6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 100: Line 100:


<big>रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, '''श्नान्नलोपः''' (६.४.२३) इत्येनेन सूत्रेण | यथा इन्ध्‌ + श्नम्‌ → इनन्ध्‌ | 'इनन्ध्' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परे धातौ नकारः वर्तते अतः '''श्नान्नलोपः''' इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः, इनन्ध् → इनध्‌ | एवमेव तृन्ह्‌ + श्नम्‌ → तृनन्ह्‌ → तृनह्‌; अञ्ज्‌ → अनञ्ज्‌ → अनज्‌; भञ्ज्‌ → भनञ्ज्‌‌ → भनज्‌; तञ्ज्‌ → तनञ्ज्‌ → तनज्‌; उन्द्‌ → उनन्द्‌ → उनद्‌ इत्यादिकम्‌ |</big>
<big>रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, '''श्नान्नलोपः''' (६.४.२३) इत्येनेन सूत्रेण | यथा इन्ध्‌ + श्नम्‌ → इनन्ध्‌ | 'इनन्ध्' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परे धातौ नकारः वर्तते अतः '''श्नान्नलोपः''' इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः, इनन्ध् → इनध्‌ | एवमेव तृन्ह्‌ + श्नम्‌ → तृनन्ह्‌ → तृनह्‌; अञ्ज्‌ → अनञ्ज्‌ → अनज्‌; भञ्ज्‌ → भनञ्ज्‌‌ → भनज्‌; तञ्ज्‌ → तनञ्ज्‌ → तनज्‌; उन्द्‌ → उनन्द्‌ → उनद्‌ इत्यादिकम्‌ |</big>


<big>धेयं यत्‌ अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य, अङ्गम्‌ उद्दिष्य, यत्‌ कार्यं तद्‌ अङ्गकार्यम्‌ | केवलं प्रत्ययात्‌ प्राक्‌ तदेव अङ्गम्‌ इति न; प्रत्ययं निमित्तीकृत्य यत्र कार्यं भवति, तत्र अङ्गम्‌ | अतः रुधादिगणे यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविशति, तथापि स च धातुः विकरणप्रत्ययस्य कारणेन अङ्गमेव |</big>


<big>'''श्नान्नलोपः''' (६.४.२३) = श्नम्‌-प्रत्ययोत्तरस्य नकारस्य लोपो भवति | नस्य लोपो नलोपः, षष्ठीतत्पुरुषः | श्नात्‌ पञ्चम्यन्तं, नलोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— '''श्नात्‌ अङ्गस्य नलोपः''' |</big>


<u><big>२. तिङ्‌प्रत्यय-सिद्धिः</big></u>


<big>रुधादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते ये सिद्ध-तिङ्‌प्रत्ययाः भवन्ति, ते अत्र प्रयुज्यन्ते |</big>

Revision as of 15:04, 16 May 2021

ध्वनिमुद्रणानि -

2019-वर्गः

१) rudhAdigaNaH---paricayaH_2019-08-27

२) rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03 

३) rudhAdigaNaH---विचिर्‌, तञ्चू, रिचिर्‌_2019-09-10

४) rudhAdigaNaH---पृची_+_युजिर्‌_2019-09-17

५) rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24 

६) rudhAdigaNaH---छिदिर्‌_+_भिदिर्‌_+_उच्छृदिर्‌_+_उन्दी_+_रुधिर्‌_+_2019-10-01  

७) rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08

८) rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15 

(अस्मिन्‌ वर्गे लबि धातोः प्रसङ्गे अस्य पाठस्य अध्ययनं जातम् |)

९) rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22

१०) rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29

2016-वर्गः

१) rudhAdigaNasya-paricayaH_2016-10-16

२) rudhAdigaNaH-1---paricayaH_+_विच्‌_+_तञ्च्‌_2016-10-23 

३) rudhAdigaNaH-2---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_2016-10-30 

४) rudhAdigaNaH-3---cintanavidhiH_+_विच्‌_+_Natvam_+_रिच्‌_+_पृच्‌_+_युज्‌_2016-11-03

५) rudhAdigaNaH-4---cintanavidhiH_+_युज्‌_+_अञ्ज्‌_+_भञ्ज्‌_+_भुज्‌_+_वृज्‌_2016-11-13 

६) rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्‌_2016-11-20

७) rudhAdigaNaH-6--cintanavidhiH_+_छिद्‌ _+_भिद्‌_+_उन्द्‌_+_खिद्‌_+_छृद्‌_+_क्षुद्‌_2016-11-27

८) rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्‌_+_शिष्‌_+_पिष्‌_+_हिंस्‌_2016-12-04

९) rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्‌_2016-12-11 

१०) rudhAdigaNaH-9--तृह्‌_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18


रुधादिगणे २५ धातवः सन्ति; ते च सर्वे हलन्ताः | कर्त्रर्थे सार्वधातुकप्रत्यये परे किं किं भवति इति अस्मिन्‌ पाठे वीक्ष्यते | सार्वधातुकप्रकरणे इदम्‌ अस्माकम्‌ अन्तिमं कार्यम्‌ |


यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः अस्ति | तदा रुधादिगणे रुधादिभ्यः श्नम्‌ (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्‌-विकरणप्रत्ययः विहितो भवति |


रुधादिभ्यः श्नम् (३.१.७८) = रुधादिगणे पठितेभ्यः धातुभ्यः श्नम्‌-प्रत्ययो भवति, कर्त्रर्थके सार्वधातुकप्रत्यये परे | रुध्‌ आदिः येषां ते रुधादयः, तेभ्यः रुधादिभ्यः | रुधादिभ्यः पञ्चम्यन्तं, श्नम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) इत्यस्य अधिकारः; अनेन श्नम्‌ इत्यस्य प्रत्ययसंज्ञा भवति | अनुवृत्ति-सहितसूत्रम्‌— रुधादिभ्यः श्नम्‌ प्रत्ययः कर्तरि सार्वधातुके |


श्नम्‌ इति प्रत्यये लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ (१.३.३) इत्यनेन मकारस्य इत्‌-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन द्वयोर्लोपे सति 'न' इत्येव अवशिष्यते |


सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—

१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

२. तिङ्‌प्रत्यय-सिद्धिः

३. तिङ्‌प्रत्यय-निमित्तकम्‌ अङ्गकार्यं‌, तदा अङ्ग-तिङ्‌प्रत्यययोः मेलनम्‌


१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्‌

अस्मिन्‌ प्रथमे सोपाने, रुधादिगणे वस्तुतः क्रमः विपरीतः | सर्वप्रथमं धातु-विकरणप्रत्यययोः मेलनं भवति, तदा एव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् |


धातु-विकरणप्रत्यययोः मेलनम्‌—


श्नम्‌ मित्‌ (म्‌ इत यस्य सः) अस्ति, अतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन धातोः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति | यथा रुध्‌ + श्नम्‌ → रुध्‌ + न → रुनध्‌; भिद्‌ + न → भिनद्‌; कृत्‌ + न → कृनत्‌; तृद्‌ + न → तृनद्‌; खिद्‌ + न → खिनद्‌; तृह्‌ + न → तृनह्‌ इत्यादिकम्‌ |


मिदचोऽन्त्यात्परः (१.१.४७) = यः मित्‌ अस्ति, सः अच्‌-वर्णेषु अन्त्यात्‌ परः आयाति, अपि च अयं मित्‌ यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म्‌ इत्‌ यस्य सः मित्‌, बहुव्रीहिः | मित्‌ प्रथमान्तम्‌, अचः षष्ठ्यन्तम्‌, अन्त्यात्‌ पञ्चम्यन्तम्‌, परः प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात्‌ अन्तः इत्यस्य अनुवृत्तिः | अस्मिन्‌ सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्‌" इत्यस्य अर्थः निर्धारणम्‌— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्‌" | अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌ (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | एतदर्थं सिद्धान्तकौमुदीकारवृत्तिरस्ति— 'अचः इति निर्धारणे षष्ठी | अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्' | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्‌, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित्‌ अचः अन्त्यात्‌ परः अन्तः |


अनेन सूत्रेण श्नम्‌ "यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति", इत्युक्तम्‌ | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, लशक्वतद्धिते (१.३.८) इत्यनेन 'इ' अवशिष्यते] → शि-प्रत्ययः सर्वनामस्थानसंज्ञकः अतः नपुंसकस्य झलचः (७.१.७२) इत्यनेन झलन्तस्य अजन्तस्य च क्लीबस्य नुम्‌ भवति सर्वनामस्थाने परे; नुम्‌ मित्‌ अतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन स च नुम्‌ अच्‌-वर्णेषु अन्त्यात्‌ परः → ज्ञान + न्‌ + इ → नुम्‌-आगमस्य नकारः अधुना ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नकारान्ताङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने परे (सम्बोधनस्य एकवचने नास्ति चेत— 'असम्बुद्धौ’) → ज्ञानान्‌ + इ → ज्ञानानि | यदि नुम्‌-आगमस्य नकारः 'ज्ञान' इति अङ्गस्य अन्तिमावयवः नाभविष्यत्‌, यदि अन्त्यस्य अचः एव अवयवः इति स्वीक्रियेत, तर्हि 'अन्‌' नान्तः चेदपि अङ्गं नान्तं न इति कारणतः सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत्‌ |


(प्रश्नः— अत्रोक्तं 'ज्ञान + इ [शि-प्रत्ययः]' | सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस्‌ इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्‌' इति प्रत्ययः भवेत्‌; कथं वा 'शि' इति जातम्‌ ? मूलप्रत्ययाः सु, औ, जस्‌ इति तु सत्यम्‌ | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति— मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम्‌ अनुसृत्य, कुत्रचित्‌ प्रातिपदिकस्य अन्तिमवर्णम्‌ अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात्‌ अङ्गात्‌ जस्‌-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)


एवं च यदा श्नम्‌-प्रत्ययः आगतः, तदा विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्—


रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, श्नान्नलोपः (६.४.२३) इत्येनेन सूत्रेण | यथा इन्ध्‌ + श्नम्‌ → इनन्ध्‌ | 'इनन्ध्' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परे धातौ नकारः वर्तते अतः श्नान्नलोपः इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः, इनन्ध् → इनध्‌ | एवमेव तृन्ह्‌ + श्नम्‌ → तृनन्ह्‌ → तृनह्‌; अञ्ज्‌ → अनञ्ज्‌ → अनज्‌; भञ्ज्‌ → भनञ्ज्‌‌ → भनज्‌; तञ्ज्‌ → तनञ्ज्‌ → तनज्‌; उन्द्‌ → उनन्द्‌ → उनद्‌ इत्यादिकम्‌ |


धेयं यत्‌ अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य, अङ्गम्‌ उद्दिष्य, यत्‌ कार्यं तद्‌ अङ्गकार्यम्‌ | केवलं प्रत्ययात्‌ प्राक्‌ तदेव अङ्गम्‌ इति न; प्रत्ययं निमित्तीकृत्य यत्र कार्यं भवति, तत्र अङ्गम्‌ | अतः रुधादिगणे यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविशति, तथापि स च धातुः विकरणप्रत्ययस्य कारणेन अङ्गमेव |


श्नान्नलोपः (६.४.२३) = श्नम्‌-प्रत्ययोत्तरस्य नकारस्य लोपो भवति | नस्य लोपो नलोपः, षष्ठीतत्पुरुषः | श्नात्‌ पञ्चम्यन्तं, नलोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्‌— श्नात्‌ अङ्गस्य नलोपः |


२. तिङ्‌प्रत्यय-सिद्धिः


रुधादिगणे अङ्गम्‌ अनदन्तम्‌, अतः अनदन्ताङ्गानां कृते ये सिद्ध-तिङ्‌प्रत्ययाः भवन्ति, ते अत्र प्रयुज्यन्ते |