6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/11---dhAtupAThe-hal-sandhiH-4
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 300: Line 300:


धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | रात्सस्य (८.२.२४) इत्यस्मात्‌ सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धि च सस्य लोपः |
धि च (८.२.२५) = सकारस्य लोपो भवति धकारादि-प्रत्यये परे | धि सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | रात्सस्य (८.२.२४) इत्यस्मात्‌ सस्य इत्यस्य अनुवृत्तिः | संयोगान्तस्य लोपः (८.२.२३) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— धि च सस्य लोपः |

[अत्र ‘धकारादि-प्रत्यये परे’ इत्यस्य बोधनार्थम्‌ अस्मिन्‌ पाठे द्रष्टव्यम्‌ |]

h. धातुः हकारान्तः, प्रत्ययः धकारादिः

१. सामान्यनियमः

धकारादि-प्रत्यये परे, धात्वन्तस्य हकारस्य स्थाने ढकारादेशो भवति, हो ढः इत्यनेन सूत्रेण |

प्रत्ययादौ स्थितस्य धकारस्य स्थाने ढ्‌-आदेशो भवति ष्टुना ष्टुः इति सूत्रेण |

पूर्वतनस्य ढ्‌-लोपो भवति ढो ढे लोपः इति सूत्रेण |

ढलोपनिमित्तस्य पूर्वस्य अणः दीर्घः भवति ढ्रलोपे पूर्वस्य दीर्घोऽणः इति सूत्रेण |

यथा—

लिह्‌ + धि → हो ढः इत्यनेन झलि परे ह्‌-स्थाने ढ्‌-आदेशः → लिढ्‌ + धि → ष्टुना ष्टुः इत्यनेन ष्टुत्वम् → लिढ्‌ + ढि → ढो ढे लोपः इत्यनेन पूर्वतनस्य ढकारस्य लोपः → लि + ढि → ढ्रलोपे पूर्वस्य दीर्घोऽणः इत्यनेन ढ्‌ इत्यस्य लोपानन्तरं‌ पूर्वस्थितस्य अणः दीर्घादेशः → ली + ढि → लीढि

लिह्‌ + ध्वे → हो ढः → लिढ्‌ + ध्वे → ष्टुना ष्टुः → लिढ्‌ + ढ्वे → ढो ढे लोपः → लि + ढ्वे → ढ्रलोपे पूर्वस्य दीर्घोऽणः → ली + ढ्वे → लीढ्वे

जोगुह्‌ + धि → हो ढः → जोगुढ्‌ + धि → ष्टुना ष्टुः → जोगुढ्‌ + ढि → ढो ढे लोपः → जोगु + ढि → ढ्रलोपे पूर्वस्य दीर्घोऽणः → जोगू + ढि → जोगूढि

हो ढः (८.२.३१) = हकारस्य स्थाने ढकारादेशो भवति झलि पदान्ते च | हः षष्ठ्यन्तं, ढः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— हः ढः झलि पदस्य अन्ते च |

ढो ढे लोपः (८.३.१३) = ढकारे परे पूर्वतनस्य ढकारस्य लोपो भवति | ढः षष्ठ्यन्तं, ढे सप्तम्यन्तं, लोपः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— ढः ढे लोपः |

ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) = ढरेफयोर्लोपनिमित्तयोः पूर्वस्याणो दीर्घः | ढकाररेफयोः लोपस्य निमित्तकढकाररेफे परे, अण्‌-प्रत्याहारे स्थितस्य दीर्घादेशो भवति | ढ्रलोपे इति द्वन्द्वगर्भ-उपपदतत्पुरुषसमासः— ढ्‌ च र्‍ च ढ्रौ, इतरेतरद्वन्द्वः, ढ्रौ लोपयतीति ढ्रलोपः, तस्मिन्‌ ढ्रलोपे | ढ्रलोपः गर्भद्वन्द्वः उपपदतत्पुरुषः | ढ्रलोपे सप्तम्यन्तं, पूर्वस्य षष्ठ्यन्तं, दीर्घः प्रथमान्तम्‌, अणः षष्ठ्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूरणम्‌— ढ्रलोपे पूर्वस्य अणः दीर्घः |

२. दकारादि हकारान्तधातुतः धकारादिप्रत्ययस्य योजनविधिः

धकारादि प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |

धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |

दुह्‌ + धि → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दुघ्‌ + धि → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → दुग्‌ + धि → दुग्धि

एवमेव—

दिह्‌ + धि → दादेर्धातोर्घः → दिघ्‌ + धि → झलां जश्‌ झशि→ दिग्‌ + धि → दिग्धि

दादेर्धातोर्घः (८.२.३२) = झलि पदान्ते च, दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दादेः धातोः हः घः झलि पदस्य अन्ते च |

३. दकारादि-हकारान्तधातुः, ध्वे-प्रत्यये परे

ध्वे-प्रत्यये परे, दकारादि-हकारान्तधातोः धात्वन्तस्य हकारस्य स्थाने घकारादेशो भवति दादेर्धातोर्घः इत्यनेन सूत्रेण |

अधुना एकाच्‌-बशादि-झषन्तधातुः जातः (३४ इति) | अतः एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन (३४ – ४४) आदौ तृतीयसदस्य स्थाने चतुर्थसदस्यादेशो भवति |

धात्वन्ते घ्‌-स्थाने तृतीयादेशो भवति झलां जश्‌ झशि इति सूत्रेण | जश्त्वसन्धिरिति |

दिह्‌ + ध्वे → दादेर्धातोर्घः इत्यनेन ह्‌-स्थाने घ्‌-आदेशः → दिघ्‌ + ध्वे → एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यनेन बशः भष्‌-आदेशः → धिघ्‌ + ध्वे → झलां जश्‌ झशि इत्यनेन घ्‌-स्थाने ग्‌-आदेशः → धिग्‌ + ध्वे → धिग्ध्वे

एवमेव—

दिह्‌ + ध्वम्‌ → धिग्ध्वम्‌ |

दुह्‌ + ध्वे → धुग्ध्वे

दादेर्धातोर्घः (८.२.३२) = दकारादिधातोः हकारस्य स्थाने घकारादेशो भवति झलि पदान्ते च | दः आदौ यस्य स दादिः, तस्य दादेः, बहुव्रीहीः | दादेः षष्ट्यन्तं, धातोः षष्ठ्यन्तं, घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | हो ढः (८.२.३१) इत्यस्मात्‌ हः इत्यस्य अनुवृत्तिः | झलो झलि (८.२.२६) इत्यस्मात्‌ झलि इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दादेः धातोः हः घः झलि पदस्य अन्ते च |

एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः इत्यस्य अनौपचारिकोऽर्थः—

धातोः आदौ बश्‌ (ब, ग, ड, द) अपि च अन्ते झष्‌ (झ, भ, घ, ढ, ध), तस्य धातोः नाम एकाच्‌-बशादि-झषन्तधातुः | यथा बन्ध्‌-धातुः, बुध्‌-धातुः च | यदि उपर्युक्त-हकारान्तधातुसम्बद्ध-सूत्रैः हकारस्य स्थाने झषादेशः सञ्जातः (दृष्टान्ते— दुह्‌ → दुघ्‌) तर्हि सोऽपि तादृशो धातुः | एकाच्‌-बशादि-झषन्तधातोः आदौ स्थितस्य बशः स्थाने भषादेशो भवति (भ, घ, ढ, ध) सकारादि-प्रत्यये परे, ध्व-शब्दे परे, पदान्ते च | अतः वदामः यत्‌ '३४ → ४४' इत्युक्तौ यत्र धातोः आदौ वर्गस्य तृतीयसदस्यः (३), अन्ते च वर्गस्य चतुर्थसदस्यः (४), तत्र आदौ स्थितस्य तृतीयसदस्यस्य स्थाने चतुर्थसदस्यादेशो भवति (३ → ४) | आहत्य ३४ → ४४ इति विकारः | धेयं यत्‌ अयं बश्‌-वर्णः धातोः अन्तिम-अंशस्य आदौ अपि भवितुमर्हति | अनेन धातुः अनेकाच्‌ चेदपि, तस्य धातोः एकाच्‌-बशादि-झषन्तधात्वंशः अस्ति चेत्‌, अत्रापि ३४ → ४४ इति विकारो भवति |

एकाचो बशो भष्‌ झषन्तस्य स्ध्वोः (८.२.३७) = धातोरवयवो यो झषन्त एकाच्‌, तस्य बशः भषादेशो भवति सकारे परे, ध्व-शब्दे परे, पदान्ते च | अनुवृत्तिसहितसूत्रे 'एकाचः झषन्तस्य' इत्यनयोरेव विशेषणविशेष्यभावः; धातोः तादृशांशः इति तात्पर्यम्‌ | अनेन धातोः एकाच्‌ वा तदधिकाः वा अर्हाः | एकोऽच्‌ यस्मिन्‌ स एकाच्‌ बहुव्रीहिः, तस्य एकाचः | झष्‌ अन्ते यस्य स झषन्तः बहुव्रीहिः, तस्य झषन्तस्य | स्‌ च ध्व्‌‌ च स्ध्वौ इतरेतरद्वन्द्वः, तयोः स्ध्वोः | एकाचः षष्ठ्यन्तं, बशः षष्ठ्यन्तं, भष्‌ प्रथमान्तं, झषन्तस्य षष्ठ्यन्तं, स्ध्वोः सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | दादेर्धातोर्घः (८.२.३२) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात्‌ अन्ते, च इत्यनयोः अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— धातोः एकाचः झषन्तस्य बशः भष्‌ स्ध्वोः पदस्य अन्ते च |

इति हलन्तेभ्यो धातुभ्यः धकारादि-प्रत्ययस्य योजनविधिः |

Swarup – October 2013 (Updated June 2015 & 16)
**
**