6---sArvadhAtukaprakaraNam-anadantam-aGgam/02a---svAdigaNaH: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 491: Line 491:


<big>Swarup – June 2013 (updated October 2015, April 2017)</big>
<big>Swarup – June 2013 (updated October 2015, April 2017)</big>


'''start here...'''

<big>---------------------------------</big>

<big>धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.</big>

<big>Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.</big>

<big>To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.</big>

Revision as of 20:46, 12 May 2021

ध्वनिमुद्रणानि--

2017 वर्गः -

१) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2017-04-26

२) svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH_+_laTi-shak-abhyAsaH_2017-05-03

३) svAdigaNaH-3_shak--loT-lang-ling_+_ci--laT-loT-lang-ling_2017-05-10

४) svAdigaNaH-4_sUtracintanam_+_ash_+_ci-Atmanepade--laT-loT-lang-ling_2017-05-17

2015 वर्गः -

१) svAdigaNaH-1_samagra-cintanavidhiH---halanta-dhAtavaH_ajantadhAtavaH_ca_2015-10-13

२) svAdigaNaH-2_halanta-ajanta-dhAtvoH-trayaH-bhedAH_+_ajAdyapitsu-kAryam---shaknu+anti_cinu+anti_2015-10-20

३) svAdigaNaH-3_halanta-ajanta-dhAtvoH-dvitIyaH-bhedAH_cinu+hi-luk_tRutIyaH-bhedaH--vikalpena-cinuvaH+cinvaH_+_rUpAbhyAsaH_2015-10-27

४) svAdigaNaH-4_rUpAbhyAsaH-caturShu-lakAreShu---parasmaipade shak-ci-shru_+_Atmanepade_ash-ci_2015-11-03

2013 वर्गः -

१) sArvadhAtukalakArAH_svAdigaNaH_2013-06-19

२) sArvadhAtukalakArAH_svAdigaNaH_2_2013-06-24


स्वादिगणे ३४ धातवः सन्ति | अयम्‌ अस्माकं प्रथमः धातुगणः यत्र अङ्गम्‌ अनदन्तम्‌; अत्र सिद्धान्तकौमुद्यां परम्परागत-पद्धत्या तिङन्तरूप-निष्पादनं अतीव भ्रमात्मकम्‌ | परन्तु पुष्पामातुः पद्धतिम्‌ अनुसृत्य—पाणिनेः वास्तविक-पद्धतिम्‌ अनुसृत्य—अङ्गम्‌ अनदन्तं चेदपि सर्वम्‌ अत्यन्तं स्पष्टं तर्कपूर्णञ्च |


पूर्वमेव अस्माभिः ज्ञातं यत्‌ सार्वधातुकलकारेषु तिङन्तस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. तिङ्‌प्रत्यय-सिद्धिः

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌


स्वादिगणे विकरणप्रत्ययः श्नु | स्वादिभ्यः श्नुः (३.१.७३) इत्यनेन श्नु-प्रत्ययः विहितः | लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपः | नु इति अवशिष्यते |


स्वादिभ्यः श्नुः (३.१.७३) = स्वादिगणे स्थितेभ्यः धातुभ्यः श्नु-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | सु आदिर्येषां ते, स्वादयः बहुव्रीहिः, तेभ्यः स्वादिभ्यः | स्वादिभ्यः पञ्चम्यन्तं, श्नुः प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिभ्यः धातुभ्यः श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके |


श्नु शित्‌ अतः तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा चि + नु इति स्थितौ | पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा तिग्‌ + नु इति स्थितौ | परन्तु श्नु अपित्‌ अतः सार्वधातुकमपित्‌ (१.२.४) इति सूत्रेण ङिद्वत्‌; तदर्थं क्क्ङिति च (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |


अनेन कारणेन प्रथमसोपाने किमपि कार्यं नास्ति |

इकारान्तधातवः     चि + नु = चिनु

उकारान्तधातवः     सु + नु = सुनु

ऋकारान्तधातवः     वृ + नु = वृणु

हलन्तधातवः        तिग्‌ + नु = तिग्नु

                      तृप्‌ + नु = तृप्नु

                      शक्‌ + नु = शक्नु

                      आप्‌ + नु = आप्नु


विकरणप्रययः ङिद्वत्‌ चेत्‌, प्रथमसोपाने त्रीणि मुख्य-कार्याणि सन्ति—

- गुणनिषेधः | एतदपि एकं कार्यम्‌ | स्वादिगणे श्नु-प्रत्ययस्य अपित्त्वात्‌ गुणनिषेधः |

- सम्प्रसारणम्‌ | ग्रहिज्या (६.१.१६) इति सूत्रेण सम्प्रसारणं भवति किति ङिति प्रत्यये परे | स्वादिगणे न को‍ऽपि सम्प्रसारणी धातुः |

- अनिदितां धातूनां नकारलोपः | अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | स्वादिगणे तादृशः एकः धातुः अस्ति | दम्भु दम्भने (हिंसायाम्‌) → दम्भ्‌ → दम्भ्‌ + श्नु → नकारलोपः → दभ्नु इति अङ्गम्‌ |


२. तिङ्‌संज्ञकप्रत्यय-सिद्धिः


तिङ्‌प्रत्यय-सिद्धिः पूर्वतने पाठे जाता एव | यत्र अङ्गम्‌ अनदन्तं, तत्र सिद्ध-तिङ्‌संज्ञकप्रत्ययाः एते—


                           परस्मैपदम्‌                                               आत्मनेपदम्‌

                                                        लट्‌-लकारः

                    ति      तः     अन्ति                                    ते      आते     अते

                        सि     थः       थ                                       से     आथे      ध्वे

                        मि      वः       मः                                      ए      वहे        महे


                                                       लोट्‌-लकारः

                 तु, तात्‌    ताम्‌     अन्तु                                 ताम्‌      आताम्‌     अताम्‌

                 हि, तात्‌    तम्‌       त                                    स्व       आथाम्‌     ध्वम्‌

                 आनि    आव     आम                                     ऐ       आवहै   आमहै


                                                       लङ्‌-लकारः

                त्‌        ताम्‌      अन्‌                                    त      आताम्‌     अत

                 स्‌        तम्‌        त                                     थाः     आथाम्‌    ध्वम्‌

                 अम्‌      व         म                                      इ       वहि        महि


                                                    विधिलिङ्‌-लकारः

                 यात्‌      याताम्‌     युः                                      ईत     ईयाताम्‌     ईरन्‌

                 याः       यातम्‌     यात                                     ईथाः   ईयाथाम्‌     ईध्वम्‌

                 याम्‌      याव       याम                                     ईय      ईवहि        ईमहि



३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


स्वादिगणे इदं कार्यं मुख्यम्‌ | अस्य सोपानस्य बोधनार्थं मातृभिः स्वादिगणीयधातवः भागद्वये विभक्ताः—अजन्तधातवः हलन्तधातवः च—यतः धातुः अजन्तो वा हलन्तो वा इत्यनेन तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं भिद्यते | तर्हि स्वादौ वर्गद्वयम्‌ अस्ति— अजन्ताः चि-धातुरिव, अपि च हलन्ताः शक्‌-धातुरिव; अनेन वर्गद्वयेन अस्माकं सर्वं कार्यं‌ प्रवर्तते |


अत्र हलन्तधातवः सामान्याः, अजन्तधातवः विशेषाः इति अवगम्यताम्‌ | नाम स्वादिगणे ये सामान्यनियमाः सन्ति, सर्वे हलन्तधातवः तान्‌ नियमान्‌ अनुसृत्य प्रवर्तन्ते | अजन्तधातवः अपि आधिक्येन तथैव प्रवर्तन्ते— किन्तु स्थलत्रये विशेषाः भवन्ति | स्थलत्रयम्‌ अग्रे सूचितम्‌ अस्ति |


स्वादिगणे प्रतिनिधि-चतुष्टेयं‌ स्वीक्रियताम्‌—


अजन्तः परस्मैपदिधातुः = चि

हलन्तः परस्मैपदिधातुः = शक्‌

अजन्तः आत्मनेपदिधातुः = चि

हलन्तः आत्मनेपदिधातुः = अश्‌


एषां चतुर्णां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्‌-लोट्‌-लङ्‌-विधिलिङ् इत्येषु) जानीमः चेत्‌, सर्वेषां स्वादिगणीय-धातूनां सार्वधातुकलकार-रूपाणि जानीमः एव | कण्ठस्थीकरणीयम्‌ इति न; सर्वं तर्काधारेण प्रवर्तते |


गतपाठे अस्माभिः दृष्टं यत्‌ सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः‌, अजाद्यपितः‌ | तर्हि स्वादिगणे अजन्तधातुभिः सह, हलन्तधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम्‌ |


अधः विशिष्टकार्याणि रक्तवर्णेन सूचितानि |


हलन्तधातूनां कार्यम्

हलादि-पित्सु = गुणः | शक्नु + ति → शक्नोति

अजादि-पित्सु = गुणः, तदा अवादेशः | शक्नु + आनि → शक्नो + आनि → शक्न्‌‌ + अव्‌ + आनि → शक्नवानि

हलाद्यपित्सु = क्क्ङिति च इत्यनेन गुण-निषेधः | शक्नु + तः → शक्नुतः

अजाद्यपित्सु = अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यनेन उवङ्‌-आदेशः | शक्नु + अन्ति → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति


अजन्तधातूनां कार्यं त्रिषु स्थलेषु भिद्यते | स्थलत्रयमपि अपित्सु एव; पित्सु न कोऽपि भेदः | अधः सम्यक्तया तोलयन्तु—


अजन्तधातूनां कार्यम्

हलादि-पित्सु = गुणः | चिनु + ति → चिनोति

अजादि-पित्सु = गुणः, तदा अवादेशः | चिनु + आनि → चिनो + आनि → चिन्‌ + अव्‌ + आनि → चिनवानि

हलाद्यपित्सु =

         - क्क्ङिति च इत्यनेन गुण निषेधः | यथा चिनु + तः → चिनुतः

         स्थलद्वये अपवादभूतकार्यम्—

       - लोटि हि-लोपः | चिनु + हि → चिनु

        - वकारमकारादौ प्रत्यये परे, उकारस्य वा लोपः | चिनु + वः → चिन्वः / चिनुवः

अजाद्यपित्सु = हुश्नुवोः सार्वधातुके इत्यनेन यण्‌‌-आदेशः | चिनु + अन्ति → चिन्‌ + व्‌ + अन्ति → चिन्वन्ति


किमर्थं स्थलत्रये हलन्तधातुरूपेभ्यः अजन्तधातुरूपाणि भिद्यन्ते ?


सर्वेषामपि स्वादिगणीय-धातूनाम्‌ अङ्गम्‌ उकारान्तं भवति— शक्‌ + नु → शक्नु; चि + नु → चिनु | तर्हि शक्नु, चिनु च अनयोः अङ्गयोः भेदः कः ? शक्नु इति अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति | हलोऽनन्तराः संयोगः (१.१.७) इत्यनेन द्वयोः व्यञ्जनयोः मध्ये स्वरः नास्ति चेत्‌, तयोः संयोग-संज्ञा भवति | तर्हि शक्नु इति अङ्गे, ककारनकारयोः वर्णयोः संयोग-संज्ञा | स्वादिगणे धातुः हलन्तः चेत्‌, तस्य धातोः अङ्गे उकारात्‌ प्राक्‌ संयोगः भवति एव | धातुः हलन्तः, तस्मात्‌ 'नु' संयुज्यते चेत्‌ धातोः अन्तिमव्यञ्जनेन सह नकारस्य संयोगः सदा भवति | शक्नु इत्यस्मिन्‌ 'क्न्‌'; आप्नु इत्यस्मिन्‌ 'प्न्‌'; अश्नु इत्यस्मिन्‌ 'श्न्‌' |


स्वादिगणे हलन्तधातूनाम्‌ अङ्गे उकारात्‌ प्राक्‌ संयोगः अस्ति; अजन्तधातूनाम्‌ अङ्गे उकारात्‌ प्राक्‌ संयोगः न कदापि भवति | चि + नु → चिनु; अत्र चि-धातुः अजन्तः (इकारान्तः) अतः नकारेण सह हल्‌-वर्णस्य संयोगः नास्ति | तथैव सर्वत्र अजन्तधातुषु | सु + नु → सुनु, वृ + नु → वृणु | अत्रैव हलन्त-अजन्तयोः भेदः—हलन्तेषु अङ्गस्य यः उकारः, सः संयोगपूर्वः उकारः; अजन्तेषु अङ्गस्य यः उकारः, सः असंयोगपूर्वः उकारः |


हलन्त-अजन्त-धात्वोः मध्ये, तिङन्तेषु स्थलत्रये भेदः वर्तते; तस्य कृते सूत्रत्रयं, प्रत्येकस्मिन्‌ सूत्रे अनया एव रीत्या भेदः उक्तः यत्‌— अङ्गे उकारः असंयोगपूर्वः चेत्‌, कार्यं भिद्यते | असंयोगपूर्व-उकारः केवलम्‌ अजन्तधातुषु भवति अतः यत्र सूत्रेषु 'असंयोगपूर्व' दृश्यते, तत्र अजन्तधातुः इति बोध्यम्‌ |


a) प्रथमभेदः— अजाद्यपित्सु हलन्तधातूनाम्‌ उवङ्‌, अजन्तधातूनां यण्‌


अजाद्यपित्सु उवङ्‌-आदेशः इति सामान्य-नियमः | हलन्तधातवः सामान्याः अतः ते इमं नियमं पालयन्ति | अजन्तधातवः अत्र अपवादभूताः; तेषां यण्‌-आदेशः भवति (उवङ्‌ प्रबाध्य) |


शक्नु + अन्ति → शक्न्‌ + उव्‌ + अन्ति → शक्नुवन्ति (उवङ्‌)

चिनु + अन्ति → चिन्‌ + व्‌ + अन्ति → चिन्वन्ति (यण्‌)


अत्र तर्कक्रमः एवम्‌—


'शक्नु + अन्ति' अत्र अङ्गम्‌ उकारान्तं, प्रत्ययः अजाद्यपित् | अस्मिन्‌ प्रसङ्गे यण्‌-सन्धेः प्रसक्तिः (इको यणचि); इदं सूत्रं सर्वसामान्यम्‌— इक्‌ पूर्वम्‌, अच्‌ परं चेत्‌, सर्वत्र प्रसक्तम्‌ | अतः शक्नु + अन्ति → शक्न्‌ + व्‌ + अन्ति → 'शक्न्वन्ति' इति भवति स्म इको यणचि (६.१.७७) इति सूत्रेण | किन्तु यण्‌-सन्धिं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण उवङ्‌ विधीयते |


इको यणचि (६.१.७७) = इकः स्थाने यण्‌-आदेशः स्यात्‌ अचि परे संहितायां विषये | इकः यण्‌ स्यात्‌ असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम्‌ (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण्‌ बाधितम्‌) | इकः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | संहितायाम्‌ (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इकः यण्‌ अचि संहितायाम्‌ |


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम्‌ इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानाम्‌ इयङुवङौ अचि |


स्वादिगणे फलितार्थः एवं यत्‌ अजाद्यपित्सु श्नु-प्रत्ययान्तस्य उकारस्य स्थाने उवङ्‌-आदेशः | सर्वेषां स्वादिगणीय-धातूनां कृते अस्य सूत्रस्य प्रसक्तिः |


उवङ्‌ इति आदेशस्य ङकारस्य अकारस्य च इत्‌-संज्ञा भवति अतः उव्‌ अवशिष्यते | उव्‌‌ इत्यस्मिन्‌ एकः एव वर्णः न अपि तु तस्मात्‌ अधिकाः वर्णाः ('उ', 'व्‌‌' इति), अतः अनेकाल्‌ अस्ति | तर्हि अत्र अनेकाल्शित्‌ सर्वस्य (१.१.५५) इत्यनेन 'शक्नु' इत्यस्य पूर्णतया स्थाने उवङ्‌ | परन्तु ङिच्च (१.१.५३) इति अपवादसूत्रेण आदेशः ङित्‌ चेत्‌, अनेकाल्‌ चेदपि अङ्गस्य अन्त्यस्य एव स्थाने आदेशः | उवङ्‌ ङित्‌ अतः 'शक्नु' इत्यस्य उकारस्य एव स्थाने उव्‌ आदेशः | तुदादिगणे अपि एतादृशं कार्यम्‌ अवलोकितम्‌‍, इकारान्तधातुषु उकारान्तधातुषु च |


अनेकाल्शित्‌ सर्वस्य (१.१.५५) = आदेशः अनेकाल्‌ शित्‌ च चेत्‌, सर्वस्य स्थाने आदेशो भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल्‌ यस्य सः अनेकाल्‌, बहुव्रीहिः | श इत्‌ यस्य सः शित्‌, बहुव्रीहिः | अनेकाल्‌ च शित्‌ च अनेकाल्शित्‌, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल्‌ इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल्‌ इत्युक्तौ तादृशः आदेशः यस्मिन्‌ एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल्‌ प्रथमान्तं, शित्‌ प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाल्शित्‌ सर्वस्य स्थाने |


ङिच्च (१.१.५३) = ङित्‌ आदेशः अनेकाल्‌ चेदपि अन्त्यस्य एव स्थाने भवति न तु सर्वस्य | ङ इत्‌ यस्य सः ङित्‌, बहुव्रीहिः | ङित्‌ प्रथमान्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात्‌ स्थाने इत्यस्य अनुवृत्तिः | अलोऽन्त्यस्य (१.१.५२) इत्यस्मात्‌ अलः, अन्त्यस्य इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— ङित्‌ च अन्त्यस्य अलः स्थाने |


तर्हि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इति सूत्रेण अजाद्यपित्सु श्नुप्रत्ययान्तस्य उकारस्य स्थाने उवङ्‌-आदेशः | सर्वेषां स्वादिगणीय-धातुनां कृते—हलन्तधातूनाम्‌ अपि (यथा शक्‌), अजन्तधातूनाम्‌ अपि (यथा चि)—अयम्‌ उवङ्‌ आदिष्टः | किन्तु अत्र हुश्नुवोः सार्वधातुके (६.४.८७) इति सूत्रेण अङ्गस्य प्रत्यय-सम्बन्धी उकारः असंयोगपूर्वः चेत्‌, यण्‌-आदेशः विधीयते |


हुश्नुवोः सार्वधातुके (६.४.८७) = हु-धातुः च अनेकाच्‌ श्नुप्रत्ययान्तम्‌ अङ्गं च, तयोः, असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यण्‌-आदेशो भवति अजादि-सार्वधातुकप्रत्यये परे | स्थानेऽन्तरतमः (१.१.५०) इत्यनेन उकारस्य स्थाने, यण्‌-प्रत्याहारे स्थितेषु वर्णेषु वकारः चितः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य स्थाने आदेशः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन अचि इत्युक्तौ अजादि-प्रत्यये | हुश्च श्नुश्च तयोरितरेतरद्वन्द्वः हुश्नुवौ, तयोः हुश्नुवोः | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | हुश्नुवोः षष्ठ्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; इणो यण्‌ (६.४.८१) इत्यस्मात् यण्‌ इत्यस्य अनुवृत्तिः; एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) इत्यस्मात्‌ अनेकाचः, असंयोगपूर्वस्य इत्यनयोः अनुवृत्तिः; ओः सुपि (६.४.८३) इत्यस्मात् ओः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अनेकाचः हुश्नुवोः असंयोगपूर्वस्य ओः अङ्गस्य यण्‌ अचि सार्वधातुके |


स्वादिगणे फलितार्थः एवं यत् अजाद्यपिति परे असंयोगपूर्वस्य उकारस्य स्थाने यण्‌-आदेशः भवति |


अजाद्यपित्सु, सर्वेषां स्वादिगणीय-धातूनां कृते इको यणचि (६.१.७७) इत्यनेन यण्‌-आदेशः प्रसक्तः; तदा तं प्रबाध्य अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्‌ विहितः सर्वेषां धातूनां प्रसङ्गे; तदा अजन्तधातूनां कृते उवङ्‌-आदेशं प्रबाध्य हुश्नुवोः सार्वधातुके (६.४.८७) इत्यनेन पुनः यण्‌ आदिष्टः | सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य अपि प्रसक्तिः अत्र इति स्मर्यतां, तदा अपित्त्वात्‌ गुणनिषेधो भवति | आहत्य अजाद्यपित्सु सूत्रक्रमः एवं भवति— इको यणचि (६.१.७७) → सार्वधातुकार्धधातुकयोः (७.३.८४) → सार्वधातुकमपित्‌ (१.२.४), क्क्ङिति च (१.१.५) → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) → हुश्नुवोः सार्वधातुके (६.४.८७) |


मनसि बोध्यं यत्‌ अजादिपित्सु अपि इमानि सूत्राणि—इको यणचि (६.१.७७), अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७), हुश्नुवोः सार्वधातुके (६.४.८७)—एषां त्रयाणां सूत्राणां प्रसक्तिः अस्ति | चिनु + आनि | 'आनि' अजादि-प्रत्ययः; त्रिषु अपि सूत्रेषु निमित्तम्‌ अस्ति 'अचि'—अजादि-प्रत्यये परे | अजादिपित्-प्रत्ययः अपि अजादिः, अतः अत्रापि इमानि त्रीणि सूत्राणि आगत्य कार्यं कर्तुम्‌ उद्युक्तानि | परन्तु तत्र सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य परसूत्रात्‌ बलम्‌, अतः अनेन गुणो भवति चिनो + आनि | गुणकार्यानन्तरं त्रयाणां सूत्राणां प्रसक्तिः नास्ति | फलितार्थः एवं यत् उवङ्‌ च यण्‌ च भवतः केवलं किति ङिति अजादि-प्रत्यये परे | सूत्रे तादृशं 'किति ङिति' इति वदनस्य आवश्यकता नासीत्‌ पाणिनिनः | किमर्थम्‌ ? यतोहि कित्‌ ङित्‌ नास्ति चेत्‌ गुणः भविष्यति न तु उवङ्‌/यण्‌ |


b) द्वितीयभेदः—परस्मैपदे लोटि मध्यमपुरुषैकवचने, सेर्ह्यपिच्च (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत्‌ अङ्गम्‌ अदन्तं चेत्‌ अतो हेः (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम्‌ अनदन्तं चेत्‌ हि-लोपः न [शक्नु + हि → शक्नुहि] | परन्तु उकारान्ताङ्गं चेत्‌, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम्‌ अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन हलन्तधातुभ्यः 'हि' तिष्ठति यथासामान्यम्‌; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु] |


उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) = प्रत्ययावयव-उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, परस्य हि-प्रत्ययस्य लुक्‌ (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्‌, सः असंयोगपूर्वः, बहुव्रीहिः; तस्मात्‌ असंयोगपूर्वात्‌ | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात्‌ पञ्चम्यन्तम्‌, असंयोगपूर्वात्‌ पञ्चम्यन्तम्‌, अनेकपदमिदं सूत्रेम् | चिणो लुक्‌ (६.४.१०४) इत्यस्मात्‌ लुक्‌ इत्यस्य अनुवृत्तिः | अतो हेः (६.४.१०५) इत्यस्मात्‌ हेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— असंयोगपूर्वात्‌ उतः प्रत्ययात्‌ अङ्गात्‌ च हेः लुक्‌ |


c) तृतीयभेदः—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | हलन्तधातूनां कृते अस्य नियमस्य पालनं सर्वत्र; अजन्तधातूनां कृते, हलाद्यपित्‌ प्रत्ययः मकारादिः वकारादिः चेत्‌, विकल्पेन अङ्गान्तस्य उकारस्य लोपो भवति | चिनु + वः → चिन्वः/चिनुवः |


लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य "असंयोगपूर्वस्य प्रत्ययस्य उतः" इत्यस्य उल्लेखः | म्‌ च व्‌ च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्‌, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्‌, अनेकपदमिदं सूत्रम्‌ | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अस्य असंयोगपूवस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम्‌ |


सारांशः एवं यत्‌ अङ्गम्‌ उकारान्तम्‌ अस्ति चेत्‌, अपि च उकारात्‌ प्राक्‌ संयोगः नास्ति चेत्‌, अपि च मकारादिः वकारादिः च प्रत्ययः परोऽस्ति चेत्‌, तर्हि उकारस्य लोपः भवति विकल्पेन |


चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि


सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—

१. तिङ्‌प्रत्ययः पित्‌ वा अपित्‌ वा ?

२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?


तावत्‌ एव अस्ति; अनयोः प्रश्नयोः उत्तरं जानीमः चेत्‌, सर्वाणि रूपाणि जानीमः | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा (अथवा ज्ञात्वा) शक्‌, चि (परस्मैपदे), अश्‌, चि (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयतु |


A. हलन्तधातुषु शक्‌-धातुः


शक् + श्नु → शक् + नु → शक्नु इत्यङ्गम्‌ | अधः सर्वत्र शक्नु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |


धेयं यत्‌ अपित्सु अपि सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम्‌ ? सर्वे तिङ्‌-संज्ञकप्रत्ययाः तिङ्‌शित्‌ सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण सार्वधातुकाः | परन्तु सार्वधातुकमपित्‌ (१.२.४) इत्यनेन अपित्‌ सार्वधातुकप्रत्ययाः ङिद्वत्‌ भवन्ति | तदा क्क्ङिति च (१.१.५) इत्यनेन गुण-निषेधः |


शक्नु + सि इति स्थितौ, आदेशप्रत्यययोः (८.३.५९) इत्यनेन षत्वं भवति—


आदेशप्रत्यययोः (८.३.५९) = इण्‌-प्रत्याहारात्‌ कवर्गीयात्‌ च आदेशरूपी अथवा प्रत्ययावयवः अपदान्तः सकारः अस्ति चेत्‌, तस्य सकारस्य स्थाने षकारादेशो भवति; नुम्‌, विसर्गः, शर्‍-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेदपि कार्यं भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्‌-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌, ष्‌ इत्येषु मूर्धन्यवर्णेषु सकारेण षकारस्य नैकट्यम्‌, अतः षकारः एव आदिष्टः भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम्‌ एकपदमिदं सूत्रम्‌ | सहे साडः सः (८.३.५६) इत्यस्मात्‌ सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम्‌ इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


B. अजन्तधातुषु चि-धातुः उभयपदी | अत्र परस्मैपदे |


चि + श्नु → चि + नु → गुणस्य प्रसक्तिः, तदा निषेधः → चिनु इत्यङ्गम्‌ | अधः सर्वत्र चिनु इत्यङ्गं स्वीकृत्य कार्याणि प्रवर्तनीयानि |


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


C. हलन्तधातुषु अश्‌-धातुः आत्मनेपदे | [अश्नु इति अङ्गम्‌] (अश्‌ व्याप्तौ)


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


D. अजन्तधातुषु चि-धातुः उभयपदी | अत्र आत्मनेपदे | [चिनु इति अङ्गम्‌]


अग्रे चतुर्षु लकारेषु तिङन्तरूपाणि वक्तव्यानि | उपरि दत्तानां नियमानाम्‌ आधारेण रूप-चिन्तनं करोतु |


रूपाणि

लटि —

लोटि—

लङि—

विधिलिङि—


एतावता पद्धतिः अवगता स्यात्‌ ‌| सर्वप्रथमं धातुः अजन्तो वा हलन्तो वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्‌—

१. तिङ्‌प्रत्ययः पित्‌ वा अपित्‌ वा ?

२. तिङ्‌प्रत्ययः अजादिः वा हलादिः वा ?


अधुना अभ्यासः अपेक्षते | अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान्‌ पुरतः स्थापयित्वा एषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु—


स्वादिगणीयाः धातवः


अजन्तधातवः


इकारान्ताः

चिञ्‌ चयने → निरनुबन्ध-धातुः चि → अङ्गं चिनु → लटि चिनोति/चिनुते

षिञ्‌ बन्धने → सि → सिनु → सिनोति/सिनुते

शि‍ञ्‌ निधाने → शि → शिनु → शिनोति/शिनुते

डुमिञ्‌ प्रक्षेपणे → मि → मिनु → मिनोति/मिनुते

हिञ्‌ गतौ वृद्धौ → हि → हिनु → हिनोति/हिनुते

रि हिंसायाम्‌ → रि → रिणु → रिणोति

क्षि हिंसायाम्‌ → क्षि → क्षिणु → क्षिणोति

चिरि हिंसायाम्‌ → चिरि → चिरिणु → चिरिणोति

जिरि हिंसायाम्‌ → जिरि → जिरिणु → जिरिणोति


उकारान्ताः

धुञ्‌ कम्पने → धु → धुनु → धुनोति/धुनुते

टुदु उपतापे → दि → दुनु → दुनोति

षुञ्‌ अभिषवे → सु → सुनु → सुनोति/सुनुते


ऋकारान्ताः

कृञ्‌ हिंसायाम्‌ → कृ → कृणु → कृणोति/कृणुते

पृ प्रीतौ → पृ → पृणु → पृणोति

स्पृ प्रीतिपालनयोः → स्पृ → स्पृणु → स्पृणोति

दृ हिंसायाम्‌ → दृ → दृणु → दृणोति

स्तृञ्‌ आच्छादने → स्तृ → स्तृणु → स्तृणोति/स्तृणुते

वृञ्‌ वरणे → वृ → वृणु → वृणोति/वृणुते


हलन्तधातवः


शक्लृ शक्तौ → शक्‌ → शक्नु → शक्नोति

षघ हिंसायाम्‌ → सघ्‌ → सघ्नु → सघ्नोति

दघ घातने पालने च → दघ्‌ → दघ्नु → दघ्नोति

चमु भक्षणे → चम्‌ → चमु → चम्नोति

अशू व्याप्तौ सङ्घाते च → अश्‌ → अश्नु → अश्नुते

अह व्याप्तौ → अह्‌ → अह्नु → अह्नोति

तिक आस्कन्दने (आक्रमणे) गतौ च → तिक्‌ → तिक्नु → तिक्नोति

तिग आस्कन्दने (आक्रमणे) गतौ च → तिग्‌ → तिग्नु → तिग्नोति

ष्टिघ आस्कन्दने → स्तिघ्‌ → स्तिघ्नु → स्तिघ्नुते

ऋधु वृद्धौ → ऋध्‌ → ऋध्नु → ऋध्नोति

तृप प्रीणन इत्येके (तृप्तः भवति) → तृप्‌ → तृप्नु → तृप्नोति*

ञिधृषा प्रागल्भ्ये → धृष्‌ → धृष्णु → धृष्णोति

राध संस्क्द्धौ → राध्‌ → राध्नु → राध्नोति

साध संस्क्द्धौ → साध्‌ → साध्नु → साध्नोति

आपॢ व्याप्तौ (व्याप्तः भवति, प्राप्तः भवति) → आप्‌ → आप्नु → आप्नोति

दम्भु दम्भने (हिंसायाम्‌) → दम्भ्‌ → दभ्नु → दभ्नोति | दम्भु अनिदित्‌ धातुः अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन किति ङिति प्रत्यये परे नकारलोपः | श्नु-प्रत्ययः ङिद्वत्‌ |

दाशृ हिंसायाम्‌ → दाश्‌ → दाश्नु → दाश्नोति


*क्षुभ्नादिषु च (८.४.३९) = क्षुभ्नादिगणे पठितानां शब्दानां नकारस्य स्थाने णकारादेशो न भवति | क्षुभ्ना आदिर्येषां ते क्षुभ्नादयः, तेषु क्षुभ्नादिषु | क्षुभ्नादिषु सप्तम्यम्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | रषाभ्यां नो णः समानपदे (८.४.१) इत्यस्मात्‌ नः, णः इत्यनयोः अनुवृत्तिः | भाभूपूकमिगमिप्यायीवेपाम्‌ (८.४.३४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌ संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— क्षुभ्नादिषु च नः णः न संहितायाम्‌ |


श्रु श्रवणे → श्रु → शृणु → शृणोति


श्रु-धातुः भ्वादिगणे स्थापितः धातुपाठे, किञ्च व्यावहारिकत्वेन स्वादीगणीयः एव | कर्त्रर्थे सार्वधातुके परे, श्रु-धातोः शृ इति धात्वादेशो भवति |


श्रुवः शृ च (३.१.७४) = कर्त्रर्थक-सार्वधातुकप्रत्यये परे श्रु-धातोः शृ इति धात्वादेशश्च, श्नु-प्रत्ययः धातुतः विहितश्च | श्रुवः पञ्चम्यन्तं, शृ लुप्तप्रथमाकं पदं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | स्वादिभ्यः श्नुः (३.१.७३) इत्यस्मात्‌ श्नुः इत्यस्य अनुवृत्तिः | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— श्रुवः धातोः शृ च श्नुः प्रत्ययः परश्च कर्तरि सार्वधातुके |


इति स्वादिगणे समग्रं तिङ्‌-सम्बद्धं सार्वधातुकप्रकरण-चिन्तनं समाप्तम्‌ | परस्मैपदे केवलं धातुद्वयं ज्ञातव्यम्‌— अजन्तधातुः चि, हलन्तधातुः शक्‌; आत्मनेपदे अजन्तधातुः चि, हलन्तधातुः अश्‌ | अनेन सर्वेषां चतुस्त्रिंशतः धातूनां सार्वधातुकलकाररूपाणि ज्ञातानि |


Swarup – June 2013 (updated October 2015, April 2017)