14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH: Difference between revisions

From Samskrita Vyakaranam
14---samAsaH/2B--avyayibhavasamasah-dvitiiyabhAgaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
(Created page with " ")
Line 1: Line 1:

{| class="wikitable mw-collapsible mw-collapsed"
!<big>२०२१ ध्वनिमुद्रणानि</big>
|-
|<big>१[https://archive.org/download/samAsaH-pANini-dvArA/37_avyayiibhAvasamAssaH--%20yathAsAdrishyE_2021-01-09.mp4 )  avyayiibhAvasamAssaH-- yathAsAdrishyE_2021-01-09]</big>
|-
|<big>२) [https://archive.org/download/samAsaH-pANini-dvArA/38_avyayiibhAvasamAsaH--yAvadavadhAraNam%2B%20sup%20pratina%20mAtrArthE_2021-01-16.mp4 avyayiibhAvasamAsaH--yAvadavadhAraNam+ sup pratina mAtrArthE_2021-01-16]</big>
|-
|<big>३) [https://archive.org/download/samAsaH-pANini-dvArA/39_avyayiibhAvasamAsaH--%20sup%20pratinA%20mAtrArthe_%202021-01-23.mp4 avyayiibhAvasamAsaH-- sup pratinA mAtrArthe_ 2021-01-23]</big>
|-
|<big>४)  avyayiibhAvasamAsaH-- sup pratinA mAtrArthe+ akSHa shalAkA sankhyAya pariNA_ 2021-01-30</big>
|-
|<big>५)  avyayiibhAvasaMasaH-- apaparibahiraNycavaH panchamyA_ 2021-02-06</big>
|-
|<big>६)   avyayiibhAvasamAsaH-- apa-pari-bahir-aNYcavaH panchamyA _ 2021-02-12</big>
|-
|<big>७) avyayiibhAvasamAsaH-- apa-pari-bahir-aNycavaH panchamyA - udAharaNani_ 2021-02-20</big>
|-
|<big>८) avyayiibhAvasamAsaH--abhyAsaH+ Ang maryAdhAbhividhyoH_ 2021-02-27</big>
|-
|<big>९) avyayiibhAvasamAsaH--Ang maryadhAbhividhyoH+udAharaNani_  2021-03-06</big>
|-
|<big>१०) avyayiibhAvasamAsaH-- lakShaNenAbhipratI, AbhimukhyE_ 2021-03-13</big>
|-
|<big>११) avyayiibhAvasamAsaH--lakshaNenAbhiprati AbhimukhyE- udAharaNAni_ 2021-03-20</big>
|-
|<big>१२) avyayiibhAvasamAsaH- anuryatsamayA_ 2021-03-27</big>
|-
|<big>१३) avyayiibhAvasmAsaH--yasyacAyAmaH_ 2021-04-03</big>
|-
|<big>१४) avyayiibhAvasamAsaH--anuryatsamayA+ tishtadguprabhRitIni ca_ 2021-04-10</big>
|-
|<big>१५)avyayiibhAvasamAsaH-tishtHadguprabhRitIni ca+ pArE madhyE SHaSHThya vA_2021-04-17</big>
|-
|<big>१६) avyayiibhAvasamAsaH- pArE madhyE ShaShTyA vA _ 2021-04-24</big>
|-
|<big>१७) avyayiibhAvasamAsaH- saMkhyA vaMshyEna_ 2021-05-01</big>
|-
|<big>१८)  avyayiibhAvasamAsaH-- nadIbhishca_ 2021-05-08</big>
|-
|<big>१९) avyayiibhAvasamAsaH-- bhAshitapumskam+ anyapadArthe ca saMjYAyAm_2021-05-15</big>
|-
|
|-
|
|-
|
|-
|
|}







=== <big>'''यथाऽसादृश्ये (२.१.७)''' [2]</big> ===


<big>सम्प्रति '''अव्ययीभावः''' ( २.१.५) इति अधिकारे २.१.७ - २.१.२१ इति अन्तपर्यन्तम् यानि अव्ययीभावसम्बद्धसूत्राणि सन्ति, तानि अवलोकयाम | अस्मिन् क्रमे प्रथमं सूत्रम् अस्ति '''यथाऽसादृश्ये''' ( २.१.७) इति| एतावता अस्माभिः ज्ञातमेव यत् यथा इति अव्ययस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | '''यथाऽसादृश्ये''' ( २.१.७) इति सूत्रे यथा इत्यस्य सादृश्यं विहाय अन्येषु अर्थेषु समास: |</big>



<big>2) सादृश्यार्थं विहाय अन्येषु अर्थेषु यथा इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>



<big>'''यथाऽसादृश्ये''' (२.१.७) = सादृश्यम् इति अर्थं विहाय अपरेषु अर्थेषु "यथा" इति अव्ययं समर्थेन सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति | न सादृश्यम् असादृश्यं तस्मिन् आसादृश्ये | यथा अव्ययम्, असादृश्ये सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति | अनुवृत्ति-सहित-सूत्रम्‌— '''असादृष्ये यथा अव्ययं सुप् सुपा सह अव्ययीभावः समासः''' |</big>

<big>यथा इति अव्ययं वीप्सार्थे, योग्याथार्थे च सुबन्तेन सह समस्यते '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण| पदार्थानतिवृत्तिः इत्यस्मिन् अर्थे यथा इत्यस्य समासः सिद्ध्यति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यनेन एव, अतः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रस्य आवश्यकता नास्ति |</big>




<big>यथा—</big>

<big>१) ये ये वृद्धाः = यथावृद्धम् | अत्र यथा इति पदं सादृश्यर्थे नास्ति | ये ये वृद्धाः` इत्यत्र यथाशब्दः वीप्सायां वर्तते, अतः `यथावृद्धम्` इति समासः सिद्धः भवति|</big>

<big>वाक्यं = यथावृद्धं ब्राह्मणानाम् आमन्त्रयस्व | ये ये वृद्धब्राह्मणाः सन्ति तान् आह्वय इत्यर्थः |</big>

<big>२) ये ये अध्यापकाः = यथाध्यापकम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |</big>

<big>३) ये ये छात्राः = यथाछात्रम् | अत्रापि यथाशब्दो वीप्सायां वर्तते |</big>

<big>४) रूपस्य योग्यं = यथारूपम् | अत्र यथाशब्दो योग्यतायां वर्तते |</big>

<big>५) यथा हरिस्तथा हरः – हरेः उपमानत्वं यथाशब्दः द्योतयति | यथा शब्दः सादृश्यार्थं सूचयति| यथा हरिः अस्ति तथैव हरः अपि अस्ति |  यथा हरिस्तथा हरः इति वाक्ये यथा शब्दः सादृस्यार्थे अस्ति, अतः अव्ययीभावसमासः न भवति '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रेण |</big>

<big>६) यथा देवदत्तः तथा यज्ञदत्तः | अस्मिन् वाक्ये यथा शब्दः सादृस्यार्थं सूचयति, अतः अव्ययीभावसमासः न भवति|</big>




<big>प्रश्नः उदेति यत् यथा इति अव्ययस्य '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव अव्ययीभावसमासः सिद्धः, तर्हि किमर्थम् प्रकृतसूत्रे पुनः उक्तः ?</big>



<big>समाधानम् —</big>

<big>यथा इत्यस्य चत्वारः अर्थाः सन्ति - योग्यता, वीप्सा, पदार्थानतिवृत्ति, सादृश्यञ्चेति | एतेषु अर्थेषु  तु समासः प्राप्तः आसीत्</big>

<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव तर्हि प्रकृतसूत्रस्य का आवश्यकता इति पृष्टे सति प्रकृतसूत्रेण प्राप्तसमासस्य निषेधः क्रियते सादृश्यार्थे |</big>

<big>काशिकायाम् उक्तम् अस्ति — यथार्थे यत् अव्ययं पूर्वेण एव सिद्धे समासे सूत्रम् इदं सादृश्यप्रतिषेधार्थम् इति | अर्थात् यथा इति अव्ययस्य समासः सिद्धः अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव, तर्हि किमर्थं पाणिनिना पुनः '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रं कृतम् इति चेत् सादृश्स्यार्थस्य निषेधार्थम् | यथा इति अव्ययस्य सादृश्यं विहाय अन्येषु अर्थेषु एव अत्र अव्ययीभावसमासः उच्यते |</big>

<big>सारांशः = सादृश्यं-योग्यता-वीप्सा-पदार्थानतिवृत्तिः इति रूपे वर्तमानं यथा इति अव्ययं समस्यते इति अर्थस्य यथार्थत्वात्  ( नाम '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इति सूत्रेणैव)  सिद्धे नियमार्थम् '''यथाऽसादृश्ये''' (२.१.७) इति सूत्रम् उच्यते, असादृश्ये एव इति | तर्हि नियमसूत्रं नाम किम् इति अग्रे उच्यते |</big>




''<big>नियमसूत्रं नाम किम् ?</big>''

<big>वस्तुतः प्रकृतसूत्रं केवलं वदति यत्‌ यथा इति अव्ययस्य अव्ययीभावसमासः भवति परन्तु सादृश्यार्थे न |</big>

<big>'''सिद्धे सति आरभ्यमाणो विधिर्नियमाय भवति'''  इति नियमसूत्रस्य लक्षणम् | अयम् अव्ययीभावसमासः पुनः उक्तः '''यथाऽसादृश्ये'''(२.१.७) इति सूत्रे यतोहि अनेन नियमयति; '''यथाऽसादृश्ये'''(२.१.७) इति सूत्रं नियमसूत्रम्‌ | अस्य अव्ययीभावसमासस्य पुनः कथनेन ''केवलम् असादृश्यार्थे, सादृश्यार्थे न'' इति फलितार्थः |</big>


:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]


----



=== <big>'''यावदवधारणे (२.१.८)''' [3]</big> ===

<big>3) अवधारणार्थे यावत् इति अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>


<big>'''यावदवधारणे''' (२.१.८) = अवधारणार्थे यावत् इति अव्ययस्य समर्थेन सुबन्तेन सह समस्यते |  अवधारणं नाम निश्चयः (indication of a number) | इयत्तापरिच्छेदे गम्ये यावत् इति अव्ययं समस्यते, सोऽव्ययीभावः इत्यर्थः | यावद् अव्ययम्, अवधारणे सप्तम्यन्तम् | '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति| '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''   ( २.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः भवति| अनुवृत्ति-सहित-सूत्रम्‌— '''अवधारणे यावत् अव्ययं सुप्  सुपा सह अव्ययीभावः समासः |'''</big>




<big>यथा –</big>

<big>१) यावन्ति पत्राणि = यावत्पत्रम् | यावन्ति पत्राणि तावन्ति भोजनानि |  यावत् इति शब्दः अवधारणार्थे अस्ति यतो हि कति पत्राणि इति गणयितुं शक्यते |</big>

<big>२) यावन्तः श्लोकाः तावन्तः अच्युतप्रणामाः = यावच्छ्लोकम् | प्रेत्येकस्मिन् श्लोके ईश्वरस्य प्रणमनं भवति एव | यावत् इति शब्दः अवधारणार्थे अस्ति |</big>

<big>अलौकिकविग्रहवाकयं = यावत् + श्लोक + जस् | अत्र '''यावदवधारणे''' (२.१.८) इति सूत्रेण अव्ययीभावसमासः भवति | प्रक्रिया यथा पूर्वं प्रदर्शिता |</big>

<big>यावत् + श्लोक इति प्रातिपदिकम्, अधुना सन्धिकार्याणि करणीयानि |</big>

<big>यावद् + श्लोक '''→ झलां जशोऽन्ते''' (८.२.३९) इत्यनेन जश्त्वं येन तकारस्य स्थाने दकारादेशः भवति पदान्ते | यावत् इत्यस्य पदसंज्ञा अस्ति इति स्मर्तव्यम् |</big>

<big>यावज्+ श्लोक '''→ स्तोः श्चुना श्चुः''' (८.४.४०) इत्यनेन दकारस्य स्थाने जकारादेशः भवति शकारस्य प्रभावेण |</big>

<big>यावच् + श्लोक '''→ खरि च''' (८.४.५५) इत्यनेन झलः स्थाने चरादेशो भवति खरि परे | अतः जकारस्य स्थाने चकारादेशः भवति |</big>

<big>यावच् + छ्लोक '''→ शश्छोऽटि''' (८.४.६३) इत्यनेन पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | यावच् इत्यत्र चकारः पदान्ते विद्यमानः झयवर्णः, तस्य अनन्तरं शकारः अस्ति | शकारस्य अनन्तरं लकारः अम्वर्णः अस्ति अतः  '''शश्छोऽटि''' (८.४.६३) इत्यनेन शकारस्य स्थाने छकारादेशो भवति | '''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |</big>

<big>यावच्छ्लोक इति प्रातिपदिकं निष्पन्नं, तस्मात् सुबुत्पत्तिः भूत्व यावच्छ्लोकम् इति अव्ययीभावसमासः सिद्धः भवति | समासे सन्धिः नित्यः इत्यतः एकमेव रूपं भवति |</big>

<big>३) यावान्तः कालाः = यावत्कालम्</big>

<big>४) यावत्यः आसन्द्यः = यावदासन्दि | आसन्दी इति प्रातिपदिकम् |</big>

<big>५) यावन्तः मन्त्राः, तावन्तः पुष्पाणि = यावन्मन्त्राः |</big>

<big>६) यावत्यः कथाः = यावत्कथम् |</big>

<big>अन्यत् उदाहरणम् – यावद् दत्तम् तावद् भुक्तम् | अस्य  अव्ययीभावसमासः न भवति '''यावदवधारणे''' (२.१.८) इति सूत्रेण यद्यपि यावत् इति शब्दः अस्ति यतोहि भुक्तम् इति पदम् अवधारणार्थे नास्ति |</big>


{| class="wikitable mw-collapsible"
|+
|
==== <big>'''झलां जशोऽन्ते''' (८.२.३९)</big> ====



<big>पदान्ते झलः स्थाने जशादेशो भवति | पदात्‌ परे कोऽपि वर्णः स्यात्‌ वा न वा, सूत्रस्य प्रसक्तिः अस्ति एव | पदात्‌ परे अच्‌ स्यात्‌ हल्‌ स्यात्‌ वा, सूत्रस्य प्रसक्तिः अस्ति एव | बाधकसूत्रम्‌ अस्ति चेत्‌ अन्या वार्ता | झल्‌ प्रत्याहारे पञ्चमवर्गीय-व्यञ्जनानि वर्जयित्वा सर्वाणि वर्गीयव्यञ्जनानि (नाम अननुनासिक-वर्गीयव्यञ्जनानि), अपि च श्‌, ष्‌, स्‌, ह्‌ | प्रयोगे वर्गाणां प्रथमः, द्वितीयः, तृतीयः, चतुर्थश्च वर्णाः आयान्ति | जश्‌ प्रत्याहारे वर्गाणां तृतीयवर्णः—ज्‌, ब्‌, ग्‌, ड्‌, द्‌ इति | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन कवर्गीयाणां स्थाने गकारः, चवर्गीयाणां स्थाने जकारः, तवर्गीयाणां स्थाने दकारः, टवर्गीयाणां स्थाने डकारः, पवर्गीयाणां स्थाने बकारः इति | तर्हि पदस्य अन्ते झल्‌-प्रत्याहारे कश्चन वर्णः अस्ति चेत्‌, स्थाने तस्य वर्गस्य तृतीयवर्णादेशः भवति | अयं जश्त्वसन्धिः इत्युच्यते | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्‌, अन्ते सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''पदस्य अन्ते झलां जशः''' |</big>
|-
|
==== <big>'''स्तोः श्चुना श्चुः''' (८.४.४०)</big> ====


<big>सकारस्य तवर्गस्य च स्थाने शकारस्य चवर्गस्य च आदेशः भवति, शकारस्य चवर्गस्य च योजनेन | '''यथासंख्यमनुदेशः समानाम्‌''' (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम्‌ अनुदेशिनां च यथाक्रमम्‌ उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | स्‌ च तुश्च स्तुः तस्य स्तोः, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, तेन श्चुना, समाहारद्वन्द्वः | श्‌ च चुश्च श्चुः, समाहारद्वन्द्वः | स्तोः षष्ठ्यन्तं, श्चुना तृतीयान्तं, श्चुः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''स्तोः श्चुना श्चुः संहितायाम्''' |</big>

|-
|

====<big>'''खरि च''' (८.४.५५)</big>====
<big>झलः स्थाने चरादेशो भवति खरि परे | खरि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | '''झलां जश्‌ झशि''' (८.४.५३) इत्यस्मात्‌ झलां इत्यस्य अनुवृत्तिः; '''अभ्यासे चर्च''' (८.४.५४) इत्यस्मात्‌ चर्च इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''झलां चर्‌ खरि च संहितायाम्''' ‌|</big>


|-
|
==== <big>'''शश्छोऽटि''' (८.४.६३)</big> ====
<big>पदान्तस्य झयः उत्तरस्य शकारस्य अटि परे छकारादेशो भवति अन्यतरस्याम्‌ | शः षष्ठ्यन्तं, छः प्रथमान्तम्‌, अटि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''झयो होऽन्यतरस्याम्‌''' (८.४.६२) इत्यस्मात्‌ झयः च अन्यतरस्त्याम्‌ चेत्यनयोः अनुवृत्तिः | '''वा पदान्तस्य''' (८.४.५९) इत्यस्मात्‌ पदान्तस्य इत्यस्य अनुवृत्तिः; विभक्तिपरिणामेन 'पदान्तात्‌' | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अट्‌ प्रत्याहारे सर्वे स्वराः, ह्‌, य्‌, व्‌, र् चान्तर्भूताः | अनुवृत्ति-सहितसूत्रं— '''पदान्तात्‌ झयः शः छः अटि संहितायम्‌ अन्यतरस्याम्‌''' |</big>

<big>'''छत्वममीति वाच्यम्‌''' इति वार्तिकेन इदं कार्यं न केवलम्‌ अटि परे अपि तु अमि परेऽपि |</big>

<big>धेयं यत्‌ '''शश्छोऽटि''' इति सूत्रं त्रिपादी सूत्रम्‌ अतः प्रथमं जश्त्वं, श्चुत्वं, चर्त्वम्‌ इत्यादिकं करणीयम्‌ | सामान्यतया चर्त्वम्‌ अन्तिमं फलम्‌ अतः यद्यपि झयः उक्तः, परन्तु व्यवहारे शः प्राक् चर् इति सामान्यम्‌ |</big>

|}
:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]


----

=== <big>'''सुप् प्रतिना मात्रार्थे ( २.१.९)''' [4]</big> ===


<big>4) मात्रार्थे अव्ययं सुबन्तेन सह समस्यते, अव्ययीभावसमासः च भवति|</big>


<big>'''सुप् प्रतिना मात्रार्थे''' ( २.१.९) =   समर्थः सुबन्तपदं  मात्राऽर्थे वर्तमानेन प्रतिना शब्देन सह समस्यते, अव्ययीभावश्च समासो भवति| मात्रा इति शब्दस्य पर्यायशब्दाः - बिन्दुः, स्तोकं, लेशः, अल्पम् इत्यादयः | प्रति इति अव्ययं मात्रार्थं द्योतयति | सुप्  प्रथमान्तं, प्रतिना तृतीयान्तं, मात्रार्थे सप्तम्यन्तम् | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|  '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति| '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌— '''  सुप् मात्रार्थे  प्रतिना सुपा सह अव्ययीभावः समासः |'''</big>

<big>अस्मिन् सूत्रे सुप् इति शब्दः प्रथमाविभक्तौ अस्ति, अतः तस्य '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण उपसर्जन-संज्ञा भवति | उपसर्जन-संज्ञानन्तरं सुप् इति शब्दस्य पूर्वनिपातः भवति '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण | सुबन्तपदं समासे पूर्वं तिष्ठति इत्यर्थः निष्पन्नः | सुबन्तपदं पूर्वपदे भवति, उत्तरपदं प्रति इति अव्ययपदं भवति | अयं समासः नित्यः, न तु वैकल्पिकः  यतोहि '''विभाषा''' ( २.१.११) इत्यस्मात् सूत्रात् पूर्वम् अस्ति|</big>



<big>अस्मिन् सूत्रे किमर्थं '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिम् निराकृत्य साक्षात् सूत्रे एव सुप् इति उक्तम् ?</big>

<big>अस्य समाधानम् एव यत् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इत्यस्मात् सूत्रात् अव्ययम् इत्यस्य अनुवृत्तिः मा भूत् इति कृत्वा सूत्रे एव सुप् इति साक्षात् उक्तम् |</big>



<big>यदि '''सुप् प्रतिना मात्रार्थे''' ( २.१.९)  इति सूत्रे सुप् इति नोक्तं तर्हि सुप् इत्यस्य अनुवृत्तिः भवति '''सुबामन्त्रिते पराङ्गवत्‌ स्वरे''' (२.१.२) इत्यस्मात् सूत्रात् , तेन सह अव्ययम् इत्यस्य अपि अनुवृत्तिः भवति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  ( २.१.६) इत्यस्मात् सूत्रात् | एतादृशः अनुवृत्तिक्रमः आसीत् पूर्वसूत्रपर्यन्तम् | तर्हि अस्मिन् सूत्रे अपि तथैव भवति | परन्तु तथा भवति चेत् कः क्लेशः इति अग्रे उच्यते |</big>


<big>यदि सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अभविष्यत् प्रकृतसूत्रे तर्हि पदद्वयम् अपि प्रथमान्तं पदम् अभविष्यत्| अव्ययम् इत्यस्य प्रथमान्तम् इति कारणेन तस्य द्वारा निर्दिष्टस्य प्रति इति अव्ययस्य अपि प्रथमा अभविष्यत् | अनेन प्रति इति शब्दस्य उपसर्जनसंज्ञा भूत्वा तस्य पूर्वनिपातः अभविष्यत् |  अस्यां स्थितौ  अनुवृत्ति-सहित-सूत्रं भवति ‌— ''' मात्रार्थे प्रति अव्ययं सुप् सुपा सह अव्ययीभावः समासः |  '''अस्यां स्थित्यां प्रति इति अव्ययं शाकः इति सुबन्तेन सह समस्यते चेत् प्रतिशाकम् इति समासः सिद्धः भवति | परन्तु तन्नेष्यते यतोहि समासे प्रति इति अव्ययम् उत्तरपदे स्यात् | लोके तु  शाकप्रति इति एव समासः विद्यते यत्र अव्ययपदम् उत्तरपदे अस्ति न तु पूर्वपदे, अतः एतादृशसमासानां साधनार्थमेव प्रकृतसूत्रे सुप् इति पदं स्थापितम् अस्ति  पाणिनिना | अर्थात् पूर्वाभ्यां सूत्राभ्यां सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तेः निवारणार्थं प्रकृतसूत्रे एव सुप् इति उक्तम् |</big>


<big>अन्यविषयः कः इति चेत् प्रकृतसूत्रे प्रति इति शब्दः तृतीयाविभक्तौ अस्ति | अतः कथं वा तस्य प्रथमायां परिवर्तनं भवति इत्यपि प्रश्नः उदेति | यदि चिन्तनार्थं वयं वदामः यत् प्रति इति अव्ययं तृतीयायामेव स्यात् तस्य परिवर्तनं मा भूत्, सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः क्रियते प्रकृतसूत्रे | अस्यां स्थितौ किं भविष्यति?</big>


<big>अव्ययम् इति पदं प्रथमान्तं पदम् अभविष्यत्, सुप् इति पदस्य अपि प्रथमान्तमेव | परन्तु प्रति इति अव्ययं तु तृतीयायाम् अस्ति | अनेन मात्रार्थे अव्ययं सुप् प्रतिना सुपा सह समस्यते इति अर्थः निष्पद्यते |  अनुवृत्ति-सहित-सूत्रं भवति ‌— '''  मात्रार्थे अव्ययं सुप्  प्रतिना  सुपा सह अव्ययीभावः समासः |  '''एतादृशः अर्थः नेष्यते एव इत्यतः सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः अपि निराकृता |</big>


<big>'''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इति सूत्रे प्रतिना इति पदं तृतीयान्तं पदम् अस्ति, अतः तस्य उपसर्जनसंज्ञा कदापि न भवति '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' ( १.२.४३) इत्यनेन | अनेन अपि ज्ञायते यत् प्रति इति शब्दस्य पूर्वनिपातः नैव भवति इति | परन्तु स्पष्टप्रतिपत्त्यर्थं प्रकृतसूत्रे एव पाणिनिना सुप् इत्युक्तम्  |</big>


<big>सारांशः अस्ति यत् इष्टसाधानार्थं प्रकृतसूत्रे एव सुप् इति कथनम् उचितम्  इति कृत्वा सुप्, अव्ययं च अनयोः पदयोः अनुवृत्तिः नेष्यते अस्मिन् सूत्रे |</big>


<big>यथा -</big>

<big>१) सूपस्य लेशः = सूपप्रति | किञ्चित् सूपः इत्यर्थः | लेशः इति शब्दः अल्प-मात्रार्थे अस्ति इत्यतः प्रति इति शब्देन तस्य बोधनं क्रियते |</big>

<big>२) शाकस्य लेशः = शाकप्रति | किञ्चित् शाकम्  इत्यर्थः |</big>

<big>अलौकिकविग्रहवाक्यं – शाक+ङस् +प्रति| प्रक्रिया चिन्तनीया |</big>

<big>३) सर्पिषः लेशः = सर्पिःप्रति /  सर्पि≍ प्रति |</big>

<big>अलौकिकविग्रहवाक्यं – सर्पिस्+ङस् +प्रति |</big>

<big>सर्पिस्+ प्रति इति प्रातिपदिकम् |</big>

<big>सर्पिस्+ प्रति  '''→''' अधुना '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः सर्पिरु+प्रति इति भवति | रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति| सर्पिर्+प्रति इति भवति |</big>

<big>सर्पिर्+प्रति ''' → खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः सर्पिःप्रति इति भवति |</big>

<big>सर्पिः+प्रति '''→''' अधुना  '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यनेन कवर्गे परे पवर्गे च परे विसर्गस्य स्थाने उपध्मानीयः विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | अतः '''सर्पिःप्रति /  सर्पि≍प्रति''' इति समासः सिद्ध्यति |</big>

<big>४) सुखस्य लेशः = सुखप्रति |</big>

<big>५) अन्नस्य लेशः = अन्नप्रति |</big>

<big>६) जलस्य लेशः = जलप्रति |</big>

<big>यदि वदामः वृक्षं वृक्षं प्रति = प्रतिवृक्षम् इति | प्रतिवृक्षम् इति समासे तु प्रति इति अव्ययं मात्रार्थे नास्ति इत्यतः प्रकृतसूत्रेण समासः न कार्यः | अस्मिन् उदाहरणे तु प्रति इति अव्ययं वीप्सार्थे अस्ति |</big>

{| class="wikitable mw-collapsible"
|+
|
====<big>'''ससजुषो रुः''' (८.२.६६)</big>====
<big>पदान्त-सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''ससजुषोः पदस्य रुः''' |</big>
|-
|
====<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५)</big>====
<big>पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''</big>


|-
|
====<big>'''विसर्जनीयस्य सः''' (८.३.३४)</big>====
<big>विसर्जनीयस्य स्थाने सकारादेशो भवति खरि परे | विसर्जनीयस्य षष्ट्यन्तं, सः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्मात्‌ खरि इत्यस्य अनुवृत्तिः | '''तयोर्य्वावचि संहितायाम्‌''' (८.२.१०८) इत्यस्मात्‌ '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य सः खरि संहितायाम्‌''' |</big>


|-
|
====<big>'''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७)</big>====
<big>कवर्गे परे पवर्गे च परे विसर्जनीय-विसर्गस्य, जिह्वामूलीयस्य उपध्मानीयस्य च विसर्गादेशो भवति, पक्षे विसर्गः एव तिष्ठति | च-शब्देन पक्षे विसर्ग एव | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्य अपवादः | कुश्च पुश्च कुपू, तयोः कुप्वोः इतरेतरद्वन्द्वः | ≍ कश्च ≍ पश्च ≍ क ≍ पौ, इतरेतरद्वन्द्वः | कुप्वोः सप्तम्यन्तं, ≍ क ≍ पौ प्रथमान्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''विसर्जनीयस्य सः''' (८.३.३४) इत्यस्मात्‌ '''विसर्जनीयस्य''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''विसर्जनीयस्य ≍ क ≍ पौ कुप्वोः च''' |</big>


<big>उपरितने सूत्रे 'कवर्गे परे पवर्गे च' इत्युक्तं; तर्हि कवर्गीयः पवर्गीयः वा हश्‌-वर्णः अस्ति चेदपि एतादृशं भवति किम्‌ ?</big>


<big>'''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गः आगतः | किन्तु अग्रे हश्‌-वर्णः अस्ति चेत्‌, '''खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यस्य प्रसक्तिरेव नास्ति अतः विसर्गः न भवति एव | तस्मात्‌ '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य अवसरः न उदेति एव | अर्थात्  '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य कार्यं तदा एव भवति यदा विसर्गस्य अनन्तरं ककारः,खकारः, पकारः, फकारः च एतेषु कश्चन भवति चेत् |  ककारः, खकारः च परः चेत् जिह्वामूलीयस्य आदेशः विकल्पेन भवति | पकारः, फकारः च परः चेत्  उपध्मानीयस्य आदेशः विकल्पेन भवति |  अन्यस्मिन् पक्षे उभयत्र विसर्गादेशो तिष्ठति |</big>
|}


<big>धेयं यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम्  इत्युच्यते | परन्तु  '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इति सूत्रेण यः अव्ययीभावसमासः निष्पद्यते तस्मिन् पूर्वपदस्य प्राधान्यं नास्ति | शाकप्रति इति अव्ययीभावसमासः  '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इति सूत्रेण निष्पन्नः | अस्मिन् समासे प्रति इति अव्ययस्य प्राधान्यम् अस्ति यतोहि प्रति इति अव्ययं मात्रार्थं सूचयति | नाम शाकस्य लेशः इत्यस्मिन् अर्थे शाकप्रति इति वदामः | अनेन ज्ञायते यत् सर्वदा अव्ययीभावसमासे पूर्वपदस्य प्राधान्यं नास्ति | कुत्रचित् उत्तरपदस्य प्राधान्यम् अपि भवति यथा शाकप्रति इत्यत्र | तदर्थमेव व्याख्यानेषु अव्ययीभावसमासस्य विषये उच्यते यत् अव्ययीभावसमासे प्रायेण पूर्वपदार्थस्य प्राधान्यम् इति |</big>


----

=== <big>'''अक्ष-शलाका-संख्याः परिणा (२.१.१०)''' [5]</big> ===
<big>अक्ष-शब्दः, शलाका-शब्दः, सङ्ख्यावाचकशब्दः च परि इति सुबन्तेन सह समस्यन्ते, अव्ययीभावसमासः च भवति| एतस्य समासस्य प्रयोगः केवलं द्यूतक्रीडायामेव भवति|</big>

<big>'''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) = अक्षशब्दः(dice), शलाकाशब्दः ( ivory piece used in gambling), सङ्ख्यावाचकशब्दश्च परिणा सह समस्यन्ते, अव्ययीभावश्च समासो भवति| द्यूतव्यवहारे पराजय एव अयं समासः | यदा द्यूतक्रीडायां पराजयस्य अर्थः प्रतीयमानः भवति तदानीं सूत्रोक्तानां शब्दानां समासः भवति परि इति अव्ययेन सह|  अक्षश्च शलाका च संख्या च तेषामितरेतरयोगद्वन्द्वः अक्षशलाकासङ्ख्याः| अक्षशलाकासङ्ख्याः प्रथमान्तं, परिणा तृतीयान्तम्| '''सुप् प्रतिना मात्रार्थे''' ( २.१.९) इत्यस्मात् सूत्रात् सुप् इत्यस्य अनुवृत्तिः भवति| सुप् इत्यस्य वचनपरिणामं कृत्वा बहुवचने प्रयुक्तम् | '''सह सुपा''' (२.१.४) इत्यस्मात् सूत्रात् सुपा इत्यस्य अनुवृत्तिः भवति|   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति| '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः| अनुवृत्ति-सहित-सूत्रम्‌— '''अक्षशलाकासङ्ख्याः सुपः परिणा सुपा सह अव्ययीभावः समासः |'''</big>

<big>यथा- अक्षपरि|  </big>

<big>१) अक्षेण विपरीतं वृत्तम् ( वर्तते) = अक्षपरि | द्यूतव्यवहारे पराजयः इत्यर्थः | एकः पाशः विपरीतरीत्या पतितः, तेन पराजितः अभवत् |</big>

<big>अलौकिकविग्रहवाक्यं = अक्ष + टा + परि | '''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) इति सूत्रेण अव्ययीभावसमासः |</big>

<big>२) शलाकया विपरीतं वृत्तम् = शलाकापरि | एका शलाका विपरीतरीत्या पतति, तेन पराजितः अभवत् |</big>

<big>अलौकिकविग्रहवाकयं = शलाका+टा + परि | '''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) इति सूत्रेण अव्ययीभावसमासः|</big>

<big>३) एकेन विपरीतं वृत्तम् = एकपरि | एकः विपरीतरीत्या पतति, तेन पराजितः अभवत् |</big>

<big>अलौकिकविग्रहवाकयं = एक + टा + परि | '''अक्ष-शलाका-संख्याः परिणा''' (२.१.१०) इति सूत्रेण अव्ययीभावसमासः|</big>

<big>४) द्वाभ्यां विपरीतं वृत्तं = द्विपरि |</big>

<big>५) त्रिभिर्विपरीतं वृत्तं = त्रिपरि |</big>

<big>६) चतुर्भिः विपरीतं वृत्तं = चतुष्परि | चतुर्+ भिस्+ परि |</big>

<big>चतुर्+परि '''→ खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे, अतः रेफस्य स्थाने विसर्गः आदिष्टः भवति खरि परे '''→ चतुः+परि →''' अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति '''इदुदुपधस्य चाप्रत्ययस्य''' ( ८.३.४१) इति सूत्रेण | '''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति '''→ चतुष्परि''' इति अव्ययीभावसमासः |</big>

<big>५) पञ्चसु तु एकरूपेषु जयः एव भवति इति कृत्वा पञ्चपरि इति समासः न भवति |</big>


{| class="wikitable mw-collapsible"
|+
|
====<big>'''खरवसानयोर्विसर्जनीयः''' (८.३.१५)</big>====
<big>पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे अथवा अवसानावस्थायाम्‌ | खर्‍ च अवसानं च (तयोरितरेतरयोगद्वन्द्वः), खरवसाने, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''रो रि''' (८.३.१४) इत्यस्मात् रोः इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन रेफान्तपदस्य न अपि तु पदान्तस्य रेफस्य स्थाने विसर्गादेशो भवति | अनुवृत्ति-सहितसूत्रं — '''खरवासनयोः पदस्य रः विसर्जनीयः संहितायाम्‌ |'''</big>
|-
|
====<big>'''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१)  </big>====
<big>इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे,  खकारे, पकारे, फकारे परे षकारादेशः भवति | इकार-उकार-उपधस्य अप्रत्ययस्य विसर्गस्य षः स्यात् कुप्वोः|  ह्रस्व-इकारात्, ह्रस्व-उकारात् परः विद्यमानः विसर्गः यदि प्रत्यय-निर्मितः नास्ति, तर्हि तस्य स्थाने ककारे, खकारे, पकारे, फकारे परे षकारादेशः भवति | इत् च उत् च तयोरितरेतरयोगद्वन्द्वः  इदुदौ, तौ उपधे यस्य स इदुदुपधः तस्य इदुदुपधस्य | न प्रत्ययः, अप्रत्ययः , तस्य अप्रत्ययस्य, नञ्तत्पुरुषः| '''कुप्वोः ≍ क ≍ पौ च''' (८.३.३७) इत्यस्य बाधकं सूत्रम् अस्ति  इदं सूत्रम् |  इत् च उत्  तयोरितरेतरयोगद्वन्द्वः, इदुदौ, तौ  उपधे यस्य सः, इदुदुपधः,  तस्य इदुदुपधस्य| न प्रत्ययः अप्रत्ययः, तस्य अप्रत्ययस्य, नञ्तत्पुरुषः| '''विसर्जनीयस्य सः''' (८.३.३४)  इत्यस्मात् सूत्रात् विसर्जनीयस्य इत्यस्य अनुवृत्तिः| '''कुप्वोः ≍क≍पौ च''' ( ८.३.३७)  इत्यस्मात् सूत्रात् कुप्वोः इत्यस्य अनुवृत्तिः | '''इणः षः''' (८.३.३९) इत्यस्मात् सूत्रात्  षः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं — ''' इदुदुपधस्य च अप्रत्ययस्य विसर्जनीयस्य षः कुप्वोः‌ |'''</big>

<big>उदाहरणानि -</big>

<big>१) प्रत्यूहानां ( विघ्नानां) अभावः = निष्प्रत्यूहम् | ''' '''अलौकिकविग्रहः = प्रत्यूह+ आम् + निस् |</big>

<big>निस् + प्रत्यूह → '''ससजुषो रुः''' (८.२.६६) इत्यनेन पदान्त-सकारस्य स्थाने रु-आदेशो भवति | अतः निरु+प्रत्यूह इति भवति| रु इत्यत्र उकारः अनुनासिकः अतः तस्य इत्संज्ञा भूत्वा लोपः भवति| निर्+प्रत्यूह इति भवति |</big>

<big>निर् + प्रत्यूह ''' → खरवसानयोर्विसर्जनीयः''' (८.३.१५) इत्यनेन पदान्तस्य रेफस्य स्थाने विसर्गो भवति खरि परे | अतः निःप्रत्यूह इति भवति | अस्य विसर्गस्य ककारे / खकारे / पकारे / फकारे परे षत्वम् भवति '''इदुदुपधस्य चाप्रत्ययस्य''' ( ८.३.४१) इति सूत्रेण | '''इदुदुपधस्य चाप्रत्ययस्य'''  (८.३.४१) इति सूत्रेण इकारोपधस्य उकारोपधस्य प्रत्ययावयवभिन्नस्य विसर्गस्य स्थाने ककारे / खकारे / पकारे / फकारे परे षकारादेशः भवति '''→ निष्प्रत्यूहम्''' इति अव्ययीभावसमासः |</big>

<big>२) आविस्+ कृतम् = आविष्कृतम् | अत्र समासः नास्ति |</big>

<big>३) दुस् + कृतम् = दुष्कृतम् | एवमेव बहिष्कृतम् |</big>
|}




----


=== '''<big>नदीभिश्च (२.१.२०)</big>''' <big>[14]</big>===


<br />
<big>'''नदीभिश्च''' (२.१.२०) = सङ्ख्यावाचकशब्दः नदीवाचकैः शब्दैः सह विकल्पेन समस्यते, अव्ययीभावश्च समासश्च भवति | नदी इति शब्दस्य त्रयः अर्थाः सन्ति- नदीशब्दः, नदीवाचकशब्दः, नदीसंज्ञकः शब्दः च | व्याकरणे नदी इति काचित संज्ञा अपि वर्तते | परन्तु अस्मिन् सूत्रे नदीभिः इति बहुवचनान्तनिर्देशेन ज्ञायते यत् नदीवाचिना शब्देन सह एव समासः भवति न तु स्वरूपात्मकेन नदीशब्देन सह इति  | नदी इति शब्दस्य द्वारा प्रसिद्धाः नदीविशेषवाचकाः यथा गङ्गा, यमुना, गोधावरी, गण्डकी, नर्मदा इत्यदीनां ग्रहणं भवति |  नदीभिः तृतीयान्तं, चाव्यायम् |   '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''विभाषा''' (२.१.११) इत्यस्मात् सूत्रात् विभाषा इत्यस्य अनुवृत्तिः | '''संख्या वंश्येन''' (२.१.१९) इत्यस्मात् सूत्रात् संख्या इत्यस्य अनुवृत्तिः |  अनुवृत्ति-सहित-सूत्रं— '''संख्या सुप् नदीभिश्च सुब्भिः सह अव्ययीभावः समासः विभाषा |'''</big>

<big>'''समाहारे च अयम् इष्यते''' इति वार्तिकम् अस्ति | वार्तिकार्थः अस्ति - प्रकृतसूत्रे विधीयमानः समासः समाहारार्थे एव भवति | अस्मिन् वार्तिके च इति शब्दः एव इति अर्थः सूच्यते | सामान्यतया समाहारार्थे द्विगुसमासः एव विधीयते | द्विगुसमासे पूर्वपदं सङ्ख्यावाचकं पदं एव भवति  | किन्तु सङ्ख्यापूर्वः सर्वेऽपि द्विगुः न  | द्विगुसमासः त्रिविधः- १) समाहारद्विगुः, २) तद्धितद्विगुः ३) उत्तरपदद्विगुः चेति | '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) '''संख्यापूर्वो द्विगुः''' (२.१.५२) च द्वाभ्यां सूत्राभ्यां द्विगुसमासः विधीयते | द्विगुसमासस्य प्रसङ्गे इतोऽपि अग्रे पठिष्यामः |  '''नदीभिश्च''' (२.१.२०) इति सूत्रम् द्विगुसमासस्य अपवादभूतसूत्रम् अस्ति यतः समाहारार्थे एव अयं समासः विहितः भवति | यत्र समूहार्थस्य विवक्षा अस्ति तत्र समाहारार्थे समासः विधीयते इति सामान्यनियमः | '''नदीभिश्च''' (२.१.२०) इति सूत्रं सर्वदा समाहारार्थे एव विधीयते  |</big>


<big>यथा –</big>

<big>सप्तानां गङ्गानां समाहारः = सप्तगङ्गं, सप्तानां गङ्गानां समाहारः | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |</big>

<big>अलौकिकविग्रहवाक्यं '''→''' सप्तन् + जस् + गङ्गा + जस् | सप्तन् इति सङ्ख्यावाचकशब्दः, गङ्गा  इति नदीवाचकशब्दः,  अतः '''नदीभिश्च''' (२.१.२०) इति सूत्रेण अव्ययीभावसमासः विकल्पेन भवति | प्रातिपदिकसंज्ञा भूत्वा सुप् प्रत्यययोः लोपः जायते | सङ्ख्यावाचकस्य उपसर्जनसंज्ञा भूत्वा पूर्वनिपातः भवति, अतः सप्तन्+गङ्गा इति भवति | '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इति सूत्रण प्रातिपदिकसंज्ञक-पदस्य अन्ते विद्यमानस्य नकारस्य लोपः जायते |  सप्तन् इति प्रातिपदिकस्य, पदस्य अन्ते विद्यमानस्य नकारस्य लोपः भवति → सप्त + गङ्गा | '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः सप्तगङ्ग इति प्रातिपदिकं निष्पन्नम्  |</big>


<big>सप्तगङ्ग '''→''' अधुना सप्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''सप्तगङ्गात्''' इति''',''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>

<big>सप्तगङ्ग+ अम् '''→ अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्-सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति- '''सप्तगङ्गम् / सप्तगङ्गेन, सप्तगङ्गम् / सप्तगङ्गे |''' अन्यासु विभक्तिषु '''सप्तगङ्गम्''' इति रूपं सिद्धं भवति | यस्मिन् पक्षे समासः न भवति तस्मिन् पक्षे सप्तानां गङ्गानां समाहार इति वाक्यं भवति |</big>

<big>द्वयोः यमुनयोः समाहारः = द्वियमुनम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः |</big>

<big>अलौकिकविग्रहवाक्यं '''→''' द्वि + औ + यमुना + औ | प्रक्रिया यथा उपरि प्रदर्शिता आसीत् |</big>

<big>सप्तगङ्गं, द्वियमुनम्, इत्यनयोः उदाहरणयोः '''तद्धितार्थोत्तरपदसमाहारे च''' (२.१.५१) इति सूत्रेण समाहारद्विगुसमासः यदा विधीयते तदा '''स नपुंसकम्''' (२.४.१७) इति सूत्रेण समासः नपुंसकलिङ्गे भवति | नपुंसकलिङ्गे समासः भवति इति कारणने '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | सप्तगङ्ग, द्वियमुन इति प्रातिपदिके निष्पन्ने भवतः  | तत्पश्चात् नपुंसकलिङ्गे वनशब्दस्य रूपाणि इव रूपाणि भवन्ति  | अतः प्रथमाविभक्तौ एकवचने सप्तगङ्गं, द्वियमुनं च समस्तपदे निष्पन्ने भवतः | तर्हि प्रश्नः उदेति यत् '''नदीभिश्च''' (२.१.२०) इति सूत्रस्य का आवश्यकता?</big>

<big>समाधानम् अस्ति यत् '''नदीभिश्च''' (२.१.२०) इति सूत्रेण अव्ययीभावसमासस्य कारणेन सर्वासु विभक्तिषु अम्भावः सिद्धयति पञ्चमीं विहाय | तृतीयाविभक्त्यां, सप्तमी-विभक्त्याञ्च अम् आदेशः विकल्पेन भवति | यदि समाहारद्विगुसमासः विहितः तर्हि सर्वासु विभक्तिषु अमादेशः न भवति | चतुर्थ्यां सप्तगङ्गाय, द्वियमुनाय अपि च षष्ठ्यां सप्तगङ्गस्य, द्वियमुनस्य इति रूपाणि भवन्ति | सर्वासु विभक्तिषु अमादेशः (पञ्चमीं विहाय) एव अव्ययीभावसमासस्य प्रयोजनम् | अतः पाणिनिना '''नदीभिश्च''' (२.१.२०) इति सूत्रं कृतम् |</big>


<big>एवमेव –</big>

<big>सप्तानां गोदावरीनां समाहारः = सप्तगोदावरम् | अयं समासः अव्ययीभावसमासः न तु समाहारद्विगुसमासः | '''संख्याया नदीगोदावरीभ्यां च''' इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | सप्तगोदवरी + अच् '''→''' सप्तगोदावरी+ अ '''→  यचि भम्‌''' (१.४.१८) इत्यनेन सप्तगोदावरी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | सप्तगोदावरी इत्यस्य ईकारस्य लोपः भवति'''→''' सप्तगोदावर्+ अ '''→''' सप्तगोदावर इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् सप्तगोदावरम् इति समासः सिद्धः भवति |</big>

<big>एवमेव पञ्चानां नदीनां समाहारः = पचनदम् | '''संख्याया नदीगोदावरीभ्यां च''' इति वार्तिकेन संख्यायाः परः  नदीशब्दः अथवा गोदावरीशब्दः चेत् तस्मात् अच् इति समासान्तः विधीयते | पञ्चनदी + अच् '''→''' पञ्चनदी + अ '''→  यचि भम्‌''' (१.४.१८) इत्यनेन पञ्चनदी इत्यस्य भसंज्ञा भवति अच् इति अजादि प्रत्यये परे | '''यस्येति च''' (६.४.१४८) इत्यनेन भसंज्ञकस्य अङ्गस्य "अ"वर्णस्य "इ"वर्णस्य च ईकारे परे, तद्धितप्रत्यये परे च लोपः भवति | पञ्चनदी इत्यस्य ईकारस्य लोपः भवति'''→''' पञ्चनद्+ अ '''→''' पञ्चनद इति भवति प्रातिपदिकम् | अधुना प्रातिपदिकम् अदन्तत्वात् पञ्चनदम् इति समासः सिद्धः भवति |</big>

<big>पञ्चानां गङ्गानां समाहारः = पञ्चगङ्गम्</big>


:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]


----

===<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) [15]</big>===



<big>अन्यपदार्थे विद्यमानं सुबन्तं नदीभिः सह नित्यं समस्यते संज्ञायाम्, अव्ययीभावसमासः च भवति |</big>



<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) = अन्यपदार्थे वर्तमानं सुबन्तं नदीविशेषवाचिना सुबन्तेन सह संज्ञायां विषये समस्यते, अव्ययीभावश्च समासः च भवति | अव्ययीभावसमासे प्रायेण पूर्वपदस्य प्राधान्यं भवति परन्तु अनेन सूत्रेण यः समासः विहितः भवति, तस्मिन् अन्यपदस्य प्राधान्यं भवति बहुव्रीहिसमासवत् | संज्ञायां नाम समस्तपदं काचित् संज्ञा स्यात् संस्कृतभाषायाम् |  यद्यपि अस्मिन् सूत्रे '''विभाषा''' (२.१.११) इति सूत्रस्य अधिकारः अस्ति तथापि अस्मिन् सूत्रे न सम्बध्यते यतोहि संज्ञायाम् इत्युक्तत्वात् `समासः नित्य:'|  यत्र सूत्रेषु संज्ञायां विषये समासः विधीयते तत्र समासः नित्यः भवति | वाक्ये संज्ञायाः अवगमनं न भवति इति कृत्वा यत्र संज्ञायां समासः विधीयते तत्र समासः नित्यः भवति  | अर्थात् व्यस्तप्रयोगः न सम्भवति यतो संज्ञायाः अवगमनं न भवति व्यस्तप्रयोगेण |   अन्यत् च तत् पदम् च, अन्यपदम्, अन्यपदस्य अर्थः अन्यपदार्थः, तस्मिन् अन्यपदार्थे, कर्मधारय-गर्भ-षष्ठीतत्पुरुषः| अन्यपदार्थे सप्तम्यन्तं, चाव्ययं, संज्ञायां सप्तम्यन्तम् | '''प्राक्कडारात्समासः''' (२.१.३) इत्यस्य अधिकारः अस्ति | '''समर्थः पदविधिः''' (२.१.१) इति परिभाषासूत्रस्य अर्थः अपि उपस्थितः भवति | '''अव्ययीभावः''' (२.१.५) इत्यस्य अधिकारः | '''नदीभिश्च''' (२.१.२०) इत्यस्मात् सूत्रात् नदीभिः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— '''संज्ञायाम् अन्यपदार्थे सुप् नदीभिः सुब्भिः सह अव्ययीभावः समासः |'''</big>



<big>अव्ययीभाससमासे प्रायेण पूर्वपदस्य प्राधान्यम् इत्युच्यते  | कदाचित् पूर्वपदार्थस्य प्राधान्यं नास्ति चेदपि अव्ययीभावसमासः भवति, यथा उन्मत्तगङ्गम्, लोहितगङ्गम्  इति | "उन्मत्ता गङ्गा यस्मिन् देशे, उन्मत्तगङ्गम्" तथैव "लोहिता गङ्गा यस्मिन् देशे, लोहितगङ्गम्" इत्यादिषु उदाहरणेषु अन्यपदार्थस्य प्राधान्यं वर्तते न तु पूर्वपदस्य, तथापि समासः तु अव्ययीभावः एव  न तु बहुव्रीहिः  | अनयोः समासयोः पूर्वपदस्य प्राधान्यं नास्ति यतो हि समासे अन्यपदार्थस्य प्राधानयम् अस्ति |  अन्यपदार्थः देशः, सः विशेष्यः अस्ति,  उन्मत्तगङ्गम्, लोहितगङ्गञ्च विशेषणे स्तः | प्रकृतसूत्रे समस्तपदं संज्ञायाम् एव भवति | पूर्वमपि अस्माभिः अव्ययीभावप्रसङ्गे पूर्वपदप्राधान्यस्य अपवादः चर्चितः, यथा शाकप्रति, सुखप्रति इत्यादिषु स्थलेषु उत्तरपदस्य प्राधान्यं दृष्टम्, तथैव अस्मिन् समासे अपि   |</big>



<big>वाक्यात् संज्ञायाः बोधः नैव शक्यः, केवलं समासेन  एव संज्ञायाः बोधः जायते, अतः एव प्रकृतसूत्रेण समासः नित्यः इत्युक्तम्  | यदि समासं विना केवलं वाक्येन अपि संज्ञायाः बोधः शक्यते तादृशस्थलेषु समासः वैकल्पिकः भवितुम् अर्हति, परन्तु प्रकृतसूत्रेण तु समासः नित्यः एव |</big>



<big>यथा—</big>

<big>उन्मत्ता गङ्गा यस्मिन् = उन्मत्तगङ्गम् | उन्मत्तगङ्गम् इति एकस्य देशस्य नाम, यत्र गङ्गा उन्मत्ता भूत्वा प्रवहति | अर्थात् यस्मिन् प्रदेशे गङ्गा प्रचण्डा अस्ति, सः प्रदेशः उन्मत्तगङ्गम् इति नाम्ना ज्ञायते |</big>

<big>लौकिकविग्रहे उन्मत्ता गङ्गा यस्मिन् इति वाक्यात् संज्ञायाः बोधः न भवति किन्तु उन्मत्तगङ्गम् इति समस्तपदात् संज्ञायाः बोधः जायते यतोहि उन्मत्तगङ्गम् इति देशविशेषस्य संज्ञा अस्ति |</big>


<big>अलौकिकविग्रहवाक्यं '''→''' उन्मत्ता +सु + गङ्गा +सु | उन्मत्तगङ्गम् इति देशवाचकपदम् इत्यतः उन्मत्ता अपि च गङ्गा अनयोः शब्दयोः समासः अन्यपदार्थे भवति | उन्मत्ता इत्यस्य नदीवाचकस्य गङ्गा इति शब्देन सह '''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) इति सूत्रेण अव्ययीभावसमासः विधीयते | प्रातिपदिकसंज्ञा भवति, सुप् प्रत्यययोः लुक् भवति |</big>


<big>उन्मत्ता + गङ्गा '''→ स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु''' (६.३.३४) इति सूत्रेण पूर्वस्त्रिलिङ्गपदस्य पुंवद्भावः भवति '''→''' उन्मत्तगङ्गा '''→'''  '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति | अतः उन्मत्तगङ्ग इति भवति |</big>

<big>उन्मत्तगङ्ग '''→''' अधुना उन्मत्तगङ्ग इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | सुप् प्रत्ययस्य उत्पत्तिः भवति | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते  पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथासामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''उन्मत्तगङ्गात्''' अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>


<big>उन्मत्तगङ्ग + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात् | पञ्चमी-विभक्तिं विहाय अपरासु विभक्तिषु '''उन्मत्तगङ्गम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति | अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयं सम्भवति- '''उन्मत्तगङ्गम् / उन्मत्तगङ्गेन, उन्मत्तगङ्गम् / उन्मत्तगङ्गे |''' अन्यासु विभक्तिषु '''उन्मत्तगङ्गम्''' इति रूपं सिद्धं भवति | '''उन्मत्तगङ्गम्''' इति देशवाचकं संज्ञापदम् इत्यतः समासः नित्यः, संज्ञाबोधार्थं वाक्यं न सम्भवति |</big>


<big>लोहिता गङ्गा यस्मिन् = लोहितगङ्गम् | लोहितगङ्गम् इति एकस्य देशस्य नाम अस्ति | यस्मिन् प्रदेशे गङ्गा रक्तवर्णं धृत्वा वहति सः प्रदेशः लोहितगङ्गम् इति नाम्ना ज्ञायते |</big>

<big>अलौकिकविग्रहवाक्यं '''→''' लोहिता +सु + गङ्गा +सु | प्रक्रिया यथा पूर्वं प्रदर्शिता तथैव अस्ति अत्रापि |</big>


<big>'''अन्यपदार्थे च संज्ञायाम्''' ( २.१. २१) इति सूत्रे संज्ञायाम् इति पदम् अस्ति इत्यतः संज्ञा यत्र अस्ति तत्रैव अन्यपदार्थे अव्ययीभावसमासः भवति | यदि लोहिता गङ्गा यस्मिन् देशे सः इति वाक्यं तर्हि संज्ञायाः बोधः न भवति यतोहि सामान्यदेशस्य एव बोधः भवति, अतः अव्ययीभावसमासः न भवति अपि तु बहुव्रीहिसमासः लोहितगङ्गः इति भवति  | लोहितगङ्गः देशः  इति वाक्यं भवति | संज्ञा अस्ति चेत् लोहितगङ्गम् इति समस्तपदं भवति नो चेत् लोहितगङ्गः इति बहुव्रीहिसमासः भवति |</big>

<big>अन्यानि उदाहरणानि - कृष्णगङ्गम् , तूष्णींगङ्गम्, शनैर्गङ्गम् | गङ्गतटवर्तिनां प्रदेशविशेषाणां एतानि संज्ञापदानि सन्ति  |</big>


====<big>स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे स्त्रियामपूरणीप्रियाऽऽदिषु  ( ६.३.३४)</big>====


<big>भाषितपुस्कात् परः ऊङः अभावः यत्र तथाभूतस्य स्त्रीवाचकशब्दस्य पुंवाचकस्य एव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे न तु पूरण्यां प्रियादौ च परतः | अर्थात् भाषितपुंस्कशब्दात् ऊङ्प्रत्ययः न विहितः चेत्, तदा तादृशस्य स्त्रीवाचकशब्दस्य पुंवाचकं रूपं भवति समानाधिकरणे स्त्रीलिङ्गशब्दे उत्तरपदे परे , परन्तु समानाधिकरणे  पूरणार्थकप्रत्ययान्ते स्त्रीलिङ्ग-उत्तरपदे परे अथवा प्रियादिगणे पठिते स्त्रीलिङ्ग-उत्तरपदे परे न भवति | भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः, तत्पश्चात् स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | अर्थात्  यः शब्दः स्त्रीलिङ्गे, पुंलिङ्गे च प्रयुक्तः अस्ति, तथा च तयोः अनन्तरम् ऊङ् प्रत्ययः न विहितः चेत्, तदा स्त्रीलिङ्गवाचकशब्दः पूर्वपदे चेत्  पुंलिङ्गवत् भवति | किन्तु उत्तरपदे पूरणिसंख्यावाचकः स्त्रीलिङ्गशब्दः अथवा प्रियादिगणे पठितः स्त्रीलिङ्गशब्दः अस्ति चेत् पुंवद्भावः न भवति |   पुंसि इति पुंवत् | भाषितः पुमान् येन स भाषितपुंस्कः बहुव्रीहिः| तस्मात् भाषितपुंस्काद् | न ऊङ् ऊङोऽभावः अनूङ् | भाषितपुंस्काद् अनूङ् यस्यां सा भाषितपुंस्कादनूङ् तस्य | अत्र समासः भाषितपुस्कानूङ् इति स्यात् परन्तु भाषितपुंस्कादनूङ् इति अस्ति, अतः भाषितपुंस्काद् इत्यत्र पञ्चमीविभक्तेः अलुक्त्वं निपात्यते, अतः सूत्रे पञ्चमी दृश्यते  | निपातनात् पञ्चमी इत्यस्य अलुक्;  अपि च षष्ठी इत्यस्य लुक् भवति | भाषितपुस्तकादनूङ् इत्यस्य षष्ठी भाषितपुंस्कादनूङः इति स्यात्   | परन्तु सूत्रे भाषितपुंस्कादनूङ् इत्युक्तम्  | अत्र षष्ठीविभक्तेः लुक् निपात्यते  | अतः भाषितपुंस्कादनूङ् लुप्तषष्ठीकं पदम् | स्त्रियाः षष्ठ्यन्तं, पुंवद् अव्ययपदं, भाषितपुंस्कादनूङ् लुप्तषष्ठ्यन्तं, समानाधिकरणे सप्तम्यन्तं, स्त्रियाः षष्ठ्यन्तं, पूरणीप्रियादिषु सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | '''अलुगुत्तरपदे''' ( ६.३.१) इत्यस्मात् सूत्रात् उत्तरपदे इत्यस्य अनुवृत्तिः अस्ति | अनुवृत्ति-सहित-सूत्रम्‌— '''पुंवद्भाषितपुंस्कादनूङ्  स्त्रियाः समानाधिकरणे उत्तरपदे स्त्रियाम् अपूरणीप्रियाऽऽदिषु'''  '''|'''</big>


====<big>भाषितपुंस्कः</big>====

<big>भाषितपुंस्कः नाम तादृशशब्दः यः पूर्वं पूलिङ्गे आश्रितः | तदा स्त्रीत्वविवक्षायां सत्यां स्त्रीप्रत्ययं योजयित्वा स्त्रीलिङ्गपदं कुर्मः | एतादृशशब्दाः एव भाषितपुंस्काः | भाषितः पुमान्‌ येन सह, भाषितपुंस्कः | विद्या-शब्दः भाषितपुंस्कः नास्ति | किमर्थमिति चेत्‌, यद्यपि विद्या इति शब्दे टाप्‌ इति स्त्रीप्रत्ययः अस्ति (प्रमुखेषु स्त्रीप्रत्ययेषु टाप्‌-प्रत्ययः अन्यतमः), तथापि "पूर्वं विद्यः इति शब्दः आसीत्‌, ततः परं टाप्‌-प्रत्ययः योजितः", इति नास्ति | विद्या-शब्दस्य पुंलिङ्गरूपमेव न भवति; सदा टाप्‌-प्रत्ययान्तमेव भवति | पुंलिङ्गे यस्य प्रयोगो भवति, तस्मात्‌ शब्दात्‌ स्त्रीप्रत्ययस्य योजनेन तस्य स्त्रीलिङ्गत्वं यदि सम्पादितं, तर्हि सः शब्दः भाषितपुंस्कः | 'माला’, 'नासिका’, एतादृशबहवः शब्दाः सन्ति ये नित्यस्त्रीलिङ्गशब्दाः; तेषां स्त्रीप्रत्ययः भवत्येव | सुन्दरी इति शब्दः भाषितपुंस्कः यतोहि सन्दरः इत्येवं पुंलिङ्गे व्यवहारः अस्ति; स्त्रीलिङ्गविवक्षायां ङीप्‌-प्रत्ययः योज्यते, अनेन च सुदरी इति रूपं भवति | इदं विशेष्यनिघ्नपदमिति उच्यते | त्रिषु लिङ्गेषु सम्भावना अस्ति यस्य, तादृशविशेषणं पूर्वपदमस्ति चेदेव पुंवद्भावो भवति |</big>

<big>स्त्रीप्रत्ययाः - एते स्त्रीत्वबोधकप्रत्ययाः सन्ति |</big>

<big>१)आकारान्ताः = टाप्, डाप्, चाप् | यथा अजा, सीमा, सूर्या |</big>

<big>२) ईकारान्ताः = ङीप्, ङीष्, ङीन् |  कर्त्री, गौरी, शारङ्गरवी |</big>

<big>३) ऊकारान्तः = ऊङ् | श्वश्रूः, पङ्गूः, कद्रूः, कमण्डलूः |</big>



<big>'''सामानाधिकरण्यम्''' = समासे पुंवद्भावः सम्भवति यत्र सामानाधिकरण्यं विद्यते | समानम्‌ अधिकरणं इत्यस्य भावः सामानाधिकरण्यम्‌ | नाम समासे पदद्वयम्‌ अस्ति चेत्‌, तयोः समानः आधारः अस्ति चेत्‌ तर्हि सामानाधिकरण्यम्‌ अस्ति | समानः आधारः इत्यस्य कृते समान-विभक्तिकत्वम्‌ अपि अपेक्ष्यते, एकार्थबोधकत्वम्‌ अपि अपेक्ष्यते | यथा - उत्तमा + बालिका → उत्तमबालिका | अनयोः पदयोः सामानाधिकरण्यम् अस्ति यतोहि अनयोः पदयोः समानविभक्तकत्वम् अपि वर्तते, एकार्थबोधकत्वम् अपि विद्ययते  |</big>



<big>'''प्रियादिगणः''' = प्रियादिगणे एते शब्दाः पठिताः - प्रिया, मनोज्ञा, कल्याणी, सुभगा, दुर्भगा, भक्ति, सचिवा, अम्बा, कान्ता, क्षान्ता, समा, चपला, दुहिता, वामा च |</big>

<big>पूरणी  = अर्थात् डट् इत्यादि तद्धित-पूरणार्थकप्रत्ययाः यस्य अन्ते सन्ति ते पूरणप्रत्ययान्ताः  | पूर्यते अनेन, अस्मिन् अर्थे पॄ पूरणे इति धातुतः ल्युट्प्रत्ययं कृत्वा पूरण इति शब्दः सिद्ध्यति | गणनायाः साहाय्यार्थं पूरणप्रत्ययान्तानां प्रयोगः क्रियते |  यथा दश जनाः सन्ति , एतेषां गणना कर्तव्या, तर्हि कथं क्रियते ? अयं प्रथमः, अयं द्वितीयः, अयं तृतीयः.. इति पृथक्करणं कर्तुं शक्यते |  अत्र प्रथम, द्वितीय, तृतीय, चतुर्थ इत्यादयः शब्दाः गणनार्थं प्रयुज्यन्ते, अतः एते सर्वे पूरणवाचकाः शब्दाः सन्ति |  एतेषां शब्दानां निर्माणार्थं यस्य प्रत्ययस्य साहाय्यं स्वीक्रियते सः प्रत्ययः पूरणप्रत्ययः इति नाम्ना ज्ञायते |  स्त्रीलिङ्गे प्रथमा, द्वितीया, तृतीया इत्यादयः पूरणप्रत्ययान्ताः स्त्रीवाचकशब्दाः सन्ति  |</big>


:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]


----


==='''<big>अव्ययीभावसमासे नियमाः</big>'''===

====<big>अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् अजन्तम्  </big>====
<big>१)  '''ह्रस्वो नपुंसके प्रातिपदिकस्य (१.२.४७)''' इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |</big>

<big>२) अदन्तम् अङ्गम् अस्ति चेत्''', नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |</big>

<big>३) अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण |</big>

<big>४) उत्तरपदं नदी, पौरणमासी, आग्रहायणी इत्येतेषु कश्चन शब्दः चेत् -- '''नदीपौर्णमास्याग्रहायणीभ्यः''' (५.४.११०) इत्यनेन अव्ययीभावसमासस्य उत्तरपदे "नदी", "पौर्णमासी", "आग्रहायणी" एतेषु कश्चन शब्दः विद्यते चेत्, तस्मात् विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |</big>

<big>५) उत्तरपदं गिरि इति शब्दः चेत् - '''गिरेश्च सेनकस्य''' ( ५.४.११२) इत्यनेन उत्तरपदे गिरि इति शब्दः चेत्, तस्मात् टच् इति समासान्तप्रत्ययः विकल्पेन विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे केवलं '''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रेण अजन्तस्य नपुंसकलिङ्गे प्रातिपदिकस्य हस्वः भवति |</big>


====<big>अव्ययीभावसमासस्य नियमाः यत्र उत्तरपदम् हलन्तम्</big>====


<big>१) उत्तरपदम् अन्नन्तं चेत् -</big>

<big>अ) पुंलिङ्गे, स्त्रीलिङ्गे च '''अनश्च''' (५.४.१०८)इति सूत्रे टच् इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | अदन्तम् अङ्गम् अस्ति चेत्, '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | अदन्तम् अङ्गं चेत् तृतीयाविभक्तौ, सप्तमीविभक्तौ च अमादेशः विकल्पेन भवति '''तृतीयासप्तम्योर्बहुलम्'''‌ (२.४.८४) इति सूत्रेण |</big>

<big>आ) नपुंसकलिङ्गे च '''नपुंसकादन्यतरस्याम्''' ( ५.४.१०९) इति सूत्रेण विकल्पेन टच् इति समासान्तप्रत्ययः विधीयते | यस्मिन् पक्षे टच् भवति तस्मिन् पक्षे अदन्तत्वं सिद्ध्यति इत्यतः '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासस्य अन्तिमनकारस्य लोपः भवति '''न लोपः प्रातिपदिकान्तस्य''' ( ८.२.७) इत्यनेन</big>

<big>२) उत्तदपदं शरदादिगणे अस्ति चेत्, '''अव्ययीभावे शरत्प्रभृतिभ्यः''' (५.४.१०७) इत्यनेन शरदादिगणे विद्यमानेभ्यः शब्देभ्यः अव्ययीभावसमासे "टच्" इति समासान्तप्रत्ययः विधीयते येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते |</big>

<big>३) उत्तरपदं झयन्तम् अस्ति चेत् '''झयः''' (५.४.१११) इति सूत्रेण अव्ययीभावसमासस्य अन्तिमवर्णः झय्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् विकल्पेन "टच्" इति समासान्तप्रत्ययः भवति येन अदन्तत्वं सिद्ध्यति | तत्पश्चात् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इत्यनेन अदन्तात् अव्ययीभावात् सुप् प्रत्ययस्य लुक् न भवति, अपि च पञ्चमीविभक्तिं विहाय अन्यासां विभक्तीनां स्थाने अम् आदेशः विधीयते | यस्मिन् पक्षे टच् न भवति तस्मिन् पक्षे समासानन्तरं सन्धिकार्याणि भवन्ति |</big>

<big>इत्यनेन अव्ययीभावसमासः इति विषयः समाप्तः|</big>


:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]

----


===<big>'''परिशिष्टम्'''</big>===



<big>'''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे अव्ययस्य षोडश अर्थाः दृष्टाः| अव्ययानाम् इतोऽपि अधिकाः अर्थाः अपि भवितुम् अर्हन्ति | तेषाम् अर्थानां समर्थनार्थं सूत्रस्य योगविभागः कृतः प्राचीनकाले  | अव्ययीभावसमासस्य विषये ये प्रयोगाः कृताः शिष्टैः, तेषां प्रयोगाणां समर्थनं शक्यते एव| प्राचीनप्रयोगाणां समर्थनं कथञ्चित् करणीयम् –  योगविभागेन वा नो चेत् '''सह सुपा''' ( २.१.४) इति सूत्रेण वा | तादृशसमासान् कर्तुं  वयं न अर्हामः| वयं तु केवलं षोडशेषु अर्थेषु एव समासं कर्तुं शक्नुमः|</big>

<big>दृष्टान्तः</big>

<big>दिशयोः मध्ये= अपदिशम् (द्वयोः दिशयोः अन्तरालम् (interval) इत्यर्थः)</big>

<big>अलौकिकविग्रहवाक्यं '''→'''</big>

<big>दिशा + ओस् + अप → समाससंज्ञा भवति '''प्राक्कडारात्समासः''' (२.१.३) इति सूत्रेण | '''अव्ययीभावः''' (२.१.५) इत्यनेन सूत्रेण समस्तपदस्य अव्ययीभावसमाससंज्ञा भवति |   '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६)   इति सूत्रेण अप इति अव्ययं समर्थेन दिशा इति सुबन्तेन सह समस्यते |</big>

<big>दिशा + ओस् + अप '''→''' समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इत्यनेन सूत्रेण |</big>

<big>दिशा + ओस् + अप '''→''' इदानीं सुप्‌-प्रत्ययस्य लुक्‌ (लोपः) भवति '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इत्यनेन | अतः दिशा+ओस् +अप '''→''' इत्यस्मिन्‌ ओस् इत्यस्य लुक्‌ → दिशा+अप इति |</big>

<big>दिशा + अप '''→''' '''सुप्तिङन्तं पदम्''' (१.४.१४) इत्यनेन यस्य अन्ते सुप्‌-प्रत्ययः अस्ति, तस्य पदसंज्ञा भवति; अत्र च 'उप' इत्यस्य अन्ते सुप्‌ न दृश्यते, तर्हि प्रश्नः उदेति यत्‌ तस्य पदसंज्ञा अस्ति न वा | उत्तरमस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पदसंज्ञा अस्त्येव | अव्ययात् परस्य सुप्-प्रत्ययानां च लुक्-भवति '''अव्ययादाप्सुपः''' ( २.४.८२) इति सूत्रेण| अतः अप इति अव्ययस्य परस्य सुप् प्रत्ययस्य लोपः जातः |</big>

<big>दिशा+अप '''→''' अत्र '''प्रथमानिर्दिष्टं समास उपसर्जनम्''' (१.२.४३) इति सूत्रेण प्रथमया विभक्त्या यत् निर्दिश्यते समासविधायकसूत्रे तस्य उपसर्जनसंज्ञा भवति | अत्र समासविधायकसूत्रम् अस्ति '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु''' (२.१.६) | अस्मिन् सूत्रे अव्ययम् इति पदं प्रथमाविभक्तौ अस्ति अतः तस्य उपसर्जन-संज्ञा भवति | अधुना '''उपसर्जनं पूर्वम्‌''' (२.२.३०) इति सूत्रेण उपसर्जन-संज्ञकपदस्य पूर्वनिपातः भवति| अत्र अप इति अव्ययं, तस्य उपसर्जन-संज्ञा भूत्वा पूर्वनिपातः भवति|</big>

<big>पुनः अत्र '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण दिशा इति शब्दस्य उपसर्जनसंज्ञा भवति परन्तु तस्य पूर्वनिपातः न भवति '''→''' अत्र अपदिशा इति भवति'''→ अव्ययीभावश्च''' (१.१.४१) इत्यनेन अव्ययीभावसमासेन निर्मितस्य शब्दस्य "अव्ययम्" इति संज्ञा भवति | अपदिशा इत्यस्य अव्ययसंज्ञा भवति |</big>

<big>अपदिशा '''→  '''अत्र '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण उपसर्जनस्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य ह्रस्वो भवति | दिशा इति स्त्रीप्रत्ययान्तशब्दस्य ह्रस्वत्वं भवति → अपदिश इति भवति</big>

<big>अपदिश '''→''' इदानीं लिङ्गस्य निर्णयः भवति | '''अव्ययीभावश्च''' (२.४.१८) इत्यनेन अव्ययीभावसमासस्य लिङ्गं भवति नपुंसकलिङ्गम् |अतः अपदिश इति समस्तपदस्य लिङ्गं भवति नपुंसकलिङ्गम् |</big>

<big>अपदिश + सु '''→''' अपदिश इति प्रातिपदिकस्य अव्ययसंज्ञा अस्ति | अधुना सुप् प्रत्ययस्य उत्पत्तिः | अत्र '''अव्ययादाप्सुपः''' (२.४.८२) इति सूत्रेण प्राप्यमानः सुब्लुक् '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण निषिध्यते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' (२.४.८३) इति सूत्रेण अदन्ताव्ययीभावात् अङ्गात् परे सुप् प्रत्ययस्य लुक् न भवति अपि तु विभक्तेः स्थाने अम् आदेशः विधीयते परन्तु पञ्चमी-विभक्तिं विहाय | पञ्चमी-विभक्तौ अम् आदेशः न भवति, तत्र  यथा सामान्यं सुप्प्रक्रिया भूत्वा रूपं भवति '''अपदिशात्''' | अपरासु विभक्तिषु सुप् लुक् न भवति अपि तु सुपः स्थाने अम् आदेशः भवति |</big>

<big>अपदिश + अम् '''→''' अत्र '''अमि पूर्वः''' (६.१.१०५) इत्यनेन अक्-वर्णात् अम्- सम्बन्धिनि अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः स्यात्| पञ्चमी विभक्तिं विहाय अपरासु विभक्तिषु '''अपदिशम्''' इति रूपं सिद्धं भवति | '''तृतीयासप्तम्योर्बहुलम्‌''' (२.४.८४) इति सूत्रेण अदन्ताव्ययीभात् परे तृतीयासप्तम्योः च स्थाने बहुलम् अमादेशः भवति| अनेन तृतीया-विभक्तौ अपि च सप्तमी-विभक्तौ रूपद्वयम् सम्भवति-</big> अपदिशम्/ <big>अपदिशेन, अपदिशम्/ अपदिशे| अन्यासु विभक्तिषु अपदिशम् इति रूपं सिद्धं भवति |</big>

<big>तृतीयाविभक्तौ -अपदिशम् / अपदिशेन</big>

<big>सप्तमीविभक्तौ - अपदिशम्/अपदिशे|</big>

<big>अन्यासु विभक्तिषु पञ्चमीविभक्तिं विहाय अपदिशम् इति रूपं सिद्धं भवति| पञ्चमीविभक्तौ अपदिशात् इति रूपं भवति|</big>

<big>'''दिशोः अन्तरालम् = अपदिशम्|''' अधः सर्वासु विभक्तिषु अव्ययपदस्य रूपाणि पश्यामः |</big>


{| class="wikitable"
|+
!<big>विभक्ति</big>
!<big>एकवचनं</big>
!<big>द्विवचनं</big>
!<big>बहुवचनम्</big>
|-
|<big>प्रथमा</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|-
|<big>द्वितीया</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|-
|<big>'''तृतीया'''</big>
|<big>'''अपदिशम्/अपदिशेन'''</big>
|<big>'''अपदिशम्/ अपदिशाभ्याम्'''</big>
|<big>'''अपदिशम्/ अपदिशैः'''</big>
|-
|<big>चतुर्थी</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|-
|<big>पञ्चमी</big>
|<big>अपदिशात्</big>
|<big>अपदिशाभ्याम्</big>
|<big>अपदिशेभ्यः</big>
|-
|<big>षष्ठी</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|-
|<big>'''सप्तमी'''</big>
|<big>'''अपदिशम्/अपदिशे'''</big>
|<big>'''अपदिशम्/ अपदिशोः'''</big>
|<big>'''अपदिशम्/ अपदिशेषु'''</big>
|-
|<big>सम्बोधने</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|<big>अपदिशम्</big>
|}



<big>'''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) = विग्रहस्य अवस्थायां यत् पदं नियतविभक्त्यां भवति तस्य पूर्वनिपातात् भिन्नकार्ये कर्तव्ये उपसर्जनसंज्ञा भवति परन्तु तस्य पुर्वनिपातः न भवति | विग्रहे यन्नियतविभक्तिकं तदुपसर्जनसंज्ञं स्यात् न तु तस्य पूर्वनिपातः| एका विभ्क्तिर्यस्य तद् एकविभक्तिः, बहुव्रीहिः | पर्वश्चासौ निपातश्चेति पूर्वनिपातः, कर्मधारयः  | न पूर्वनिपातोऽपूर्वनिपातस्तस्मिन्नपुर्वनिपाते, नञ्तत्पुरुषः | एकविभक्ति प्रथमान्तं, चाव्ययम्, अपूर्वनिपाते सप्तम्यन्तम् |प्रथमानिर्दिष्टं समास उपसर्जनम् इत्यस्मात् सूत्रात् समासः तथा उपसर्जनम् इत्यनयोः अनुवृत्तिः  |अनुवृत्ति-सहित-सूत्रम्‌— '''एकविभक्ति च अपूर्वनिपाते समासे उपसर्जनम् |'''</big>

<big>तर्हि '''एकविभक्ति चापूर्वनिपाते''' (१.२.४४) इति सूत्रेण यत् पदं नियतविभक्त्याम् अस्ति तस्य उपसर्जनसंज्ञा भवति परन्तु पूर्वनिपातः न भवति इति ज्ञातम्| यदि उपसर्जनसंज्ञकं पदं गो-शब्दः अथवा स्त्रीलिङ्गशब्दः अस्ति तर्हि  '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रेण उपसर्जनसंज्ञकस्य शब्दस्य ह्रस्वादेशः भवति परन्तु तस्य पूर्वनिपातनं न भवति | '''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) इति सूत्रस्य विवरणम् अग्रे उच्यते |</big>


<big>'''गोस्त्रियोरुपसर्जनस्य''' (१.२.४८) = उपसर्जनगोशब्दान्तस्य उपसर्जनस्त्रीप्रत्ययान्तस्य च प्रातिपदिकस्य ह्रस्वो भवति |गोश्च स्त्री च तयोरितरेतयोगद्वन्द्वौ गोस्त्रियौ, तयोः गोस्त्रियोः |गोस्त्रियोः षष्ठ्यन्तम्, उपसर्जनस्य षष्ठ्यन्तम् द्विपदमिदं सूत्रम् |'''ह्रस्वो नपुंसके प्रातिपदिकस्य''' (१.२.४७) इति सूत्रात् प्रातिपदिकस्य, ह्रस्वः च अनयोः पदयोः अनुवृत्तिः भवति |अनुवृत्ति-सहित-सूत्रम्‌— '''गोस्त्रियोः उपसर्जनस्य प्रातिपदिकस्य ह्रस्वः |'''</big>

<big>एतावता वयम् '''अव्ययं विभक्ति-समीप-समृद्धि-व्यृद्धि- अर्थाभाव-अत्यय-असम्प्रति-शब्दप्रादुर्भाव-पश्चाद्-यथा-आनुपूर्व्य-यौगपद्य-सादृश्य-सम्पत्ति-साकल्य-अन्तवचनेषु'''  (२.१.६) इति सूत्रे अव्ययस्य विभिन्नान् अर्थान् परिशीलितवन्तः| सम्प्रति अन्यानि अव्ययीभावसमास-सम्बद्धसूत्राणि अधीयते|</big>


:::::::::::::::::::::::::::::::::::::::[[#top | ''उपरि गम्यताम्'']]


----

Revision as of 00:45, 31 May 2021