6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 84: Line 84:


<big>अत्रास्ति <u>द्वित्वप्रकरणम्‌</u>—</big>
<big>अत्रास्ति <u>द्वित्वप्रकरणम्‌</u>—</big>


<big>'''एकाचो द्वे प्रथमस्य''' (६.१.१)</big>

<big>'''अजादेर्द्वितीयस्य''' (६.१.२)</big>

<big>'''न न्द्राः संयोगादयः''' (६.१.३)</big>

<big>'''पूर्वोऽभ्यासः''' (६.१.४)</big>

<big>'''उभे अभ्यस्तम्''' (६.१.५)</big>

<big>'''जक्षित्यादयः षट्‌''' (६.१.६)</big>

<big>'''तुजादीनां दीर्घोऽभ्यासस्य''' (६.१.७)</big>

<big>'''लिटि धातोरनभ्यासस्य''' (६.१.८)</big>

<big>'''सन्यङोः''' (६.१.९)</big>

<big>'''श्लौ''' (६.१.१०)</big>

<big>'''चङि''' (६.१.११)</big>

<big>'''दाश्वान्साह्वान्मीढ्वांश्च''' (६.१.१२)</big>


<big>द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |</big>

<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात्‌ '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''पूर्वः अभ्यासः द्वयोः''' |</big>

Revision as of 19:58, 15 May 2021

ध्वनिमुद्रणानि -

2019-वर्गः

१) juhotyAdigaNe-halantadhAtavaH---paricayaH_+_भस_2019-08-13

२) juhotyAdigaNe-halantadhAtavaH---भस_+_धन_+_जन_+_धिष_+_णिजिर्_2019-08-20

३) juhotyAdigaNe-halantadhAtavaH---णिजिर्_+_धन_+_विजिर्_+_विष्‌ऌ_+_तुर_2019-08-27

2016-वर्गः

१) juhotyAdigaNe-halantadhAtavaH-1---paricayaH_+_भस्‌_2016-09-25 

२) juhotyAdigaNe-halantadhAtavaH-2---भस्‌_+_धन्‌_+_जन्‌_2016-10-02 

३) juhotyAdigaNe-halantadhAtavaH-3---जन्‌_+_धिष्‌_+_निजिर्‍_2016-10-09

४) juhotyAdigaNe-halantadhAtavaH-4---निज्‌_+_विज्‌_+_विष्‌_+_तुर्‍_2016-10-16


जुहोत्यादिगणे २४ धातवः सन्ति | तेषु १६ धातवः अजन्ताः, ८ धातवः हलन्ताश्च | १६ अजन्तधातवः अस्माभिः पूर्वमेव परिशीलिताः; अधुना अष्ट हलन्तधातवः द्रष्टव्याः | अस्माभिः ज्ञातं यत्‌, यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ इत्यनेन शप्‌ विहितः अस्ति | तदा जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः) भवति | अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते |


जुहोत्यादिभ्यः श्लुः (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य श्लु (लोपः) भवति | जुहोत्यादिः येषां ते जुहोत्यादयः, तेभ्यः जुहोत्यादिभ्यः | जुहोत्यादिभ्यः पञ्चम्यन्तं, श्लुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यस्मात्‌ शपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—जुहोत्यादिभ्यः शपः श्लुः |


अत्र प्रश्नः उदेति यत्‌ लुप्‌-श्लु‌ इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अदर्शनम्‌ इति तु अस्ति | लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति | एतदर्थं सूत्रम्‌ अस्ति प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) |


प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |


तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | श्लु‌ न तथा; प्रत्ययस्य श्लु‌ भवति चेत्‌ न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात्‌ | तद्विधायकं सूत्रम्‌ अस्ति न लुमताऽङ्गस्य (१.१.६३) |


न लुमताऽङ्गस्य (१.१.६३) = यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | लुः अस्य अस्ति इति लुमान्‌, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्‌, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |


अस्मिन्‌ सूत्रे लुमता‌, लुमत्‌ इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्‌ | इदं मतुप्‌-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान्‌ | मतुप्‌-प्रत्ययस्य अर्थः अस्य अस्मिन्‌ वा; यथा बुद्धिमान्‌ इत्युक्ते बुद्धिः अस्य अस्मिन्‌ वा, सः बुद्धिमान्‌ | तर्हि 'लु' अस्य अस्मिन्‌ वा, सः लुमान्‌ | व्याकरणे त्रयः लुमन्तः सन्ति‌— लुक्‌, श्लु, लुप्‌ चेति | इदं सूत्रं वक्ति यत्‌ येन अदर्शनं भवति, सः लुमान्‌ अस्ति चेत्‌, प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम्‌ | तर्हि अत्र सारांशः एवं यत्‌ श्लु‌ इत्यनेन कस्यचित्‌ प्रत्ययस्य अदर्शनं भवति चेत्‌, यस्मात्‌ अङ्गात्‌ सः प्रत्ययः लुप्तः जातः, तस्मिन्‌ अङ्गे सः लुप्तप्रत्ययः तदानीम्‌ अङ्गकार्यस्य निमित्तं न भवितुम्‌ अर्हति |


आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—


अदर्शनं लोपः (१.१.६०) = लोप-संज्ञया अदर्शनं विहितम्‌ |

प्रत्ययस्य लुक्श्लुलुपः (१.१.६१) = लुक्‌, श्लु, लुप्‌ इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम्‌ |

प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्‌ |

न लुमताऽङ्गस्य (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्‌ |


जुहोत्यादिगणे विकरणप्रत्ययः शप्‌ आसीत्‌, अनन्तरं तस्य श्लु‌ अभवत्‌ | लुमता शपः अदर्शनं जातम्‌, अतः धात्वङ्गे शप्‌-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ |


अत्र प्रश्नः आयाति यत्‌ 'श्लु' एकः प्रत्ययः अस्ति किम्‌ ? बोध्यं यत्‌ श्लु-निमित्तीकृत्य द्वित्वं भवति; अनेन प्रमाणितं यत्‌ प्रत्ययः अस्त्येव | श्लु इति अभावः नस्ति, अपि तु भावः एव | न दृश्यते, किन्तु भावः | एवमेव लोपः, लुक्‌लुप्‌ इत्येते सर्वे भावाः |


अधुना नूतनप्रश्नः उदेति यत्‌ अदादिगणे लुक्‌ अपि लुमान्‌ अस्ति, जुहोत्यादिगणे श्लु अपि लुमान्‌ | द्वयमपि लुमान्‌ चेत्‌, द्वयोः भेदः कः ? वस्तुतः द्वयोः कुत्रचित्‌ साम्यं, कुत्रचित्‌ च भेदः | साम्यं अस्मिन्‌, यत्‌ लुमान्‌ सन्‌ प्रत्ययलक्षणं न भवति | पुनः भेदः, यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च | यथा अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रम्‌ अस्माभिः दृष्टं, येन गुणं प्रबाध्य वृद्धिर्भवति | श्लु इत्यनेन तादृशं कार्यं न प्राप्यते | किन्तु श्लोः विशिष्टं कार्यमपि अस्ति, यत्‌ लुक् इत्यनेन न सिध्यति | तत्र प्रमुखं कार्यम्‌ इदम्‌—


श्लौ (६.१.१०) = श्लौ परे धातोः द्वित्वं भवति | श्लौ सप्तम्यन्तम्‌; एकं पदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—श्लौ धातोः द्वे |


द्वित्वम्‌


जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददा, धा → दधा, भी → बिभी, हु → जुहु |


पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च |


अत्रास्ति द्वित्वप्रकरणम्‌


एकाचो द्वे प्रथमस्य (६.१.१)

अजादेर्द्वितीयस्य (६.१.२)

न न्द्राः संयोगादयः (६.१.३)

पूर्वोऽभ्यासः (६.१.४)

उभे अभ्यस्तम् (६.१.५)

जक्षित्यादयः षट्‌ (६.१.६)

तुजादीनां दीर्घोऽभ्यासस्य (६.१.७)

लिटि धातोरनभ्यासस्य (६.१.८)

सन्यङोः (६.१.९)

श्लौ (६.१.१०)

चङि (६.१.११)

दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२)


द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |

पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— पूर्वः अभ्यासः द्वयोः |