14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH: Difference between revisions

14---samAsaH/03A-1---tatpuruShasamAsaH---sAmAnyatatpuruSHasya sAraMshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1,684: Line 1,684:
<big>उदाहरणानि -</big>
<big>उदाहरणानि -</big>

<big>पाणिनेः सूत्रकारस्य = पाणिनिः इति सूत्रकारस्य नाम वर्तते | अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः सामानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्ठीसमासः निषिद्धः वर्तते |</big>
<big>पाणिनेः सूत्रकारस्य (सूत्रकारः पाणिनिः, तस्य) = पाणिनिः इति सूत्रकारस्य नाम वर्तते | अतः पाणिनिः तथा च सूत्रकारः इत्यनयोः सामानाधिकरण्यं वर्तते इति कृत्वा अनयोः षष्ठीसमासः निषिद्धः वर्तते |</big>

<big>तक्षकस्य सर्पस्य = तक्षकस्य, सर्पस्य इति द्वे पदे षष्ठीविभक्तौ स्तः | तक्षकः इति सर्पस्य नाम वर्तते | तक्षकस्य सर्पस्य इत्यत्र द्वयोः पदयोः समानविभक्तिकत्वम् अस्ति इति कारणात् द्वयोः पदयोः सामानाधिकरण्यम् अस्ति | '''षष्ठी''' (२.२.८) इति सूत्रेण यः समासः विधीयते तस्य निषेधः भवति '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण | अतः तक्षकसर्पस्य इति षष्ठीतत्पुरुषसमासः न भवति | व्यस्तप्रयोगः एव करणीयः – तक्षकस्य सर्पस्य इति |</big>

<big>एवमेव राज्ञः पाटलिपुत्रकस्य, शुकस्य माराविदस्य इत्यत्रापि द्रष्टव्यम् |</big>
<big>एवमेव राज्ञः पाटलिपुत्रकस्य (पटनायाः राजा, तस्य), शुकस्य माराविदस्य (माराविदः इति शुकः, तस्य) इत्यत्रापि द्रष्टव्यम् |</big>

<big>'''यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि कः क्लेशः?'''</big>

<big>यदि समानाधिकरणे अपि षष्ठीसमासः जायते तर्हि पूर्वनिपातविषये अनियमः स्यात् | अर्थात् समानाधिकरणे पदद्वयमपि प्रथमानिर्दिष्टं स्यात् | एवञ्चेत् विशेषणविशेष्ययोः मध्ये किं पूर्वं स्यात् इत्यत्र व्यवस्था न शक्यते | कदाचित् विशेष्यं पूर्वं स्यात्, कदाचित् विशेषणं पूर्वं स्यात् | यदि '''षष्ठी''' ( २.२.८) इति सूत्रेण प्राप्तस्य समासस्य प्रतिषेधः स्यात् '''पूरणगुणसुहितार्थसदव्ययतव्यसमानाधिकरणेन''' (२.२.११) इति सूत्रेण तर्हि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण तु समासः भवत्येव | अस्यां स्थित्यां तु विशेषणस्य एव पूर्वनिपातः भवति नियमितरूपेण यतोहि '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रे विशेषणमेव प्रथमानिर्दिष्टं वर्तते | अतः विशेषणस्य एव उपसर्जनसंज्ञा पूर्वनिपातः च भवति |</big>

<big>काशिका, सिद्धान्तकौमुदी इत्यादिषु ग्रन्थेषु समानाधिकरणम् इत्यस्य ''पाणिनेः सूत्रकारस्य'' इत्यादीनि दीयन्ते परन्तु भाष्यकारेण उक्तं यत् एतानि उदाहरणानि समानाधिकरणम् इत्यस्य उदाहरणानि न भवितुम् अर्हन्ति | किमर्थम् इति चेत् - '''षष्ठी''' (२.२.८) इति सूत्रे षष्ठी इति पदमेव प्रथमानिर्दिष्टम् अस्ति इति कृत्वा तस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति  | किन्तु पाणिनेः सूत्रकारस्य इत्यादिषु उदाहरणेषु द्वयोः पदयोः अपि षष्ठीविभक्तिः अस्ति , अतः द्वयोः अपि उपसर्जनसंज्ञा प्राप्ता अस्ति, अपि च द्वयोः अपि पूर्वनिपातः प्राप्तः अस्ति  | एतत् तु अनिष्टम् इत्यतः असामर्थ्यात् षष्ठीसमासः न जायते एव  | एतानि उदाहरणानि षष्ठीसमासार्थम् अयोग्यम् इत्यतः षष्ठीसमासस्य निषेधार्थम् अपि योग्यं नास्ति  | किन्तु '''विशेषणं विशेष्येण बहुलम्''' ( २.१.५७) इति सूत्रेण विशेषणविशेष्ययोः समासः भवितुम् अर्हति यतोहि अनेन सूत्रेण विशेषणस्य एव पूर्वनिपातः भवति | एवं पाणिनिसूत्रकारः इति कर्मधारयसमासः भवत्येव |</big>