14---samAsaH

From Samskrita Vyakaranam
Revision as of 01:06, 28 May 2021 by Vidhya (talk | contribs)

14---samAsaH
Jump to navigation Jump to search

अत्र समासप्रकरणस्य अध्ययनं भवति |ये जनाः अधुना प्रथमवारं समासस्य पाठं पठन्ति, ते अधस्तन-प्रथमं पाठं सम्यक् पठेयुः|  येषां पूर्वमेव समासपाठस्य कश्चन अनुभावः जातः, ते प्रथमं पाठं त्यक्त्वा अग्रे गच्छेयुः |समासप्रकरणस्य अध्ययनार्थम् उपसर्जनसंज्ञायाः अभिज्ञानम् अत्यवश्यकम् अस्ति|तस्मिन् विषये प्रथमे पाठे उक्तम् अस्ति|पाणिनेः अष्टाध्यायां कारकप्रकरणस्य, समासप्रकरणस्य च मध्ये कश्चित् महत्वपूर्णः सम्बन्धः वर्तते | समासप्रकरणस्य अध्ययनार्थं कारकप्रकरणस्य केषाञ्चन सूत्राणां पूर्वज्ञानम् अपेक्षितम् अस्ति | यत्र यत्र तादृशसम्बन्धज्ञानम् आवश्यकम् अस्ति समासप्रकरणस्य अध्ययनार्थं तत्र तत्र कारकसम्बद्धसूत्राणाम् उल्लेखः क्रियते |

 

सामान्यतया शात्राध्यनने समासप्रकरणस्य अध्ययनम् अन्यान् सर्वान् प्रकरणान् पठित्वा अन्ते भवति |किमर्थम् इति चेत् समासप्रकरणस्य अतीव गहनसम्बन्धः वर्तते अन्यैः प्रकरणैः सह |समासप्रकरणं पठितुं कारकप्रकरणस्य, सुबन्तप्रकरणस्य च ज्ञानम् अत्यावश्यकम्|

अस्माकं समासकरपत्राणि मातुः पाठ्यक्रमम् आश्रित्य  रचितानि सन्ति |मातुः पाठे किं वैशिष्ट्यं वर्तते ? मातुः समासप्रकरणे किं नूतनम्‌ अस्ति अपि च किमर्थम्‌ अस्माभिः सर्वैः अयं पाठ्यक्रमः अपेक्षितः इत्यत्र उच्यते ।

मातुः समासप्रकरणं पाणिनेः समासप्रकरणम् एव; वैयाकरणसिद्धान्तकौमुदी अपि तथा | तर्हि तयोः भेदः कुत्र वर्तते इत्यत्र उच्यते |द्वयोः विवरणं  तु तदेव, अतः विवरणदृष्ट्या भेदो नास्ति |उत्तरं प्राप्यते पाठ्यक्रमे - येन क्रमेण सर्वं विवरणं दत्तं, तत्र महान्‌ भेदः वर्तते |समासप्रकरणे बहूनि सूत्राणि वर्तन्ते, अतः पाठनस्य पद्धतिः अत्यन्तं महत्त्वपूर्णा ।

प्रत्येकस्मिन्‌ स्तरे मातुः पाठ्यक्रमः पाणिनेः सूत्राणि अवलम्ब्य समायोजितः | मातुः पाठ्यक्रमे समासप्रकरणस्य अन्यैः प्रकरणै सह  सम्बन्धः प्रतिपाद्यते येन समग्रहदृष्टिः सिद्ध्यति |

) सम्पूर्णसमासप्रकरणस्य मानचित्रं दीयते |अष्टाध्यायां  केषाम् अध्यायानां, सूत्राणाम्, अधिकाराणां च ज्ञानम् अत्यावश्यकं समासप्रकरणस्य अध्ययनार्थम् इति पाठस्य आरम्भे एव माता वदति येन अस्माकं मनसि एकं मानचित्रं भवति |

) समास-कारकयोः सम्बन्धः  स्पष्टीक्रियते अनेन कुत्र समासः निषिध्यते, किमर्थं कस्यचित् विभक्तेः उपयोगः इति ज्ञायते |

) समास-तद्धितयोः सम्बन्धः प्रक्रियास्तरे ज्ञायते ।

४) उत्तरपदाधिकारस्य सम्बन्धः समासप्रकरणेन सह ज्ञायते ।

एवं च सर्वत्र सूत्राधारीकृत्य पाठ्यक्रमः व्यवस्थापितः | मातुः पाठस्य मार्गः ह्रस्वः | मातुः क्रमे तर्कः विद्यते, सर्वम्‌ आयोजितं सूत्राणुगुणं; सिद्धान्तकौमुदी न तथा |कथमिति अग्रे तत्तकरपत्रे पश्येम |

 

अस्य पाठस्य अन्तर्भूताः भागाः --

01   - समासपरिचयः

02A   - अव्ययीभावसमासः

02B - अव्ययीभावसमासः, द्वितीयभागः

03A - तत्पुरुषसमासः - सामान्यतत्पुरुषसमासः

03B - तत्पुरुषसमासः - नञ्प्रभृतयः

03C - तत्पुरुषसमासः - कर्मधारयसमासः

03D - तत्पुरुषसमासः - द्विगुसमासः

04   - बहुव्रीहिसमासः

05  - द्वन्द्वसमासः

06 - अलुक्-प्रकरणम् 

07  - परिशिष्टम्

 

Vidhya  March 2020

 

------------------


धेयम् -- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.


To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.