6---sArvadhAtukaprakaraNam-anadantam-aGgam/17---rudhAdigaNaH: Difference between revisions
Bina Radia (talk | contribs) No edit summary |
Bina Radia (talk | contribs) No edit summary |
||
Line 204: | Line 204: | ||
<big>तृह् + न + तः → तृन्ह् + तः</big> |
<big>तृह् + न + तः → तृन्ह् + तः</big> |
||
<big>धेयं यत् पित्सु प्रत्ययेषु णत्वं भवति यत्र निमित्तं वर्तते | अपित्सु प्रत्ययेषु निमित्तम् प्रतीयते चेदपि णत्वं नैव भवति | निमित्तं भाति, परन्तु वस्तुतस्तु नास्ति | तत्र '''पूर्वत्रासिद्धम्''' (८.२.१) इत्यनेन णत्वं बाधितम्; अग्रे यत्र सन्धिकार्यं क्रियते, तत्र णत्वं कथं बाधितमिति पश्येम |</big> |
|||
<big>अत्र इतोऽपि कश्चन प्रश्नः उदेति— रुधादिगणे अपित्सु तिङ्प्रत्ययेषु सर्वेषाम् अङ्गानां '''श्नसोरल्लोपः''' (६.४.१११) इत्यनेन नकारोत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारो भवति | अपि च रुधादिगणे हिसि-धातुम् अतिरिच्य सर्वे धातवः अनिदितः | अतः एषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम्, अपित्सु प्रत्ययेषु '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात् ?</big> |
|||
<big>रुन्ध् + तः, क्षुन्द् + तः, रिन्च् + तः, तृन्द् + तः, कृन्द् + तः, तृन्ह् + तः— एषु सर्वेषु स्थलेषु '''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत् | किमर्थं न भवति ?</big> |
|||
<big>'''अनिदितां हल उपधाया क्ङिति''' (६.४.२४) = अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | '''श्नान्नलोपः''' (६.४.२३) इत्यस्मात् '''न''', '''लोपः''' इत्यनयोः अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— '''अनिदितां हलः अङ्गस्य उपधाया न लोपः क्ङिति''' |</big> |
Revision as of 15:46, 16 May 2021
ध्वनिमुद्रणानि -
2019-वर्गः
१) rudhAdigaNaH---paricayaH_2019-08-27
२) rudhAdigaNaH---vikaraNanimittakam-(श्नान्नलोपः)-ca-tingnimittakam-(श्नसोरल्लोपः)-ca-angakAryam_2019-09-03
३) rudhAdigaNaH---विचिर्, तञ्चू, रिचिर्_2019-09-10
४) rudhAdigaNaH---पृची_+_युजिर्_2019-09-17
५) rudhAdigaNaH---अञ्जू_+_भञ्जो_+_भुज_+_ओविजी_+_वृजी_+_कृती_2019-09-24
६) rudhAdigaNaH---छिदिर्_+_भिदिर्_+_उच्छृदिर्_+_उन्दी_+_रुधिर्_+_2019-10-01
७) rudhAdigaNaH---ञिइन्धी_+_शिष्लृ_+_पिष्लृ_+_हिसि_2019-10-08
८) rudhAdigaNaH---हिसि_+_tatra-hinas-iti-angasAdhane-bAdhya-bAdhakabhAva-cintanam_+_labi-yangluki-langi-alAlan_2019-10-15
(अस्मिन् वर्गे लबि धातोः प्रसङ्गे अस्य पाठस्य अध्ययनं जातम् |)
९) rudhAdigaNaH---हिसि_+_तृह_+_sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-22
१०) rudhAdigaNaH---sarvadhAtUnAM-vAkyAbhyAsaH_2019-10-29
2016-वर्गः
१) rudhAdigaNasya-paricayaH_2016-10-16
२) rudhAdigaNaH-1---paricayaH_+_विच्_+_तञ्च्_2016-10-23
३) rudhAdigaNaH-2---cintanavidhiH_+_विच्_+_Natvam_+_रिच्_2016-10-30
४) rudhAdigaNaH-3---cintanavidhiH_+_विच्_+_Natvam_+_रिच्_+_पृच्_+_युज्_2016-11-03
५) rudhAdigaNaH-4---cintanavidhiH_+_युज्_+_अञ्ज्_+_भञ्ज्_+_भुज्_+_वृज्_2016-11-13
६) rudhAdigaNaH-5---rudhAdau-kimartham-'aniditAm'-ityanena-nalopo-na_+_कृत्_2016-11-20
७) rudhAdigaNaH-6--cintanavidhiH_+_छिद् _+_भिद्_+_उन्द्_+_खिद्_+_छृद्_+_क्षुद्_2016-11-27
८) rudhAdigaNaH-7--cintanavidhiH_+_इन्ध्_+_शिष्_+_पिष्_+_हिंस्_2016-12-04
९) rudhAdigaNaH-8--lang-lakAre-dakArAntAnAM-sakArAntAnAM-ca-tipi-sipi-vidhiH_+_तृह्_2016-12-11
१०) rudhAdigaNaH-9--तृह्_+_sarvadhAtUnAM-vAkyAbhyAsaH_2016-12-18
रुधादिगणे २५ धातवः सन्ति; ते च सर्वे हलन्ताः | कर्त्रर्थे सार्वधातुकप्रत्यये परे किं किं भवति इति अस्मिन् पाठे वीक्ष्यते | सार्वधातुकप्रकरणे इदम् अस्माकम् अन्तिमं कार्यम् |
यथा सर्वेषु गणेषु, कर्त्रर्थके सार्वधातुकप्रत्यये परे, कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः अस्ति | तदा रुधादिगणे रुधादिभ्यः श्नम् (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्-विकरणप्रत्ययः विहितो भवति |
रुधादिभ्यः श्नम् (३.१.७८) = रुधादिगणे पठितेभ्यः धातुभ्यः श्नम्-प्रत्ययो भवति, कर्त्रर्थके सार्वधातुकप्रत्यये परे | रुध् आदिः येषां ते रुधादयः, तेभ्यः रुधादिभ्यः | रुधादिभ्यः पञ्चम्यन्तं, श्नम् प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः, सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) इत्यस्य अधिकारः; अनेन श्नम् इत्यस्य प्रत्ययसंज्ञा भवति | अनुवृत्ति-सहितसूत्रम्— रुधादिभ्यः श्नम् प्रत्ययः कर्तरि सार्वधातुके |
श्नम् इति प्रत्यये लशक्वतद्धिते (१.३.८) इत्यनेन शकारस्य इत्-संज्ञा, हलन्त्यम् (१.३.३) इत्यनेन मकारस्य इत्-संज्ञा; तस्य लोपः (१.३.९) इत्यनेन द्वयोर्लोपे सति 'न' इत्येव अवशिष्यते |
सार्वधातुकलकारेषु तिङन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति—
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
२. तिङ्प्रत्यय-सिद्धिः
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
१. विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं, तदा धातु-विकरणप्रत्यययोः मेलनम्
अस्मिन् प्रथमे सोपाने, रुधादिगणे वस्तुतः क्रमः विपरीतः | सर्वप्रथमं धातु-विकरणप्रत्यययोः मेलनं भवति, तदा एव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम् |
धातु-विकरणप्रत्यययोः मेलनम्—
श्नम् मित् (म् इत यस्य सः) अस्ति, अतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन धातोः अच्-वर्णेषु अन्त्यात् परः आयाति | यथा रुध् + श्नम् → रुध् + न → रुनध्; भिद् + न → भिनद्; कृत् + न → कृनत्; तृद् + न → तृनद्; खिद् + न → खिनद्; तृह् + न → तृनह् इत्यादिकम् |
मिदचोऽन्त्यात्परः (१.१.४७) = यः मित् अस्ति, सः अच्-वर्णेषु अन्त्यात् परः आयाति, अपि च अयं मित् यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति | म् इत् यस्य सः मित्, बहुव्रीहिः | मित् प्रथमान्तम्, अचः षष्ठ्यन्तम्, अन्त्यात् पञ्चम्यन्तम्, परः प्रथमान्तम्, अनेकपदमिदं सूत्रम् | आद्यन्तौ टकितौ (१.१.४६) इत्यस्मात् अन्तः इत्यस्य अनुवृत्तिः | अस्मिन् सूत्रे 'अचः' षष्ठीविभक्तौ; "अचः अन्त्यात्" इत्यस्य अर्थः निर्धारणम्— नाम "सर्वेषु स्वरेषु अन्तिमः, तस्मात्" | अत्र अचः एकवचने यतोहि अनेन अच्-जातिः इति इष्टम् | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम् (१.२.५८) = जाति-आख्यायाम् एकस्मिन् बहुवचनम् अन्यतरस्याम् | एतदर्थं सिद्धान्तकौमुदीकारवृत्तिरस्ति— 'अचः इति निर्धारणे षष्ठी | अचां मध्ये योऽन्त्यस्तस्मात्परस्तस्यैवान्तावयवो मित्स्यात्' | तर्हि 'अचः' एकवचने चेदपि सार्वत्रिक-बहुवचनार्थकः | इत्थञ्च षष्ठीविभक्तेः अर्थः 'स्थाने' इति न; षष्ठी स्थानेयोगा (१.१.४९) इति सामान्यम्, इदं सूत्रं विशेषः | अनुवृत्ति-सहितसूत्रम्— मित् अचः अन्त्यात् परः अन्तः |
अनेन सूत्रेण श्नम् "यस्य वर्ण-समुदायस्य, तस्य अन्तिमावयवो भवति", इत्युक्तम् | अस्य अर्थः कः इति स्पष्टं भवति सुबन्तप्रकरणे | ज्ञान-शब्दः बहुवचने 'ज्ञानानि' भवति | ज्ञान + इ [शि-प्रत्ययः, लशक्वतद्धिते (१.३.८) इत्यनेन 'इ' अवशिष्यते] → शि-प्रत्ययः सर्वनामस्थानसंज्ञकः अतः नपुंसकस्य झलचः (७.१.७२) इत्यनेन झलन्तस्य अजन्तस्य च क्लीबस्य नुम् भवति सर्वनामस्थाने परे; नुम् मित् अतः मिदचोऽन्त्यात्परः (१.१.४७) इत्यनेन स च नुम् अच्-वर्णेषु अन्त्यात् परः → ज्ञान + न् + इ → नुम्-आगमस्य नकारः अधुना ज्ञान इति अङ्गस्य वर्ण-समुदायस्य अन्तिमावयवः इति कारणेन सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन नकारान्ताङ्गस्य उपधायाः दीर्घः सर्वनामस्थाने परे (सम्बोधनस्य एकवचने नास्ति चेत— 'असम्बुद्धौ’) → ज्ञानान् + इ → ज्ञानानि | यदि नुम्-आगमस्य नकारः 'ज्ञान' इति अङ्गस्य अन्तिमावयवः नाभविष्यत्, यदि अन्त्यस्य अचः एव अवयवः इति स्वीक्रियेत, तर्हि 'अन्' नान्तः चेदपि अङ्गं नान्तं न इति कारणतः सर्वनामस्थाने चासम्बुद्धौ (६.४.८) इत्यनेन अकारस्य दीर्घादेशः च नाभविष्यत् |
(प्रश्नः— अत्रोक्तं 'ज्ञान + इ [शि-प्रत्ययः]' | सुबन्तविषये प्रत्ययाः भवन्ति सु, औ, जस् इत्यादयः | तर्हि प्रथमपुरुषस्य बहुवचने 'जस्' इति प्रत्ययः भवेत्; कथं वा 'शि' इति जातम् ? मूलप्रत्ययाः सु, औ, जस् इति तु सत्यम् | किन्तु अनन्तरं प्रत्ययादेशाः भवन्ति— मूलप्रत्ययानां स्थाने आदेशाः भवन्ति | सुबन्तविषये लिङ्गम् अनुसृत्य, कुत्रचित् प्रातिपदिकस्य अन्तिमवर्णम् अनुसृत्य च आदेशाः भिद्यन्ते | नपुंसकलिङ्गे जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात् अङ्गात् जस्-स्थाने शि-आदेशः | अनेन नपुंसकलिङ्गे, प्रथमपुरुषस्य बहुवचने इकारः आयाति—वनानि, वारीणि, मधूनि, जगन्ति, कर्माणि, धनूंषि, मनांसि |)
एवं च यदा श्नम्-प्रत्ययः आगतः, तदा विकरणप्रत्यय-निमित्तकम् अङ्गकार्यम्—
रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्-प्रत्ययात् परं धातौ नकारः वर्तते | श्नम्-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, श्नान्नलोपः (६.४.२३) इत्येनेन सूत्रेण | यथा इन्ध् + श्नम् → इनन्ध् | 'इनन्ध्' इत्यस्मिन् श्नम्-प्रत्ययात् परे धातौ नकारः वर्तते अतः श्नान्नलोपः इत्यनेन श्नम्-प्रत्ययात् उत्तरस्य नकारस्य लोपः, इनन्ध् → इनध् | एवमेव तृन्ह् + श्नम् → तृनन्ह् → तृनह्; अञ्ज् → अनञ्ज् → अनज्; भञ्ज् → भनञ्ज् → भनज्; तञ्ज् → तनञ्ज् → तनज्; उन्द् → उनन्द् → उनद् इत्यादिकम् |
धेयं यत् अङ्गकार्यं नाम प्रत्ययं निमित्तीकृत्य, अङ्गम् उद्दिष्य, यत् कार्यं तद् अङ्गकार्यम् | केवलं प्रत्ययात् प्राक् तदेव अङ्गम् इति न; प्रत्ययं निमित्तीकृत्य यत्र कार्यं भवति, तत्र अङ्गम् | अतः रुधादिगणे यद्यपि विकरणप्रत्ययः धातोः मध्ये उपविशति, तथापि स च धातुः विकरणप्रत्ययस्य कारणेन अङ्गमेव |
श्नान्नलोपः (६.४.२३) = श्नम्-प्रत्ययोत्तरस्य नकारस्य लोपो भवति | नस्य लोपो नलोपः, षष्ठीतत्पुरुषः | श्नात् पञ्चम्यन्तं, नलोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रमेवम्— श्नात् अङ्गस्य नलोपः |
२. तिङ्प्रत्यय-सिद्धिः
रुधादिगणे अङ्गम् अनदन्तम्, अतः अनदन्ताङ्गानां कृते ये सिद्ध-तिङ्प्रत्ययाः भवन्ति, ते अत्र प्रयुज्यन्ते |
प्रत्ययादेशः
क्वचित् विशिष्ट-स्थित्याम् एषु सिद्ध-तिङ्प्रत्ययेषु केचन परिवर्तन्ते | अयं विकारः प्रत्ययादेशः इति उच्यते |
परस्मैपदस्य लोटि—
हुझल्भ्यो हेर्धिः (६.४.१०१) = हु-धातुतः झलन्तेभ्यः धातुभ्यश्च हि-प्रत्ययस्य स्थाने धि-आदेशो भवति | येनविधिस्तदन्तस्य (१.१.७२) इत्यनेन झलेभ्यः इति विशेषणेन तेभ्यः अङ्गेभ्यः येषाम् अन्ते झल् | हुश्च झलश्च तेषामितरेतरद्वद्वो हुझलः, तेभ्यो हुझल्भ्यः | हुझल्भ्यः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, धिः प्रथमान्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.११) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हुझल्भ्यः अङ्गेभ्यः हेः धिः |
परस्मैपदस्य लङि—
अपृक्त एकाल् प्रत्ययः (१.२.४१) = यस्य प्रत्यस्य एकैव अल्, तस्य अपृक्त-संज्ञा भवति | एकश्चासौ अल् एकाल्, कर्मधारयः | अपृक्तः प्रथमान्तम्, एकाल् प्रथमान्तं, प्रत्ययः प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— एकाल् प्रत्ययः अपृक्तः |
हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल् (६.१.६७) = हलन्तात्, दीर्घङ्यन्तात्, दीर्घाबन्तात् च सु-ति-सि इत्येषाम् अपृक्तसंज्ञकस्य हलः लोपः | अनेन प्रथमाविभक्तौ सु इत्यस्य स्-लोपः, लङि प्रथमपुरुषे त्-लोपः, मध्यमपुरुषे स्-लोपश्च | हल् च ङी च आप् च तेषाम् इतरेतरद्वन्द्वः हल्ङ्यापः, तेभ्यः हल्ङ्याब्भ्यः | सुश्च, तिश्च, सिश्च तेषां समाहारद्वन्द्वः, सुतिसि, सुतिसिनः अपृक्तं सुतिस्यपृक्तम् | हल्ङ्याब्भ्यः पञ्चम्यन्तं, दीर्घात् पञ्चम्यन्तं, सुतिस्यपृक्तं प्रथमान्तं, हल् प्रथमान्तम्, अनेकपदमिदं सूत्रम् | लोपो व्योर्वलि (६.१.६५) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः; अत्र कर्मणि प्रयोगे लुप्यते इति रूपविकारः | अनुवृत्ति-सहितसूत्रम्— दीर्घात् हल्ङ्याब्भ्यो सुतिसि अपृक्तं हल् लुप्यते |
३. तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यं, तदा अङ्ग-तिङ्प्रत्यययोः मेलनम्
a) अङ्गकार्यम्
रुधादिगणे तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यम् एकमेव, तच्च सर्वेषु धातुषु प्रवर्तते | अपित्सु सार्वधातुकलकारेषु श्नम्-प्रत्यये स्थितस्य अकारस्य लोपो भवति श्नसोरल्लोपः इत्येनेन सूत्रेण | यथा रुनध् + तः → रुन्ध् + तः | भिनद् + तः → भिन्द् + तः | कृनत् + तः → कृन्त् + तः | क्षुनद् + तः → क्षुन्द् + तः | तृनह् + तः → तृन्ह् इत्यादिकम् |
श्नसोरल्लोपः (६.४.१११) = श्नम्-प्रत्ययस्य अपि च अस्-धातोः अकारस्य लोपो भवति किति ङिति सार्वधातुके परे | श्नश्च अस् च तयोरितरेतरद्वन्द्वः श्नसौ | शकन्ध्वादिषु पररूपं वाच्यम् इति वार्तिकेन पररूपादेशात् न सवर्णदीर्घसन्धिः | श्नसोः षष्ठ्यन्तम्, अल्लोपः प्रथमान्तं, द्विपदमिदं सूत्रम् | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः; गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नसोः अल्लोपः सार्वधातुके क्ङिति |
एङि पररूपम् (६.१.९४) इत्यनेन अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपादेशो भवति | प्र + एजते → प्रेजते | उप + ओषति → उपोषति | अष्टाध्याय्यां तस्मिन्नेव स्थले वार्तिकमस्ति— शकन्ध्वादिषु पररूपं वाच्यम् | शक अन्धुः शकन्धुः | कुल अटा कुलटा | शकन्ध्वादिः आकृतिगणः, अनेन श्नसौ अपि अन्यतमः सदस्यः |
एवं च श्नसोरल्लोपः इति सूत्रस्य कारणतः पित्सु प्रत्ययेषु एकं रूपम्, अपित्सु प्रत्ययेषु च अन्यत् रूपम् |
यथा—
१. पित्सु प्रत्ययेषु अकारस्य लोपो न भवति |
रुध् + न + ति → रुणध् + ति
क्षुद् + न + ति → क्षुणद् + ति
रिच् + न + ति → रिणच् + ति
तृद् + न + ति → तृणद् + ति
कृद् + न + ति → कृणद् + ति
तृह् + न + ति → तृणह् + ति
२. अपित्सु प्रत्ययेषु अकारस्य लोपो भवति सर्वत्र |
रुध् + न + तः → रुन्ध् + तः
क्षुद् + न + तः → क्षुन्द् + तः
रिच् + न + तः → रिन्च् + तः
तृद् + न + तः → तृन्द् + तः
कृद् + न + तः → कृन्द् + तः
तृह् + न + तः → तृन्ह् + तः
धेयं यत् पित्सु प्रत्ययेषु णत्वं भवति यत्र निमित्तं वर्तते | अपित्सु प्रत्ययेषु निमित्तम् प्रतीयते चेदपि णत्वं नैव भवति | निमित्तं भाति, परन्तु वस्तुतस्तु नास्ति | तत्र पूर्वत्रासिद्धम् (८.२.१) इत्यनेन णत्वं बाधितम्; अग्रे यत्र सन्धिकार्यं क्रियते, तत्र णत्वं कथं बाधितमिति पश्येम |
अत्र इतोऽपि कश्चन प्रश्नः उदेति— रुधादिगणे अपित्सु तिङ्प्रत्ययेषु सर्वेषाम् अङ्गानां श्नसोरल्लोपः (६.४.१११) इत्यनेन नकारोत्तरस्य अकारलोपो भवति, अतः अङ्गस्य उपधायां नकारो भवति | अपि च रुधादिगणे हिसि-धातुम् अतिरिच्य सर्वे धातवः अनिदितः | अतः एषां सर्वेषाम् अनिदितां धातूनाम् अङ्गानाम्, अपित्सु प्रत्ययेषु अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन, किमर्थं नकारलोपो न स्यात् ?
रुन्ध् + तः, क्षुन्द् + तः, रिन्च् + तः, तृन्द् + तः, कृन्द् + तः, तृन्ह् + तः— एषु सर्वेषु स्थलेषु अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन अपित्सु प्रत्ययेषु सर्वत्र नकारलोपः भवेत् | किमर्थं न भवति ?
अनिदितां हल उपधाया क्ङिति (६.४.२४) = अनिदितां हलन्तानाम् अङ्गानाम् उपधायाः नकारस्य लोपो भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधाया न लोपः क्ङिति |