14---samAsaH/03A---tatpuruShasamAsaH---sAmAnyatatpuruSHa-samAsaH: Difference between revisions
Vamsisudha (talk | contribs) No edit summary |
Vamsisudha (talk | contribs) No edit summary |
||
Line 24: | Line 24: | ||
=== '''<big>पञ्च उपाङ्गानि</big>''' === |
=== '''<big>पञ्च उपाङ्गानि</big>''' === |
||
<big>समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति | इमानि पञ्च उपाङ्गनि सन्ति—</big |
<big>समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति | इमानि पञ्च उपाङ्गनि सन्ति—</big> |
||
==== <big>१) '''प्रातिपदिकसंज्ञा'''</big> ==== |
|||
<big>समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |</big |
<big>१) '''प्रातिपदिकसंज्ञा''' = समासस्य प्रातिपदिकसंज्ञा विधीयते '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |</big> |
||
⚫ | |||
⚫ | |||
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |</big> |
<big>'''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति '''उपसर्जनं पूर्वम्''' (२.२.३०) इति सूत्रेण |</big> |
||
Line 56: | Line 59: | ||
==== <big>'''तत्पुरुषः''' (२.१.२२)</big> ==== |
==== <big>'''तत्पुरुषः''' (२.१.२२)</big> ==== |
||
<big>तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम्''' |</big> |
<big>तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | '''सूत्रं स्वयं सम्पूर्णम्''' |</big> |
||
<big>तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— '''१) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |''' अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |</big> |
<big>तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— '''१) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति |''' अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |</big> |
||
=== '''<big>अ) सामान्यतत्पुरुषसमास:</big>''' === |
|||
<big>सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तिनां प्रयोगः भवति |</big> |
|||
<big>सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –</big> |
|||
<big>१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;</big> |
|||
<big>२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;</big> |
|||
<big>३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;</big> |
|||
<big>४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;</big> |
|||
<big>५) सप्तमी-तत्पुरुषसमासः, यथा - कर्मणि कुशलः = कर्मकुशलः ;</big> |
|||
<big>६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |</big> |
|||
<big>यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते, सः एव व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |</big> |
|||
=== '''<big>आ) कर्मधारयसमासः</big>''' === |
|||
<big>तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेषण-विशेष्योः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया |कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति | कर्मधारयः इति संज्ञा दीयते '''तत्पुरुषः सामानाधिकरणः कर्मधारयः''' ( १.२.४२) इति सूत्रेण | अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big> |
|||
=== '''<big>इ) द्विगुसमासः</big>''' === |
|||
<big>तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः; ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् | '''द्विगुश्च''' (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दीयते |</big> |
|||
==== '''<big>ई) नञ्प्रभृतयः</big>''' ==== |
|||
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big> |
|||
'''<big>ई) नञ्प्रभृतयः</big>''' |
|||
<big>तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |</big> |
|||
<big>१) '''नञ्समासः''' = नञ् इति किञ्चन अव्ययम् अस्ति | तत् सुबन्तेन समासं प्राप्नोति '''नञ्''' (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते | यथा – न धर्मः = अधर्मः |</big> |
|||
<big>२) '''कुसमासः,''' ३) '''गतिसमासः,''' ४) '''प्रादिसमासः च''' = एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | '''कुगतिप्रादयः''' (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |</big> |
|||
<big>कुमासः = कुशब्दः सुबन्तेन नित्यं समस्यते | यथा – कुत्सितः पुरुषः = कुपुरुषः |</big> |
|||
<big>गतिसमासः = गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते | यथा – अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य |</big> |
|||
<big>प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |</big> |
|||
<big>५) '''उपपदसमासः'''</big> |
|||
<big>उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |</big> |
|||
<big>अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषये सूत्रसहितं विवरणं पठिष्यामः |</big> |
|||
<big>तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –</big> |
Revision as of 17:25, 15 June 2021
२०२१ ध्वनिमुद्रणानि
१) tatpuruShasamAsaH- paricayaH_ 2021-06-05 |
२) tatpuruShasamAsaH-- samAsAntHAH+ dvitiiyatatpuruSHaH_ 2021-06-12 |
तिङन्तपदस्य निर्माणे मातॄणां पद्धति: वैज्ञानिकी, तर्कपूर्णा इति तु वयं जानीमः एव, किन्तु समासपाठ्यक्रमे अपि मातुः पद्धत्यां वैलक्ष्ण्यं वर्तते एव | माता समासपाठस्य विज्ञानं, समग्रहचिन्तनं च पाठयति यत् न वैयाकरणसिद्धान्तकौमुद्यां न वा लघुसिद्धान्तकौमुद्यां न वा अन्यत्र कुत्रापि लभ्यते | समासप्रकरणस्य अध्यापनार्थं, छात्राणां सुखबोधनार्थं च मातृभिः समासप्रक्रियायां पञ्च उपाङ्गानि कृतानि | एतादृशक्रमेण समासप्रसङ्गे कीदृशकार्याणि भवितुम् अर्हन्ति; तत्सम्बद्धसूत्राणि च अष्टाध्यायां कुत्र वर्तन्ते इत्यपि ज्ञायते ।
समासप्रकरणस्य अध्ययने मातुः पाठ्यक्रमः न केवलं विलक्षणः, सरलः अपि अस्ति येन सुलभतया अर्थबोधः जायते | बहूनां विद्यार्थीनां भ्रमः जायते वैयाकरणसिद्धान्तकौमुदीं पठित्वा परन्तु मातुः पाठ्यक्रमे समासपाठः पठ्यते चेत् निश्चयेन बोधः भवत्येव | मातुः पाठे समासप्रक्रियायां पञ्च उपाङ्गानि सन्ति | एतस्य विवरणम् अग्रे दीयते ।
पञ्च उपाङ्गानि
समासप्रक्रियायां समस्तपदस्य निर्माणार्थं पञ्चोपाङ्गप्रसङ्गे क्रमेण चिन्तनीयं भवति | इमानि पञ्च उपाङ्गनि सन्ति—
१) प्रातिपदिकसंज्ञा = समासस्य प्रातिपदिकसंज्ञा विधीयते कृत्तद्धितसमासाश्च (१.२.४६) इति सूत्रेण | सामान्यतया प्रातिपदिकसंज्ञानन्तरं पूर्वोत्तरपदयोः विभक्तिप्रत्ययस्य लोपः क्रियते सुपो धातुप्रातिपदिकयोः (२.४.७१) इति सूत्रेण | सर्वत्र विभक्तेः लुक् भवति इति नास्ति, तस्य अपवादाः सन्ति | अष्टाध्यायां (६.३.१) इत्यस्मात् सूत्रात् आरभ्य (६.३.२४) इति सूत्रपर्यन्तं पूर्वपदस्य विभक्तेः अलुक् भवति | उत्तरपदे इति अधिकारे सुब्-अलुक् इति एकं कार्यम् अस्ति |
२) पूर्वनिपातः
प्रथमानिर्दिष्टं समास उपसर्जनम् (१.२.४३) इति संज्ञासूत्रेण समासविधायकसूत्रे यत् पदं प्रथमा-विभक्तौ निर्दिष्टम् अस्ति तस्य उपसर्जनसंज्ञा भवति | यस्य पदस्य उपसर्जनसंज्ञा भवति तत् पदं पूर्वं तिष्ठति उपसर्जनं पूर्वम् (२.२.३०) इति सूत्रेण |
३) लिङ्गवचनयोः निर्णयः
समासस्य लिङ्गस्य, वचनस्य च निर्णयः भवति तृतीयस्तरे | समास-वचननिर्णय-सम्बद्धसूत्राणि २.४.१ इत्यस्मात् आरभ्य २.४.१६ इति अन्तपर्यन्तं सन्ति | समास-लिङ्गनिर्णय-सम्बद्धसूत्राणि २.४.१७ इत्यस्मात् आरभ्य २.४.३४ इत्यन्तपर्यन्तं सन्ति ।
४) समासान्तप्रत्ययाः
समासप्रक्रियायां कुत्रचित् समासान्तप्रत्ययः विधीयते इति स्मर्तव्यम् | अष्टाध्यायां समासान्ताधिकारः (५.४.६८) इत्यस्मात् सूत्रात् आरभ्य (५.४.१६०) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे समासे कुत्रचित् समासान्तप्रत्ययाः विधीयन्ते ।
५) उत्तरपदाधिकारः
कुत्रचित् उत्तरपदे इति अधिकारे स्थितस्य सूत्रस्य प्रभावेण पूर्वपदे किञ्चित् कार्यं भवति | अष्टाध्यायाम् उत्तरपदाधिकारः ( ६.३.१) इत्यस्मात् सूत्रात् आरभ्य ( ६.३.१३१) इति सूत्रपर्यन्तम् अस्ति | अस्मिन् अधिकारे उत्तरपदे परे पूर्वपदस्य किञ्चित् कार्यं भवति | यथा विश्वमेव मित्रम् यस्य इति बहुव्रीहिसमासे पूर्वपदस्य स्वरस्य दीर्घत्वं भवति मित्रे चर्षौ ( ६.३.१३०) इति सूत्रेण मित्रशब्दे परे विश्वस्य दीर्घः स्यात् ऋषौ वाच्ये इत्यर्थः, अतः विश्वामित्रः इति समासः सिद्ध्यति |
मातुः पाठ्यक्रमम् अवलम्ब्य अग्रे तत्पुरुषसमासस्य विषये पठामः ।
तत्पुरुषसमासः
ज्ञातविषयः अस्ति यत् समासे पञ्च प्रभेदाः सन्ति – केवलसमासः, अव्ययीभावः, तत्पुरुषः, बहुव्रीहिः, द्वन्द्वः चेति | एतावता अस्माभिः समासपरिचयः प्राप्तः, केवलसमासः, अव्ययीभावसमासः च अधीतः | समासे प्राधान्यनिर्ण्यः कथं भवति इत्यपि ज्ञातवन्तः एव | येन पदार्थेन सह क्रियान्वयः, गुणान्वयः वा भवति सः अर्थः प्राधान्यम् आवहति | एकार्थीभावसामर्थ्यम् अस्ति चेत् एव समासः भवति इत्यपि जानीमः | यदा पदार्थानां मेलनेन एकार्थस्य बोधः जायते तदा समासे एकार्थीभावरूपसामर्थ्यम् अस्ति इति वदामः | एकार्थीभावसामर्थ्यस्य अभावे समासः न भवति | अत्र परिभाषासूत्रं अस्ति समर्थः पदविधिः (२.१.१) इति | समर्थानां पदानामेव समासः भवति |
समर्थः पदविधिः (२.१.१)
पदसम्बन्धी यः विधिः सः समर्थाश्रितो भवेत् | समर्थानां पदानां सम्बद्धार्थानां विधिः इति ज्ञातव्यम् | विधिः नाम कार्यम् इत्यर्थः | एतत् सूत्रं परिभाषासूत्रम् अस्ति |
अधुना तत्पुरुषसमासस्य विषये पठामः |
तत्पुरुषसमासे प्रायेण उत्तरपदार्थस्य प्राधान्यं भवति | यथा राजपुरुषः इति षष्ठीतत्पुरुषसमासः, तस्य लौकिकविग्रहः अस्ति राज्ञः पुरुषः इति | अस्मिन् समासे पुरुषः इति उत्तरपदस्य प्राधान्यम् इत्यतः एव अयं समासः तत्पुरुषसमासः इत्युच्यते | अष्टाध्यायां तत्पुरुषसमास-सम्बद्धसूत्राणि २.१.२२ इति सूत्रात् आरभ्य २.२.२२ इति सूत्रपर्यन्तं सन्ति | एतानि सर्वाणि सूत्राणि तत्पुरुषः (२.१.२२) इति सूत्रयस्य अधिकारे सन्ति।
तत्पुरुषः (२.१.२२)
तत्पुरुषः इति अधिकारसूत्रम् अस्ति | एतस्य सूत्रस्य अधिकारः २.१.२२ - २.२.२२ इति सूत्रं पर्यन्तम् अस्ति | अस्मिन् अधिकारे यानि सूत्राणि सन्ति, तेषां सर्वेषां तत्पुरुषसंज्ञा भवति | अस्मिन् अधिकारे सप्ततिः सूत्राणि सन्ति | तत्पुरुषः प्रथमान्तं, एकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम् |
तत्पुरुषसमासस्य चत्वारः प्रभेदाः सन्ति— १) सामान्यतत्पुरुषसमासः, २) कर्मधारयः, ३) द्विगुः, ४) नञ्प्रभृतयः चेति | अग्रे एतेषां सूत्रसहितं विवरणं द्रक्ष्यामः | अस्मिन् करपत्रे सामान्यतत्पुरुषसमासः प्रस्तुतः अस्ति | अग्रिमेषु करपत्रेषु अन्यान् तत्पुरुषसमासान् पठिष्यामः |
अ) सामान्यतत्पुरुषसमास:
सामान्यतत्पुरुषसमासे विग्रहावस्थायां पूर्वपदे प्रथमाविभक्तिं विहाय अन्यविभक्तिनां प्रयोगः भवति |
सामान्य-तत्पुरुष-समासस्य षट् प्रभेदाः सन्ति –
१) द्वितीया-तत्पुरुषसमासः, यथा- कृष्णं श्रितः = कृष्णश्रितः ;
२) तृतीया-तत्पुरुषसमासः, यथा - गुडेन मिश्रः = गुडमिश्रः ;
३) चतुर्थी-तत्पुरुषसमासः, यथा - यूपाय दारु = यूपदारु ;
४) पञ्चमी-तत्पुरुषसमासः, यथा - चोराद् भयम् = चोरभयम् ;
५) सप्तमी-तत्पुरुषसमासः, यथा - कर्मणि कुशलः = कर्मकुशलः ;
६) षष्ठी-तत्पुरुषसमासः, यथा - राज्ञः पुरुषः = राजपुरुषः |
यः तत्पुरुषसमासः एतेषु प्रभेदेषु अन्यतमः, सः समासः सामान्यतत्पुरुषसमासः इति नाम्ना ज्ञायते | अष्टाध्यायां पाणिनिना प्रथम-तत्पुरुषसमासः न उक्तः एव, परन्तु लोके प्रथम-तत्पुरुषः इति व्यवहारः अपि दृश्यते | वस्तुतस्तु लोके यः प्रथमतत्पुरुषसमासः इति व्यवहारः दृश्यते, सः एव व्याकरणलोके एकदेशिसमासः इति नाम्ना ज्ञायते | अयम् एकदेशिसमासः, षष्ठी-तत्पुरुषसमासस्य अपवादः अस्ति | यथा पूर्वं कायस्य = पूर्वकायः इति एकदेशिसमासः |
आ) कर्मधारयसमासः
तत्पुरुषसमासस्य द्वितीयः प्रभेदः कर्मधारयसमासः इति | कर्मधारयसमासे विशेषण-विशेष्योः समासः भवति | विशेषणपदस्य पूर्वप्रयोगः भवति सामान्यतया |कर्मधारयसमासस्य नवप्रभेदाः सन्ति – १) विशेषण-पूर्वपद-कर्मधारयः, २) विशेषणोत्तरपद -कर्मधारयः, ३) विशेषणोभयपद-कर्मधारयः ४) उपमान-पूर्वपद-कर्मधारयः, ५) उपमानोत्तरपद-कर्मधारयः, ६) अवधारण-पूर्वपद-कर्मधारयः, ७) सम्भावना-पूर्वपद-कर्मधारयः, ८) मध्यमपद-लोप-कर्मधारयः, ९) मयूरव्यंसकादयः चेति | यः कोपि समासः एतेषु प्रभेदेषु अन्यतमः चेत् तस्य नाम कर्मधारयसमासः इति | कर्मधारयः इति संज्ञा दीयते तत्पुरुषः सामानाधिकरणः कर्मधारयः ( १.२.४२) इति सूत्रेण | अस्य विवरणम् अग्रिमे करपत्रे दीयते |
इ) द्विगुसमासः
तत्पुरुषसमासस्य तृतीयः प्रभेदः द्विगुसमासः इति | द्विगुसमासः कर्मधारयसमासस्य एव एकः प्रभेदः अस्ति | विशेषणवाचकं पदं सङ्ख्यावाचकं पदम् अस्ति चेत् तदा समासः द्विगुः इति उच्यते | द्विगुसमासस्य त्रयः प्रभेदाः सन्ति – १) तद्धितार्थद्विगुः, यथा – षण्णां मातॄणाम् अपत्यम् = षाण्मातुरः ; २) उत्तरपदद्विगुः, यथा – पञ्च गावः धनं यस्य सः = पञ्चगवधनः; ३) समाहारद्विगुश्चेति, यथा – पञ्चाणां पात्राणां समाहारः = पञ्चपात्रम् | द्विगुश्च (२.१.२३) इति सूत्रेण द्विगुसमासः अपि तत्पुरुषसंज्ञकः स्यात् | द्विगोः तत्पुरुषत्वे समासान्ताः प्रयोजनम्। अस्य विवरणम् अग्रिमे करपत्रे दीयते |
ई) नञ्प्रभृतयः
तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |
ई) नञ्प्रभृतयः
तत्पुरुषसमासस्य चतुर्थः प्रभेदः नञ्प्रभृतयः इति | नञ्प्रभृतीनां पञ्च प्रभेदाः सन्ति — १) नञ्समासः, २) कुसमासः, ३) गतिसमासः ४) प्रादिसमासः, ५) उपपदसमासः चेति |
१) नञ्समासः = नञ् इति किञ्चन अव्ययम् अस्ति | तत् सुबन्तेन समासं प्राप्नोति नञ् (२.२.६) इति सूत्रेण | नञ् इत्यत्र ञकारस्य इत्संज्ञा भवति, न इति अवशिष्यते | यथा – न धर्मः = अधर्मः |
२) कुसमासः, ३) गतिसमासः, ४) प्रादिसमासः च = एतान् त्रीन् प्रभेदान् मिलित्वा पठामः यतोहि अत्र विधायकं सूत्रम् एकमेव वर्तते | कुगतिप्रादयः (२.२.१८) इत्यनेन कुगतिप्रादयः समर्थेन सुबन्तेन सह नित्यं समस्यन्ते, तत्पुरुषश्च समासो भवति |
कुमासः = कुशब्दः सुबन्तेन नित्यं समस्यते | यथा – कुत्सितः पुरुषः = कुपुरुषः |
गतिसमासः = गतिसंज्ञायुक्तं पदं सुबन्तेन समस्यते | यथा – अशुक्लं शुक्लं कृत्वा = शुक्लीकृत्य |
प्रादिसमासः = प्रादयः नित्यं सुबन्तेन समस्यते | यथा – शोभनः पुरुषः = सुपुरुषः |
५) उपपदसमासः
उपपदं सुबन्तं सुबन्तेन समस्यते | यथा – कुम्भं करोति इति = कुम्भकारः |
अस्मिन् करपत्रे एतेषु तत्पुरुषसमासेषु सामान्यतत्पुरुषसमासस्य विषये सूत्रसहितं विवरणं पठामः | अग्रे अन्येषां विषये सूत्रसहितं विवरणं पठिष्यामः |
तत्पुरुषसमासस्य विषये पञ्च उपाङ्गानि पश्यामः –