6---sArvadhAtukaprakaraNam-anadantam-aGgam/04A---kryAdigaNaH: Difference between revisions
No edit summary |
m (Vidhya moved page 04 - क्र्यादिगणः to 04A - क्र्यादिगणः) |
(No difference)
|
Revision as of 01:30, 16 May 2021
ध्वनिमुद्रणानि--
2017 वर्गः-
१) kryAdigaNaH---paricayaH_+_pvAdigaNaH_+_samprasAraNi-dhAtavaH_2017-08-09
२) kryAdigaNaH---samprasAraNa-abhyAsaH_+_halaH-ityasya-dalasArthakyam_+_aniditaH-dhAtavaH _2017-08-16
३) kryAdigaNaH---anga-ting-pratyayayoH-melanam_+_abhyAshaH--क्री_+_ग्रह्_2017-08-23
2015 वर्गः-
१) kryAdigaNaH-1_paricayaH_+_angakAryam---pvAdigaNaH_+_samprasAriNaH-dhAtavaH_+_ज्ञा-धातुः_2015-12-01
२) kryAdigaNaH-2_angakAryam---anidit-dhAtavaH_+_ई-हल्यघोः_+_श्नाभ्यस्तयोरातः_2015-12-08
३) kryAdigaNaH-3_loT-lakAre-hi-sthAne-shAnac--हलः-श्नः-शानज्झौ_+_rUpAbhyAsaH--laTi-loTi-langi-lingi_2015-12-15
क्र्यादिगणे ६१ धातवः सन्ति | अस्य गणस्य तिङन्तरूपाणि अपि जनेभ्यः भ्रमात्मकानि | परन्तु यथा स्वादिगणे तनादिगणे च, अत्रापि रूपसिद्धिः दुष्करा न अपितु अत्यन्तं तर्कपूर्णा | सा च रूपसिद्धिः ज्ञायते चेत्, अयं गणः नैव कष्टकरः |
क्र्यादिभ्यः श्ना (३.१.८१) इति सूत्रेण श्ना इति विकरणप्रत्ययः विहितः | लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा, तस्य लोपः (१.३.९) इत्यनेन लोपः | ना इति अवशिष्यते |
क्र्यादिभ्यः श्ना (३.१.८१) = क्र्यादिगणे स्थितेभ्यः धातुभ्यः श्ना-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | कर्तरि शप् (३.१.६८) इत्यस्य अपवादः | क्रीः आदिर्येषां ते, क्र्यादयः बहुव्रीहिः, तेभ्यः क्र्यादिभ्यः | क्र्यादिभ्यः पञ्चम्यन्तं, श्ना प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— क्र्यादिभ्यः धातुभ्यः श्ना प्रत्ययः परश्च कर्तरि सार्वधातुके |
श्ना शित् अतः तिङ्शित्सार्वधातुकम् (३.४.११३) इत्यनेन सार्वधातुकप्रत्ययः | अतः सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा क्री + ना इति स्थितौ | पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणकार्यस्य प्रसक्तिः अस्ति, यथा विष् + ना इति स्थितौ | परन्तु श्ना अपित् अतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत्; तदर्थं क्क्ङिति च (१.१.५) इत्यनेन उभयत्र गुण-निषेधः |
यथा पूर्वतनेषु गणेषु, अत्रापि सार्वधातुकलकारेषु तिङन्तानां निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
अपित्त्वात् गुणनिषेधः इत्यनेन कारणेन प्रथमसोपाने सामान्यधातुषु किमपि कार्यं नास्ति |
अजन्तधातवः—
इकारान्तधातवः सि + ना → सिना
उकारान्तधातवः यु + ना → युना
ऋकारान्तधातवः वृ + ना → वृणा
हलन्तधातवः—
इदुपधधातवः क्लिश् + ना → क्लिश्ना
उदुपधधातवः गुध् + ना → गुध्ना
ऋदुपधधातवः मृद् + ना → मृद्ना
शेषधातवः खच् + ना → खच्ञा
अश् + ना → अश्ना
परन्तु क्र्यादिगणे विशेषधातवः अपि सन्ति, येषां प्रथमसोपाने अङ्गकार्यं भवति |
a. प्वादिगणः
प्वादिगणे चतुर्विंशतिः धातवः सन्ति; एषां निरनुबन्धरूपाणि इमानि— पू, लू, धू, ज्या, री, ली व्ली, प्ली, स्तॄ, कॄ, वॄ, शॄ, पॄ, वॄ, भॄ, मॄ, दॄ, जॄ, झॄ, धॄ, नॄ, कॄ, ॠ, गॄ | एते सर्वे धातवः क्र्यादिगणे सन्ति | प्वादीनां ह्रस्वः (७.३.८०) इति सूत्रेण धातौ स्थितस्य स्वरस्य ह्रस्वत्वं भवति शिति परे | श्ना शित् अस्ति अतः श्ना-प्रत्यये परे धातुस्थ-स्वरस्य ह्रस्वत्वम् | यथा पू + ना → पुना, ली + ना → लिना, स्तॄ + ना → स्तृणा |
प्वादीनां ह्रस्वः (७.३.८०) = पूञ्, लूञ्, धूञ्, ज्या, री, ली व्ली, प्ली, स्तॄञ्, कॄञ्, वॄ, शॄ, पॄ, वॄञ्, भॄ, मॄ, दॄ, जॄ, झॄ, धॄञ्, नॄ, कॄ, ॠ, गॄ, एषां धातूनां ह्रस्वत्वं भवति शिति प्रत्यये परे | पूः आदिर्येषां ते, प्वादयः बहुव्रीहिः, तेषां प्वादीनाम् | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२), अचश्च (१.२.२८) इत्येभिः सूत्रैः एषां धातूनाम् अन्तिमस्वरस्य ह्रस्वादेशो भवति | प्वादीनां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपदमिदं सूत्रम् | ष्ठिवुक्लमुचमां शिति (७.३.३५) इत्यस्मात् शिति इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— प्वादीनाम् अचः अङ्गस्य ह्रस्वः शिति |
अचश्च (१.२.२८) = यत्र यत्र ह्रस्वः, दीर्घः, प्लुतः च विधीयन्ते, तत्र तत्र अचः इति षष्ठ्यन्तं पदम् आगत्य उपस्थितं भवति | परिभाषासूत्रम् | अचः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | ऊकालोऽज्झ्रस्वदीर्घप्लुतः (१.२.२७) इत्यस्मात् अच्, ह्रस्वदीर्घप्लुतः इत्यनयोः अनुवृत्तिः | तत्र विभक्तिपरिणामेन तृतीयान्तं भवति, ह्रस्वदीर्घप्लुतैः (शब्दैः) | अनुवृत्ति-सहितसूत्रम्— ह्रस्वदीर्घप्लुतैः अचः च अच् |
अलोऽन्त्यस्य (१.१.५२) = षष्ठीविभक्ति-द्वारा यस्य पदस्य स्थाने आदेशः प्राप्तः, सः आदेशः अन्त्यस्य अल्-वर्णस्य स्थाने भवति | परिभाषासूत्रम् | अलः षष्ठ्यन्तम्, अन्त्यस्य षष्ठ्यन्तम्, द्विपदमिदं सूत्रम् | षष्ठी स्थानेयोगा (१.१.४९) इत्यस्मात् षष्ठी, स्थाने इत्यनयोः अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— षष्ठ्या अन्त्यस्य अलः स्थाने (विद्यमानः आदेशः) |
अत्र धेयं यत् यः प्रत्ययः परोऽस्ति सः शित् नास्ति चेत्, स्वरस्य ह्रस्वत्वं न भवति | अतः कर्मणि सार्वधातुके यक् (३.१.६७) इत्यनेन यक् कृत्वा लटि पूयते, क्तान्ते क्त-प्रत्ययेन पूनः, क्तवतौ क्तवतु- प्रत्ययेन पूनवान् |
b. सम्प्रसारणम्— ज्या-धातुः
ज्या-धातुः प्वादिगणे अन्तर्भूतः, किन्तु सम्प्रसारणी धातुः अपि अस्ति, अतः अत्र विशेषः |
सम्प्रसारणम्—
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे |
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहित-सूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
यथा ज्या → ज् + य् + आ → ग्रहि ज्या (६.१.१६) इत्यनेन यकारस्य स्थाने इ-आदेशः → जि + आ → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जि
श्ना प्रत्ययः शित् अपि च पित्-भिन्नत्वात् ङिद्वत् (सार्वधातुकम् अपित् इत्यनेन) | ग्रहि ज्या (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् | अतः ज्या + ना → सम्प्रसारणम् → जि + ना → हलः (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + ना → प्वादीनां ह्रस्वः (७.३.८०) इत्यनेन शिति परे प्वादीनां ह्रस्वत्वम् → जि + ना → जिना
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
अत्र यः इकारः दीर्घः जातः (जि → जी), सः पुनः ह्रस्वः अभवत् (जी → जि) | तर्हि दीर्घत्वस्य फलं किम् ? यत्र परो यः प्रत्ययः अस्ति सः शित् नास्ति, तत्र प्वादीनां ह्रस्वः इत्यस्य प्रसक्तिः नास्ति | अतः दीर्घत्वं तिष्ठति एव—यथा क्त प्रत्ययः | ज्या + क्त → ग्रहि ज्या (६.१.१६) इत्यनेन "ज्या ... ङिति" सम्प्रसारणम् → जि + त → हलः (६.४.२) इत्यनेन सम्प्रसारणस्य दीर्घत्वम् → जी + त → (ल्वादिभ्यः (८.२.४४) इत्यनेन तकारस्य स्थाने नकारः) → जीनः |
ल्वादिभ्यः (८.२.४४) = ल्वादिगणः इत्यस्मिन् अन्तर्गणीयेभ्यः धातुभ्यः निष्ठा-प्रत्यये परे निष्ठाघटितस्य तकारस्य नकारादेशो भवति | निष्ठा-संज्ञकप्रत्ययद्वयं भवति— क्त-प्रत्ययः, क्तवतु-प्रत्ययः च | ल्वादिगणे एकविंशतिः धातवः सन्ति | यथा लूञ् छेदने | लू + क्त → लू + त → लू + न → लूनः | कर्तितः इर्यर्थः | क्तवतौ लूनवान् |
अन्यत् उदाहरणं भवति भ्वादौ ह्वेञ्-धातुः | लटि ह्वे + शप् → ह्वय + ति → ह्वयति | आ-उपसर्गपूर्वकः ह्वे लटि च आह्वयति | क्तप्रत्यये परे—
ह्वे + क्त → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणम् → हु + ए + त → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशः → हु + त → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घत्वम् → हूत | आ-उपसर्गपूर्वकरूपम् आहूत | क्तवतौ पुंसि आहूतवान् |
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— वचिस्वपियजादीनां सम्प्रसारणं किति |
हलः (६.४.२) इति सूत्रे 'हलः यदुत्तरं संप्रसारणम्' इति किमर्थम् उक्तम् ? हल्-वर्णः किमर्थं पूर्वं भवेत् ? भ्वादौ वे इत्यस्य वे + क्त → उतः एव | पूर्वस्थितस्य हल्वर्णस्य अभावात् न दीर्घत्वम् | क्तवतौ उतवान् | 'अङ्गावयवात् हलः' इत्यनेन अयं हल्-वर्णः किमर्थं अङ्गस्य अवयवः भवेत् ? निर् + वे + क्त → निरुतम् | रेफः यद्यपि हल्-वर्णः, किन्तु अङ्गस्य अवयवः न, अतः दीर्घादेशो न भवति | 'तदन्तस्याङ्गस्य' दीर्घत्वं किमर्थम् ? व्यध् इत्यस्य विद्धः, व्यच् इत्यस्य विचितः |
File:४ - क्र्यादिगणः (c).pdf (92k)Swarup Bhai, Mar 31, 2019, 7:54 AM
v.1