' (२.१.२२) इति सूत्रेण विशिष्ट -तत्पुरुषसंज्ञा अपि विधीयते |'''षष्ठी''' (२.२.८) इति विधायकसूत्रेण राज्ञः इति षष्ठ्यन्तं सुबन्तं, पुरुषः इति समर्थेन सुबन्तेन सह समस्यते । |
|||
'पुरुष + सु+राजन् + ङस् ‘→ समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण । |
|||
'पुरुष + सु+राजन् + ङस् ‘→ इदानीं सुप्-प्रत्ययौ लुकौ (लोपौ) भवतः '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन |अतः ङस्, सु इत्यनयोः लुक् भवति। |
|||
पुरुष +राजन् → अत्र प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति सूत्रेण प्रथमाविभक्त्यां यत् पदं निर्दिष्टम् अस्ति समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति |अत्र समासविधायकसूत्रम् अस्ति '''षष्ठी''' (२.२.८) इति |अस्मिन् सूत्रे षष्ठी इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जनसंज्ञा भवति |अधुना '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण उपसर्जनसंज्ञकपदस्य पूर्वनिपातः भवति |अस्माकम् उदाहरणे राजन् इति पदं षष्ठयन्तं पदम्, अतः तस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति । |
|||
राजन् + पुरुष →'''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति |अत्र च 'राजन्' इत्यस्य अन्ते सुप् नास्ति; तर्हि प्रश्नः उदेति यत् तस्य पदसंज्ञा अस्ति न वा? उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन प्रत्ययस्य लोपानान्तरम् अपि प्रत्ययस्य लक्षणं तिष्ठति अतः पदसंज्ञा अस्त्येव | राजन् इत्यस्य पदसंज्ञा अस्ति इति कृत्वा एव अग्रिमसोपने राजन् इत्यस्य नकारस्य लोपः भवति। |
|||
राजन् + पुरुष → '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति | राजन् इत्यस्य पदसंज्ञा अपि अस्ति प्रातिपदिकसंज्ञा अपि अस्ति अतः राजन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रेण→ राज + पुरुष। |
|||
राज + पुरुष → इदानीं लिङ्गस्य, वचनस्य च निर्णयः भवति |'''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.६) इत्यनेन समासे उत्तरपदस्य यत् लिङ्गम् अस्ति तदेव लिङ्गं भवति द्वन्द्वतत्पुरुषयोः |उत्तरपदम् अस्ति पुरुष-इति, तस्य लिङ्गं अस्ति पुल्लिङ्गम्, अतः राजपुरुष इति समस्तपदस्य लिङ्गं भवति पुल्लिङ्गम् | सामान्यतया समासः प्रथमा विभक्तौ एकवचने एव उच्यते |अतः राजपुरुषः इत्यस्य वचनं भवति एकवचनम् |तदनन्तरम् अस्माकं विवक्षानुगुणं वाक्ये समस्तपदस्य विभक्तेः परिवर्तनं कृत्वा प्रयोगः करणीयः। |
|||
राज + पुरुष → '''स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्''' (४.१.२) इति सूत्रेण सुबुत्पत्तिः भवति पुंलिङ्गे। |
|||
राज + पुरुष +सु → राजपुरुषसु इति भवति |अधुना उकारस्य इत् संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन |'''तस्य लोपः''' (१.३.९) इत्यनेन उकारस्य लोपः भवति |अधुना '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति |राजपुरुषरु इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन |राजपुरुषर् इति भवति |अधुना '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इति सूत्रेण पदान्तस्य रेफस्य स्थाने विसर्गादेशः भवति अवसानावस्थायाम् |अतः राजपुरुषः इति समस्तपदं सिद्धम् |सामान्यतया समासः प्रथमपुरुषैकवचने एव क्रियते |तदनन्तरं विवक्षानुगुणं विभक्तेः परिवर्तनं कृत्वा वाक्ये प्रयुज्यते। |
|||
ब्राह्मणः कम्बलः = ब्राह्मणकम्बलः | |
|||
आत्मनः ज्ञानम् = आत्मज्ञानम् |आत्मन्+ङस् + ज्ञान+सु |प्रक्रियायाम् '''अतोऽम''' (७.१.२४) इति सूत्रेण अकारान्त-नपुंसकलिङ्गशब्दात् परस्य प्रथमा-द्वितीया-एकवचनस्य सुँ, अम् अनयोः प्रत्यययोः स्थाने अम्-आदेशः भवति |आत्मज्ञान +सु → '''अतोऽम''' (७.१.२४) इति सूत्रेण अमादेशः → आत्मज्ञान+अम् → अक्-वर्णात् परस्य अम्-प्रत्यये परे पूर्वपरयोः एकं पूर्वरूपं भवति '''अमि पूर्वः''' (६.१.१०७) इति सूत्रेण → आत्मज्ञानम् इति समस्तपदं निष्पन्नं भवति | |
|||
मनसः विकारः = मनोविकारः |मनस् +ङस् + विकार+सु | प्रक्रिया यथापूर्वम् |मनस् +विकार इति स्थितौ , '''ससजुषो रुः''' (८.२.६६) इति सूत्रेण पदान्तसकारस्य स्थाने रु आदेशः भवति |अतः मनरु +विकार इति भवति | उकारस्य इत्संज्ञा भवति '''उपदेशेऽजनुनासिक इत्''' ( १.३.२) इत्यनेन, तत्पश्चात् उकारस्य लोपः भवति '''तस्य लोपः''' (१.३.९) इत्यनेन |मनर्+विकार इति भवति |अधुना '''हशि च''' (६.१.११४) इत्यनेन अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशः हशि परे → मन + उ + विकार → '''आद्गुणः''' ( ६.१.८७) इति सूत्रेण गुणसन्धिः → मनो+विकार → अधुना सुबुत्पत्तिः → मनोविकारः इति समासः । |
|||
सतां सङ्गतिः = सत्सङ्गतिः |सत्+आम् +सङ्गति+सु | |
|||
'''अतोऽम्''' ( ७.१.२४) = अकारान्तात् नपुंसकात् अङ्गात् सु-अम्- प्रत्ययोः अम् इति आदेशः भवति |अतः पञ्चम्यन्तं, अम् प्रथमान्तं, द्विपदमिदं सूत्रम् |'''अङ्गस्य''' ( ६.४.१) इत्यस्य अधिकारः |'''स्वमोर्नपुंसकात्''' (७.१.२३) इति सूत्रस्य पूर्णानुवृत्तिः अस्ति |अनुवृत्ति-सहितसूत्रम्— '''नपुंसकात् अतः अङ्गात् स्वमोः अम् |''' |
|||
'''अमि पूर्वः''' (६.१.१०७) = अक् वर्णात् अमि परे पूर्वपरयोः स्थाने पूर्वरुपम् एकादेशो भवति |अमि सप्तम्यन्तं, पूर्वः प्रथमान्तं, द्विपदमिदं सूत्रम् |'''अकः सवर्णे दीर्घः''' ( ६.१.९९) इत्यस्मात् सूत्रात् अकः इत्यस्य अनुवृत्तिः |'''एकः पूर्वपरयोः''' (६.१.८३), '''संहितायाम्''' (६.१.७१) इत्यनयोः अधिकारः |अनुवृत्ति सहितसूत्रम् — '''अकः अमि पूर्वपरयोः एकः पूर्वः संहितायाम्।''' |
|||
'''हशि च (६.१.११४) =''' प्लुतभिन्न-ह्रस्व-अकारोत्तरवर्तिनः रु-सम्बद्ध-रेफस्य स्थाने उकारादेशो भवति हशि च |हशि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''अतो रोरप्लुतादप्लुते (६.१.११३)''' इत्यस्मात् अप्लुतात्, अतः, रोः इत्येषाम् अनुवृत्तिः |'''ऋत उत्''' (६.१.१११) इत्यस्मात् उत् इत्यस्य अनुवृत्तिः |'''संहितायाम् (६.१.७१)''' इत्यस्य अधिकारः |अनुवृत्ति-सहितसूत्रं— ''' अप्लुतात् अतः रोः उत् हशि च संहितायाम् |''' |
|||
'''षष्ठीतत्पुरुषसमासस्य अपवादाः''' |
|||
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् आरभ्य '''ईषदकृता''' (२.२.७) इति सूत्रं पर्यन्तम् षष्ठीतत्पुरुषसमासस्य अपवादाः उक्ताः |आहत्य अत्र सप्तसूत्राणि सन्ति |एतानि सूत्राणि षष्ठीतत्पुरुषसमासस्य अपवादाः यतोहि एतानि सूत्राणि '''षष्ठी''' (२.२.८) इति सूत्रस्य पूर्वनिपातनस्य क्रमं परिवर्तयन्ति |एतैः अपवादसूत्रैः षष्ठ्यन्तस्य पदस्य परनिपातः भवति |तात्पर्यं यत् षष्ठ्यन्तं पदं उत्तरपदे भवति समासे | |
|||
लोके '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रमेव सामान्यतया प्रथमा-तत्पुरुषसमासः इति व्यवहारः दृश्यते |परन्तु व्याकरणे इदं सूत्रं एकदेशिसमासः इति उच्यते |एतत् सूत्रं '''षष्ठी''' (२.२.८) इति सूत्रस्य अपवादः अस्ति। |
|||
1) पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति। |
|||
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) = पूर्व-अपर-अधर-उत्तर इत्येते समर्थाः सुबन्ताः एकत्वसङ्ख्याविशिष्टेन अवयविवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |एकत्वसंख्याविशिष्टेन अवयविना सह पूर्वादयः समस्यन्ते |एतत् सूत्रं षष्ठीतत्पुरुषसमासस्य अपवादः |एकदेशः इति शब्दः अवयवार्थे अस्ति, एकदेशी (अवयवी) शब्दः समुदायार्थे अस्ति | पूर्वञ्च परञ्च अधरञ्च उत्तरञ्च तेषां समाहारद्वन्द्वः पूर्वोपराधरोत्तरम् |एकदेशः अस्य अस्ति इति एकदेशी, तेन एकदेशिना |एकं च तद् अधिकरणम् एकाधिकरणम्, तस्मिन् कर्मधारयः |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्— '''पूर्वापराधरोत्तरम् सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे '''पूर्वापराधरोत्तरम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''पूर्वापराधरोत्तरम्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
सामान्यतया अवयविवाचकात् शब्दात् षष्ठीविभक्तिः भवति |अवयववाचकस्य प्रथमा भवति |यदि मम हस्तः इति वदामः चेत् मम शरीरम् अवयवी अस्ति, हस्तः अवयवः अस्ति |मम इति अवयविवाचकस्य पदस्य षष्ठीविभक्तिः; हस्तः इति अवयवस्य प्रथमाविभक्तिः भवति | |
|||
यथा – |
|||
मम पुस्तकं = मत्पुस्तकम् |षष्ठीतत्पुरुषसमासः अस्ति । |
|||
राज्ञः हस्तः = राजहस्तः |षष्ठीतत्पुरुषसमासः अस्ति । |
|||
राज्ञः पादः = राजपादः |षष्ठीतत्पुरुषसमासः अस्ति । |
|||
गुरोः चरणः = गुरुचरणः |षष्ठीतत्पुरुषसमासः अस्ति । |
|||
सर्वत्र अवयविवाचकस्य षष्ठी भवति |यत्र पूर्वपदस्य षष्ठीविभक्तिः अस्ति तत्र षष्ठीतत्पुरुषसमासः भवति '''षष्ठी''' (२.२.८) इति सूत्रेण |षष्ठ्यन्तस्य पदस्य पूर्वनिपातः भवति |तस्य अपवादत्वेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रम् उक्तम् |अनेन सूत्रेण षष्ठ्यन्तस्य पूर्वनिपातनक्रमस्य परिवर्तनम् इष्यते |षष्ठ्यन्तस्य पदस्य श्रवणम् उत्तरपदे भवति, तन्नाम तस्य परनिपातः भवति | |
|||
कायस्य पूर्वम् इति विग्रहे षष्ठी इत्यनेन सूत्रेण समासः विधीयते येन कायपूर्वम् इति षष्ठीतत्पुरुषसमासः स्यात् '''षष्ठी''' (२.२.८) इति सूत्रेण |परन्तु अत्र पूर्वकायः इति समासः इष्यते |तदर्थं '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रं कृतम् |अयमेव एकदेशिसमासः इति उच्यते – पूर्वम् इति शब्दस्य श्रवणं प्रथमम् इष्यते इत्यतः प्रथमातत्पुरुषः इति व्यवहारः दृश्यते लोके, परन्तु शास्त्रे अयं समासः एकदेशिसमासः इति उच्यते। |
|||
यथा – |
|||
पूर्वं कायस्य = पूर्वकायः |काय+ङस् + पूर्व+सु |'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' इति सूत्रेण पूर्वापराधरोत्तरम् इत्यनेन निर्दिष्टस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वं''' (२.२.३०) इति सूत्रेण |अतः पूर्व इति पदस्य पूर्वनिपातः भवति | |
|||
अपरं कायस्य = अपरकाय: |काय+ङस् +अपर+सु | |
|||
अधरं कायस्य = अधरकायः। |
|||
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकदेशिना इति पदस्य किं प्रयोजनम्? |
|||
एकदेशिना इति पदस्य प्रयोजनं यत् अवयविवाचकेन सुबन्तेन सह एव समासः भवति |यदि षष्ठ्यन्तं पदं अवयविवाचकं नास्ति तर्हि समासः न भवति |यथा पूर्वं नाभेः कायस्य इति वाक्यम् |अर्थात् नाभेः पूर्वं पर्यन्तं शरीरस्य अर्धः भागः |अस्मिन् वाक्ये नाभिः अवयवी नास्ति इत्यतः पूर्वनाभः इति समासः न भवति। |
|||
'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रे एकाधिकरणे इत्यस्य प्रयोजनं किम्? |
|||
एकत्वसङ्ख्याविशिष्टः चेत् एव अवयवी इति स्वीक्रियते |अवयवी एकवचनान्तः भवेत् |एकत्वसङ्ख्याविशिष्टेन अवयविना सह समासः भवति किन्तु बहुत्वसंख्याविशिष्टः अवयवी चेत् समासः न भवति |यथा पूर्वश्छात्राणाम् इति उदाहरणे अवयवी “छात्राणां” बहुवचने अस्ति , अतः समासः न भवति |पूर्वश्छात्राणाम् इति भिन्ने पदे स्तः, अत्र केवलं सन्धिः एव कृतः। |
|||
'''सर्वोऽप्येकदेशोऽह्ना समस्यते''', '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रं ज्ञापकम् अस्ति |अर्थात् यद्यपि पूर्वोक्तान् ( पूर्व, अपर, अधर, उत्तर च) शब्दान् विहाय अन्यैः एकदेशिवाचिभिः शब्दैः सह अह्न इति शब्दस्य '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण समासः न भवति, तथापि सूत्रे पठितेभ्यः शब्देभ्यः भिन्नानां एकदेशभूतानां शब्दानां समासस्य स्वीकारः दृश्यते |तस्य प्रमाणम् अस्ति '''संख्याविसायपूर्वस्याह्नस्याहन्नन्यतरस्यां ङौ''' (६.३.११०) इति सूत्रम् |अस्मिन् सूत्रे साय+ अहन् इति समासं कृत्वा सायाह्नः इति शब्दः निष्पन्नः अस्ति |तदनन्तरं साय पूर्वकः अहन् इति शब्दस्य स्थाने अहन् आदेशः भवति विकल्पेन ङि इति प्रत्यये परे | यावत् पर्यन्तं समासः न भवति तावत् पर्यन्तं सायाह्न इति पदं न भवति |अतः पाणिनिसूत्रम् एव ज्ञापकम् अस्ति यत् अवयववाचिना शब्देन सह अहन् इति शब्दस्य समासः भवति इति | |
|||
अस्य ज्ञापकस्य प्रसक्तिः कालवाचकशब्दस्य कृते अपि अस्ति इति कारणेन एकदेशिना सुबन्तेन सह कालवाचकस्य शब्दस्य अपि समासः भवति |अतः एव मध्यरात्रः, पश्चिमरात्रः इत्यादीनि समस्तपदानि भवन्ति। |
|||
मध्यम् अह्नः = मध्याह्नः | |
|||
अलौकिकविग्रहः →अहन् +ङस् +मध्य +सु |पूर्वोक्तस्य ज्ञापकस्य बलेन समासं कृत्वा मध्य इति एकदेशिशब्दस्य पूर्वनिपातः भूत्वा → मध्य+अहन् इति भवति |'''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति |अतः मध्य + अहन् + टच् → मध्य + अहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् | |
|||
अधुना '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति |अस्माकम् उदाहरणे ‘मध्य’ इति एकदेशिवाचकः शब्दः पूर्वपदे अस्ति , अहन् शब्दः उत्तरपदे अस्ति, अतः '''अह्नोऽह्न एतेभ्यः''' ( ५.४.८८) इति सूत्रेण उत्तरपदात् टच् इति तद्धितप्रत्ययः विधीयते अपि च अहन् शब्दस्य स्थाने अह्न इति आदेशः भवति |मध्य+ अह्न + अ → अग्रे '''यस्येति च''' (६.४.१४८) इति सूत्रेण भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति |अत मध्य + अह्न् + अ इति भवति → मध्य+अह्न इति भवति |अग्रे '''अकः सवर्णे दीर्घः''' इत्यनेन मध्याह्न इति शब्दः निष्पद्यते |अधुना तस्मात् शब्दात् सु प्रत्ययः क्रियते चेत् मध्याह्नः इति समस्तपदं निष्पद्यते | |
|||
अपरं अह्नः = अपराह्नः। |
|||
एवमेव मध्यं रात्रेः = मध्यरात्रः इति समस्तं पदं भवति |रात्रि+ङस् +मध्य+सु |मध्य शब्दस्य पूर्वनिपातः भूत्वा मध्यरात्रि इति शब्दः निष्पद्यते |अधुना '''अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः''' ( ५.४.८७) इति सूत्रेण यस्य तत्पुरुषसमासस्य पूर्वपदम् 'अहन्', 'सर्व', 'सङ्ख्यात' तथा 'पुण्य' एतेषु कश्चन शब्दः अथवा एकदेशवाचकः शब्दः, वा संख्यावाचकः शब्दः, वा अव्ययवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'रात्रि' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति | |
|||
मध्यरात्रि+ अच् → मध्यरात्रि + अ → अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा मध्यरात्र इति शब्दः निष्पन्नः भवति |अधुना सु प्रत्ययः क्रियते → मध्यरात्र + सु→ मध्यरात्रः इति समस्तपदं निष्पन्नं भवति । |
|||
पश्चिमं रात्रेः = पश्चिमरात्रः |यथा मध्यरात्रः इत्यस्य प्रक्रिया आसीत् तथैव अत्रापि भवति |अत्र '''यस्येति च''' (६.४.१४८) इति सूत्रेण रात्रिः इति शब्दस्य इकारलोपः भूत्वा पश्चिमरात्रः इति समस्तं पदं निष्पन्नम् | |
|||
'''यस्येति च''' (६.४.१४८) = भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च च लोपः भवति ईकारे परे, तद्धितप्रत्यये परे |इश्च अश्च यम्, समाहारद्वन्द्वः तस्य यस्य |यस्य षष्ठ्यन्तम्, ईति सम्प्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् |'''भस्य''' (६.४.१२९) इत्यस्य अधिकारः |'''ढे लोपोऽकद्र्वाः''' ( ६.४.१४७) इत्यस्मात् सूत्रात् लोपः इत्यस्य अनुवृत्तिः |'''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः |'''नस्तद्धिते '''(६.४.१४४) इत्यस्मात् सूत्रात् तद्धिते इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहितसूत्रम्— '''भस्य अङ्गस्य यस्य च लोपः ईति तद्धिते''' | |
|||
2) अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन समस्यते, तत्पुरुषश्च समासो भवति। |
|||
'''अर्धं नपुंसकम्''' (२.२.२) <sub>=</sub> अर्धम् इत्येतद् नपुंसकं एकदेशिनैकाधिकरणेन सह समस्यते, तत्पुरुषश्च समासो भवति |एतद् सूत्रं षष्ठीसमासापवादः अस्ति |अर्ध इति शब्दः समांशस्य वाचकः अस्ति, नित्यं नपुंसकलिङ्गे भवति |तादृशः अर्धशब्दः एकत्वसङ्ख्यायुक्तेन अवयविवाचकेन सुबन्तेन सह विकल्पेन समस्यते |अर्धं प्रथमान्तं, नपुंसकं प्रथमान्तं, द्विपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्— '''अर्धं सुप् एकदेशिना सुपा सह एकाधिकरणे विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे नित्यं नपुंसकलिङ्गे यः अर्ध-शब्दः अस्ति, तस्य एकत्वसंख्याविशिष्टेन अवयविना सुबन्तेन सह विकल्पेन तत्पुरुषसमासः भवति। |
|||
‘अर्ध” इति शब्दः समांशवाची अपि अंशसामन्यवाची इति द्विधा भवति |समे अंशः अर्ध शब्दः नपुंसकलिङ्गे एव भवति |अंशसामन्यवाची तु पुंलिङ्गे नपुंसकलिङ्गे च भवति |अत्र अमरकोशः एव प्रमाणम् |यदा किमपि वस्तु छिद्यते, कर्त्यते तदा भागद्वयं भवति |उभौ अपि भागौ समानाकारकौ यदा भवतः तदा अर्धम् इति नपुंसकलिङ्गविशिष्टस्य प्रयोगः भवति |यदा भागयोः समता नास्ति तदा अर्धः इति पुंलिङ्गप्रयोगः |नपुंसकलिङगवाची अर्ध-शब्दः (अर्धम् इत्येतत् ) प्रथमा तत्पुरुषसमासं प्राप्नोति '''अर्धं नपुंसकम्''' (२.२.२) इत्यनेन |यथा अर्धफलम् इति प्रयोगे, अर्धशब्दः समांशवाची एव स्यात् इति स्मर्तव्यम् |यदि अर्धशब्दः समांशवाची न तहि फलस्य अर्धः फलार्धः इति षष्ठीतत्पुरुषसमासः भवति |षष्ठीतत्पुरुषस्थले अर्धशब्दः असमांशवाची न तु समांशवाची। |
|||
अस्मिन् सूत्रे '''अर्धम्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तेस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''अर्धम्''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
यथा— |
|||
अर्धं पिप्पल्याः = अर्धपिप्पली |पिप्पल्याः अर्धः भागः |यदि एतत् सूत्रं नास्ति तर्हि '''षष्ठी''' (२.२.८) इति सूत्रेण पिप्पल्यर्धः इति समासः निष्पद्यते |तन्न इष्टम् अतः अत्र '''अर्धं नपुंसकम्''' (२.२.२) इति सूत्रस्य आवश्यकता | |
|||
अलौकिकविग्रहः → पिप्पली+ङस् +अर्ध+सु→ समासप्रक्रियां कृत्वा अर्धपिप्पली इति समस्तपदं निष्पद्यते |अत्र '''परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः''' (२.४.२६) इति सूत्रेण परस्य यत् लिङ्गं तत् भवति द्वन्द्वस्य तत्पुरुषस्य च |अतः समासस्य लिङ्गं भवति स्त्रीलिङ्गम् |अर्धपिप्पली इति समासः। |
|||
अर्धं शरीरस्य = अर्धशरीरम् |अयं समासः नपुंसकलिङ्गे भवति । |
|||
अर्धम् आसनस्य = अर्धासनम् |अयं समासः नपुंसकलिङ्गे भवति । |
|||
3) द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति। |
|||
'''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) = द्वितीय-तृतीय-चतुर्थ-तुर्य इत्येते समर्थाः सुबान्ताः एकत्वसङ्ख्याविशिष्टेन अवयविना, तद्वाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति |द्वितीयञ्च तृतीयञ्च चतुर्थ च तुर्यं च तेषाम् इतरेतरयोगद्वन्द्वः द्वितीयातृतीयचतुर्थतुर्याणि प्रथमान्तम्, अन्यतरस्याम् विभक्तिप्रतिरूपकमव्ययम् |अयं समासः षष्ठीतत्पुरुषसमासस्य अपवादः अस्ति |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकदेशिना, एकाधिकरणे, च अनयोः पदयोः अनुवृत्तिः भवति |।अनुवृत्ति-सहित-सूत्रम्— '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि सुपः एकदेशिना एकाधिकरणे सुपा सह विभाषा तत्परुषः समासः अन्यतरस्याम्।''' |
|||
अस्मिन् सूत्रे '''द्वितीय-तृतीय-चतुर्थ-तुर्याणि''' इति पदानि प्रथमाविभक्तौ सन्ति, अतः तेषां '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''द्वितीया-तृतीया-चतुर्थ-तुर्याणि''' इति पदानां पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति, अतः समासः विकल्पेन भवति तर्हि सूत्रे किमर्थं पुनः अन्यतरस्याम् इत्युक्तम्? |
|||
उत्तरमस्ति यत् पुनः अन्यतरस्याम् इति कथनेन '''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इति सूत्रेण प्राप्तस्य षष्ठीतत्पुरुषसमास-निषेधं बाधयित्वा षष्ठीसमासः अपि विकल्पेन भवति इत्यर्थः सिध्यति |षष्ठीसमासः क्रियते चेत् षष्ठ्यन्तस्य पदस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अपि भवति |षष्ठीसमासः इत्युक्ते यः समासः '''षष्ठी''' (२.२.८) इति सूत्रेण क्रियते । |
|||
यथा – |
|||
द्वितीयं भिक्षायाः = द्वितीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |द्वितीय+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षाद्वितीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति | |
|||
तृतीयं भिक्षायाः = तृतीयभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |तृतीय+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षातृतीयम् इति षष्ठीतत्पुरुषसमासः अपि भवति। |
|||
चतुर्थं भिक्षायाः = चतुर्थभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण ।अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |चतुर्थ+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षाचतुर्थम् इति षष्ठीतत्पुरुषसमासः अपि भवति। |
|||
तुर्यं भिक्षायाः = तुर्यभिक्षा इति समासः विकल्पेन भवति '''द्वितीय-तृतीय-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इति सूत्रेण |अयं समासः षष्ठीतत्पुरुषसमासः अपवादः अस्ति |तुर्य+अम् + भिक्षा+ ङस् इति अलौकिकविग्रहः |पक्षे भिक्षातुर्यम् इति षष्ठीतत्पुरुषसमासः अपि भवति। |
|||
4) प्राप्त-आपन्न इत्येतौ द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति | |
|||
'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) = प्राप्त-आपन्न इत्येते पदे द्वितीयान्तेन सुबन्तेन सह विकल्पेन समस्येते, तत्पुरुषश्च समासो भवति |प्राप्तं च आपन्नं च तयोरितरेतरद्वन्द्वः प्राप्तापन्ने |प्राप्तापन्ने प्रथमान्तं, द्वितीयया तृतीयान्तम्, अ लुप्तप्रथमाकं पदं, त्रिपदं सूत्रम् |एतत् सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति |यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' ( २.१.२४) इति सूत्रेण प्राप्त आपन्न, अनयोः शब्दयोः समासः भवति तर्हि प्राप्त, आपन्न इति शब्दौ उत्तरपदे स्तः पूर्वपदे तु द्वितीयन्तं पदं भवति |किन्तु अनयोः शब्दयोः पूर्वप्रयोगः इष्यते तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति | '''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |।'''पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे''' (२.२.१) इत्यस्मात् सूत्रात् एकाधिकरणे, एकदेशिना च अनयोः पदयोः अनुवृत्तिः भवति |'''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''प्राप्तापन्ने सुपौ एकदेशिना अधिकरणे सुपा सह विभाषा तत्परुषः समासः, अन्यतरस्याम्।''' |
|||
अस्मिन् सूत्रे '''प्राप्तापन्ने''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''प्राप्तापन्ने''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रस्य अपवादः अस्ति |यदि '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण समासः भवति तर्हि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः न सम्भवति |'''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण जीविकाप्राप्तः इति समासः भवति यतो हि द्वितीयान्तं पदं पूर्वपदे अस्ति, प्राप्तः इति पदम् उत्तरपदे अस्ति । |
|||
यदि प्राप्तः, आपन्नः च अनयोः पदयोः पूर्वनिपातः इष्यते चेत् तर्हि '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रस्य आवश्यकता अस्ति |'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रे प्राप्तापन्ने इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रं तु '''विभाषा''' (२.१.११) इत्यस्य अधिकारे अस्ति तर्हि पुनः किमर्थं अन्यतरस्याम् इति पदस्य अनुवृत्तिः क्रियते '''द्वितीया-तृतीया-चतुर्थ-तुर्याण्यन्यतरस्याम्''' (२.२.३) इत्यस्मात् सूत्रात्? |
|||
उत्तरम् अस्ति यत् प्रकृतसूत्रस्य प्रवृत्तेः अभावपक्षे व्यस्तप्रयोगः सम्भवति यतोहि '''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति |अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण |अत एव आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति |प्राप्तजीविकः, जीविकाप्राप्तः, अथवा व्यस्तप्रयोगः जीविकां प्राप्तः इति । |
|||
यथा – |
|||
प्राप्तः जीविकां = प्राप्तजीविकः |अलौकिकविग्रहः भवति प्राप्त+सु + जीविका + अम् |'''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति सूत्रेण समासः भवति |प्रातिपदिकसंज्ञानन्तरं, सुप् लुक् भवति |प्राप्तशब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः च भवति |प्राप्तजीविका इति नूतनप्रातिपदिकं निष्पद्यते |जीविका इति पदं नियतविभक्तौ अस्ति इति कारणेन '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण जीविका इति पदस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति | उपसर्जनसंज्ञकस्त्रीप्रत्ययान्तस्य जीविका इति शब्दस्य ह्रस्वत्वं भवति '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इत्यनेन सूत्रेण |अतः प्राप्तजीविक इति भवति |'''परवल्लिङ्गं''' '''द्वन्द्वतत्पुरुषयोः''' (२.४.६) इति सूत्रेण द्वन्द्वस्य तत्पुरुषस्य च परस्य यल्लिङ्गं तत् भवति इति कृत्वा समासः स्त्रीलिङ्गे स्यात् यतोहि जीविका स्त्रीलिङ्गे अस्ति |परन्तु '''द्विगुप्राप्तापन्नालंपूर्वगतिसमासेषु प्रतिषेधः वाच्यः''' इति वार्तिकेन निषेधः क्रियते इति कारणेन विशेष्यपदस्य अनुसारं समासः पुंलिङ्गे भवति | ततः सुप्प्रत्ययस्य विधानानन्तरं प्राप्तजीविकः इति भवति | |
|||
'''विभाषा''' (२.१.११) इत्यस्य अधिकारः अस्ति इति कृत्वा समासाभावे व्यस्तप्रयोगः सम्भवति, अतः जीविकां प्राप्तः इति वाक्यं भवति | अपि च अन्यतरस्याम् इत्यनेन द्वितीयतत्पुरुषसमासः अपि सम्भवति '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४) इति सूत्रेण |द्वितीयातत्पुरुषसमासे, जीविका शब्दस्य पूर्वनिपातः भवति अतः जीविकाप्राप्तः इति समासः सिद्धः |आहत्य '''द्वितीया श्रितातीतपतितगतात्यस्तप्राप्तापन्नैः''' (२.१.२४), '''प्राप्तापन्ने च द्वितीयया''' (२.२.४) इति द्वाभ्यां सूत्राभ्यां त्रयः प्रयोगाः सम्भवन्ति – प्राप्तजीविकः, जीविकाप्राप्तः, जीविकां प्राप्तः इति व्यस्तप्रयोगः । |
|||
आपन्नो जीविकाम् = आपन्नजीविकः |अलौकिकविग्रहः आपन्न +सु + जीविका +अम् |यथापूर्वं त्रयः प्रयोगाः सम्भवन्ति – आपन्नजीविकः, जीविकापन्नः, जीविकाम् आपन्नः इति व्यस्तप्रयोगः । |
|||
'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः |पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः |न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः |एकविभक्तिः प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्यमात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् ।''' |
|||
'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति |गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वओ गोस्त्रियौ, तयोर्गिस्त्रियोः |गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् |'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः ।''' |
|||
5) परिच्छेद्यवाचिना सुबन्तेन सह कालाः समस्यन्ते, तत्पुरुषश्च समासो भवति | |
|||
'''कालाः परिमाणिना''' (२.२.५) = कालवाचकाः परिच्छेद्यवाचिना सुबन्तेन सह विकल्पेन समस्यन्ते, तत्पुरुषश्च समासो भवति | |सूत्रस्थ परिमाणिन् शब्दः परिच्छेद्यवाची अस्ति, अर्थात् इयत्तायाः बोधकः |अस्मिन् सूत्रे समस्यमानौ द्वौ शब्दौ अपि कालवाचिनौ एव स्तः |एकः शब्दः कालस्य अवधिं सूचयति, अन्यः शब्दः कालस्य अवधिं पूरयितुं समयविशिष्टस्य शब्दं सूचयति |अयमेव परिच्छेदक -परिच्छेद्यभावः अर्थात् विशेषण- विशेष्यभावः एकार्थीभावसम्बन्धेन सिद्धः भवति | कालाः प्रथमान्तं, परिमाणिना तृतीयान्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''कालाः सुपः परिमाणिना सुपा सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे '''कालाः''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''कालाः''' इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
यथा— |
|||
मासो जातस्य = मासजातः | अलौकिकविग्रहः - मास +सु + जात +ङस् |अत्र मास इति कालविशेष-बोधकशब्दः अवदिसूचकः जात इति शब्देन सह समस्यते '''कालाः परिमाणिना''' (२.२.५) इति सूत्रेण |मासजातः इति समस्तपदं निष्पन्नं भवति | |
|||
द्वयोः अह्नोः समाहारः द्व्यहः, द्व्यहो जातस्य यस्य स इति विग्रहः = द्व्यहजतः |जन्मात् द्वे दिने जाते | |
|||
प्रथमं द्वयोः अह्नोः समाहारः इति द्विगुसमासः भवति '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इत्यनेन |अलौकिकविग्रहः भवति द्वि +ओस् + अहन् + ओस् |द्विगुसमासानन्तरं द्व्यहन् इति भवति |'''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति |अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |'''न सङ्ख्यादेः समाहारे''' ( ५.४.८९) इति सूत्रेण समाहारतत्पुरुषसमासस्य विषये अहन्-शब्दस्य 'अह्न' इति आदेशः न भवति |अतः '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण अहनि इत्येतस्य टखोः एव परतः टिलोपो भवति |अतः द्व्यहन् + अ → अन् इति टिभागः अस्ति, तस्य लोपः भवति '''अह्नष्टखोरेव''' ( ६.४.१४५) इति सूत्रेण |द्व्यह इति रूपं निष्पन्नं भवति | |
|||
'''रात्राह्नाहाः पुंसि''' ( २.४.२९) इति सूत्रेण रात्र-अह्न-अहाः इत्येते द्वन्द्वतत्पुरुषौ पुंस्येव भवन्ति | |
|||
अधुना प्रकृतसमासः क्रियते – |
|||
द्व्यहो जातस्य यस्य स इति लौकिकविग्रहः |यद्यपि अत्र विग्रहवाक्यं बहुव्रीहिसमासः इति चिन्तयेयम् परन्तु अत्र बहुव्रीहिसमासः नास्ति | द्व्यह +सु + जात +ङस् इति अलौकिकविग्रहः |कालाः '''परिमाणिना''' (२.२.५) इति सूत्रेण समासः विधीयते |द्व्यह इति पदस्य पूर्वनिपातः भवति यतोहि अयं शब्दः कालवाचकः अस्ति |समासप्रक्रियानन्तरं द्व्यहजातः समासः निष्पद्यते । |
|||
'''पूर्वत्र तु न सङ्ख्यादेः समाहारे इति निषेधः |'''अर्थात् पूर्वत्र नाम प्रकृतसूत्रस्य उदाहरणे द्व्यहजातः इत्यस्मिन् अह्न इति आदेशः न भवति यतोहि सङ्ख्यादेः समाहरे इत्यनेन निषेधः भवति । |
|||
'''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन त्रयाणां पदानां योगे अपि तत्पुरुषसमासः भवति |उत्तरपदेन परिमाणवाचिना शब्देन सह द्विगुसमासं कर्तुं अनेकानां पदानां तत्पुरुषसमासः भवति |यत्र पदद्वयात् अधिकानि पदानि भवन्ति तत्र अनेन वार्तिकेन एव व्यवस्था क्रियते अपि च तेषु यदि परिमाणिवाचकः शब्दः उत्तरपदे अस्ति तर्हि तत् पदं कालवाचकैः सह समस्यते यतोहि पूर्ववर्तिनः कालवाचिनः = परिमाणवाचिनः द्विगुसमासः निष्पन्नः भवति | |
|||
द्वे अहनी जातस्य सः = द्व्यहजातः |अह्नोऽह्नः – इति वक्ष्यमाणोऽह्नादेशः |द्वे अहनी जातस्य यस्य सः लौकिकः विग्रहः |द्वि+ औ + अहन्+ औ +जात+ङस् इति अलौकिकविग्रहः |अर्थात् त्रयाणां पदानां समासः क्रियमाणः अतः '''उत्तरपदेन परिमाणिना द्विगोः सिद्धये बहूनां तत्पुरुषस्योपसंख्यानम्''' इति वार्तिकेन समासः विधीयते |समासप्रक्रियानन्तरं द्वि +अहन् +जात इति प्रातिपदिकं निष्पन्नं भवति | उत्तरपदे जात इति शब्दः अस्ति |अतः द्व्यहन् इति समाहारार्थकद्विगुः न भवति |किन्तु उत्तरपदनिमित्तकद्विगुः भवति |द्वि +अहन् → यण् सन्धिः भूत्वा द्व्यहन् भवति |ततः '''राजाहस्सखिभ्यष्टच्''' ( ५.४.९१) इति सूत्रेण यस्य तत्पुरुषसमास्य उत्तरपदरूपेण 'राजन्', 'अहन्' उत 'सखि' एतेषु कश्चन शब्दः विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति |अतः द्व्यहन् + टच् → द्व्यहन् + अ इति भवति टच् इति प्रत्यये इत्संज्ञकवर्णानां लोपानन्तरम् |अधुना '''अह्नोऽह्नः एतेभ्यः''' ( ५.४.८८) इति सूत्रेण यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति |अतः द्व्यहन इति शब्दे यः अहन् इति शब्दः अस्ति, तस्य स्थाने अह्न इति आदेशः भवति |द्व्यह्नजात इति प्रातिपदिकं निष्पन्नं , तस्मात् सुबुत्पत्तिः भवति द्व्यह्नजातः इति समासः सिद्धः भवति | |
|||
'''नञ्तत्पुरुषसमासः''' |
|||
6) नञ् समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति | |
|||
'''नञ्''' (२.२.६) = नञ् इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, तत्पुरुषश्च समासो भवति |अत्र नञ् इति अव्ययम् अस्ति |नञ् इत्यस्मिन् ञकारस्य इत् संज्ञा भवति '''हलन्त्यम्''' (१.३.३) इत्यनेन, न इति अवशिष्यते | नञ् प्रथमान्तम् एकपदमिदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्— '''नञ् सुप् सुपा सह विभाषा तत्परुषः समासः ।''' |
|||
अस्मिन् सूत्रे '''नञ्''' इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं '''नञ्''' इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
एकः नञ् तु अव्ययम् अस्ति, तस्य विषये उपरितनसूत्रेण उक्तम् |अपरः नञ् अपि अस्ति |सः नञ् तु प्रत्ययः अस्ति |नञ् इति प्रत्ययः विधीयते अनेन सूत्रेण '''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्''' (४.१.८७) |'''स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्''' (४.१.८७) इति सूत्रेण पञ्चमाध्यायस्य प्रथमपादस्य समाप्तिं पर्यन्तम् उक्तेषु सर्वेषु अर्थेषु स्त्री-शब्दात् 'नञ्' तथा 'पुंस्' शब्दात् 'स्नञ्' तद्धितप्रत्ययः विधीयते । |
|||
निषेधार्थके नञ् इति पदम् अस्ति अपि च न इति पदम् अपि अस्ति, एतौ द्वौ शब्दौ उपलब्धौ स्तः समासार्थम् |द्वयम् अपि अव्ययमेव किन्तु समासः तु नञ् इति शब्देन सह एव भवति न तु “न” इति शब्देन सह |अत एव नैकधा इति प्रयोगः अपि दृश्यते, अत्र तु समासः नास्ति |नाम न +एकधा = नैकधा इति ।यदि नञ् इति अव्ययस्य समर्थेन सुबन्तेन सह समासः भवति तर्हि अनेकधा इति रूपं निष्पन्नम् |नञ् + एकधा = अनेकधा । |
|||
नञ् इति शब्दस्य षडर्थाः सन्ति |यथा – |
|||
'''तत्सादृशयमभावश्च तदन्यत्वं तदल्पता।''' |
|||
'''अप्राशस्त्यं विरोधश्च नञर्थाः षट् प्रकीर्तिताः।''' |
|||
अर्थात् येन शब्देन सह नञ् इति शब्दस्य सम्बन्धः भवति सः नञ् शब्दः एतेषु अर्थेषु अन्यतमं अर्थं स्वीकरोति - सादृश्यार्थे, अभावार्थे, अन्यत्वार्थे, अल्पतार्थे, अप्राशस्त्यार्थे, विरोधार्थे वा |प्रकरणानुसारं तत्तत् अर्थं स्वीकुर्मः | |
|||
१) सादृश्यार्थे = अब्राह्मणः इति उदाहरणे ब्राह्मणः सदृशः इत्यर्थः। |
|||
२) अभावार्थे = अपापम् इत्यत्र पापस्य अभावः इत्यर्थः । |
|||
३) अन्यत्वार्थे = अनश्वः इत्यत्र अश्वः भिन्नः इत्यर्थः। |
|||
४) अल्पतार्थे = अनुदरा कन्या इत्यत्र अल्पा उदरा कन्या इत्यर्थः । |
|||
५) अप्राशस्त्यार्थे = अपशवः इत्यत्र पशूनां न्यूनतायाः (अप्राशस्त्यस्य) बोधः अस्ति । |
|||
६) विरोधार्थे = अधर्मः इत्यत्र विरोधस्य बोधः भवति । |
|||
यथा— |
|||
न ब्राह्मणः = अब्राह्मणः – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते। |
|||
न पापम् = अपापम् – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते। |
|||
न अश्वः = अनश्वः – – अत्र '''न लोपो नञ्''' (६.३.७३) इत्यनेन नकारस्य लोपो जायते |तदनन्तरं '''तस्मान्नुडचि''' (६.३.७४) इति सूत्रेण नुडागमः भवति अच् वर्णस्य |नुट् टित् अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन अश्व इत्यस्य आद्यवयवः भवति। |
|||
'''न लोपो नञ्''' (६.३.७३) = नञो नकारस्य लोपो भवति उत्तरपदे |न लोपः प्रथमान्तं, नञः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः भवति |।अनुवृत्ति-सहित-सूत्रम्— '''नञः न लोपः उत्तरपदे।''' |
|||
'''तस्मान्नुडचि''' (६.३.७४) = तस्मात् लुप्तनकारात् परे अजादेः उत्तरपदयस्य नुट् आगमः भवति |तस्मात् पञ्चम्यन्तं, नुट् प्रथमान्तम्, अचि सप्तम्यन्तं त्रिपदमिदं सूत्रम् |'''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन नुडागमः अच् वर्णस्य आद्यवयवः भवति |अस्मिन् सूत्रे '''अलुगुत्तरपदे''' (६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे अपि च '''न लोपो नञ्''' (६.३.७३) इत्यस्मात् सूत्रात् नञ् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्— '''तस्मात् नञः नुट् अचि।''' |
|||
7) ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | |
|||
'''ईषदकृता''' (२.२.७)= ईषत् इति अव्ययम् अकृदन्तेन सुपा सह समस्यते, तत्पुरुषश्च समासो भवति | न कृत् अकृत्, तेन अकृता |ईषद् अव्ययम्, अकृता तृतीयान्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्— '''ईषद् सुप् अकृता सुपा सह विभाषा तत्परुषः समासः।''' |
|||
अस्मिन् सूत्रे '''ईषद्''' इति पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरम् ईषद् इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
यथा— |
|||
ईषत् पिङ्गलः = ईषत्पिङ्गलः |किञ्चित् पीतः इत्यर्थः |पिङ्गल इति शब्दः अव्युत्पन्नः अतः अकृदन्तं पदम् अस्ति । |
|||
ईषत् रक्तम् = ईषद्रक्तम् |किञ्चित् रक्तवर्णीयम् इत्यर्थः |अत्र रक्तम् इति क्तान्तपदम् अस्ति इति कृत्वा '''ईषदकृता''' (२.२.७) इत्यनेन तु समासः न भवति |तदर्थम् अत्र '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन गुणवाचिना कृदन्तपदेन सह अपि ईषत् इति शब्दस्य समासः भवति यतोहि रक्तम् गुणवाचिपदम् अस्ति। |
|||
'''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन ईषद् इति शब्दः गुणवाचिना सुबन्तेन सह समस्यते । |
|||
ईषद् गार्ग्यः = अत्र समासः न भवति |गार्ग्यः अकृदन्तं पदम् अस्ति परन्तु गुणवाची नास्ति अतः '''ईषद् गुणवचनेनेति वाच्यम्''' इत्यनेन वार्तिकेन समासः न भवति |अत्र '''ईषदकृता''' (२.२.७) इत्यनेन अपि न भवति यतोहि समासः अनभीष्टः। |
|||
'''षष्ठीतत्पुरुषसमासस्य निषेधकसूत्राणि''' — |
|||
'''याजकादिभिश्च''' (२.२.९) इत्यस्मात् सूत्रात् आरभ्य '''कर्तरि च ('''२.२.१६) इति सूत्रपर्यन्तं षष्ठीसमासस्य निषेधकसूत्राणि सन्ति |अग्रे एतेषां सूत्राणां चर्चा क्रियते। |
|||
१) षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति। |
|||
'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।''' |
|||
अस्मिन् सूत्रे षष्ठी इति अनुवृत्तं पदं प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति |उपसर्जन-संज्ञानन्तरं षष्ठी इति पदस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण। |
|||
'''तृजाकाभ्यां कर्तरि इत्यस्य प्रतिप्रसवोऽयम् |याजकादिभिश्च''' (२.२.९) इति सूत्रं '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य अपवादः अस्ति |तृजकाभ्यां कर्तरि (२.२.१५) इति सूत्रस्य प्रतिप्रसवोऽयम् |अर्थात् केनचित् सूत्रेण किमपि कार्यं विधीयते, तस्य निषेधः भवति अन्येन सूत्रेण |तदनन्तरं, यदा तस्य कार्यं पुनः विधीयते अन्येन सूत्रेण तदा प्रतिप्रसवः इत्युच्यते |'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठ्यन्तपदस्य समर्थेन सुबन्तेन सह समासः विधीयते तदा '''तृजकाभ्यां कर्तरि''' ( २.२.१५) इति सूत्रं तत्कार्यं निषेधयति |इदानीं '''याजकादिभिश्च''' (२.२.९) इत् सूत्रम् आगत्य वदति यद् याजकादिगणे पठितेभ्यः शब्देभ्यः षष्ठीतत्पुरुषसमासः भवति इति। |
|||
याजकादिगणे एते शब्दाः अन्त्रर्भूताः — याजक, पूजक, परिचारक, परिषेचक, स्नातक, अध्यापक, उत्सादक, उद्वर्तक, होतृ, पोतृ, भर्तृ, रथगणक, चन्दन, पत्तिगणक, कपित्था च। |
|||
यथा – |
|||
ब्राह्मणस्य याजकः = ब्राह्मणयाजकः |ब्राह्मण +ङस् + याजक +सु |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण | |
|||
देवानां पूजकः = देवपूजकः |देव+ङस् + पूजक +सु |'''षष्ठी''' (२.२.८) इति सूत्रेण समासः प्राप्तः, तस्य निषेधः क्रियते '''तृजकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः तस्य कार्यस्य विधानं क्रियते '''याजकादिभिश्च''' (२.२.९) इत्यनेन सूत्रेण | |
|||
'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्''' |वार्तिकार्थः एवम् अस्ति – तरप् -प्रत्ययान्तः शब्दः यः गुणवाची अस्ति, तस्य षष्ठ्यन्तेन सुबन्तेन सह समासः विकल्पेन भवति तथा च तरप् प्रत्ययस्य लोपः भवति |'''षष्ठी''' (२.२.८) इति सूत्रेण यत्र षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां |अनयोः सूत्रस्य विवरणम् अग्रे वक्ष्यते |प्रकृतवार्तिकम् अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति | अतः इदं कार्यं शास्त्रे प्रतिप्रसवः इति उच्यते | |
|||
सर्वेषां श्वेततरः = सर्वश्वेतः |नाम सर्वेषाम् अपेक्षया यः श्वेतः अस्ति सः सर्वश्वेतः |अलौकिकविग्रहः = सर्व +आम् + श्वेततर+सु |अत्र श्वेत इति प्रातिपदिकात् '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) इति सूत्रेण अतिशयार्थे तरप् -प्रत्ययः विधीयते, श्वेततरः इति पदं निष्पन्नं भवति |'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''न निर्धारणे''' (२.२.१०), '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.१२) च इत्याभ्यां सूत्राभ्यां |'''गुणात्तरेण तरलोपश्चेति वक्तव्यम्''' इति वार्तिकेन अनयोः सूत्रयोः निषेधकार्यं बाधयित्वा पुनः षष्ठीसमासस्य विधानं तथा च तरप् -प्रत्ययस्य लोपं करोति |सर्वश्वेत इति प्रातिपदिकं सिद्धं भवति |समासप्रक्रियां कृत्वा सर्वश्वेतः इति समासः सिद्ध्यति | |
|||
सर्वेषां महत्तरः = सर्वमहान् |अलौकिकविग्रहः = सर्व+आम् + महत्तर +सु |सर्व +महत् → सर्वमहत् +सु → सर्वमहान् | |
|||
'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | |
|||
'''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' |कृद्योगे या षष्ठी, तदन्तं सुबन्तं समर्थेन सुबन्तेन सह विकल्पेन समस्यते |वार्तिकस्य उपयोगिता एवम् अस्ति – सामान्यतः षष्ठीसमासस्य निषेधकम् वार्तिकम् अस्ति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति |अस्य वार्तिकस्य बाधकं अस्ति प्रकृतवार्तिकम् | '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन षष्ठीसमासः विधीयते | |
|||
'''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण या षष्ठी विहिता भवति सा कृद्योगा षष्ठी इति उच्यते |कर्तृकर्मणोः '''कृति''' (२.३.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिः भवति |भवतः पठनम् |भवत्याः हसनम् | |
|||
इध्मस्य प्रव्रश्चनः = इध्मप्रव्रश्चनः |काष्ठस्य छेदनं कर्तुं मुद्गरः इत्यर्थः |इध्म नाम काष्ठम् इत्यर्थः |प्रव्रश्चन नाम मुद्गरः इत्यर्थः | अलौकिकविग्रहः = इध्म +ङस् + प्रव्रश्चन +सु | अस्मिन् उदाहरणे '''कर्तृकर्मणोः कृति''' (२.३.६५) इति सूत्रेण षष्ठी विहिता अस्ति, अतः इयं षष्ठी प्रतिपदविधाना इत्युच्यते |'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठीसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन |'''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन यः निषेधः प्राप्तः , तं निषेधं बाधित्वा पुनः '''कृद्योगा च षष्ठी समस्यत इति वाच्यम्''' इति वार्तिकेन विकल्पेन षष्ठीसमासः क्रियते |समासप्रक्रियां कृत्वा इध्मप्रव्रश्चनः इति समासः सिद्धः भवति | |
|||
२) निर्धारणे या षष्ठी सा न समस्यते। |
|||
'''न निर्धारणे''' (२.२.१०) = पूर्वेण समासे प्राप्ते प्रतिषेधः आरभ्यते |निर्धारणे या षष्ठी विहिता, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह तत्पुरुषसमासः '''न''' भवति |न इत्यव्ययं, निर्धारणे सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''न निर्धारणे''' '''षष्ठी सुप् सुपा सह विभाषा तत्परुषः समासः।''' |
|||
निषेधस्य इयत्ता सूचनार्थं निधारणे इति शब्दयस्य प्रयोगः कृतः अनेन सूत्रेण |कारकप्रकरणे '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण जातिगुणक्रियासंज्ञाभिः समुदायात् एकदेशस्य पृथक्करणार्थं, निर्धारणार्थं षष्ठी विभक्तेः वा सप्तमी विभक्तेः प्रयोगः भवति |संज्ञा, जातिः, क्रिया अथवा गुणः, एतेषाम् आधारेण समूहात् एकस्य पृथक्करणं निर्धारणम् इति उच्यते |निर्धारणार्थं त्रयः विषयाः आवश्यकाः – १) समुदायः; २) यस्य निर्धारणं क्रियते; ३) निर्धारणस्य हेतुः च । |
|||
यथा – नॄणां द्विजः श्रेष्ठः – अस्मिन् उदाहरणे जातेः आधारेण द्विजः श्रेष्ठः इति उच्यते |'''यतश्च निधारणम्''' (२.३.४१) इत्यनेन सूत्रेण निर्धारणार्थे षष्ठी विभक्तिः भूत्वा नृणां द्विजः श्रेष्ठः इति वाक्यं सिद्धम् |परन्तु '''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण प्राप्तस्य षष्ठीविभक्त्यन्तस्य समर्थेन सुबन्तेन सह समासः निषिध्यते '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अतः नॄणां द्विजः इति व्यस्तप्रयोगः एव सम्भवति |नृद्विजः इति समासः न भवति | |
|||
यथा छात्राणां छात्रेषु वा मैत्रः पटुः |'''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते |तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अत्रापि व्यस्तप्रयोगः एव सम्भवति | |
|||
यथा गवां गोषु वा कृष्णा बहुक्षीरा |अस्मिन् उदाहरणे गुणस्य आधारेण कृष्णा बहुक्षीरा इति उच्यते |'''यतश्च निधारणम्''' (२.३.४१) इति सूत्रेण या षष्ठी विधीयते |तादृशस्य षष्ठ्यन्तस्य समर्थेन सुबन्तेन सह समासस्य निषेधः भवति '''न निर्धारणे''' (२.२.१०) इति सूत्रेण |अत्रापि व्यस्तप्रयोगः एव सम्भवति | |
|||
'''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकम् ''' |'''वार्तिकार्थः अस्ति – प्रतिपदस्य विधाने षष्ठीसमासः न भवति इति |प्रतिपदं नाम पदस्य योगे या षष्ठीविभक्तिः भवति तस्याः इति |पदं पदं प्रति प्रतिपदं, प्रतिपदं विधानं यस्याः साः, प्रतिपदविधाना |समान्यतः कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषः, तत्र षष्ठी स्यात् '''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण |'''षष्ठी शेषे''' (२.३.५०) इति सूत्रेण या षष्ठी विहिता, ताम् षष्ठीं विहाय सूत्रविशेषस्य द्वारा विधीयमाना षष्ठी प्रतिपदविधाना इति उच्यते |यत्र कश्चित् विशेषशब्दस्य योगे षष्ठीविभक्तेः विधानं भवति , तत्र समर्थेन सुबन्तेन सह षष्ठीसमासः न भवति '''प्रतिपदविधाना षष्ठी न समस्यते''' इति वार्तिकेन | |
|||
सर्पिषः ज्ञानम् |अत्र सर्पिष् इति शब्दे '''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण षष्ठीविभक्तिः विहिता अस्ति |'''ज्ञोऽविदर्थस्य करणे''' (२.३.५१) इति सूत्रेण जानातेः अज्ञानार्थस्य करणे शेषत्वेन विवक्षिते षष्ठी स्यात् |अस्मिन् उदाहरणे प्रतिपदविधाने षष्ठी अस्ति |'''षष्ठी''' (२.२.८) इति सूत्रेण षष्ठीसमासः प्राप्तः भवति, तस्य निषेधः क्रियते '''प्रतिपदविधाना षष्ठी न समस्यते इति''' वार्तिकेन | अतः व्यस्तप्रयोगः एव सम्भवति – सर्पिषः ज्ञानम् इति | |
|||
३) षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्-संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचिशब्दः इत्येतैः शब्दैः सह न समस्यते | |
|||
'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) = पूरणाद्यर्थैः सदादिभिश्च षष्ठी न समस्यते |षष्ठ्यन्तं समर्थं सुबन्तं पूरणप्रत्ययान्तशब्दः, गुणवाचिशब्दः, तृप्तिवाचिशब्दः, सत्- संज्ञकप्रत्ययान्तशब्दः, अव्ययं, तव्य-प्रत्ययान्तशब्दः अपि च समानाधिकरणवाचि शब्दः, इत्येतैः शब्दैः सह न समस्यते |सुहितार्थाः बहुव्रीहिः |पूरणं च गुणश्च सुहितार्थाश्च सत् च अव्ययं च तव्यश्च समानाधिकरणं च तेषां समाहारद्वन्द्वः; पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणं, तेन |पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन तृतीयान्तम् एकपदं सूत्रम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''षष्ठी सुप् पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन सुपा सह न तत्परुषःसमासः ।''' |
|||
'''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रे पूरण इति शब्देन पूरणार्थकप्रत्ययस्य ग्रहणं भवति |सुहित इति शब्दस्य तृप्तिः इत्यर्थः |तृप्तिः इति शब्दस्य अर्थः इति शब्देन सह योगात् तृप्यर्थकशब्दस्य ग्रहणं भवति | सत्-शब्दस्य द्वारा लट्, लृट्, लकारयोः स्थाने आदेशरूपेण विधीयमानः सत्-संज्ञक- शब्दानां ग्रहणं भवति |'''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः |अतः सत्- शब्दः इत्युक्ते शत्रन्तशब्दः, शानजन्तशब्दः, तयोः ग्रहणं भवति |समानाधिकरणं नाम समानाश्रयौ पदार्थौ इति |आश्रयः नाम समानविभक्तिः इति |अर्थात् ययोः शब्दयोः समानविभक्तिः वर्तते, तयोः समानाधिकरणं वर्तते |
|||
यथा— अग्रे सर्वत्र षष्ठीसमास्य निषेधः भवति । |
|||
'''१) पूरणप्रत्ययान्तशब्दस्य उदाहरणम्''' |
|||
सतां षष्ठः – सज्जनानां षष्ठः इत्यर्थः | षण्णां षष्ठः इत्यर्थे षष् इति शब्दात् '''तस्य पूरणे डट्''' ( ५.२.४८) इति सूत्रेण षष्ठीसमर्थात् सङ्ख्यावाचिनः शब्दात् 'पूरणः' इत्यस्मिन् अर्थे 'डट्' प्रत्ययः विधीयते |षष् +डट् → षष्+ अ → '''षट्कतिकतिपयचतुरां थुक्''' ( ५.२.५१) इति सूत्रेण षष्, कति, कतिपय तथा चतुर् - एतेषाम् विषये 'पूरणः' अस्मिन् अर्थे विहिते 'डट्' प्रत्यये परे अङ्गस्य 'थुक्' आगमः भवति →षष् +थ् +अ → षकारस्य योगेन थकारस्य स्थाने ठकारादेशः भवति '''ष्टुना ष्टुः''' ( ८.४.४१) इत्यनेन → षष्ठ इति प्रातिपदिकं सिद्धं भवति |षष्ठः इति पदं पूरणप्रत्ययान्तः शब्दः |अत्र सतां इति पदस्य षष्ठः इति समर्थेन सुबन्तेन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः सत्षष्ठः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – सतां षष्ठः इति | |
|||
पुरुषाणां प्रथम: अत्रापि षष्ठीतत्पुरुषसमासः न भवति। |
|||
'''२) ''' '''गुणवाचकशब्दस्य उदाहरणम्''' |
|||
काकस्य कार्ष्ण्यम् (blackness) – कृष्णस्य भावः कार्ष्णयम् |काकस्य इति षष्ठ्यन्तस्य कार्ष्ण्यम् इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः काककार्ष्ण्यम् इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – काकस्य कार्ष्ण्यम् इति | |
|||
ब्राह्मणस्य शुक्लाः (दन्ताः) – ब्राह्मणस्य इति षष्ठ्यन्तस्य शुक्लः इति गुणवाचकेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः प्राप्तः, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणशुक्लाः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य शुक्लाः इति । |
|||
शुक्लः इति पदं मतुप् प्रत्ययान्तः शब्दः |शुक्लो गुणः एषाम् इत्यर्थे मतुप्-प्रत्ययः विधीयते, ततः परं '''गुणवचनेभ्यो मतुपो लुगिष्टः''' इति वार्तिकेन मतुप् -प्रत्ययस्य लुक् क्रियते |एवं शुक्लः इति मतुप् -प्रत्ययान्तः शब्दः निष्पन्नः | |
|||
'''अनित्योऽयं गुणेन निषेधः , तदशिष्यं संज्ञाप्रमाणत्वात् इत्यादिनिर्देशात्''' |अर्थात् '''तदशिष्यं संज्ञाप्रमाणत्वात्''' ( १.२.५३) इति सूत्रे संज्ञाप्रमाणत्वात् इति समस्तपदस्य विग्रहवाक्यम् अस्ति संज्ञायाः प्रमाणत्वम् इति |अस्मिन् समासे प्रमाणत्वम् इति षष्ठ्यन्तस्य गुणवाचिशब्दस्य प्रयोगः समासे कृतः पाणिनिना | अतः अयं प्रयोगः एव ज्ञापयति यत् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रस्य द्वारा गुणवाचिशब्दस्य विषये निषेधः अनित्यः, अर्थात् कुत्रचित् निषेधः क्रियते, कुत्रचित् निषेधः न क्रियते इति | |
|||
तेन अर्थगौरवम्, बुद्धिमान्द्यम् इत्यादीनि समस्तपदानि सिद्धानि |तेन इति गुणवाचकशब्देन सह षष्ठीसमासनिषेधस्य अनित्यत्वात् अर्थस्य गौरवम्, बुद्धेः मान्द्यम् (मन्दता) इत्यादिषु स्थलेषु षष्ठीसमासः भवति । |
|||
अर्थस्य गौरवम् = अर्थगौरवम् | |
|||
बुद्धेः मान्द्यं = बुद्धिमान्द्यम् । |
|||
लोके अन्यानि उदाहरणानि |
|||
भारवेः अर्थस्य गौरवम् = भारवेरर्थगौरवम् । |
|||
अग्नेः मान्द्यम् = अग्निमान्द्यम् । |
|||
'''३) सुहितार्थास्तृप्त्यर्था:''' – '''सुहितार्थशब्दः इत्यनेन तृप्त्यर्थकशब्दानां ग्रहणं भवति।''' |
|||
फलानां सुहिताः |फलानां तृप्तिः इत्यर्थः |सुहिताः इति पदं सुदितार्थे अस्ति |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते, तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः फलसुहिताः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – फलानां सुहिताः इति । |
|||
तृतीयासमासस्तु स्यादेव |अर्थात् उक्तनिषेधः केवलं षष्ठीतत्पुरुषसमासस्य विषये न तु तृतीयातत्पुरुषसमासस्य विषये |अतः फलैः सुहिताः इत्यत्र कारणत्वस्य विवक्षायां फलैः इति तृतीयान्तं सुबन्तं सुहिताः इति सुबन्तेन सह तृतीयातत्पुरुषसमासः भवति, अनेन फलसुहिताः इति समासः निष्पन्नः भवति |एवमेव फलतृप्तिः इत्यपि समासः सिद्धः भवति । |
|||
'''४) सत् इत्यनेन शत्रृप्रत्ययान्त-शब्दानां, शानच्प्रत्ययान्त-शब्दानां ग्रहणं भवति।''' |
|||
सत्संज्ञकप्रत्ययं उप्युज्य यः शब्दः निष्पन्नः, तेन सह षष्ठीतत्पुरुषसमासः न भवति |'''तौ सत्''' (३.२.१२७) इति सूत्रेण शतृशानचौ सत्संज्ञौ भवतः। |
|||
द्विजस्य कुर्वन्, कुर्वाणो वा |कुर्वन्, कुर्वाणः नाम किङ्करः, सेवकः इत्यर्थः |अस्मिन् उदाहरणे शतृ-प्रत्ययान्त-शब्दस्य, शानच्-प्रत्ययान्त-शब्दस्य च प्रयोगः दृश्यते |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः द्विजकुर्वन्, द्विजकुर्वाणः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – द्विजस्य कुर्वन्, द्विजस्य कुर्वाणः इति |एवमेव ब्राह्मणस्य कुर्वन् |
|||
'''५) अव्ययम्''' |
|||
अव्ययेन सह षष्ठीसमासस्य निषेधः अस्ति | |
|||
ब्राह्मणस्य कृत्वा – कृत्वा इति शब्दे कृ इति धातुतः क्त्वा प्रत्ययः विधीयते |क्त्वाप्रत्ययान्त-शब्दः '''क्त्वातोसुन्कसुनः''' (१.१.४०) इति सूत्रेण अव्ययसंज्ञां प्राप्नोति |ब्राह्मणस्य कृत्वा इति उदाहरणे '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणकृत्वा इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कृत्वा इति |
|||
अस्मिन् सूत्रे अव्ययम् इत्यनेन केवलं तादृशानाम् अव्ययानां ग्रहणम् अस्ति यत् कृत्प्रत्ययान्तम् अस्ति |'''पूर्वोत्तरसाहचर्यात् कृदव्ययमेव गृह्यते''' | अर्थात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति अव्ययम् इति शब्दात् पूर्वं सत्शब्दस्य विषये उक्तं, सत्प्रत्ययान्तः कृत्प्रत्ययान्तः अस्ति ; तत्पश्चात् तव्यप्रत्ययान्तस्य विषये वक्यते, सोपि कृत्प्रत्ययान्तः अस्ति |अतः पूर्वं तथा परं विद्यमानः कृत्प्रत्ययबोधकः शब्दः अस्ति, तस्य साहचर्यात् अव्ययम् इति शब्दस्य द्वारा अपि कृत्प्रत्ययान्तं अव्ययं एव गृह्यते | |
|||
पूर्वोक्तनियमेन तद्धितप्रत्ययान्तेन अव्ययेन सह षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति | |
|||
उदाहरणम् – |
|||
तस्य उपरि = तदुपरि |उपरि इति तद्धितप्रत्ययान्तम् अव्ययम् अस्ति । |
|||
'''६) तव्यप्रत्ययान्त-शब्दः''' |
|||
तव्यप्रत्ययान्तेन शब्देन सह षष्ठीसमासस्य निषेधः अस्ति | |
|||
ब्राह्मणस्य कर्तव्यम् |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः ब्राह्मणकर्तव्यम् इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – ब्राह्मणस्य कर्तव्यम् इति । |
|||
प्रकृतसूत्रे केवलं तव्यप्रत्ययान्तशब्दस्य एव निषेधः कृतः न तु तव्यत्प्रत्ययान्तस्य |अतः तव्यत्प्रत्ययान्तेन शब्देन सहः षष्ठीतत्पुरुषसमासस्य निषेधः नास्ति | |
|||
स्वस्य कर्तव्यम् = स्वकर्तव्यम् |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः नास्ति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण यतोहि कर्तव्यम् इति पदं तव्यत्प्रत्ययान्तः अस्ति |यद्यपि तव्य, तव्यत्, द्वयोः समानरूपं भवति तथापि स्वरभेदः अवश्यम् अस्ति | |
|||
'''७) समानाधिकरणेन''' |
|||
समानाधिकरणशब्देन सह षष्ठीसमासस्य निषेधः अस्ति | |
|||
तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः |द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति |'''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण |अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति । |
|||
एवम् उपरि उक्तेषु अर्थेषु षष्ठीतत्पुरुषसमासः निषिध्यते | |
|||
४) षष्ठ्यन्तं सुबन्तं पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते । |
|||
'''क्तेन च पूजायाम्''' (२.२.१२) = षष्ठ्यन्तस्य समर्थस्य सुबन्तस्य, पूजार्थे, सत्कारार्थे यः क्तप्रत्ययः विधीयते, तदन्तेन सुबन्तेन सह न समस्यते |कृदन्तप्रकरणे पूजार्थे क्तप्रत्ययः विधीयते '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण |अस्मिन् सूत्रे पूजायाम् इति पदं क्तप्रत्ययस्य उपलक्षणम् अस्ति |अर्थात् '''मतिबुद्धिपूजार्थेभ्यश्च''' ( ३.२.१८८) इत्यनेन सूत्रेण यः क्तप्रत्ययः विधीयते इच्छार्थे, बुद्ध्यर्थे, पूजार्थे च तस्य सङ्केतः अस्ति |क्तेन तृतीयान्तं, चाव्ययं, पूजायां सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''पूजायां''' '''षष्ठी सुप् क्तेन सुपा सह न तत्परुषः समासः च ।''' |
|||
यथा— |
|||
राज्ञां मतः = मतः इति क्तप्रत्ययान्तः शब्दः इच्छार्थे अस्ति |मन् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, अतः मतः इति रूपं निष्पन्नं भवति |मतः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण |अतः राजमतः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – राज्ञां मतः इति । |
|||
राज्ञां बुद्धः, = बुद्धः इति क्तप्रत्ययान्तः शब्दः बुद्ध्यर्थे अस्ति |बुध् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, बुद्धः इति रूपं निष्पन्नम् |बुद्धः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः भवति '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण |अतः राजबुद्धः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – राज्ञां बुद्धः इति । |
|||
राज्ञां पूजितः= पूजितः इति क्तप्रत्ययान्तः शब्दः पूजार्थे अस्ति |पूज् इति धातुतः क्तप्रत्ययस्य विधानं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण भवति, पूजितः इति रूपं निष्पन्नम् |पूजितः इति क्तप्रत्ययान्तस्य राज्ञां इति षष्ठ्यन्तेन सुबन्तेन सह समासः भवितुम् अर्हति '''षष्ठी''' (२.२.८) इति सूत्रेण, परन्तु तस्य निषेधः क्रियते '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण |अतः राजपूजितः इति षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – राज्ञां पूजितः इति । |
|||
'''राजपूजितः''' इति तृतीयासमासः क्वचित् दृश्यते लोके, तस्य समर्थनं कथं करणीयः यतोहि उपरि उक्तं समासः न भवति इति? |
|||
राजपूजितः इति समासः दृश्यते परन्तु अत्र पूजितः इति पदं '''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) इति सूत्रेण वर्तमानार्थे न विहितम् अस्ति | परन्तु पूजितः इति क्तप्रत्ययान्तः शब्दः '''निष्ठा''' (३.२.१०२) इति सूत्रेण भूतार्थे विहितः वर्तते | |अतः '''क्तेन च पूजायाम्''' (२.२.१२) इति सूत्रेण समासस्य निषेधः इति विषयः नास्ति | |
|||
सामान्यतः क्तप्रत्ययान्तः शब्दः कर्मार्थे अथवा भावार्थे एव प्रयुक्तः भवति |तथा च क्तप्रत्ययान्तस्य शब्दस्य योगे कर्ता तृतीयाविभक्तिं प्राप्नोति '''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण |अतः राज्ञा जनः पूजितः इति वाक्यं सम्भवति |'''कर्तृकरणयोस्तृतीया''' (२.३.१८) इति सूत्रेण कर्तरि करणे च कारके तृतीयाविभक्तिः भवति | |
|||
तत्पश्चात् राज्ञा पूजितः इति पदयोः तृतीयातत्पुरुषसमासः क्रियते '''कर्तृकरणे कृता बहुलम्''' ( २.१.३२) इति सूत्रेण |'''कर्तृकरणे कृता बहुलम्''' ( २.१.३२) इति सूत्रेण कर्तरि करणे च यत् तृतीयान्तं पदं, तत् पदं कृदन्तेन सह बहुलं समस्यते, तत्पुरुषश्च समासो भवति। |
|||
'''मतिबुद्धिपूजार्थेभ्यश्च''' (३.२.१८८) = मतिः इत्युक्ते इच्छा |बुद्धिः इत्युक्ते ज्ञानम् |पूजा इत्युक्ते सत्कारः |एतदर्थेभ्यः च धातुभ्यः वर्तमानार्थे क्तप्रत्ययः भवति |यथा – राज्ञां मतः |राज्ञाम् इष्टः |राज्ञां बुद्धः |राज्ञां ज्ञातः |राज्ञां पूजितः |राज्ञामर्चितः | |
|||
५) षष्ठ्यन्तं समर्थं सुबन्तम् अधिकरणार्थे विहितस्य क्त्प्रत्ययस्य, तदन्तेन सुबन्तेन सह न समस्यते । |
|||
'''अधिकरणवाचिना च''' (२.२.१३) = अधिकरणार्थे विहितः क्त्प्रत्ययः, तदन्तेन-सुबन्तेन सह षष्ठ्यन्तं समर्थं सुबन्तं न समस्यते |अधिकरणार्थे '''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) इति सूत्रेण क्तप्रत्ययः विधीयते |तादृशस्य क्तप्रत्ययान्तस्य एव अधिकरणवाचिना इति शब्दस्य द्वारा ग्रहणं भवति |अधिकरणं वक्ति इति अधिकरणवाची, तेन |अधिकरणवाचिना तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''क्तेन च पूजायाम्''' (२.२.१२) इत्यस्मात् सूत्रात् क्तेन इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |अनुवृत्ति-सहित-सूत्रम्— '''षष्ठी सुप् अधिकरणवाचिना क्तेन सुपा सह न तत्पुरुषः समासः च।''' |
|||
यथा— |
|||
इदम् एषाम् आसितम् – आस् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, आसित इति प्रातिपदिकं निष्पन्नम् |अधिकरणार्थे आसितम् इति क्तप्रत्ययान्तशब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत्, तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषाम् आसितम् । |
|||
इदम् एषां गतं – गम् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, गत इति प्रातिपदिकं निष्पन्नम् |अधिकरणार्थे गतम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्तः आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां गतम्। |
|||
इदम् एषां भुक्तम् – भुज् इति धातुतः अधिकरणार्थे क्तप्रत्ययः विधीयते, भुक्त इति प्रातिपदिकं निष्पन्नम् |अधिकरणार्थे भुक्तम् इति क्तप्रत्ययान्तस्य शब्दस्य एषाम् इति षष्ठ्यन्तेन शब्देन सह '''षष्ठी''' (२.२.८) इति सूत्रेण यः षष्ठीतत्पुरुषसमासः प्राप्त आसीत् तस्य निषेधः क्रियते '''अधिकरणवाचिना च''' (२.२.१३) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – इदम् एषां भुक्तम्। |
|||
'''क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः''' ( ३.४.७६) = ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः |ध्रौव्यागतिप्रत्यवसानार्थेभ्यः यः क्तो विहितः सः अधिकरणे भवति |ध्रौव्यार्थाः अकर्मकाः, प्रत्यवसानार्थाः अभ्यवहारार्थाः ( food) इति स्वनिकायप्रसिद्धिः| निकाय इत्युक्ते विषयः इत्यर्थः । |
|||
६) ''' '''कृद्योगे कर्मणि या षष्ठी प्राप्ता, तादृशस्य षष्ठ्यन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति | |
|||
'''कर्मणि च''' (२.२.१४) = '''उभयप्राप्तौ कर्मणि''' ( २.३.६६) इति सूत्रस्य द्वारा कर्मार्थे विहितं षष्ठ्यन्तं, तदन्तस्य सुबन्तस्य समर्थेन सुबन्तेन सह समासः न भवति |अर्थात् कर्मणि च या षष्ठी सा न समस्यते |कर्मणि सप्तम्यन्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्—'''कर्मणि षष्ठी सुप् सुपा सह न तत्पुरुषः समासः च।''' |
|||
'''कर्तृकर्मणोः कृति''' (२.४.६५) =कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |कृष्णस्य कृतिः |जगतः कर्ता कृष्णः । |
|||
'''उभयप्राप्तौ कर्मणि''' (२.३.६६) =पूर्वसूत्रेण या षष्ठी प्राप्ता सा अनेन सूत्रेण नियम्यते |तत्र कर्मण्येव षष्ठीविभक्तिः भवति, न तु कर्तरि | |
|||
यथा – |
|||
आश्चर्यः गवां दोहः अगोपेन इति वाक्यम् । |
|||
वाक्यार्थः अस्ति गोपं विहाय अन्यपुरुषः धेनूनां दोहनं करोति इति आश्चर्यस्य विषयः अस्ति |गोः दोहति इति वाक्ये गोः इति कर्मपदम् अस्ति |दोहति इति तिङन्तपदस्य स्थाने यदि कृत्प्रत्ययान्तस्य प्रयोगः क्रियते तर्हि कर्मणि षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण |दुहिर् अर्दने इति धातुतः घञ् प्रत्ययः क्रियते चेत् दोहः इति कृत्प्रत्ययान्तः शब्दः निष्पन्नः भवति |दोहः इति पदस्य कर्म अस्ति गोः इति पदम् |सामान्यतया कर्मणि द्वितीयाविभक्तिः भवति इति जानीमः परन्तु कृत्प्रत्ययस्य योगे कर्मणि द्वितीया न भवति अपि तु षष्ठी भवति '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण |गोः इति कर्मणः कृत्योगे '''उभयप्राप्तौ कर्मणि''' (२.३.६६) इति सूत्रेण षष्ठीविभक्तिः प्राप्यते येन गवाम् इति रूपं सिद्धं भवति |गवां इति षष्ठ्यन्तस्य पदस्य दोहः इति कृदन्त-शब्देन सह यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''कर्मणि च''' (२.२.१४) इति सूत्रेण, अतः षष्ठीतत्पुरुषसमासः न भवति |व्यस्तप्रयोगः एव करणीयः – आश्चर्यः गवां दोहः अगोपेन इति। |
|||
७) कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः |कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | |
|||
'''तृजाकाभ्यां कर्तरि''' (२.२.१५) = कृद्योगे कर्मणि या षष्ठी प्राप्ता, सा कर्त्रर्थे यः तृच्-प्रत्ययः, अक-प्रत्ययः च विहितः, तदन्तेन सुबन्तेन सह न समस्यते | कर्मणि या षष्ठी सा कर्तरि तृचा अकेन च सह न समस्यते |कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः |कृद्योगे कर्तरि या षष्ठी प्राप्ता '''कर्तृकर्मणोः कृति''' (२.४.६५) इत्यनेन, तदन्तस्य सुबन्तस्य कर्त्रर्थे तृच्प्रत्ययान्तेन, अकशब्दान्तेन च सह न समस्यते |अक-शब्देन ण्वुल्-प्रत्ययस्य ग्रहणं भवति |'''ण्वुल्तृचौ''' (३.१.१३३) इति सूत्रेण ण्वुल्-प्रत्ययः विधीयते, अनुबन्धलोपानन्तरं वु इति अवशिष्यते |'''युवोरनाकौ''' ( ७.१.१) इति सूत्रेण वु इत्यस्य स्थाने अक इति आदेशः भवति | अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे अक इति शब्दस्य द्वारा ण्वुल् -प्रत्ययान्तस्य एव ग्रहणं भवति |कर्तरि इति पदं तृजाकाभ्याम् इति पदस्य विशेषणम् अस्ति |अर्थात् तृच् प्रत्ययः अथवा अक प्रत्ययः यः कर्त्रर्थे विहितः इत्यर्थः |तृच् -प्रत्ययः, ण्वुल् -प्रत्ययः च कृत्प्रत्ययौ स्तः |'''कर्तृकर्मणोः कृति''' (२.४.६५) इति सूत्रेण कृत्प्रयोगे कर्तरि कर्मणि च षष्ठीविभक्तिः भवति |तृच् च अकश्च तयोरितरेतरयोगद्वन्द्वः तृजकौ, ताभ्यां तृजकाभ्याम् |तृजकाभ्यां तृतीयान्तं, कर्तरि सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्— '''कर्मणि''' '''षष्ठी सुप् कर्तरि तृजाकाभ्यां सुब्भ्यां सह न तत्पुरुषः समासः ।''' |
|||
यथा— |
|||
अपां स्रष्टा –जलस्य सृष्टिकर्ता इत्यर्थः |अत्र सृज् इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, स्रष्टा इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने | |
|||
आपः इति नित्यं स्त्रीलिङ्गशब्दः अस्ति, अप् इति प्रातिपदिकम् |अपां स्रष्टा इति वाक्ये स्रष्टा इति कृत्प्रत्ययान्तः शब्दः कर्त्रर्थे विहितः अस्ति |स्रष्टा इति कृद्योगे अप्-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः अपाम् इति भवति |अपां स्रष्टा इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण | अतः व्यस्तप्रयोगः एव करणीयः – अपां स्रष्टा इति । |
|||
एवमेव व्रजस्य भर्ता – यः व्रजस्य भरणं करोति इत्यर्थः |अत्र भृ इति धातुतः कर्त्रर्थे तृच् प्रत्ययस्य विधानेन, भर्ता इति पदं निष्पन्नं भवति प्रथमाविभक्तौ एकवचने |भर्ता इति कृद्योगे व्रजशब्दस्य षष्ठीविभक्तिः विधीयते, अतः व्रजस्य इति भवति |व्रजस्य भर्ता इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – व्रजस्य भर्ता । |
|||
ओदनस्य पाचकः – पच् इति धातुतः कर्त्रर्थे ण्वुल्(अक) प्रत्ययं योजयित्वा पाचकः इति पदं निष्पन्नं भवति |पाचकः इति कृद्योगे ओदन-शब्दस्य षष्ठीविभक्तिः विधीयते, अतः ओदनस्य इति भवति |ओदनस्य पाचकः इत्यस्मिन् यः षष्ठीसमासः प्राप्तः '''षष्ठी''' (२.२.८) इति सूत्रेण, तस्य निषेधः क्रियते '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः व्यस्तप्रयोगः एव करणीयः – ओदनस्य पाचकः । |
|||
ईक्षूणां (sugarcane) भक्षणम् = इक्षुभक्षिका |भक्षिका इति कृदन्तं पदम् अस्ति तथापि अत्र षष्ठीसमासः दृश्यते, किमर्थम्? |
|||
'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रे कर्तरि इति उक्तम्, तस्य प्रयोजनं किम्? |
|||
कर्त्रर्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह एव षष्ठीतत्पुरुषसमासः निषिध्यते |भावार्थे विहितस्य तृच् प्रत्ययान्तेन शब्देन अथवा ण्वुल् प्रत्ययान्तेन शब्देन सह यः षष्ठीसमासः भवति तस्य निषेधः न भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |अतः इक्षुभक्षिका इति षष्ठीसमासः भवति यतः ण्वुल्-प्रत्ययः भावार्थे विहितः अस्ति |भक्ष् इति धातुतः धात्वर्थनिर्देशार्थं भावार्थे ण्वुल् प्रत्ययः क्रियते चेत् भक्षिका इति रूपं निष्पन्नम् |ईक्षूणां भक्षणम् इत्यस्मिन् कर्त्रर्थे ण्वुल् प्रत्ययः नास्ति भावार्थे एव अस्ति इत्यतः षष्ठीसमासः सम्भवति |अतः इक्षुभक्षिका इति षष्ठीसमासः भवति | |
|||
पत्यर्थस्य भर्तृ-शब्दस्य तु याजाकादित्वात् समासः – भुवः भर्ता |भर्तृ-शब्दस्य द्वौ अर्थौ स्तः – पतिः, भरणं च |यदि पतिः इत्यस्मिन् अर्थे भर्तृ-शब्दः प्रयुज्यते तदा तु सः शब्दः याजकादिगणे पठितः अतः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः प्राप्यते | |अर्था याजकादिगणपाठसामर्थ्यात् कर्त्रर्थकप्रत्ययस्य योगे अपि प्रकृतसूत्रेण विधीयमानः षष्ठीसमासनिषेधः प्रवृत्तः न भवति अपितु विशेषविधानस्य कारणेन '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रस्य बाधकं सूत्रं भवति '''याजकादिभिश्च''' (२.२.९) इति सूत्रम् |अतः भुवः भर्त्ता इति विग्रहे '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण '''भूभर्ता''' इति समासः सिद्ध्यति |भूभर्ता नाम पृथिव्याः पतिः इति |एवं '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रं बाधित्वा '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण समासः क्रियते, अतः प्रतिप्रसवः इति उच्यते |बाधकस्य बाधकः प्रतिप्रसवः इति उच्यते |आदौ षष्ठीसमासस्य प्राप्तिः, तस्य निषेधः भवति '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण |पुनः '''याजकादिभिश्च''' (२.२.९) इति सूत्रेण विशेषविधानं क्रियते येन षष्ठीसमासः पुनः विधीयते |अयमेव प्रतिप्रसवः इत्युच्यते | |
|||
त्रिभुवनस्य विधाता = त्रिभुवनविधाता |अत्र समासः कथं सिद्ध्यति यतोहि विधाता इति तृजन्तः शब्दः अस्ति अतः अत्र '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासः निषिध्यते खलु ? |
|||
तस्य समाधानं काशिकायां दीयते यत् विधातृ इति वस्तुतः तृच्प्रत्ययान्तः शब्दः नास्ति अपि तु तृन्प्रत्ययान्तः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण केवलं तृजन्तस्य पदस्य एव समासः निषिध्यते न तु तृन्-प्रत्ययान्तरस्य |अत्रतु विधातृ इति प्रातिपदिकं तृन्प्रत्ययं योजयित्वा निर्मितम् अस्ति, अतः '''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण निषेधः प्रवृत्तः न भवति |अतः त्रिभुवनविधाता इति षष्ठीसमासः सिद्ध्यति |त्रिभुवनम् इति पदम् अपि समस्तपदमेव |तस्य विग्रहः अस्ति त्रयाणां भुवनानां समाहारः इति |अयं द्विगुसमासः अस्ति |तस्य विवरणम् अग्रे करिष्यते | |
|||
'''याजकादिभिश्च''' (२.२.९) = षष्ठ्यन्तं सुबन्तं यजकादिभिः सुबन्तैः सह समस्यते, तत्पुरुषश्च समासो भवति |याजकः आदिर्येषां ते याजकादयः तैः याजकादिभिः |याजकादिभिः तृतीयान्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |अनुवृत्ति-सहित-सूत्रम्— '''षष्ठी सुप् याजकादिभिः सुब्भिः सह विभाषा तत्परुषः समासः च।''' |
|||
८) कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः | |
|||
'''कर्तरि च''' (२.२.१६) = कर्त्रर्थे षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः न भवति |कर्तरि षष्ठ्या अकेन न समासः |अक इति स्वयं प्रत्ययः नास्ति परन्तु ण्वुल्-प्रत्ययस्य स्थाने अक इति आदेशः भवति |कर्तरि सप्तम्यन्तं, चाव्ययम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''विभाषा''' (२.१.११) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''न निर्धारणे''' (२.२.१०) इत्यस्मात् सूत्रात् न इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्— '''कर्तरि''' '''षष्ठी सुप् अकेन सुपा सह विभाषा न तत्पुरुषः समासः च।''' |
|||
यथा— |
|||
भवतः शायिका = शीङ् स्वप्ने इति धातुतः ण्वुल् प्रत्ययं योजयित्वा शायिका इति स्त्रीलिङ्गपदं निष्पन्नम् |भवतः इति शब्दे कर्त्रर्थे षष्ठीविभक्तिः अस्ति |भवतः शायिका, अनयोः पदयोः योगे यः षष्ठीसमासः प्राप्तः, तस्य निषेधः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रेण |अतः भवत्शायिका इति समासः न भवति | |
|||
'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् केवलं अक इत्यस्य अनुवृत्तिः भवति '''कर्तरि च''' (२.२.१६) इति सूत्रे |अत्र तृच् इत्यस्य अनुवर्तनं न भवति यतो हि तृच् प्रत्ययः '''कर्तरि कृत्''' ( ३.४.६७) इति सूत्रस्य आधारेण कर्त्रर्थे एव विधीयते |फलितार्थः एवं यत् यदि प्रत्ययः कर्त्रर्थे अस्ति तर्हि कर्ता उक्तः भवति तेनैव प्रत्ययेन |कर्ता उक्तः इति कारणेन कर्तुः प्रथमा भवति अतः कर्त्रर्थे षष्ठी न भवत्येव |यदा कर्त्रथे षष्ठी एव न सम्भवति तर्हि तया सह समासस्य प्रसङ्गः अपि न सम्भवति |यदि प्राप्तिः एव नास्ति तर्हि तस्य निषेधः कथं वा स्यात्। |
|||
षष्ठीसमासनिषेधकप्रकरणं समाप्तम् |अग्रे एकं सूत्रम् अस्ति षष्ठीसमासस्य विषये |अधुना पर्यन्तं समाससूत्रेषु '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः इत्यनेन कारणेन समासस्य विधिः विकल्पेन भवति स्म |अग्रेमे सूत्रे समासः नित्यं भवति |तदनन्तरं पुनः समासः विकल्पेन भवति | |
|||
क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य अकप्रत्ययान्तेन सुबन्तेन सह समासः नित्यः, तत्पुरुषश्च समासो भवति। |
|||
'''नित्यं क्रीडा जीविकयोः''' (२.२.१७) = क्रिडायां, जीविकायां च षष्ठ्यन्तस्य सुबन्तस्य, अकप्रत्ययान्तेन सुबन्तेन सह नित्यं समासः, तत्पुरुषश्च समासो भवति |नित्यम् इति पदस्य ग्रहणेन आगम्यमाना विभाषा इति अधिकारस्य निवृत्तिः भवति |समासस्य नित्यता इति कारणेन पक्षे विग्रहवाक्यं न भवति | क्रीडा च जीविका च तयोरितरेतरयोगद्वन्द्वः क्रीडाजीविके, तयोः क्रीडाजीविकयोः |नित्यमिति क्रिया विशेषणं द्वितीयान्तं, क्रीडाजीविकयोः सप्तम्यन्तम् |'''सुबामन्त्रिते पराङ्गवत् स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति |'''प्राक्कडारात्समासः''' (२.१.३) इत्यस्मात् सूत्रात् समासः इत्यस्य अधिकारः |'''सह सुपा''' (२.१.४) इत्यस्य अधिकारः |'''षष्ठी''' (२.२.८) इत्यस्मात् सूत्रात् षष्ठी इत्यस्य अनुवृत्तिः |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इत्यस्मात् सूत्रात् अक इत्यस्य अनुवृत्तिः भूत्वा तस्य विभक्तेः परिवर्तनं कृत्वा अकेन इति तृतीयान्तं पदं भवति |'''तत्पुरुषः''' (२.१.१२) इत्यस्य अधिकारः ।अनुवृत्ति-सहित-सूत्रम्— '''षष्ठी सुप् अकेन सुपा सह नित्यं तत्पुरुषः समासः ।''' |
|||
क्रीडा इत्यस्य उदाहरणम् – |
|||
उद्दालकपुष्पाणां भञ्जनम् = उद्दालकपुष्पभञ्जिका (उद्दालकानां पुष्पाणि भज्यते यत्र क्रीडायां ण्वुल्-प्रत्ययः- a sort of game played by the people in which Uddālaka flowers are broken or crushed). |
|||
उद्दालकस्य पुष्पाणि इति षष्ठीसमासः भूत्वा तदनन्तरम् उद्दालकपुष्पाणां भञ्जनम् इति उद्दालकपुष्पभञ्जिका इति समासः भवति |भञ्ज् इति धातुतः '''संज्ञायाम्''' (३.३.१०९) इति सूत्रेण भावार्थे ण्वुल् प्रत्ययः विधीयते |अलौकिकविग्रहः – |
|||
उद्दालकपुष्प +आम् + भञ्जिका +सु |अत्र '''कर्तरि च''' (२.२.१६) इति सूत्रेण षष्ठीसमासः निषिध्यते , तस्य प्रतिप्रसवः भवति '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इत्यनेन सूत्रेण अतः षष्ठीसमासः पुनः विधीयते नित्यरूपेण |समाससंज्ञानन्तरं समासस्य प्रातिपदिकसंज्ञा भवति, सुब्लिक् भवति, उद्दालकपुष्प इत्यस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति |अतः उद्दालकपुष्पभञ्जिका इति समासः निष्पध्यते |अत्र समासः नित्यः अतः विग्रहवाक्यं न भवति | |
|||
जीविकाम् इत्यस्य उदाहरणम् – |
|||
दन्तानां लेखकः = दन्तलेखकः |दन्तानां कला-विशेषेण यः जीविकां चालयति अथवा लोकप्रचलितानां कथानां लेखकः दन्तलेखकः इति उच्यते |यः तादृशीं कथां लिखित्वा जीवनं चालयति इत्यर्थः |दन्तानां लेखनेन जीवति इति अस्वपद-विग्रहवाक्यम् |अत्र लिख् इति धातुतः ण्वुल् प्रत्ययं योजयित्वा, अकादेशं कृत्वा लेखकः इति रूपं सिद्धम् |'''तृजाकाभ्यां कर्तरि''' (२.२.१५) इति सूत्रेण षष्ठीसमासस्य निषेधः प्राप्तः आसीत् |अधुना '''नित्यं क्रीडा जीविकयोः''' (२.२.१७) इति सूत्रेण तस्य प्रतिप्रसवः भूत्वा नित्यसमासः भवति | अतः दन्तलेखकः इति समासः निष्पद्यते । |
|||
ओदनस्य भोजकः इत्यत्र समासः नास्ति यतोहि क्रीडा अथवा जीविका इत्यस्मिन् अर्थे नास्ति षष्ठ्यन्तं पदम् | |
|||
'''तत्पुरुषोऽनञ् कर्मधारयः''' (२.४.१९) = अधिकारसूत्रम् अयम् उत्तरसूत्रेषु उपतिष्ठते |यद्यपि इदं सूत्रम् अधिकारसूत्रम् अस्ति तथापि यदि एतस्य सूत्रस्य अर्थस्य अपेक्षा वर्तते तदा सूत्रार्थः एवं भवति - नञ्समासं कर्मधारयं च वर्जयित्वा अन्ये तत्पुरुषसमासाः नपुंसकलिङ्गे भवन्ति |अस्य सूत्रस्य अधिकारः '''विभाषा सेनासुराच्छायाशालानिशानाम्''' ( २.४.२५) इति सूत्रं पर्यन्तम् अस्ति | नञ् च कर्मधार्यश्च तयोः समाहारद्वन्द्वः नञ्कर्मधारयः, सौत्रं पुंस्त्वम् |न नञ्कर्मधार्यः अनञ्कर्मधारयः |तत्पुरुषः प्रथमान्तम्, अनञ्कर्मधारयः प्रथमान्तम् |'''स नपुंसकम्''' (२.४.१७) इत्यस्मात् सूत्रात् नपुंसकम् इत्यस्य अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रं— '''तत्पुरुषोऽनञ् कर्मधारयः नपुंसकम्।''' |
|||
इति सामान्यतत्पुरुषसमासः इति विषयः समाप्तः। |