14---samAsaH: Difference between revisions

From Samskrita Vyakaranam
14---samAsaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 25: Line 25:


<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>
<big>अस्य पाठस्य अन्तर्भूताः भागाः --</big>





<big>[[01 - समासपरिचयः|01   - '''समासपरिचयः''']]</big>
<big>[[01 - समासपरिचयः|01   - '''समासपरिचयः''']]</big>


<big>[[02A - अव्ययीभावसमासः|02A   - '''अव्ययीभावसमासः''']]</big>
<big>[[02A - अव्ययीभावसमासः|02A   - '''अव्ययीभावसमासः''']]</big>


<big>[[02B - अव्ययीभावसमासः, द्वितीयभागः|02B - '''अव्ययीभावसमासः, द्वितीयभागः''']]</big>
<big>[[02B - अव्ययीभावसमासः, द्वितीयभागः|02B - '''अव्ययीभावसमासः, द्वितीयभागः''']]</big>


<big>[[03A - तत्पुरुषसमासः - सामान्यतत्पुरुषः|03A - '''तत्पुरुषसमासः''' '''- सामान्यतत्पुरुषसमासः''']]</big>
<big>[[03A - तत्पुरुषसमासः - सामान्यतत्पुरुषः|03A - '''तत्पुरुषसमासः''' '''- सामान्यतत्पुरुषसमासः''']]</big>


<big>[[03B- तत्पुरुषसमासः - नञ्प्रभृतयः|03B - '''तत्पुरुषसमासः''' '''- नञ्प्रभृतयः''']]</big>
<big>[[03B- तत्पुरुषसमासः - नञ्प्रभृतयः|03B - '''तत्पुरुषसमासः''' '''- नञ्प्रभृतयः''']]</big>


<big>[[03C - तत्पुरुषसमासः - कर्मधारयः|03C - '''तत्पुरुषसमासः -''' '''कर्मधारयसमासः''']]</big>
<big>[[03C - तत्पुरुषसमासः - कर्मधारयः|03C - '''तत्पुरुषसमासः -''' '''कर्मधारयसमासः''']]</big>
Line 43: Line 44:
<big>[[04 - बहुव्रीहिसमासः|04   - '''बहुव्रीहिसमासः''']]</big>
<big>[[04 - बहुव्रीहिसमासः|04   - '''बहुव्रीहिसमासः''']]</big>


<big>[[05 - द्वन्द्वसमासः|05   - '''द्वन्द्वसमासः''']]</big>
<big>[[05 - द्वन्द्वसमासः|05   - '''द्वन्द्वसमासः''']]</big>


<big>[[06- अलुक् -प्रकरणम्|06 - '''अलुक्-प्रकरणम्''']]</big>
<big>[[06- अलुक् -प्रकरणम्|06 - '''अलुक्-प्रकरणम्''']]</big>


<big>[[07 - परिशिष्टम्|07  - '''परिशिष्टम्''']]</big>
<big>[[07 - परिशिष्टम्|07   - '''परिशिष्टम्''']]</big>





Revision as of 07:55, 10 June 2021

अत्र समासप्रकरणस्य अध्ययनं भवति |ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति, ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः|  येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः, ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः |समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यवश्यकम् अस्ति|तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति|पाणिनेः अष्टाध्यायां कारकप्रकरणस्य, समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते | समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति | यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनार्थं तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते |

 

सामान्यतया शात्राध्यनने समासप्रकरणस्य अध्ययनम् अन्यान् सर्वान् प्रकरणान् पठित्वा अन्ते भवति |किमर्थम् इति चेत् समासप्रकरणस्य अतीव गहनसम्बन्धः वर्तते अन्यैः प्रकरणैः सह |समासप्रकरणं पठितुं कारकप्रकरणस्य, सुबन्तप्रकरणस्य च ज्ञानम् अत्यावश्यकम्|

अस्माकं समासकरपत्राणि मातुः पाठ्यक्रमम् आश्रित्य  रचितानि सन्ति |मातुः पाठे किं वैशिष्ट्यं वर्तते ? मातुः समासप्रकरणे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं पाठ्यक्रमः अपेक्षितः इत्यत्र उच्यते ।

मातुः समासप्रकरणं पाणिनेः समासप्रकरणम् एव; वैयाकरणसिद्धान्तकौमुदी अपि तथा | तर्हि तयोः भेदः कुत्र वर्तते इत्यत्र उच्यते |द्वयोः विवरणं  तु तदेव, अतः विवरणदृष्ट्या भेदो नास्ति |उत्तरं प्राप्यते पाठ्यक्रमे - येन क्रमेण सर्वं विवरणं दत्तं, तत्र महान्‌ भेदः वर्तते |समासप्रकरणे बहूनि सूत्राणि वर्तन्ते, अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा ।

प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य अन्यैः प्रकरणै सह  सम्बन्धः प्रतिपाद्यते येन समग्रहदृष्टिः सिद्ध्यति |

) सम्पूर्णसमासप्रकरणस्य मानचित्रं दीयते |अष्टाध्यायां  केषाम् अध्यायानां, सूत्राणाम्, अधिकाराणां च ज्ञानम् अत्यावश्यकं समासप्रकरणस्य अध्ययनार्थम् इति पाठस्य आरम्भे एव माता वदति येन अस्माकं मनसि एकं मानचित्रं भवति |

) समास-कारकयोः सम्बन्धः  स्पष्टीक्रियते अनेन कुत्र समासः निषिध्यते, किमर्थं कस्यचित् विभक्तेः उपयोगः इति ज्ञायते |

) समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे ज्ञायते ।

४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते ।

एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः | मातुः पाठस्य मार्गः ह्रस्वः | मातुः क्रमे तर्कः विद्यते, सर्वम्‌ आयोजितं सूत्राणुगुणं; सिद्धान्तकौमुदी न तथा |कथमिति अग्रे तत्तकरपत्रे पश्येम |

 


अस्य पाठस्य अन्तर्भूताः भागाः --


01   - समासपरिचयः

02A   - अव्ययीभावसमासः

02B - अव्ययीभावसमासः, द्वितीयभागः

03A - तत्पुरुषसमासः - सामान्यतत्पुरुषसमासः

03B - तत्पुरुषसमासः - नञ्प्रभृतयः

03C - तत्पुरुषसमासः - कर्मधारयसमासः

03D - तत्पुरुषसमासः - द्विगुसमासः

04   - बहुव्रीहिसमासः

05   - द्वन्द्वसमासः

06 - अलुक्-प्रकरणम्

07   - परिशिष्टम्



 

Vidhya  March 2020