6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH: Difference between revisions

From Samskrita Vyakaranam
6---sArvadhAtukaprakaraNam-anadantam-aGgam/16---juhotyAdigaNe-halantadhAtavaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 174: Line 174:




<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम्‌ अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्‌ परे अस्ति— `तिङ्‌ वा कृत्‌ वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—</big>
<big>जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम्‌ अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्‌ परे अस्ति— `तिङ्‌ वा कृत्‌ वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—</big>



* <big>शप्‌ विधीयते '''कर्तरि शप्‌''' इत्यनेन</big>
* <big>शप्‌ विधीयते '''कर्तरि शप्‌''' इत्यनेन</big>
* <big>शपः स्थाने श्लु भवति</big>
*<big>शपः स्थाने श्लु भवति</big>
* <big>'''श्लौ''' इत्यनेन धातोः द्वित्वं भवति</big>
*<big>'''श्लौ''' इत्यनेन धातोः द्वित्वं भवति</big>
* <big>सामन्य-अभ्यासकार्यम्‌; अभ्यस्तोत्तर-प्रत्ययः अस्य निमित्तम्‌ ('''ह्रस्वः''', '''हलादिः शेषः''', '''कुहोश्चुः''', '''उरत्''', '''अभ्यासे चर्च''')</big>
*<big>सामन्य-अभ्यासकार्यम्‌; अभ्यस्तोत्तर-प्रत्ययः अस्य निमित्तम्‌ ('''ह्रस्वः''', '''हलादिः शेषः''', '''कुहोश्चुः''', '''उरत्''', '''अभ्यासे चर्च''')</big>


* <big>विशेष-अभ्यासकार्यम्‌; श्लुः अस्य निमित्तम्‌; चत्वारि सूत्राणि (अस्मिन्‌ पाठे एकं— '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५))</big>
* <big>विशेष-अभ्यासकार्यम्‌; श्लुः अस्य निमित्तम्‌; चत्वारि सूत्राणि (अस्मिन्‌ पाठे एकं— '''निजां त्रयाणां गुणः श्लौ''' (७.४.७५))</big>
Line 189: Line 190:


<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>
<big>विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |</big>

<big>२. तिङ्‌प्रत्यय-सिद्धिः</big>

<big>जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—</big>

<big>१) '''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''झोऽन्तः''' (७.१.३) इत्यस्मात्‌ '''झः''' (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌''' (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌''' |</big>

<big>धेयं यत्‌ अत्‌-आदेशस्य तकारः '''हलन्त्यम्‌''' (१.३.३) इति सूत्रेण इत्‌-संज्ञकः न, यतोहि अत्‌ तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः '''न विभक्तौ तुस्माः''' (१.३.४) इत्यनेन '''हलन्त्यम्‌''' (१.३.३) बाधितम्‌ |</big>

<big>'''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्‌-स्थाने अत्‌ आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big>

Revision as of 20:15, 15 May 2021

ध्वनिमुद्रणानि -

2019-वर्गः

१) juhotyAdigaNe-halantadhAtavaH---paricayaH_+_भस_2019-08-13

२) juhotyAdigaNe-halantadhAtavaH---भस_+_धन_+_जन_+_धिष_+_णिजिर्_2019-08-20

३) juhotyAdigaNe-halantadhAtavaH---णिजिर्_+_धन_+_विजिर्_+_विष्‌ऌ_+_तुर_2019-08-27

2016-वर्गः

१) juhotyAdigaNe-halantadhAtavaH-1---paricayaH_+_भस्‌_2016-09-25 

२) juhotyAdigaNe-halantadhAtavaH-2---भस्‌_+_धन्‌_+_जन्‌_2016-10-02 

३) juhotyAdigaNe-halantadhAtavaH-3---जन्‌_+_धिष्‌_+_निजिर्‍_2016-10-09

४) juhotyAdigaNe-halantadhAtavaH-4---निज्‌_+_विज्‌_+_विष्‌_+_तुर्‍_2016-10-16


जुहोत्यादिगणे २४ धातवः सन्ति | तेषु १६ धातवः अजन्ताः, ८ धातवः हलन्ताश्च | १६ अजन्तधातवः अस्माभिः पूर्वमेव परिशीलिताः; अधुना अष्ट हलन्तधातवः द्रष्टव्याः | अस्माभिः ज्ञातं यत्‌, यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ इत्यनेन शप्‌ विहितः अस्ति | तदा जुहोत्यादिगणे जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लु (लोपः) भवति | अतः जुहोत्यादिगणे कोऽपि विकरणप्रत्ययः न दृश्यते |


जुहोत्यादिभ्यः श्लुः (२.४.७५) = जुहोत्यादिगणे स्थितेभ्यः धातुभ्यः विहितस्य शप्‌-प्रत्ययस्य श्लु (लोपः) भवति | जुहोत्यादिः येषां ते जुहोत्यादयः, तेभ्यः जुहोत्यादिभ्यः | जुहोत्यादिभ्यः पञ्चम्यन्तं, श्लुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यस्मात्‌ शपः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—जुहोत्यादिभ्यः शपः श्लुः |


अत्र प्रश्नः उदेति यत्‌ लुप्‌-श्लु‌ इत्यनयोः भेदः कः ? द्वाभ्यां प्रत्ययस्य अदर्शनम्‌ इति तु अस्ति | लोपः इत्युक्ते प्रत्ययः अदृष्टः, परन्तु अदृष्टे सत्यपि कार्यक्षेत्रे लुप्तस्य प्रभावः तदानीमपि अस्ति | एतदर्थं सूत्रम्‌ अस्ति प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) |


प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णम्— प्रत्ययलोपे प्रत्ययलक्षणम्‌ |


तर्हि प्रत्यये लुप्ते तदाश्रितं कार्यं भवति | श्लु‌ न तथा; प्रत्ययस्य श्लु‌ भवति चेत्‌ न केवलं प्रत्ययः गच्छति, अपि तु तदाश्रितं कार्यमपि न स्यात्‌ | तद्विधायकं सूत्रम्‌ अस्ति न लुमताऽङ्गस्य (१.१.६३) |


न लुमताऽङ्गस्य (१.१.६३) = यस्मिन्‌ शब्दे 'लु' अस्ति, तेन शब्देन प्रत्ययादर्शनं विहितं चेत्‌, सः प्रत्ययः अङ्गकार्यस्य निमित्तं न स्यात्‌ | लुः अस्य अस्ति इति लुमान्‌, तेन लुमता | न अव्ययपदं, लुमता तृतीयान्तम्‌, अङ्गस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— लुमता प्रत्ययलोपे अङ्गस्य प्रत्ययलक्षणं न |


अस्मिन्‌ सूत्रे लुमता‌, लुमत्‌ इति प्रातिपदिकस्य तृतीयाविभक्त्यन्तं रूपम्‌ | इदं मतुप्‌-प्रत्ययान्तं; प्रथमाविभक्तौ लुमान्‌ | मतुप्‌-प्रत्ययस्य अर्थः अस्य अस्मिन्‌ वा; यथा बुद्धिमान्‌ इत्युक्ते बुद्धिः अस्य अस्मिन्‌ वा, सः बुद्धिमान्‌ | तर्हि 'लु' अस्य अस्मिन्‌ वा, सः लुमान्‌ | व्याकरणे त्रयः लुमन्तः सन्ति‌— लुक्‌, श्लु, लुप्‌ चेति | इदं सूत्रं वक्ति यत्‌ येन अदर्शनं भवति, सः लुमान्‌ अस्ति चेत्‌, प्रत्ययलोपे प्रत्ययलक्षणं न भवति | अनुवृत्ति-सहितसूत्रं तथैव— (यदा) लुमता प्रत्ययलोपे (तदा) अङ्गस्य प्रत्ययलक्षणं न | अतः न लुमताऽङ्गस्य (१.१.६३) इति सूत्रं प्रत्ययलोपे प्रत्ययलक्षणम् (१.१.६२) इत्यस्य बाधकसूत्रम्‌ | तर्हि अत्र सारांशः एवं यत्‌ श्लु‌ इत्यनेन कस्यचित्‌ प्रत्ययस्य अदर्शनं भवति चेत्‌, यस्मात्‌ अङ्गात्‌ सः प्रत्ययः लुप्तः जातः, तस्मिन्‌ अङ्गे सः लुप्तप्रत्ययः तदानीम्‌ अङ्गकार्यस्य निमित्तं न भवितुम्‌ अर्हति |


आहत्य लोपप्रकरणे चत्वारि सूत्राणि | क्रमेण—


अदर्शनं लोपः (१.१.६०) = लोप-संज्ञया अदर्शनं विहितम्‌ |

प्रत्ययस्य लुक्श्लुलुपः (१.१.६१) = लुक्‌, श्लु, लुप्‌ इत्याभिः तिसृभिः संज्ञाभिः अदर्शनं विहितम्‌ |

प्रत्ययलोपे प्रत्ययलक्षणम्‌ (१.१.६२) = प्रत्यये लुप्ते तदाश्रितं कार्यं स्यात्‌ |

न लुमताऽङ्गस्य (१.१.६३) = लुमता शब्देन लुप्ते तन्निमित्तमङ्गकार्यं न स्यात्‌ |


जुहोत्यादिगणे विकरणप्रत्ययः शप्‌ आसीत्‌, अनन्तरं तस्य श्लु‌ अभवत्‌ | लुमता शपः अदर्शनं जातम्‌, अतः धात्वङ्गे शप्‌-निमित्तकम्‌ अङ्गकार्यं नार्हम्‌ |


अत्र प्रश्नः आयाति यत्‌ 'श्लु' एकः प्रत्ययः अस्ति किम्‌ ? बोध्यं यत्‌ श्लु-निमित्तीकृत्य द्वित्वं भवति; अनेन प्रमाणितं यत्‌ प्रत्ययः अस्त्येव | श्लु इति अभावः नस्ति, अपि तु भावः एव | न दृश्यते, किन्तु भावः | एवमेव लोपः, लुक्‌लुप्‌ इत्येते सर्वे भावाः |


अधुना नूतनप्रश्नः उदेति यत्‌ अदादिगणे लुक्‌ अपि लुमान्‌ अस्ति, जुहोत्यादिगणे श्लु अपि लुमान्‌ | द्वयमपि लुमान्‌ चेत्‌, द्वयोः भेदः कः ? वस्तुतः द्वयोः कुत्रचित्‌ साम्यं, कुत्रचित्‌ च भेदः | साम्यं अस्मिन्‌, यत्‌ लुमान्‌ सन्‌ प्रत्ययलक्षणं न भवति | पुनः भेदः, यतोहि विशिष्टसूत्राणि भवन्ति लुकः कृते श्लोः कृते च | यथा अदादिगणे उतो वृद्धिर्लुकि हलि इति सूत्रम्‌ अस्माभिः दृष्टं, येन गुणं प्रबाध्य वृद्धिर्भवति | श्लु इत्यनेन तादृशं कार्यं न प्राप्यते | किन्तु श्लोः विशिष्टं कार्यमपि अस्ति, यत्‌ लुक् इत्यनेन न सिध्यति | तत्र प्रमुखं कार्यम्‌ इदम्‌—


श्लौ (६.१.१०) = श्लौ परे धातोः द्वित्वं भवति | श्लौ सप्तम्यन्तम्‌; एकं पदमिदं सूत्रम्‌ | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात्‌ धातोः इत्यस्य अनुवृत्तिः | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—श्लौ धातोः द्वे |


द्वित्वम्‌


जुहोत्यादिगणे श्लुना सर्वेषां धातूनां द्वित्वं भवति | यथा दा → ददा, धा → दधा, भी → बिभी, हु → जुहु |


पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च |


अत्रास्ति द्वित्वप्रकरणम्‌


एकाचो द्वे प्रथमस्य (६.१.१)

अजादेर्द्वितीयस्य (६.१.२)

न न्द्राः संयोगादयः (६.१.३)

पूर्वोऽभ्यासः (६.१.४)

उभे अभ्यस्तम् (६.१.५)

जक्षित्यादयः षट्‌ (६.१.६)

तुजादीनां दीर्घोऽभ्यासस्य (६.१.७)

लिटि धातोरनभ्यासस्य (६.१.८)

सन्यङोः (६.१.९)

श्लौ (६.१.१०)

चङि (६.१.११)

दाश्वान्साह्वान्मीढ्वांश्च (६.१.१२)


द्वित्वे जाते प्रथभागस्य नाम अभ्यासः, मिलित्वा द्वयोर्नाम अभ्यस्तम्‌ |

पूर्वोऽभ्यासः (६.१.४) = द्वित्वानन्तरं, यस्मिन्‌ द्विवारम्‌ उच्चारणं जातं तस्मिन्‌ प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्‌, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— पूर्वः अभ्यासः द्वयोः |


उभे अभ्यस्तम् (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्‌, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | एकाचो द्वे प्रथमस्य (६.१.१) इत्यस्मात्‌ द्वे इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌—उभे द्वे अभ्यस्तम् |


अभ्यासकार्यम्‌


तत्र द्वित्वस्य अनन्तरं कानिचन कार्याणि सन्ति अभ्यासे; यथा अभ्यासस्य ह्रस्वत्वम्‌, अल्पप्राणत्वं च भवति | इदं सर्वम् अभ्यासकार्यम्‌ इति उच्यते | आर्धधातुकप्रकरणे विस्तरेण परिशीलयाम (लिटि, लुङि, सनि, यङि इत्येषु) | अभ्यासयाकर्यस्य पुनः विभजनं भवति— सामान्याभ्यासकार्यं, विशेषाभ्यासकार्यं चेति | सामान्याभ्यासकार्यं भवति यत्र यत्र द्वित्वं भवति, सर्वेषां धातूनां कृते | विशेषाभ्यासकार्यं भवति द्वित्वस्य निमित्तम्‌ अधिकृत्य; यथा लिटि विशेषाभ्यासकार्यं, पुनः श्लौ पृथक्तया, पुनः सनि, यङि, चङि च |


अत्र सन्ति प्रमुख-सामान्याभ्यासकार्याणि—

ह्रस्वः (७.४.५९)

हलादिः शेषः (७.४.६०)

शर्पूर्वाः खयः (७.४.६१)

कुहोश्चुः (७.४.६२)

उरत् (७.४.६६)अभ्यासे चर्च (८.४.५४)


ह्रस्वः (७.४.५९) = अभ्यासस्य अच्‌-वर्णः ह्रस्वः स्यात्‌ | अचश्च (१.२.२८) इति परिभाषा-सूत्रेण यत्र कुत्रापि सूत्रेषु 'ह्रस्व', 'दीर्घ', 'प्लुत' इत्येते शब्दाः आयान्ति, तत्र 'अचः' इति शब्दः सूत्रार्थेऽपि आयाति | अतः 'ह्रस्वः' इत्युक्तौ 'ह्रस्वः अच्‌-वर्णः'; तथा सर्वत्र | ह्रस्वः प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य अचः ह्रस्वः |


हलादिः शेषः (७.४.६०) = अभ्यासस्य आदिमः* हल्‌ शेषः, अभ्यासे अपरेषां हलां लोपः | हल्‌ प्रथमान्तम्‌, आदिः प्रथमान्तं, शेषः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— (अङ्गस्य) अभ्यासस्य हलादिः शेषः‌ |


*आदिमः इत्युक्तौ 'आदौ यः', न तु 'प्रथमः' | अतः अजादिधातोः द्वित्वं क्रियते चेत्‌, आदौ अच्‌-वर्णः न तु हल्‌-वर्णः इति कारणतः हलादिः शेषः (७.४.६०) इत्यनेन अभ्यासे सर्वेषां हल्‌-वर्णानां लोपो भवति | अट्‌ → अट्‌ अट्‌ → अ अट्‌ |


कुहोश्चुः (७.४.६२) = अभ्यासे कवर्गीयस्य हकारस्य च स्थाने चवर्गीयादेशो भवति | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ हकारस्य स्थाने झकारः, तदा अभ्यासे चर्च (८.४.५४) इत्यनेन झ-स्थाने जकारः | कुश्च ह्‌ च तयोरितरेतरद्वन्द्वः कुहौ, तयोः कुहोः | कुहोः षष्ठ्यन्तं, चुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य कुहोः चुः |


स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गम्‌ अवलम्ब्य तुल्यतमः आदेशो भवति | स्थाने सप्तम्यन्तम्‌, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ |


उरत् (७.४.६६) = प्रत्यये परे अभ्यासस्य ऋवर्णस्य स्थाने अत्‌-आदेशः भवति | उः षष्ठ्यन्तम्‌, अत्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात्‌ अभ्यासस्य इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अभ्यासस्य उः अत्‌ |


अभ्यासे चर्च (८.४.५४) = अभ्यासे झल्‌-स्थाने जश्‌ चर् च आदेशौ भवतः | तत्र स्थानेऽन्तरतमः (१.१.५०) इति परिभाषा-सूत्रेण, उच्चारणस्थानसाम्यवशात्‌ झश्‌-स्थाने जश्‌ अपि च खय्‌-स्थाने चर् | अनुवृत्त्यर्थम्‌ अष्टमाध्याये | अभ्यासे सप्तम्यन्तं, चर्‍ प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम्‌ | झलां जश्‌ झशि (८.४.५३) इत्यस्मात्‌ झलां, जश् इत्यनयोः अनुवृत्तिः | तयोर्यवावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात्‌‍ संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌—अभ्यासे झलां जश्‌ च‍र् च संहितायाम्‌ |


अस्माभिः ज्ञायते यत्‌ सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति |


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. तिङ्‌प्रत्यय-सिद्धिः

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


जुहोत्यादिगणे अपि तथा, किन्तु द्वित्वम्‌ अभ्यासकार्यं चापि स्तः; द्वित्वस्य निमित्तं श्लु, अभ्यासस्य निमित्तं यः प्रत्ययः अभ्यस्तात्‌ परे अस्ति— `तिङ्‌ वा कृत्‌ वा भवतु | तर्हि आहत्य जुहोत्यादिगणे कार्यस्य क्रमः एतादृशः—


  • शप्‌ विधीयते कर्तरि शप्‌ इत्यनेन
  • शपः स्थाने श्लु भवति
  • श्लौ इत्यनेन धातोः द्वित्वं भवति
  • सामन्य-अभ्यासकार्यम्‌; अभ्यस्तोत्तर-प्रत्ययः अस्य निमित्तम्‌ (ह्रस्वः, हलादिः शेषः, कुहोश्चुः, उरत्, अभ्यासे चर्च)
  • विशेष-अभ्यासकार्यम्‌; श्लुः अस्य निमित्तम्‌; चत्वारि सूत्राणि (अस्मिन्‌ पाठे एकं— निजां त्रयाणां गुणः श्लौ (७.४.७५))
  • अङ्गकार्यं, तिङ्‌ च कृत्‌ च निमित्तम्‌


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्‌, तदा धातु-विकरणप्रत्यययोः मेलनम्‌


विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् नास्ति यतः शप्‌-विकरणप्रत्ययस्य श्लुः भवति | श्लुः तु अङ्गकार्यस्य (अभ्यासकार्यस्य) निमित्तं भवति; तच्च तृतीये सोपाने क्रियते येन एकैकस्य धातोः चर्चा करणीया एकवारम्‌ एव | तदर्थम्‌ अभ्यासकार्यम्‌ अपि तत्रैव |

२. तिङ्‌प्रत्यय-सिद्धिः

जुहोत्यादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते सिद्ध-तिङ्‌प्रत्ययाः भवन्ति | परन्तु यत्र धातुः अभ्यस्तसंज्ञकः अस्ति, तत्र तिङ्‌प्रत्ययानां सिद्ध्यर्थं विशेषकार्यद्वयं वर्तते | जुहोत्यादिगणे सर्वे धातवः अभ्यस्तसंज्ञकाः, अत्र सर्वत्र इमे द्वे कार्ये स्तः—

१) अदभ्यस्तात् (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्‌-आदेशो भवति | अत्‌ प्रथमान्तम्‌, अभ्यस्तात्‌ पञ्चम्यन्तं, द्विपदमिदं सूत्रम्‌ | झोऽन्तः (७.१.३) इत्यस्मात्‌ झः (षष्ठ्यन्तम्‌) इत्यस्य अनुवृत्तिः | आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्‌ (७.१.२) इत्यस्मात्‌, वचनपरिणामं कृत्वा प्रत्ययादेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अभ्यस्तात्‌ अङ्गात्‌ प्रत्ययादेः झः अत्‌ |

धेयं यत्‌ अत्‌-आदेशस्य तकारः हलन्त्यम्‌ (१.३.३) इति सूत्रेण इत्‌-संज्ञकः न, यतोहि अत्‌ तु विभक्तिसंज्ञक-झि-प्रत्ययस्य अवयवस्य आदेशः अतः न विभक्तौ तुस्माः (१.३.४) इत्यनेन हलन्त्यम्‌ (१.३.३) बाधितम्‌ |

अदभ्यस्तात् (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्‌-स्थाने अत्‌ आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |