6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH: Difference between revisions

6---sArvadhAtukaprakaraNam-anadantam-aGgam/14A---adAdigaNe-halantadhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1,780: Line 1,780:


<big>विधिलिङि—</big>
<big>विधिलिङि—</big>


<big><u>अदादिगणस्य रुदाद्यन्तर्गणः</u> (पञ्च धातवः)</big>


<big>रुदिर्‌ (अश्रुविमोचने)→ रुद्‌ → रोदिति</big>

<big>अन (प्राणने) → अन्‌ → अनिति</big>

<big>ञिष्वप्‌ (शये) → स्वप्‌ → स्वपिति</big>

<big>श्वस (प्राणने) → श्वस्‌ → श्वसिति</big>

<big>जक्ष (भक्षहसनयोः) → जक्ष्‌ → जक्षिति</big>


<big>'''रुदादिभ्यः सार्वधातुके''' (७.२.७६) = रुदादिगणे पठितेभ्यः धातुभ्यः वलादेः सार्वधातुकस्य इडागमो भवति | वल्‌-प्रत्याहारः आदौ यस्य सः वलादिः | वल्‌-प्रत्याहारस्य अन्तर्गतेषु वर्णेषु तिङ्‌-प्रत्ययानाम्‌ आदौ त्‌, थ्‌, ध्‌, म्‌, व्‌, स्‌, ह्‌ एते एव भवन्ति | रुदादिभ्यः पञ्चम्यन्तं, सार्वधातुके सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''आर्धधातुकस्येड्‌ वलादेः''' (७.२.३५) इत्यस्मात्‌ '''इट्‌''', '''वलादेः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रुदादिभ्यः अङ्गेभ्यः इट्‌ वलादौ सार्वधातुके''' |</big>


<big>अत्र प्रश्नः उदेति यत्‌ अयं '''इट्‌''' कस्य आगमः ? '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यनेन रुदादिभ्यः अङ्गेभ्यः इट्‌ वलादौ सार्वधातुके | अस्मिन्‌ सूत्रे '''तस्मादित्युत्तरस्य''' (१.१.६७) इत्यस्य बलेन अयम्‌ इडागमः अग्रे स्थितस्य वलादिसार्वधातुकप्रत्ययस्य आगमः स्यात्‌; '''तस्मिन्निति निर्दिष्टे पूर्वस्य''' (१.१.६६) इत्यस्य बलेन इडागमः पूर्वं स्थितस्य रुदादिगणीयधातोः आगमः | सूचनाद्वयमपि परस्परविरुद्धम्‌ | षष्ठीविभक्त्यन्तपदं नास्ति यस्य आधारेण कस्य आगमः इति स्पष्टं स्यात्‌ | अस्यां दशायाम्‌ '''उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्''' इति परिभाषया, द्वयोः निर्देशयोर्मध्ये '''पञ्चमीनिर्देशः बलीयान्''' | इत्युक्तौ वलादिसार्वधातुकप्रत्ययस्य एव आगमः न तु रुदादिगणीयधातोः | फलितार्थः एवं यत्‌ सप्तम्यन्तं पदं स्थानिनं निदर्शयति | अनेन '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्य अनुवृत्ति-सहितसूत्रे ''''वलादौ सार्वधातुके'''<nowiki/>' सप्तम्यन्तम्‌, अतः तस्य एव इडागमः भवेत्‌ |</big>


<big>यथा—</big>

<big>रुद्‌ + ति → रोद्‌ + ति‌ → रोद्‌ + इ + ति → रोदिति</big>

<big>अन्‌ + ति → अन्‌ + इ + ति → अनिति</big>

<big>स्वप्‌ + ति → स्वप्‌ + इ + ति → स्वपिति</big>

<big>श्वस्‌ + ति → श्वस्‌ + इ + त → श्वसिति</big>

<big>जक्ष्‌ + ति → जक्ष्‌ + इ + ति → जक्षिति</big>


<big>लङि—</big>

<big>विकल्पेन अरोदीत्‌, अरोदत्‌ |</big>


<big>१. '''रुदश्च पञ्चभ्यः''' (७.३.९८) = पञ्चभ्यः रुदादिभ्यः धातुभ्यः हलादेः पितः अपृक्तस्य सार्वधातुकस्य ईडागमो भवति | '''रुदादिभ्यः सार्वधातुके''' (७.२.७६) इत्यस्य अपवादः | '''उभयनिर्देशे पञ्चमीनिर्देशः बलीयान्''' इति परिभाषया सप्तम्यन्तस्य आगमः | रुदः पञ्चम्यन्तं, पञ्चभ्यः पञ्चम्यन्तं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः अनुवृत्तिः | '''उतो वृद्धिर्लुकि हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | '''गुणोऽपृक्ते''' (७.३.९१) इत्यस्मात्‌ '''अपृक्ते''' इत्यस्य अनुवृत्तिः | '''ब्रुव ईट्‌''' (७.३.९३) इत्यस्मात्‌ '''ईट्‌''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''रुदश्च पञ्चभ्यः अङ्गेभ्यः ईट्‌ हलि पिति अपृक्ते सार्वधातुके''' |</big>