6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions
6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4
Content added Content deleted
No edit summary |
No edit summary |
||
Line 57: | Line 57: | ||
'''झलां जश् झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''झलां जश् झशि संहितायाम्''' | |
'''झलां जश् झशि''' (८.४.५३) = झलां स्थाने जशादेशो भवति झशि परे | '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन जश्-वर्णेषु वर्णनिर्धारणम् | झलां षष्ठ्यन्तं, जशः प्रथमान्तम्, झशि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | झश्-प्रत्याहारे वर्गाणां तृतीयचतुर्थाः च वर्णाः अन्तर्भूताः | '''तयोर्य्वावचि संहितायाम्''' (८.२.१०८) इत्यस्मात् '''संहितायाम्''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''झलां जश् झशि संहितायाम्''' | |
||
1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः एषु अन्यतमश्चेत्, धात्वन्ते जश्त्वम् [ |
1. धात्वन्ते वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णः एषु अन्यतमश्चेत्, धात्वन्ते जश्त्वम् [झलां जश् झशि] | |
||
क्, ख्, ग्, घ → ग् [झलां जश् झशि] |
|||
** शाशक् + हि → शाशक् + धि → शाशग् + धि → शाशग्धि |
|||
शाशक् + हि → शाशक् + धि → शाशग् + धि → शाशग्धि |
|||
* च्, ज्, झ् → ग् ['''चोः कुः, झलां जश् झशि'''] | |
|||
** जाझर्झ् + हि → जाझर्झ् + धि → जाझर्घ् + धि → जाझर्ग् + धि → जाझर्ग्धि |
|||
च्, ज्, झ् → ग् [चोः कुः, झलां जश् झशि] | |
|||
जाझर्झ् + हि → जाझर्झ् + धि → जाझर्घ् + धि → जाझर्ग् + धि → जाझर्ग्धि |
|||
किन्तु व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् → ष् → ड् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश् झशि] |
|||
यायज् + हि → यायज् + धि → यायष् + धि → यायष् +ढि → यायड् + ढि → यायड्ढि |
|||
तुक्-सहित-छकारान्तधातुः इति चेत्, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं— पाप्रच्छ् + हि → पाप्रच्छ् + धि → पाप्रश् + धि → पाप्रष् + ढि → पाप्रड् + ढि → पाप्रड्ढि |
|||
ट्, ठ्, ड्, ढ् → ड् [ष्टुना ष्टुः, झलां जश् झशि] |
|||
पापठ् + धि → पापठ् + ढि → पापड् + ढि → पापड्ढि |
|||
त्, थ्, द्, ध् → द् [झलां जश् झशि] |
|||
अद् + हि → हुझल्भ्यो हेर्धिः → अद् + धि → अद्धि |
|||
झरो झरि सवर्णे इत्यनेन हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | |
|||
रुन्ध् + हि → रुन्ध् + धि → रुन्द् + धि → रुन्द्धि → रुन्धि/रुन्द्धि |
|||
प्, फ्, ब्, भ् → ब् [झलां जश् झशि] |
|||
तेतेप् + हि → तेतेप् + धि → तेतेब् + धि → तेतेब्धि |
|||
2. धात्वन्ते शकारः चेत् श् → ष् → ड् [व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः, ष्टुना ष्टुः, झलां जश् झशि] |
|||
ईश् + ध्वे → ईष् + ध्वे → ईष् + ढ्वे → ईड् + ढ्वे → ईड्ढ्वे |
|||
3. धात्वन्ते षकारः चेत् ष् → ड् [ष्टुना ष्टुः, झलां जश् झशि] |
|||
चक्ष् + ध्वे → चष् + ध्वे → चष् + ढ्वे → चड् + ढ्वे → चड्ढ्वे |
|||
4. धात्वन्ते सकारः चेत् स् → लोपः [धि च] (धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे |) |
|||
वस् + ध्वे → धि च → व + ध्वे → वध्वे |
|||
5. धात्वन्ते ह् → ढ् → लोपः, धकारस्य ढकारः [हो ढः, ष्टुना ष्टुः, ढो ढे लोपः, ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः] |
|||
लिह् + धि → लिढ् + धि → लिढ् + ढि → लि + ढि → ली + ढि → लीढि |
|||
दकारादि-हकारान्तधातोः चेत् ह् → घ् → ग् [दादेर्धातोर्घः, झलां जश् झशि] |
|||
दुह् + धि → दुघ् + धि → दुग् + धि → दुग्धि |
|||
दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे चेत् ह् → घ् → ग्; बश्→ भष् [दादेर्धातोर्घः, एकाचो बशो भष् झषन्तस्य स्ध्वोः, झलां जश् झशि] |
|||
दिह् + ध्वे → दिघ् + ध्वे → धिघ् + ध्वे → धिग् + ध्वे → धिग्ध्वे |
|||
C. अग्रे खण्डशः प्रत्येकं विभागं परिशील्यते— |
|||
a. धातुः कवर्गान्तः, प्रत्ययः धकारादिः |
|||
सर्वत्र जश्त्वसन्धिः— |
|||
धात्वन्ते कवर्गीयवर्णस्य स्थाने जश्-आदेशः झलां जश् झशि (८.४.५३) इति सूत्रेण | (कवर्गस्य तृतीयसदस्यादेश इति |) |
|||
यथा— |
|||
शाशक् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → शाशक् + धि → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वादेशः → शाशग् + धि → वर्णमेलने → शाशग्धि |
|||
लेलिख् + हि → हुझल्भ्यो हेर्धिः → लेलिख् + धि → झलां जश् झशि→ लेलिग् + धि → वर्णमेलने → लेलिग्धि |
|||
तात्वङ्ग् + हि → हुझल्भ्यो हेर्धिः → तात्वङ्ग् + धि → झलां जश् झशि→ तात्वङ्ग् + धि → वर्णमेलने → तात्वङ्ग्धि |
|||
लालङ्घ् + हि → हुझल्भ्यो हेर्धिः → लालङ्घ् + धि → झलां जश् झशि→ लालङ्ग् + धि → वर्णमेलने → लालङ्ग्धि |
|||
b. धातुः चवर्गान्तः, प्रत्ययः धकारादिः |
|||
चवर्गस्य समूहत्रयम्— |
|||
१. सामान्यनियमः | धात्वन्ते च्, ज्, झ् वा चेत् | |
|||
चवर्गस्य स्थाने कवर्गादेशो भवति चोः कुः (८.२.३०) इति सूत्रेण |
|||
धात्वन्ते कवर्गीयवर्णस्य जश्-आदेशः झलां जश् झशि (८.४.५३) इति सूत्रेण | |
|||
यथा— |
|||
विच्* + श्नम् + ध्वे → → विन्च् + ध्वे → चोः कुः (८.२.३०) इत्यनेन चवर्गस्य स्थाने कवर्गादेशो भवति → विन्क् + ध्वे → नश्चापदान्तस्य झलि (८.३.२४) इत्यनेन अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → विंक् + ध्वे → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वादेशः → विंग् + ध्वे → अनुस्वारस्य ययि परसवर्णः (८.४.५८) इत्यनेन अनुस्वारस्य स्थाने परसवर्णादेशः → विङ्ग् + ध्वे → वर्णमेलने → विङ्ग्ध्वे |
|||
युज्* + श्नम् + ध्वे → → युन्ज् + ध्वे → चोः कुः (८.२.३०) → → युङ्ग् + ध्वे → युङ्ग्ध्वे [यथा विचि विस्तरेण उक्तं, तथा |] |
|||
जाझर्झ् + हि → हुझल्भ्यो हेर्धिः → जाझर्झ् + धि → चोः कुः → जाझर्घ् + धि → झलां जश् झशि→ जाझर्ग् + धि → जाझर्ग्धि |
|||
<nowiki>*</nowiki>विच् च युज् च धातू रुधादिगणे स्तः; तत्र श्नम् इति विकरणप्रत्ययः धातोः मध्ये उपविशति | श्नम् इत्यस्मिन् अनुबन्धलोपे "न" अवशिष्यते | अग्रे यदा अस्माभिः रुधादिगणस्य सार्वधातुकप्रकरणं परिशील्यते, तदा सर्वाणि सोपानानि पश्येम | धेयं यत् अनुस्वारस्य परसवर्णादेशो भवति एकवारमेव, प्रक्रियायाः अन्ते | सूत्रसङ्ख्या इति कारणं, पूर्वत्रासिद्धम् इति सूत्रम् | |
|||
चोः कुः (८.२.३०) = चवर्गस्य स्थाने कवर्गादेशो भवति पदान्ते झलि च | चोः षष्ठ्यन्तं, कुः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— चोः कुः झलि पदस्य अन्ते च | |
|||
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् | |
|||
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् | |
|||
पूर्वत्रासिद्धम् (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम् अधिकारसूत्रम्; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— पूर्वत्र असिद्धम् | |
|||
२. विशेषनियमः | एते चकारान्त-जकारान्तधातवः व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज् चेत् | |
|||
अयं चोः कुः (८.२.३०) इत्यस्य अपवादः | |
|||
एषां चकारान्त-जकारान्तधातूनां च अन्तिमवर्णस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | |
|||
प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः (८.४.४१) इति सूत्रेण | |
|||
धात्वन्ते षकारस्य स्थाने जश्-आदेशः झलां जश् झशि (८.४.५३) इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः | |
|||
यथा— |
|||
वाव्रश्च् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) इत्यनेन हि-स्थाने धि-आदेशः → वाव्रश्च् + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन झलि परे संयोगस्य आदौ स्थितस्य सकारस्य लोपः → वाव्रच् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन च्-स्थाने ष्-आदेशः → वाव्रष् + धि → ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → वाव्रष् + ढि → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वम् → वाव्रड् + ढि → वर्णमेलनम् → वाव्रड्ढि |
|||
बरीभ्रज्ज्* + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → बरीभ्रज्ज् + धि → स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यनेन मूल-सकारलोपः (अत्र प्रथमः जकारः) → बरीभ्रज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → बरीभ्रष् + धि → ष्टुना ष्टुः (८.४.४१) → बरीभ्रष् + ढि → झलां जश् झशि (८.४.५३) → बरीभ्रड् + ढि → बरीभ्रड्ढि |
|||
सरीसृज्** + हि → हुझल्भ्यो हेर्धिः → सरीसृज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → सरीसृष् + धि → ष्टुना ष्टुः → सरीसृष् + ढि → झलां जश् झशि → सरीसृड् + ढि → सरीसृड्ढि |
|||
मरीमृज्** + हि → हुझल्भ्यो हेर्धिः → मरीमृज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → मरीमृष् + धि → ष्टुना ष्टुः → मरीमृष् + ढि → झलां जश् झशि → मरीमृड् + ढि → मरीमृड्ढि |
|||
यायज् + हि → हुझल्भ्यो हेर्धिः → यायज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → यायष् + धि → ष्टुना ष्टुः → यायष् +ढि → झलां जश् झशि → यायड् + ढि → यायड्ढि |
|||
राराज् + हि → हुझल्भ्यो हेर्धिः → राराज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → राराष् + धि → ष्टुना ष्टुः → राराष् + ढि → झलां जश् झशि → राराड् + ढि → राराड्ढि |
|||
बाभ्राज् + हि → हुझल्भ्यो हेर्धिः → बाभ्राज् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः → बाभ्राष् + धि → ष्टुना ष्टुः → बाभ्राष् + ढि → झलां जश् झशि → बाभ्राड् + ढि → बाभ्राड्ढि |
|||
<nowiki>*</nowiki>भ्रस्ज् इति मूल-धातुः; श्चुत्वं जश्त्वं च कृत्वा भ्रस्ज् → भ्रश्ज्→ भ्रज्ज् | |
|||
<nowiki>**</nowiki>सेर्ह्यपिच्च (३.४.८७) इत्यनेन अपित्त्वस्य अध्यारोपणात् गुण-वृद्धि-निषेधः | |
|||
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च | |
|||
व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य एव स्थाने षकारादेशः, न तु पूर्णपदस्य | व्रश्चश्च भ्रस्जश्च सृजश्च मृजश्च यजश्च राजश्च भ्राजश्च छश्च श् च तेषामितरेतरद्वन्दः व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशः, तेषां व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशाम् | व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षष्ठ्यन्तं, षः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत्र 'जच्छशां' इति भागे छे च (६.१.७३) इत्यनेन तुक्-आगमे सति जत्छशां, तदा श्चुत्वसन्धौ जच्छशां | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः झलि पदस्य अन्ते च | |
|||
ष्टुना ष्टुः (८.४.४१) = दन्त्यसकारस्य तवर्गीयवर्णस्य च स्थाने मूर्धन्यषकारादेशः टवर्गीयवर्णादेशश्च भवतः, मूर्धन्यषकार-टवर्गीयवर्णयोः योजनेन | यथासंख्यमनुदेशः समानाम् (१.३.१०) इति परिभाषा-सूत्रेण उद्देशिनाम् अनुदेशिनां च यथाक्रमम् उद्देशिभिः अनुदेशिनः संबन्ध्यन्ते | ष् च टुश्च ष्टुः, तेन ष्टुना, समाहारद्वन्द्वः | ष् च टुश्च ष्टुः, समाहारद्वन्द्वः | ष्टुना तृतीयान्तं, ष्टुः प्रथमान्तं, द्विपदमिदं सूत्रम् | स्तोः श्चुना श्चुः (८.४.४०) इत्यस्मात् स्तोः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— स्तोः ष्टुना ष्टुः संहितायाम् | |
|||
प्रश्नः उदेति किमर्थं ष्टुना ष्टुः (८.४.४१) सर्वदा पूर्वम् आयाति, झलां जश् झशि (८.४.५३) परमिति | पूर्वत्रासिद्धम् इति कारणम् | द्वे अपि सूत्रे त्रिपाद्याम् | तत्र सूत्रसङ्ख्या-दृष्ट्या ष्टुना ष्टुः इति पूर्वसूत्रं, झलां जश् झशि इति परसूत्रम् | |
|||
पूर्वत्रासिद्धम् (८.२.१) = सपादसप्ताध्याय्यां स्थितस्य सूत्रस्य दृष्ट्या त्रिपादी असिद्धा अपि च त्रिपाद्यां पूर्वत्रिपाद्याः दृष्ट्या परत्रिपादी असिद्धा | इदम् अधिकारसूत्रम्; तस्य प्रभावः भवति ग्रन्थस्य अन्तपर्यन्तम् | पूर्वस्मिन् इति पूर्वत्र | न सिद्धम् असिद्धम् | पूर्वत्र अव्ययम्, असिद्धं प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— पूर्वत्र असिद्धम् | |
|||
३. छकारान्तधातोः वर्गद्वयम्— |
|||
तुक्-सहित-छकारान्तधातुः इति चेत्, च्छ्वोः शूडनुनासिके च (६.४.१९) इत्यनेन शत्वं, तदा व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इत्यनेन षत्वम् | |
|||
पाप्रच्छ् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → पाप्रच्छ् + धि → च्छ्वोः शूडनुनासिके च (६.४.१९) → पाप्रश्+ धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) → पाप्रष् + धि → ष्टुना ष्टुः (८.४.४१) → पाप्रष् + ढि → झलां जश् झशि (८.४.५३) → पाप्रड् + ढि → पाप्रड्ढि |
|||
तुक्-सहित-छकारान्तधातुः नास्ति चेत्, चोः कुः (८.२.३०) इत्यनेन कुत्वम् | |
|||
वावाञ्छ् + हि → हुझल्भ्यो हेर्धिः (६.४.१०१) → वावाञ्छ् + धि → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रे तुक्-सहित-छकारः आवश्यकः अतः अस्य सूत्रस्य प्रसक्तिर्नास्ति → वावाञ्छ् + धि → चोः कुः (८.२.३०) इत्यनेन कुत्वम् → नश्चापदान्तस्य झलि (८.३.२४) → वावांख् + धि → झलां जश् झशि (८.४.५३) → वावांग् + धि → अनुस्वारस्य ययि परसवर्णः (८.४.५८) → वावाङ्ग्धि |
|||
च्छ्वोः शूडनुनासिके च (६.४.१९) = तुक्-सहित-छकारस्य स्थाने शकारादेशः अपि च वकारस्य स्थाने ऊठ्-आदेशो भवति अनुनासिकादि-प्रत्यये परे, क्वि परे, झलादि-प्रत्यये च परे | च्छ् च व् च तयोरितरेतरद्वन्द्वः च्छ्वौ, तयोः च्छ्वोः | श् च ऊठ् च तयोः समाहारद्वन्द्वः शूड् | झलां जशोऽन्ते (८.२.३९) इत्यनेन ठकारस्य स्थाने डकारः | च्छ्वोः षष्ठ्यन्तं, शूड् प्रथमान्तम्, अनुनासिके सप्तम्यन्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) इत्यस्मात् क्विझलोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— च्छ्वोः अङ्गस्य शूड् क्विझलोः अनुनासिके च | |
|||
c. धातुः टवर्गान्तः, प्रत्ययः धकारादिः |
|||
प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण | |
|||
धात्वन्ते टवर्गीयवर्णस्य स्थाने जश्-आदेशः (डकारः इति) झलां जश् झशि इति सूत्रेण | |
|||
यथा— |
|||
लोलुट् + धि → ष्टुना ष्टुः (८.४.४१) इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → लोलुट् + ढि → झलां जश् झशि (८.४.५३) इत्यनेन जश्त्वादेशः → लोलुड् + ढि → वर्णमेलने → लोलुड्ढि |
|||
पापठ् + धि → ष्टुना ष्टुः → पापठ् + ढि → झलां जश् झशि → पापड् + ढि → पापड्ढि |
|||
ईड् + ध्वे → ष्टुना ष्टुः → ईड् + ढ्वे → ईड्ढ्वे |
|||
धातुपाठे कोऽपि ढकारान्तधातुः नास्त्येव परन्तु हकारान्तः धातुः अस्ति चेत्, सामान्यनियमेन हो ढः इत्यनेन ह्-स्थाने ढ-आदेशो भवति इति जानीमः | |
|||
तृणेह् + धि → हो ढः इत्यनेन ह्-स्थाने ढ-आदेशः → तृणेढ् + धि → ष्टुना ष्टुः → तृणेढ् + ढि → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → तृणे + ढि → तृणेढि |
|||
हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम् | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हः ढः झलि पदस्य अन्ते च | |
|||
ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः | |
|||
d. धातुः तवर्गान्तः, प्रत्ययः धकारादिः |
|||
धात्वन्ते तवर्गीयवर्णस्य स्थाने जश्-आदेशः (दकारः इति) झलां जश् झशि इति सूत्रेण | |
|||
प्रत्ययादौ धकारस्य कोऽपि विकारः नास्ति यतः पूर्वं तवर्गीयवर्णः अस्ति | |
|||
यथा— |
|||
कृन्त् + हि → हुझल्भ्यो हेर्धिः → कृन्त् + धि → झलां जश् झशि इत्यनेन तृतीयसदस्यादेशः → कृन्द् + धि → कृन्द्धि → झरो झरि सवर्णे इत्यनेने विल्कपेन झरः लोपः → कृन्धि/कृन्द्धि |
|||
अद् + हि → हुझल्भ्यो हेर्धिः → अद् + धि → अद्धि |
|||
रुन्ध् + हि → हुझल्भ्यो हेर्धिः → रुन्ध् + धि → झलां जश् झशि इत्यनेन तृतीयसदस्यादेशः → रुन्द् + धि → रुन्द्धि → झरो झरि सवर्णे इत्यनेने विल्कपेन झरः लोपः → रुन्धि/रुन्द्धि |
|||
अत्र कृन्द्धि, रुन्द्धि इत्यनयोः विकल्पेन दलोपं कृत्वा कृन्धि, रुन्धि भवतः | सूत्रमस्ति झरो झरि सवर्णे इति; अधोलिखितं विवरणं कृपया पठ्यताम् | तदा रुन्ध्-धातोः उदाहरणं पश्याम— जश्त्वं कृत्वा रुन्द् + धि इति स्थितिः | अस्मिन् न् इति हल् दकारात् प्राक्, द् इति झर्, ध् इति दकारस्य सवर्णझर् दकारात् परे | अतः हल्-परतः दकारः, यस्मात् परे सवर्णझर् धकारः—इति स्थितिः | अस्यां दशायां हल्-परतः झरः दकारस्य विकल्पेन लोपः | |
|||
झरो झरि सवर्णे (८.४.६५) = हल्-उत्तरस्य झरः विकल्पेन लोपः सवर्णझरि परे | झरः षष्ठ्यन्तं, झरि सप्तम्यन्तं, सवर्णे सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | हलो यमां यमि लोपः (८.४.६४) इत्यस्मात् हलः, लोपः चेत्यनयोः अनुवृत्तिः | झयो होऽन्यतरस्याम् (८.४.६२) इत्यस्मात् अन्यतरस्याम् इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः झरः लोपः अन्यतरस्यां सवर्णे झरि संहितायाम् | |
|||
e. धातुः शकारान्तः, प्रत्ययः धकारादिः |
|||
शकारान्तधातोः अन्तिमशकारस्य स्थाने षकारादेशो भवति व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः (८.२.३६) इति सूत्रेण | अयं झलां जश् झशि (८.४.५३) इत्यस्य अपवादः (नो चेत् श्-स्थाने तृतीयसदस्य-जकारादेशः भवति स्म |) |
|||
प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण | |
|||
धात्वन्ते षकारस्य स्थाने जश्-आदेशः झलां जश् झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः | |
|||
यथा— |
|||
ईश् + ध्वे → व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः इत्यनेन श्-स्थाने ष्-आदेशः → ईष् + ध्वे → ष्टुना ष्टुः इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → ईष् + ढ्वे → झलां जश् झशि इत्यनेन जश्त्वम् → ईड् + ढ्वे → वर्णमेलने → ईड्ढ्वे |
|||
f. धातुः षकारान्तः, प्रत्ययः धकारादिः |
|||
प्रत्ययादौ धकारस्य स्थाने ढकारादेशो भवति ष्टुना ष्टुः इति सूत्रेण | |
|||
धात्वन्ते षकारस्य स्थाने जश्-आदेशः झलां जश् झशि इति सूत्रेण | षकारः मूर्धन्यवर्गे अस्ति, अतः तस्य स्थाने जश्त्वं नाम डकारादेशः | |
|||
यथा— |
|||
चक्ष् + ध्वे → स्कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः → चष् + ध्वे → ष्टुना ष्टुः इत्यनेन प्रत्ययस्थस्य ध्-स्थाने ढ्-आदेशः → चष् + ढ्वे → झलां जश् झशि इत्यनेन जश्त्वम् → चड् + ढ्वे → चड्ढ्वे |
|||
उष् + धि → ष्टुना ष्टुः→ उष् + ढि → झलां जश् झशि → उड् + ढि → उड्ढि |
|||
द्विष् + धि → ष्टुना ष्टुः→ द्विष् + ढि → झलां जश् झशि → द्विड् + ढि → द्विड्ढि |
|||
अचक्ष् + ध्वम् → स्कोः संयोगाद्योरन्ते च इत्यनेन ककारस्य लोपः → अचष् + ध्वम् → ष्टुना ष्टुः→ अचष् + ढ्वम् → झलां जश् झशि → अचड् + ढ्वम् → अचड्ढ्वम् |
|||
स्कोः संयोगाद्योरन्ते च (८.२.२९) = संयोगस्य प्रथमसदस्यः सकारः ककारः वा चेत्, संयोगस्य प्रथमसदस्यलोपो भवति न तु द्वितीयसदस्यस्य, झलि पदान्ते च | स् च क् च तयोरितरेतरद्वन्द्वः स्कौ, तयोः स्कोः | संयोगस्य आदि संयोगादि, तयोः संयोगाद्योः, षष्ठीतत्पुरुषः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात् झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— संयोगाद्योः स्कोः लोपः झलि पदस्य अन्ते च | |
|||
g. धातुः सकारान्तः, प्रत्ययः धकारादिः |
|||
धकारादि-प्रत्यये परे, सकारान्तधातोः सकारस्य लोपः धि च इति सूत्रेण | अयं झलां जश् झशि इत्यस्य अपवादः | (नो चेत् स्-स्थाने तृतीयसदस्य-दकारादेशः भवति स्म |) |
|||
यथा— |
|||
चकास् + धि → धि च इत्यनेन सकारस्य लोपः → चका + धि → वर्णमेलने → चकाधि |
|||
कंस् + ध्वे → धि च → कं + ध्वे → कंध्वे → अनुस्वारस्य ययि परसवर्णः → कन्ध्वे |
|||
आस् + ध्वे → धि च → आ + ध्वे → आध्वे |
|||
निंस् + ध्वे → धि च → निं + ध्वे → निंध्वे → अनुस्वारस्य ययि परसवर्णः → निन्ध्वे |
|||
आशास् + ध्वे → धि च → आशा + ध्वे → आशाध्वे |
|||
वस् + ध्वे → धि च → व + ध्वे → वध्वे |
|||
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | रात्सस्य (८.२.२४) इत्यस्मात् सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— धि च सस्य लोपः | |
|||
** |