6---sArvadhAtukaprakaraNam-anadantam-aGgam/03a---tanAdigaNaH: Difference between revisions
m (Vidhya moved page 03 - तनादिगणः to 03A - तनादिगणः) |
No edit summary |
||
Line 1: | Line 1: | ||
<big>ध्वनिमुद्रणानि--</big> |
<big>ध्वनिमुद्रणानि--</big> |
||
Revision as of 18:36, 16 May 2021
ध्वनिमुद्रणानि--
2017 वर्गः-
१) tanAdigaNaH---paricayaH_2017-07-12
२) tanAdigaNaH---angakAryam_2017-07-19
३) tanAdigaNaH---angakAryam_+_parasmaepade--ऋण्_+_तन्_2017-07-26
2015 वर्गः-
१) tanAdigaNaH-1_samagra-cintanavidhiH---svAdigaNa-iva-sanyogapUrva-asanyogapUrva-bhedaH_2015-11-10
२) tanAdigaNaH-2_sanyogapUrva-asanyogapUrva-bhedadvayam_+_arNu-tanu--rUpAbhyAsyaH_laTi_2015-11-17
३) tanAdigaNaH-3_kRu-dhAtuH_sUtrANi-abhyAsaH_ca--laT-loT-lang-vidhiling_2015-11-24
तनादिगणे १० धातवः सन्ति | अत्र तेषां सार्वधातुकलकाराणां तिङन्तरूपाणि परिशीलनीयानि | तनादिगणीयेभ्यः धातुभ्यः कर्त्रर्थके सार्वधातुकप्रत्यये परे कर्तरि शप् (३.१.६८) इति सूत्रेण शप् विधीयते; तदा शपं प्रबाध्य तनादिकृञ्भ्यः उः (३.१.७९) इति सूत्रेण उ-विकरणप्रत्ययः विहितः भवति | अयम् उ-प्रत्ययः कीदृशः ? तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ् वा शित् वा अस्ति, सः सार्वधातुक-प्रत्ययः | यः कोऽपि प्रत्ययः धातुभ्यः विहितः परन्तु तिङ्शित् नास्ति, सः प्रत्ययः आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण आर्धधातुक-प्रत्ययः भवति | तर्हि उ-प्रत्ययः धातुभ्यः विहितः, अपि च तिङ्शित् नास्ति इति कारणतः आर्धधातुक-प्रत्ययः अयम् | दशसु गणेषु तनादिगणः एक एव गणः यस्मिन् विकरण-प्रत्ययः आर्धधातुकम् |
तनादिकृञ्भ्यः उः (३.१.७९) = तनादिगणे स्थितेभ्यः धातुभ्यः, कृ-धातुतश्च उ-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | तन् आदिर्येषां ते, तनादयः बहुव्रीहिः, तनादयश्च कृञ् च तेषामितरेतरद्वन्द्वः तनादिकृञः, तेभ्यः तनादिकृञ्भ्यः | तनादिकृञ्भ्यः पञ्चम्यन्तं, उः प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— तनादिकृञ्भ्यः धातुभ्यः उः प्रत्ययः परश्च कर्तरि सार्वधातुके |
कृ-धातुः तनादिगणे एव पठितः इत्यस्मात् किमर्थं पुनः उक्तं सूत्रे यत् कृ-धातुतः उ-विकरणं भवति, इत्यस्मिन् प्रसङ्गे विवरणम् अपेक्षितम् | द्विवारं वदनेन नियमयति यत् कृ-धातोः उ-प्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीय-विधयः कृ-धातुकृते न प्रसक्ताः | द्विवारं वदनेन नियमः कृतः, सीमा अध्यारोपिता यत् उ-प्रत्ययस्य एव विधानम्; एतदर्थमेव तनादिगणे स्थापितः; अन्ये तनादिगणीय-विधयः, कृधातुतः न भवन्ति |
विकरणप्रत्ययः आर्धधातुकः, लकारः सार्वधातुकः—इत्यनेन समस्या वा ?
उ-विकरणप्रत्ययस्य आर्धधातुकत्वात् तनादिगणीयेषु तिङन्तरूपेषु कीदृशः प्रभावः, इति काचन प्रमुखा जिज्ञासा | अत्र अस्माकं विषयः सार्वधातुकलकाराः (लट्, लोट्, लङ्, विधिलिङ्); यत्र विकरणप्रत्ययः आर्धधातुकं, तत्र लकारः कथं वा सार्वधातुकः भवेत् ? यथा प्रत्ययः, तथा लकारः किल; अयं सामान्यप्रश्नः जनानाम् | वस्तुतः विकरणप्रत्ययः कीदृशोऽपि भवतु नाम, लकारः सार्वधातुको वा आर्धधातुको वा इति प्रश्नः च विकरणप्रत्ययस्य स्वभावः च— अनयोः द्वयोः वार्तयोः न कोऽपि सम्पर्कः |
तर्हि सार्वधातुकलकारः नाम कः ? यत्र तिङन्तपदस्य निर्माणाक्रमे प्रक्रियायां धातुना कर्त्रर्थक-सार्वधातुक-प्रत्ययः साक्षात् दृश्यते (साक्षात् पुरतः), तत्र कर्तरि शप् इति सूत्रेण शप् विधीयते | यत्र कर्तरि शप् इत्यस्य प्रसक्तिः, तत्र सार्वधातुकलकारः इत्युच्यते |
कर्तरि शप् किं वदति ? कर्त्रर्थके सार्वधातुक-प्रत्यये परे, धातुतः शप् विहितः भवति | यथा भू + ति → कर्तरि शप् → भू + शप् + ति | अत्र भू-धातुः साक्षात् ति-प्रत्ययं पश्यति (ति सार्वधातुकः अस्ति) अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति | अपरेषु गणेषु शपं प्रबाध्य अन्यैः सूत्रैः अन्ये विकरणप्रत्ययाः विहिताः | तेषु गणेषु अपि धातोः अग्रे सार्वधातुक-तिङ्प्रत्ययः साक्षात् दृश्यते चेदेव तत्तत्गणस्य विकरणप्रत्ययः विधीयते | भ्वादौ शप्, दिवादौ श्यन्, तुदादौ श, तनादौ उ, गणमनुसृत्य धातोः अग्रे सार्वधातुक-तिङ्प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते |
भ्वादौ भू + ति, दिवादौ नश् + ति, तुदादौ लिख् + ति— यदा सार्वधातुकतिङ् साक्षात् दृश्यते, तदा विकरणं विधीयते अतः सार्वधातुकलकारः | लट्, लोट्, लङ्, विधिलिङ् इत्येषु चतुर्षु लकारेषु एवं रीत्या धातु-तिङ्प्रत्यययोः मध्ये विकरणप्रत्ययः विहितः | तत्र विकरणभेदात् गणभेदः | अतः एषु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञेयं चेत्, स च धातुः कस्मिन् गणे अस्ति इत्यवश्यं बोध्यम् |
आर्धधातुकलकारेषु गणस्य ज्ञानं नापेक्षितम् यतः मध्ये विकरणप्रत्ययः न विहितः | विकरणप्रत्ययः न विहितः यतोहि धातोः साक्षात् परं सार्वधातुकतिङ्-प्रत्ययः नास्ति | यथा लृटि सिद्ध-तिङ्प्रत्ययः अस्ति "स्यति" | भू + स्यति, इति स्थितिः | स्यति आर्धधातुकं न तु सार्वधातुकं | अत्र भू-धातुः सार्वधातुक-ति-प्रत्ययम् द्रष्टुं न शक्नोति यतः 'स्य' मध्ये अस्ति | सार्वधातुकप्रत्ययः साक्षात् पुरतः नास्ति अतः कर्तरि शप् इत्यस्य प्रसक्तिः नास्ति |
सारांशः अयं— कर्तरि शप् तदा कार्यं करोति यदा धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति | धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः, विकरणप्रत्ययस्य स्वभावः कः इति प्रश्नः, अनयोः प्रश्नयोः न कोऽपि सम्बन्धः; विकरणप्रत्ययः आयाति चेत् अनन्तरम् एव आयाति | अतः अनेन स्पष्टं यत् लकारः कीदृशः अपि च विकरणप्रत्ययः कीदृशः—अनयोः न कोऽपि सम्बन्धः |
तर्हि उ-विकरणप्रत्ययः आर्धधातुकम्, अपि च अस्माकं चत्वारः लकाराः सार्वधातुकाः— अत्र न कोऽपि सङ्घर्षः, न कोऽपि क्लेशः |
उ-विकरणप्रत्ययस्य आर्धधातुकत्वात् कीदृशः प्रभावः धातौ ?
गुणकार्ये आर्धधातुकप्रत्ययः निमित्तं भवति वा ? यत्र प्रत्ययः आर्धधातुकं, तत्र सार्वधातुकार्धधातुकयोः (७.३.८४), पुगन्तलघूपधस्य च (७.३.८६) इत्यनयोः सूत्रयोः प्रसक्तिः वा ? अस्त्येव | सार्वधातुकप्रत्ययो वा आर्धधातुकप्रत्ययो वा, द्वयोः सूत्रयोः प्रसक्तिः अस्त्येव | अधुना सार्वधातुकप्रत्ययः अपित् चेत्, तर्हि तेन गुणकार्यं निषिद्धम् सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां सूत्राभ्याम् | सार्वधातुकस्य अपित्त्वादेव गुणनिषेधः; आर्धधातुकस्य अपित्त्वात् न किमपि महत्त्वम् | आर्धधातुकप्रत्ययः कित् वा ङित् वा चेत्, तर्हि गुणकार्यं निषिद्धम् क्क्ङिति च (१.१.५) इत्यनेन | उ-प्रत्ययः आर्धधातुकं; स च उ-प्रत्ययः कित् अपि न, ङित् अपि न, अतः गुणप्रसङ्गः भवति चेत्, तर्हि उ-प्रत्ययः गुणकार्यस्य निमित्तं भवति एव | तनादिगणे एतादृशः अवसरः अस्ति | यथा क्षिण् + उ → क्षेणु |
सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्, तदा धातु-विकरणप्रत्यययोः मेलनम्
तनादिगणे दश धातवः सन्ति—डुकृञ्, तनु, क्षणु, षणु, मनु, वनु, क्षिणु, ऋणु, घृणु, वृणु इति | निरनुबन्ध-रूपाणि इमानि—कृ, तन्, क्षण्, सन्, मन्, वन्, क्षिण्, ऋण्, घृण्, वृण् | अत्र अवधेयं यत् कृ-धातुः अजन्तः; अवशिष्टाः नव धातवः हलन्ताः | नव हलन्तधातवः सामान्याः अतः एकत्र तान् परिशीलयाम | कृ-धातोः प्रक्रिया किञ्चित् भिन्ना अतः तम् अनन्तरं पश्येम |
हलन्तधातोः उपधायां लघु इक् अस्ति चेत्, तर्हि पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति | नव हलन्तधातवः सन्ति, तेषु पञ्च अदुपधधातवः— तन्, क्षण्, सन्, मन्, वन् | यत्र उपधायाम् अकारः अस्ति, तत्र इगाभावे गुणकार्यं नार्हम् | अतः एषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति | केवलं धातु-विकरणप्रत्यययोः मेलनम् |
तन् + उ → तनु
क्षण् + उ → क्षणु
सन् + उ → सनु
मन् + उ → मनु
वन् + उ → वनु
नव हलन्तधातुषु चत्वारः लघूपधधातवः (उपधायां लघु इक् येषां ते) | तत्र पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति—
क्षिण् + उ → उपधायां लघु-इकः गुणः → क्षेणु
ऋण् + उ → उपधायां लघु-इकः गुणः → अर्णु
घृण् + उ → उपधायां लघु-इकः गुणः → घर्णु
वृण् + उ → उपधायां लघु-इकः गुणः → वर्णु
२. तिङ्संज्ञकप्रत्यय-सिद्धिः
अनदन्ताङ्गानां कृते तिङ्प्रत्यय-सिद्धिः जाता एव | यत्र अङ्गम् अनदन्तं, तत्र सर्वेषां धातूनां कृते सिद्ध-तिङ्संज्ञकप्रत्ययाः समानाः इति तु वयं जानीमः | अतः तनादिगणेऽपि सिद्ध-तिङ्प्रत्ययाः एते एव—
परस्मैपदम् आत्मनेपदम्
लट्-लकारः
ति तः अन्ति ते आते अते
सि थः थ से आथे ध्वे
मि वः मः ए वहे महे
लोट्-लकारः
तु, तात् ताम् अन्तु ताम् आताम् अताम्
हि, तात् तम् त स्व आथाम् ध्वम्
आनि आव आम ऐ आवहै आमहै
लङ्-लकारः
त् ताम् अन् त आताम् अत
स् तम् त थाः आथाम् ध्वम्
अम् व म इ वहि महि
विधिलिङ्-लकारः
यात् याताम् युः ईत ईयाताम् ईरन्
याः यातम् यात ईथाः ईयाथाम् ईध्वम्
याम् याव याम ईय ईवहि ईमहि
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
अत्र तिबादीन् निमित्तं मत्वा अङ्गकार्यं क्रियते | यथा तनु इति अङ्गं, ति इति प्रत्ययः | तनु + ति → गुणः → तनो + ति | अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशम् | स्वादिगणे कथम् आसीत् इति स्मरन्तु | धातूनां विभागद्वयम्—अजन्तधातवः हलन्तधातवः च | किमर्थम् एवम् आसीत् ? यतः स्वादिगणे अजन्तधातूनाम् अङ्गम् असंयोगपूर्वं (चिनु); हलन्तधातूनाम् अङ्गं संयोगपूर्वं (शक्नु) इति | स्वादिगणे सर्वत्र अङ्गम् उकारान्तं किल, श्नु प्रत्ययस्य कारणात् | यत्र अङ्गम् उकारान्तं, तत्र उकारात् प्राक् द्वयोः हलोः संयोगः अस्ति चेत्, अङ्गं संयोगपूर्वम् इति उच्यते | यथा शक् + नु → शक्नु इति अङ्गं संयोगपूर्वं; चि + नु → चिनु इति अङ्गम् असंयोगपूर्वम् इति | अनेन भेदेन, स्वादिगणे भागद्वयस्य कार्यं त्रिषु स्थलेषु भिद्यते स्म | स्मरन्ति वा केषु त्रिषु स्थलेषु ? — (१) अजाद्यपित्सु संयोगपूर्वात् उवङ् / असंयोगपूर्वात् यण्; (२) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः (३) असंयोगपूर्वात् हि-प्रत्ययस्य लोपः |
तनादिगणे अस्माकं नव धातवः सर्वे हलन्ताः एव, अपि च सर्वेषाम् अङ्गम् उकारान्तम् | परन्तु एषु नवसु हलन्तधातुषु, षण्णाम् अङ्गम् असंयोगपूर्वम्—तनु, क्षणु, सनु, मनु, वनु, क्षेणु | नाम एतेषां षण्णाम् अपि अङ्गे उकारात् प्राक् हलोः संयोगः नास्ति | नवसु, अवशिष्टानां त्रयाणां धातूनाम् अङ्गम् संयोगपूर्वम्—अर्णु, घर्णु, वर्णु इति | एषां त्रयाणाम् अङ्गे, उकारात् प्राक् व्यञ्जनयोः संयोगः अस्ति | अनेन संयोग-असंयोग-भेदेन, तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म, अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते — (१) वकारादि मकारादि च प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उ-लोपः; (२) असंयोगपूर्वात् हि-प्रत्ययस्य लोपः | तनादिगणे उवङ् न भवति एव, अतः अयं उवङ् / यण् भेदः न वर्तते |
फलितार्थः एवम् — तनादिगणे यत्र अङ्गं संयोगपूर्वं भवति (शक्नु इव), तत्र तिङन्तरूपाणि स्वादिगणवत् भवन्ति परन्तु अजाद्यपित्सु उवङ् स्थाने यण् एव भवति | तनादिगणे यत्र अङ्गम् असंयोगपूर्वम् (चिनु इव), तत्र तिङन्तरूपाणि स्वादिगणवत् एव भवन्ति |
यथा स्वादिगणे तनादिगणे अपि, संयोगपूर्व-अङ्गानि सामान्यानि (शक्नु इव अर्णु, घर्णु, वर्णु), असंयोगपूर्व-अङ्गानि (चिनु इव तनु, क्षणु, सनु, मनु, वनु, क्षेणु) विशेषाणि इति | नाम तनादिगणे ये सामान्यनियमाः सन्ति, अर्णु, घर्णु, वर्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते | असंयोगपूर्व-अङ्गानि (तनु, क्षणु, सनु, मनु, वनु, क्षेणु) आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तन्ते एव—किन्तु स्थलद्वये विशेषाः भवन्ति |
तदाधारेण तनादिगणे प्रतिनिधि-चतुष्टयं स्वीक्रियताम्—
संयोगपूर्वाङ्गस्य परस्मैपदिधातुः =ऋण्
असंयोगपूर्वाङ्गस्य परस्मैपदिधातुः = तन्
संयोगपूर्वाङ्गस्य आत्मनेपदिधातुः = ऋण्
असंयोगपूर्वाङ्गस्य आत्मनेपदिधातुः = तन्
एषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु (लट्-लोट्-लङ्-विधिलिङ्सु) जानीमः चेत्, तर्हि सर्वेषां तनादिगणीय-धातूनां सार्वधातुकलकार-रूपाणि जानीमः एव (कृ-धातुं विहाय) |
यथा स्वादिगणे, तनादिगणे अपि सिद्ध-तिङ्प्रत्ययाः चतुर्विधाः— हलादिपितः, अजादिपितः, हलाद्यपितः, अजाद्यपितः च | तर्हि तनादिगणे संयोगपूर्वाङ्गधातुभिः सह असंयोगपूर्वाङ्गधातुभिः सह च, एषां चतुर्णां प्रत्ययानां योजनेन कीदृशं कार्यं भवति इति मुख्यम् |
संयोगपूर्वाङ्गधातूनां कार्यम्—
हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम् | अर्णु + ति → अर्णोति |
अजादिषु पित्सु = गुणः, तदा अवादेशः | अर्णु + आनि → अर्णो + आनि → अर्ण् + अव् + आनि → अर्णवानि |
हलाद्यपित्सु = क्क्ङिति च इत्यनेन गुण निषेधः; किमपि कार्यं नास्ति | अर्णु + तः → अर्णुतः |
अजाद्यपित्सु = इको यणचि* इत्यनेन यण्-आदेशः | अर्णु + अन्ति → अर्ण् + व् + अन्ति → अर्ण्वन्ति |
*स्वादिगणे अत्र इको यणचि (६.१.७७) इति सामान्यं यण्-विधायकं सूत्रं प्रबाध्य सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणप्रसक्तिः, तदा एकवारं यदा गुणनिषेधो भवति क्क्ङिति च (१.१.५) , तत्पश्चात् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्-आदेशः भवति (यथा शक्नु + अन्ति → शक्न् + उव् + अन्ति → शक्नुवन्ति) | परन्तु अस्मिन् सूत्रे "श्नु" प्रत्ययः उक्तं न तु "उ-कारः", अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणे नास्ति | तर्हि तनादिगणे अजाद्यपित्सु यथासामान्यं यण्-आदेशः एव भवति | उ + अ → यणादेशः → व | अर्णु + अन्ति → अर्ण्वन्ति |
असंयोगपूर्वाङ्गधातूनां कार्यं केवलं स्थलद्वये भिद्यते | स्थलद्वयमपि अपित्सु एव; पित्सु न कोऽपि भेदः | अधः सम्यक्तया तोलयन्तु—
असंयोगपूर्वाङ्गधातूनां कार्यम्—
हलादिषु पित्सु = गुणः | तनु + ति → तनोति
अजादिषु पित्सु = गुणः, तदा अवादेशः | तनु + आनि → तनो + आनि → तन् + अव् + आनि → तनवानि
हलाद्यपित्सु =
- क्क्ङिति च इत्यनेन गुण निषेधः | तनु + तः → तनुतः
स्थलद्वये अपवादभूतकार्यम्—
- लोटि हि-लोपः | तनु + हि → तनु
- वकारे मकारे परे, उकारस्य वा लोपः | तनु + वः → तन्वः / तनुवः
अजाद्यपित्सु = इको यणचि* इत्यनेन यण्-आदेशः | तनु + अन्ति → तन् + व् + अन्ति → तन्वन्ति
*स्वादिगणे, यथा उपर्युक्तं हलन्तधातुषु (शक् इव) अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उवङ्; अजन्तधातुषु (चि इव) यण्-आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितं, हुश्नुवोः सार्वधातुके (६.४.८७) इति | परन्तु तनादिगणे उपरि अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः नास्ति; अत्र (असंयोगपूर्वाङ्गधातूनां कृते) यण्-आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य आवश्यकता अपि नास्ति | अतः अत्र सामान्यसूत्रम् इको यणचि (६.१.७७) इत्येव कार्यं करोति |
किमर्थं स्थलद्वये संयोगपूर्वाङ्गधातुरूपेभ्यः असंयोगपूर्वाङ्गरूपाणि भिद्यन्ते ?
कस्यापि तनादिगणीय-धातोः अङ्गम् उकारान्तं भवति किल—ऋण् + उ → गुणः → अर्णु; तन् + उ → तनु | अनयोः अङ्गयोः भेदः कः ? अर्णु इति अङ्गे उकारात् प्राक् संयोगः अस्ति | हलोऽनन्तराः संयोगः (१.१.७) इत्यनेन द्वयोः हल्-वर्णयोः मध्ये स्वरः नास्ति चेत्, तयोः संयोग-संज्ञा भवति | अज्भिरव्यवहिता हलः संयोगसंज्ञाः स्युः | तर्हि अर्णु इति अङ्गे, र्ण् इति संयोगः अस्ति | त्रिषु धातुषु (ऋण्, घृण्, वृण्) एवं भवति यतः तेषु, उपधायां ऋकारः अस्ति | उ-विकरणस्य प्रभावेन गुणः भवति, अपि च ऋकारस्य गुणः अर् अस्ति; अनेन गुणेन रेफस्य धात्वन्ते हला सह संयोगः भवति (ऋण् + उ → गुणः → अर्णु) | अवशिष्टेषु षट्सु धातुषु उपधायां ऋकारः नास्ति अतः गुणः अस्ति चेदपि (क्षिण् + उ → क्षेणु) संयोगः नैवोत्पन्नः | यत्र गुणः न भवति (तन् + उ → तनु), तत्रापि संयोगः नास्त्येव | अङ्गान्तात् उकारात् प्राक् संयोगः अस्ति चेत्, सः संयोगपूर्वः उकारः; अङ्गान्तात् उकारात् प्राक् संयोगः नास्ति चेत् सः असंयोगपूर्वः उकारः इति मुख्यम् |
a) प्रथमभेदः—परस्मैपदे लोटि मध्यमपुरुषैकवचने, सेर्ह्यपिच्च (३.४.८७) इत्यनेन सि-स्थाने हि-आदेशः | तदा सामान्यनियमः एवं यत् अङ्गम् अदन्तं चेत् अतो हेः (६.४.१०५) इत्यनेन हि-लोपः [वद + हि → वद], अङ्गम् अनदन्तं चेत् हि-लोपः न [शक्नु + हि → शक्नुहि; अर्णु + हि → अर्णुहि] | परन्तु उकारान्ताङ्गं चेत्, अपि च अन्त्यः उकारः असंयोगपूर्वः चेत्, तर्हि तत्र अङ्गम् अनदन्तं सत्यपि हि-लोपः भवति | सारांशत्वेन स्वादिगणे हलन्तधातुभ्यः "हि" तिष्ठति यथासामान्यम्; अपवादे अजन्तधातुभ्यः हि-लोपः [चिनु + हि → चिनु]; तनादिगणे सर्वे नवापि हलन्तः किन्तु तेषु नवसु, षण्णाम् अन्त्यः उकारः असंयोगपूर्वः अतः हि-लोपो भवति [तनु + हि → तनु] |
उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) = प्रत्ययावयव-उकारात् प्राक् संयोगः नास्ति चेत्, परस्य हि-प्रत्ययस्य लुक् (लोपः) भवति | न विद्यते पूर्वः संयोगः यस्मात्, सः असंयोगपूवः, बहुव्रीहिः, तस्मात् असंयोगपूर्वात् | उतः पञ्चम्यन्तं, च अव्ययपदं, प्रत्ययात् पञ्चम्यन्तम्, असंयोगपूर्वात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रेम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अतो हेः (६.४.१०५) इत्यस्मात् हेः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य असंयोगपूर्वात् प्रत्ययात् उतः च हेः लुक् |
b) द्वितीयभेदः—हलाद्यपित्सु किमपि कार्यं नास्ति इति सामान्यनियमः | यत्र संयोगपूर्वम् उकारान्तम् अङ्गम् अस्ति, तत्र अस्य नियमस्य पालनं सर्वत्र | यत्र अङ्गम् असंयोगपूर्वम् उकारान्तम् अस्ति, तत्र हलाद्यपित् प्रत्ययः मकारादि वकारादि वा चेत्, तर्हि विकल्पेन अङ्गान्तस्य उकारस्य लोपः भवति | तनु + वः → तन्वः/तनुवः |
लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) = असंयोगपूर्वस्य प्रत्ययावयव-उकारस्य विकल्पेन लोपो भवति वकारमकारादौ प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्ते उकारस्य लोपः, न तु पूर्णाङ्गस्य | 'अस्य' इत्यनेन पूर्वतनसूत्रे स्थितस्य "असंयोगपूवस्य प्रत्ययस्य उतः" इत्यस्य उल्लेखः | म् च व् च तयोरितरेतरद्वन्द्वः म्वौ, तयोः म्वोः | लोपः प्रथमान्तं, च अव्ययपदम्, अन्यतरस्यां सप्तम्यन्तं, म्वोः सप्तम्यन्त्म्, अनेकपदमिदं सूत्रम् | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्य पूर्णतया अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अस्य असंयोगपूवस्य प्रत्ययस्य उतः अङ्गस्य लोपः च म्वोः अन्यतरस्याम् |
सारांशः एवं यत् अङ्गम् उकारान्तम् अस्ति चेत्, अपि च उकारात् प्राक् संयोगः नास्ति चेत्, अपि च परे मकारादिः वकारादिः च प्रत्ययः अस्ति चेत्, तर्हि उकारस्य लोपः भवति विकल्पेन |
चतूर्णां सार्वधातुकलकाराणां तिङन्तरूपाणि
सर्वप्रथमं धातोः अङ्गं संयोगपूर्वम् उकारान्तम्, असंयोगपूर्वम् उकारान्तं वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्—
१. तिङ्प्रत्ययः पित् वा अपित् वा ?
२. तिङ्प्रत्ययः अजादिः वा हलादिः वा ?
अनयोः प्रश्नयोः उत्तरं जानीमः चेत्, तर्हि सर्वाणि रूपाणि जानीमः एव | अधुना एकवारम् अधःस्थानि उदाहरणानि अवलोकन्ताम् | तदा अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा ऋण्, तन् (परस्मैपदे), ऋण्, तन् (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु |
परस्मैपदे लट्— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)
ति, तः, अन्ति
सि, थः, थ
मि, वः, मः
A. संयोगपूर्वाङ्गधातुषु ऋण्-धातुः [अर्णु इति अङ्गम्]
ऋण् + उ → उपधायां लघु-इकः गुणः → अर्णु इत्यङ्गम् | अधः सर्वत्र अर्णु इत्यङ्गम् अधिकृत्य कार्यम् अग्रे सरति |
अर्णु + ति →
अर्णु + तः →
अर्णु + अन्ति →
अर्णु + सि →
अर्णु + थः →
अर्णु + थ →
अर्णु + मि →
अर्णु + वः →
अर्णु + मः →
धेयं यत् अपित्सु अपि सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति | किमर्थम् ? सर्वे तिङ्-संज्ञकप्रत्ययाः तिङ्-शित्सार्वधातुकम् इति सूत्रेण सार्वधातुकाः | परन्तु सार्वधातुकम् अपित् इत्यनेन अपित् सार्वधातुकप्रत्ययाः ङिद्वत् भवन्ति | तदा क्क्ङिति च इत्यनेन गुण-निषेधः |
आदेशप्रत्यययोः (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तर्हि तस्य सकारस्य स्थाने षकारादेशो भवति | अस्य कार्यस्य नाम षत्वविधिः | इण्-प्रत्याहरे इमे वर्णाः अन्तर्भूताः— इ, उ, ऋ, ऌ, ए, ओ, ऐ, औ, ह, य, व, र, ल | आदेशः तु मूर्धन्यवर्णस्य इत्येव उक्तं, परं स्थानेऽन्तरतमः इत्यनेन ट्, ठ्, ड्, ढ्, ण्, ष् इत्येषु मूर्धन्यवर्णेषु षकारस्य नैकट्यम्, अतः षकारः एव आदिष्टः भवति | नुम्, विसर्गः, शर्-प्रत्याहारस्थ-वर्णः च मध्ये सन्ति चेत् अपि कार्यं भवति | आदेशश्च प्रत्ययश्च आदेशप्रत्ययौ, तयोः आदेशप्रत्यययोः इतरेतरद्वन्द्वः | षष्ठ्यन्तम् एकपदमिदं सूत्रम् | सहे साडः सः (८.३.५६) इत्यस्मात् सः इत्यस्य अनुवृत्तिः | नुंविसर्जनीयशर्व्यवायेऽपि (८.३.५८) इत्यस्य पूर्णा अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | इण्कोः (८.३.५७), अपदान्तस्य मूर्धन्यः (८.३.५५) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां, नुंविसर्जनीयशर्व्यवायेऽपि |
B. असंयोगपूर्वाङ्गधातुषु तन्-धातुः [तनु इति अङ्गम्]
तन् + उ → तनु इत्यङ्गम् | अधः सर्वत्र तनु इत्यङ्गम् अधिकृत्य कार्यम् अग्रे सरति |
तनु + ति →
तनु + तः →
तनु + अन्ति →
तनु + सि →
तनु + थः →
तनु + थ →
तनु + मि →
तनु + वः →
तनु + मः →
परस्मैपदे लोट्—
तु, तात् ताम् अन्तु
हि, तात्, तम् त
आनि आव आम
C. संयोगपूर्वाङ्गधातुषु ऋण्-धातुः [अर्णु इति अङ्गम्]
अर्णु + तु →
अर्णु + तात् →
अर्णु + ताम् →
अर्णु + अन्तु →
अर्णु + हि →
अर्णु + तात् →
अर्णु + तम् →
अर्णु + त →
अर्णु + आनि →
अर्णु + आव →
अर्णु + आम →
तात् इत्यस्य मूलरूपं तातङ् | अयं प्रत्ययः ङित् अस्ति, अतः क्क्ङिति च इति सूत्रेण गुण-निषेधः |
हि बलात् अपित् | सेर्ह्यपिच्च (३.४.८७) इति सूत्रेण अपित्वम् अतिदिश्यते |
सेर्ह्यपिच्च (३.४.८७) = लोट्-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित् भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्, अपित् प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | लोटो लङ्वत् (३.४.८५) इत्यस्मात् लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— लोटः लस्य सेः हि अपित् च |
D. असंयोगपूर्वाङ्गधातुषु तन्-धातुः [तनु इति अङ्गम्]
लोटि ऋण्-धातुतः एकः एव भेदः— स च कः ?
एतावता पद्धतिः अवगता स्यात् | सर्वप्रथमं धातोः अङ्गं संयोगपूर्वम् असंयोगपूर्वं वा इति जानातु | तदा सर्वत्र अस्माकं चिन्तनक्रमः एवम्—
१. तिङ्प्रत्ययः पित् वा अपित् वा ?
२. तिङ्प्रत्ययः अजादिः वा हलादिः वा ?
अधुना अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा ऋण्, तन् (परस्मैपदे), ऋण्, तन् (आत्मनेपदे) इत्येषां तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु |
डुकृञ् धातुः
तनादिगणे दशधातवः सन्ति; तेषु नव हलन्तधातवः उपरि परिशीलिताः | दशसु एकः धातुः अजन्तः; स च धातुः डुकृञ् करणे | आदिर्ञिटुडवः (१.३.५) इत्यनेन डु इत्यस्य इत्-संज्ञा, हलन्तम् (१.३.३) इत्यनेन ञ् इत्यस्य इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन तयोः लोपः | निरनुबन्धरूपं कृ इति |
पूर्वं यथोक्तं, कृ-धातुः तनादिगणे एव पठितः तनादिकृञ्भ्यः उः (३.१.७९) इति सूत्रेण, किन्तु सूत्रे कृ-धातुः पुनः उक्तं किमर्थम् इति चेत्, कृ-धातोः उ-प्रत्ययः तु भवति, किन्तु अन्ये तनादिगणीय-विधयः कृ-धातुकृते न प्रसक्ताः | द्विवारं वदनेन नियमः कृतः, सीमा अध्यारोपिता यत् उ-प्रत्ययस्य एव विधानम्; एतदर्थमेव तनादिगणे स्थापितः; अन्ये तनादिगणीय-विधयः, कृ-धातुतः न भवन्ति | वक्ष्यमाणेन विशिष्टसूत्रत्रयेण धातुविकरणप्रत्यययोरङ्गं व्यावहारिकतया द्विविधं, तदा च तिङ्प्रत्ययः वकारादिः मकारादिः यकारादिः चेत्, प्रक्रिया अपरेभ्यः तनादिगणीयधातुभ्यः भिद्यते |
कृ-धातोः अङ्गद्वयम्
१) पित्सु प्रत्ययेषु— कृ + उ → सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः → कर् + उ → करु इति अङ्गम् |
२) अपित्सु प्रत्ययेषु— कृ + उ → सार्वधातुकार्धधातुकयोः इत्यनेन इकः गुणः → कर् + उ → करु → अत उत्सार्वधातुके इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु इति अङ्गम् |
अत उत्सार्वधातुके (६.४.११०) = उप्रत्ययान्तकृ-धातोः ह्रस्व-अकारस्य स्थाने उकारादेशो भवति किति ङिति सार्वधातुक-प्रत्यये परे | अतः षष्ठ्यन्तम्, उत् प्रथमान्तं, सार्वधातुके सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्मात् उतः, प्रत्ययात् चेत्यनयोः अनुवृत्तिः | विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तं कृत्वा उतः प्रत्ययस्य → येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते उ इति प्रत्ययः → उप्रत्ययान्तस्य (अङ्गस्य) | नित्यं करोतेः (६.४.१०८) इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— करोतेः उप्रत्ययान्तस्य अङ्गस्य अतः उत् क्क्ङिति सार्वधातुके |
अग्रे मनसि भवेत् यत् करु / कुरु असंयोगपूर्वाङ्गम् | यत्र च असंयोगपूर्वाङ्गकार्यं भवति, तत्र च लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) इत्यस्य अपवादभूतसूत्रं नित्यं करोतेः (६.४.१०८), येन वकारमकारादौ प्रत्यये परे कृ-धातोः प्रत्ययावयव-उकारस्य लोपः नित्यं भवति | ततः अग्रे च ये च (६.४.१०९) इत्यनेन यकारादि-प्रत्यये परे अपि कृ-धातोः प्रत्ययावयव-उकारस्य लोपो भवति | अतः तिङ्-निमित्तकं कार्यम् एवं भवति—
असंयोगपूर्वाङ्गधातूनां कार्यम्—
पित्सु करु इति अङ्गम्—
हलादिषु पित्सु = गुणः | हलादिषु किमपि सन्धिकार्यं नार्हम् | करु + ति → करोति
अजादिषु पित्सु = गुणः, तदा अवादेशः | करु + आनि → करो + आनि → कर् + अव् + आनि → करवाणि)
अपित्सु कुरु इति अङ्गम्—
हलाद्यपित्सु =
- क्क्ङिति च इत्यनेन गुण निषेधः | कुरु + तः → कुरुतः
स्थलद्वये अपवादभूतकार्यम्—
- लोटि हि-लोपः | कुरु + हि → कुरु
- वकारे मकारे यकारे परे, उकारस्य नित्यं लोपः | कुरु + वः → कुर्वः; अकुरु + म → अकुर्म; कुरु + यात् → कुर्यात्
अजाद्यपित्सु = इको यणचि* इत्यनेन यण्-आदेशः | कुरु + अन्ति → कुर् + व् + अन्ति → कुर्वन्ति
नित्यं करोतेः (६.४.१०८) = कृ-धातोः प्रत्ययावयव-उकारस्य नित्यं लोपो भवति वकारमकारादौ प्रत्यये परे | नित्यं प्रथमान्तं, करोतेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्मात् उतः, प्रत्ययात् चेत्यनयोः अनुवृत्तिः, विभक्तिपरिणामेन पदद्वयं षष्ठ्यन्तम् उतः प्रत्ययस्य | लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) इत्यस्मात् लोपः, म्वोः चेत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— करोतेः अङ्गस्य प्रत्ययस्य उतः नित्यं लोपः म्वोः |
ये च (६.४.१०९) = यकारादि-प्रत्यये परे कृ-धातोः प्रत्ययावयव-उकारस्य लोपः भवति | ये सप्तम्यन्तं, च अव्ययपदं, द्विपदमितं सूत्रम् | नित्यं करोतेः (६.४.१०८) इत्यस्मात् करोतेः इत्यस्य अनुवृत्तिः | उतश्च प्रत्ययादसंयोगपूर्वात् (६.४.१०६) इत्यस्मात् उतः, प्रत्ययात् चेत्यनयोः अनुवृत्तिः | लोपश्चास्यान्यतरस्यां म्वोः (६.४.१०७) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ये च करोतेः अङ्गस्य प्रत्ययस्य उतः लोपः |
*यथोक्तं, तनादिगणे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इत्यस्य प्रसक्तिः नास्ति, अतः अत्र (असंयोगपूर्वाङ्गधातूनां कृते) यण्-आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य हुश्नुवोः सार्वधातुके (६.४.८७) इत्यस्य आवश्यकता नास्ति | तदर्थम् अत्र सामान्यसूत्रम् इको यणचि (६.१.७७) इत्येव कार्यं करोति |
परस्मैपदे लट्— (स्थूलाक्षरैः लिखिताः प्रत्ययाः पितः | अन्ये अपितः |)
ति, तः, अन्ति
सि, थः, थ
मि, वः, मः
असंयोगपूर्वाङ्गधातुषु कृ धातुः
पित्सु कृ + उ → करु इत्यङ्गम् | अपित्सु कृ + उ → करु → कुरु इति अङ्गम् | अधः सर्वत्र इमे अङ्गे अधिकृत्य कार्यम् अग्रे सरति |
+ ति →
+ तः →
+ अन्ति →
+ सि →
+ थः →
+ थ →
+ मि →
+ वः →
+ मः →
अधुना अनदन्ताङ्गानां सिद्धतिङ्प्रत्ययान् पुरतः स्थापयित्वा कृ (परस्मैपदे), कृ (आत्मनेपदे) इत्यनयोः तिङन्तरूपाणि चतुर्षु लकारेषु उच्चारयन्तु |
तनादिगणीय-धातवः
डुकृञ् करणे → करु → करोति / कुरु → कुरुते
तनु विस्तारे → तन् → तनु → तनोति/तनुते
क्षणु हिंसायाम् → क्षण् → क्षणु → क्षणोति/क्षणुते
षणु दाने → सन → सनु → सनोति/सनुते
मनु अवबोधने → मन् → मनु → मनुते
वनु याचने → वन् → वनु → वनुते
क्षिणु हिंसायाम् → क्षिण् → क्षिणु/क्षेणु → क्षिणोति/क्षेणोति, क्षिणुते/क्षेणुते
ऋणु गतौ → ऋण् → ऋणु/अर्णु → ऋणोति/अर्णोति, ऋणुते/अर्णुते
घृणु दीप्तौ → घृण् → घृणु/घर्णु → घृणोति/घर्णोति, घृणुते/घर्णुते
तृणु अदने → तृण् → तृणु/तर्णु → तृणोति/तर्णोति, तृणुते/तर्णुते
संज्ञापूर्वको विधिरनित्यः इति वार्तिकेन एषु चतुर्षु धातुषु पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यं भवति विकल्पेन | एकस्मिन् पक्षे भवति, अपरस्मिन् पक्षे न |
Swarup – July 2013 (Updated November 2015)
---------------------------------
धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.
३ - तनादिगणः (c).pdf (97k)Swarup Bhai, Mar 31, 2019, 5:01 AM
v.1