7---ArdhadhAtukaprakaraNam/01---preraNArthe-Nic: Difference between revisions
Gargi Dixit (talk | contribs) No edit summary |
No edit summary |

(10 intermediate revisions by 4 users not shown) | |||
Line 1: | Line 1: | ||
{{DISPLAYTITLE:01 - प्रेरणार्थे णिच् }} |

{| class="wikitable mw-collapsible mw-collapsed" |
{| class="wikitable mw-collapsible mw-collapsed" |

!ध्वनिमुद्रणानि |
!ध्वनिमुद्रणानि |

|'''2020 वर्गः''' |

|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/201_ArdhadhAtukaprakriyA-paricayaH_%2B_preraNArthe-Nic_2020-04-15.mp3 ArdhadhAtukaprakriyA-paricayaH_+_preraNArthe-Nic_2020-04-15] |
|१) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/201_ArdhadhAtukaprakriyA-paricayaH_%2B_preraNArthe-Nic_2020-04-15.mp3 ArdhadhAtukaprakriyA-paricayaH_+_preraNArthe-Nic_2020-04-15] |

Line 9: | Line 10: | ||

|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/203_preraNArthe-Nic---Nic-vidhAna-prakriyA_%2B_sAmAnya-dhAtavaH_2020-04-29.mp3 preraNArthe-Nic---Nic-vidhAna-prakriyA_+_sAmAnya-dhAtavaH_2020-04-29] |
|३) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/203_preraNArthe-Nic---Nic-vidhAna-prakriyA_%2B_sAmAnya-dhAtavaH_2020-04-29.mp3 preraNArthe-Nic---Nic-vidhAna-prakriyA_+_sAmAnya-dhAtavaH_2020-04-29] |

|'''2017 वर्गः''' |

{| class="wikitable mw-collapsible mw-collapsed" |

!ध्वनिमुद्रणानि - 2017 वर्गः- |

|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/109_preraNArthe-Nic--paricayaH_2017-03-26.mp3 preraNArthe-Nic--paricayaH_2017-03-26] |
|१) [https://archive.org/download/Samskrita-Vyakaranam-2014_Paniniiya-Study-I/109_preraNArthe-Nic--paricayaH_2017-03-26.mp3 preraNArthe-Nic--paricayaH_2017-03-26] |

Line 57: | Line 57: | ||

'''तत्प्रयोजको हेतुश्च''' (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात् | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''स्वतन्त्रः कर्ता''' (१.४.५४) इत्यस्मात् '''कर्ता''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— ''' |
'''तत्प्रयोजको हेतुश्च''' (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात् | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | '''स्वतन्त्रः कर्ता''' (१.४.५४) इत्यस्मात् '''कर्ता''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''तत्प्रयोजकः हेतुः च कर्ता''' | |

Line 69: | Line 69: | ||

'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच्-विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्, तस्मिन् हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान् | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान् व्यापारः, तस्मिन् वाच्ये णिज् इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात् '''णिच्''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च |
'''हेतुमति च''' (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच्-विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्, तस्मिन् हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान् | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान् व्यापारः, तस्मिन् वाच्ये णिज् इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यस्मात् '''णिच्''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१) '''परश्च''' (३.१.२) इत्यनयोः अधिकारः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ '''धातुभ्यः''' | अनुवृत्ति-सहितसूत्रं— '''हेतुमति च धातुभ्यः णिच् प्रत्ययः परश्च''' | |

Line 83: | Line 83: | ||
तत्र भृत्यादेः निकृष्टस्य प्रवर्तना '''प्रेषणम्''' | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति | |
तत्र भृत्यादेः निकृष्टस्य प्रवर्तना '''प्रेषणम्''' | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति | |

समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— '''अध्येषणा''' | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति | |
समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— '''अध्येषणा''' | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः '''सम्मतिः''' | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति | |

ज्वरितस्य कषायपाने हितौ |
ज्वरितस्य कषायपाने हितौ अवबोधनेन प्रवर्तना— '''उपदेशः''' | वैद्यः रोगिणं तिक्तम् औषधं पाययति | |

हननात् भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— '''अनुग्रहः''' | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः | |
हननात् भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— '''अनुग्रहः''' | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः | |

Line 105: | Line 105: | ||

१. यः णिच् प्रातिपदिकेभ्यः विधीयते = ''' |
१. यः णिच् प्रातिपदिकेभ्यः विधीयते = '''मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभो णिच्''' (३.१.२१) इत्यनेन, '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन च | प्रातिपदिकेभ्यः णिच् भिन्नार्थेषु भवति अतः अस्मिन् पाठे न प्रतिपाद्यते | नामधातुप्रकरणे अयं विषयः आयाति | |

२. यः णिच् चुरादिभ्यः स्वार्थे विधीयते = '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन | |
२. यः णिच् चुरादिभ्यः स्वार्थे विधीयते = '''सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन | |

Line 123: | Line 123: | ||
१. धातुः + णिच्-प्रत्ययः → णिजन्तधातुः |
१. धातुः + णिच्-प्रत्ययः → णिजन्तधातुः |

२. णिजन्तधातुः + शप्- |
२. णिजन्तधातुः + शप्-विकरणप्रत्ययः → अङ्गम् (तिङ्-प्रत्ययं निमित्तं मत्वा) |

३. अङ्गम् + तिङ्-प्रत्ययः → तिङन्तरूपम् |
३. अङ्गम् + तिङ्-प्रत्ययः → तिङन्तरूपम् |

Line 173: | Line 173: | ||

चुर् → ''' |
चुर् → '''सत्यापपाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच्''' (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि स्वार्थे → '''हेतुमति च''' (३.१.२६) इत्यनेन प्रेरणार्थे णिच् → चोरि + णिच् → चोरि + इ → '''णेरनिटि''' (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे |

Line 281: | Line 281: | ||

'''शाच्छासाह्वाव्यावेपां''' '''युक्''' (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्-आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम् | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ''' |
'''शाच्छासाह्वाव्यावेपां''' '''युक्''' (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्-आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम् | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां''' '''पुङ्णौ''' (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''शाच्छासाह्वाव्यावेपाम् अङ्गानां युक् णौ''' | |

Line 365: | Line 365: | ||

कृ + णिच् → |
कृ + णिच् → कार् + इ → कारि → '''सनाद्यन्ता धातवः''' → कारि + शप् + ति → कारयति |

हृ + णिच् → |
हृ + णिच् → हार् + इ → हारि → '''सनाद्यन्ता धातवः''' → हारि + शप् + ति → हारयति |

तॄ + णिच् → |
तॄ + णिच् → तार् + इ → तारि → '''सनाद्यन्ता धातवः''' → तारि + शप् + ति → तारयति |

Line 477: | Line 477: | ||
Swarup – May 2013 (Updated April 2017) |
Swarup – May 2013 (Updated April 2017) |

धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks. |

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here]. |

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>. |

Latest revision as of 02:33, 10 April 2024
एतावता सार्वधातुकलकाराणां तिङन्तरूपाणि अवलोकितानि | तत्र वैशिष्ट्यं वर्तते यत् शबादयः विधीयन्ते इत्यतः तिङन्तपदस्य ज्ञानार्थं प्रथमप्रश्नः अस्माकं भवति—अयं धातुः कस्मिन् गणे अस्ति ? सम्प्रति आर्धधातुकचिन्तनम् आरभ्यते; तत्र सर्वप्रथमं ण्यन्तप्रकरणं परिशील्यते | अत्र णिचः वैशिष्ट्यं वर्तते यत् अयं प्रत्ययः आर्धधातुकः इति कारणेन गणीया चर्चा नितरां नापेक्षिता | धातुः कस्मिन् अपि गणे भवतु नाम, तस्य ण्यन्तरूपस्य गणेन सह न कोऽपि सम्बन्धः | पठति भ्वादिगणे, लिखति तुदादिगणे, क्षालयति चुरादिगणे, प्राप्नोति स्वादिगणे—परन्तु पाठयति, लेखयति, क्षालयति, प्रापयति इत्येषां कृते तिङन्तस्य रूपसाधनार्थं गणस्य आवश्यकता नास्ति एव | एषां गणः अपि नास्ति एव | “कस्मिन् गणे" इति प्रश्नस्तु नैव उदेति | उदेति चेत्, तस्य उत्तरं नास्ति हि | तर्हि अस्मिन् करपत्रे—सार्वधातुकलकारः यत्र नास्ति, तत्र गतिः कीदृशी इति अनेन ण्यन्तप्रकरणेन सम्यक्तया ज्ञास्यते |
प्रेरणार्थकणिचः व्यवस्था
स्वतन्त्रः कर्ता (१.४.५४) = क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात् | कस्मिन्नपि वाक्ये यः वक्तुः इच्छया स्वतन्त्रतया क्रियां जनयति, तस्य कर्तृसंज्ञा भवति | कर्तृसंज्ञा-विधायकं सूत्रम् इदम् | स्वतन्त्रः प्रथमान्तं, कर्ता प्रथमान्तं, द्विपदमिदं सूत्रम् | कारके (१.४.२३) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— कारके स्वतन्त्रः कर्ता |
क्रियाजनकत्वं कारकत्वम् | लेखकः इति यथा लेखं जनयति, जनकः इति शिशुं जनयति, तथा 'कारकः' इत्युक्ते यः क्रियां जनयति | क्रियायाः जनकः, क्रियानिष्पादकः कारकः | तत्र कारकं षड्विधम् इति प्रसिद्धिः | न केवलं कतृ-कारकं भवति; कर्म-कारकं, करण-कारकं, सम्प्रदान-कारकं, अपादान-कारकम्, अधिकरण-कारकम् अपि कारकाणि | प्रत्येकं कारकं क्रियायाः सिद्धौ साधकं, जनकं, निमित्तञ्च; तदर्थम् एव कारकम् इति नामकरणम् |
'क्रियायां स्वातन्त्र्येण विवक्षितोऽर्थः कर्ता स्यात्' | 'क्रियायाम्' इत्यनेन 'क्रियायाः जनकत्वे'; कारकत्वे इति फलितार्थः | 'स्वातन्त्र्येण' इत्यनेन मुख्यतः, प्रधानतः | कारकं वक्तुः इच्छायाः अधीने नित्यं भवति इति कृत्वा 'विवक्षितोऽर्थः' | वक्तुः इच्छा चेदेव कारकं भवति; तथा नास्ति चेत्, कारकं नास्ति | आहत्य क्रियायाः सिद्धौ स्वतन्त्रः वक्त्रा यः उच्यते, सः कर्तृसंज्ञको भवति |
'देवदत्तः काष्ठैः अग्निना ओदनं स्थाल्यां पचति' इति वाक्ये पञ्च कारकाणि सन्ति; सर्वाणि अपि पचनक्रियां प्रति जनकानि | किन्तु देवदत्तः एव वक्त्रा मुख्यरूपेण प्रकटीकृतः, विवक्षितः | तदर्थं स्वान्त्र्येण इत्युक्तम् | स्वं तन्त्रं यस्य इति स्वतन्त्रः; नाम कुविन्दः | आशयः एवं— यः मुख्यः, प्रधानः | तर्हि यद्यपि उक्ते वाक्ये पञ्च कारकाणि क्रियाजनकानि सन्ति, किन्तु देवदत्तः एव मुख्यः | किमर्थमिति चेत्, पञ्चसु कारकेषु देवदत्तः एव अन्यानि कारकाणि अनवलम्ब्य, स्वतन्त्रतया तानि उपयुज्य, पचनक्रियां जनयति |
'स्वतन्त्रतया' इति कथनस्य आशयः— (१) कर्तृ-कारकः देवदत्तः पचनक्रियांं जनयितुं सक्रियः भवति सर्वप्रथमं, यदा अन्यानि कारकाणि क्रियाशीलानि न; (२) अपरेषां चतुर्णां कारकाणां प्रवृत्तिः निवृत्तिः च कर्तुः अधीने, किन्तु तत्र कर्तृ-कारकः देवदत्तः स्वतन्त्रः; (३) कर्तृ-कारकः अन्येषां कारकाणां प्रतिनिधिः भवितुम् अर्हति, किन्तु अन्ये कारकाः तस्य प्रतिनिधिः न भवितुम् अर्हन्ति; (४) अन्यानि कारकाणि न सन्ति चेदपि कर्तृ-कारकः क्रियां जनयितुं पारयति— यथा 'देवदत्तः आस्ते', 'देवदत्तः शेते', 'देवदत्तः पचति' इति |
अस्य सर्वस्य दर्शनेन एवं भाति यत् कर्ता सचेतनः भवेत् | किन्तु यथोक्तं, कारकं वक्तुः इच्छायाः अधीने भवति | तदर्थं प्रसिद्धवाक्यम् अस्ति 'विवक्षातः कारकाणि भवन्ति' | अतः पचनक्रियायां यदा देवदत्तस्य स्वतन्त्रता-प्रधानता विवक्षिता तदा 'देवदत्तः पचति' इत्यस्मिन् देवदत्तस्य, यदा स्थाल्याः स्वतन्त्रता-प्रधानता विवक्षिता तदा 'स्थाली पचति' इत्यस्मिन् स्थाल्याः, कर्तृसंज्ञा भवति | अनेन स्पष्टं भवति यत् कर्तुः स्वतन्त्रता वक्तुः इच्छाम् अवलम्ब्य भवति | तत्र कर्तुः चेतना अस्ति एव इति नास्ति; कर्ता प्रमुखो भवति क्रियायाः साधने इति पर्यवसितम् |
कर्तुः अर्थः अग्रिमसूत्रस्य आधारः—
तत्प्रयोजको हेतुश्च (१.४.५५) = कर्तुः प्रयोजको हेतुसञ्ज्ञः कर्तृसञ्ज्ञश्च स्यात् | सामान्यकर्तुः प्रेरकस्य कर्तृ-संज्ञा अपि भवति, हेतु-संज्ञा अपि भवति | 'तस्य' (कर्तुः) 'प्रयोजकः' (प्रवर्तयिता), तत्प्रयोजकः षष्ठीतत्पुरुषः | तत्प्रयोजकः प्रथमान्तं, हेतुः प्रथमान्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | स्वतन्त्रः कर्ता (१.४.५४) इत्यस्मात् कर्ता इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— तत्प्रयोजकः हेतुः च कर्ता |
प्रयोज्यकर्ता कार्यं करोति, प्रयोजककर्ता तं (प्रयोज्यकर्तारं) कार्यार्थं प्रेरयति | अस्यां दशायां प्रयोज्यकर्तुः स्वतन्त्रता तिष्ठति किम् इति जिज्ञासायां वैयाकरणाः वदन्ति यत् आं तिष्ठति | स च प्रेरितो भवति न वा इति स्वेच्छया अस्ति, कार्यं करोति न वा इति पुनः स्वेच्छया | यः कर्तारं प्रेरयति, तस्य कर्तृसंज्ञा हेतुसंज्ञा च स्याताम् | हेतु-संज्ञायाः महत्त्वं भवति अग्रिमे सूत्रे |
चुरादिगणे णिच्-प्रत्ययः विधीयते भिन्नसूत्रेण; ण्यन्तप्रकरणे णिच्-प्रत्ययः विधीयते पुनः पृथक्तया, भिन्नसूत्रेण—
हेतुमति च (३.१.२६) = प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोर्णिच् स्यात् | णिच्-विधायकं सूत्रम् | क्रियार्थं यः प्रयोज्यं प्रेरयति, सः प्रयोजकः क्रियायाः हेतुः | आधारतया अस्यास्तीति हेतुमान्, मतुप्प्रत्ययः— प्रयोजकनिष्ठः प्रेषणादिव्यापारः हेतुमान्, तस्मिन् हेतुमति | व्यापारः इति प्रेषणादिक्रिया, स च व्यापारः हेतुमान् | 'स्वनिष्ठाधारतानिरूपिताधेयतासम्बन्धेन हेतुः यत्रास्ति स हेतुमान् व्यापारः, तस्मिन् वाच्ये णिज् इत्याहुः' इति तत्त्वबोधिनी | अस्यां स्थितौ—यत्र हेतुमाति व्यापारे प्रयोजकः हेतुः अस्ति—तत्र धातोः णिच्-प्रत्ययः विधीयते | हेतुमति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | सत्याप-पाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यस्मात् णिच् इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१) परश्च (३.१.२) इत्यनयोः अधिकारः | धातोरेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः, वचनपरिणामेन पञ्चमीविभक्तौ धातुभ्यः | अनुवृत्ति-सहितसूत्रं— हेतुमति च धातुभ्यः णिच् प्रत्ययः परश्च |
अत्र 'प्रेषणादौ' इत्युक्तम् | विभिन्नरीत्या कार्यार्थं प्रवर्तना, नाम प्रेरणा, भवति | अस्य प्रकटीकरणार्थं प्रेषणादौ इति व्यवहृतं सिद्धान्तकौमुद्याम् | बालमनोरमा इति सिद्धान्तकौमुदी-टीकाग्रन्थे दीयते— 'प्रेषणादावित्यादिशब्देन अध्येषणानुमत्युपदेशादीनां ग्रहणम् | तत्र भृत्यादेर्निकृष्टस्य प्रवर्तना प्रेषणम् | आज्ञेत्यर्थः | समानस्याऽधिकस्य च सख्याचार्यादेः प्रवर्तना- अध्येषणा | अनुमति -- राजादेः समंतिः | ज्वरितस्य कषायपाने हितावबोधनेन प्रवर्तना-- उपदेशः | हननाद्भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः |'
क्रमेण—
प्रेषणादौ इत्यादिशब्देन अध्येषणा-अनुमति-उपदेशादीनां ग्रहणम् | अनेन विभिन्नरीत्या कार्यार्थं प्रवर्तना, प्रेरणा, भवति इत्युक्तम् | तत्र भृत्यादेः निकृष्टस्य प्रवर्तना प्रेषणम् | आज्ञा इत्यर्थः | स्वामी कर्मचारिणा कार्यं कारयति | समानस्य अधिकस्य च सख्याचार्यादेः प्रवर्तना— अध्येषणा | सज्जनः प्रार्थनां कृत्वा मित्रेण कार्यं कारयति | अनुमतिः— राजादेः सम्मतिः | राजा अनुमतिं दत्त्वा कृषकैः तद्वर्षस्य कृषिकार्यं प्रारम्भयति | ज्वरितस्य कषायपाने हितौ अवबोधनेन प्रवर्तना— उपदेशः | वैद्यः रोगिणं तिक्तम् औषधं पाययति | हननात् भीत्या पलायमानस्य निरोधाचरणमपि प्रयोजकव्यापारः— अनुग्रहः | दुर्जनः हन्त्रा भीतग्रस्तं पलायमानं गृहीत्वा मारयति | दुर्जनस्य हन्तारं प्रति अनुग्रहः |
णिजन्तधातोः च धातुसंज्ञा भवति अनेन सूत्रेण—
सनाद्यन्ता धातवः (३.१.३२) = गुप्तिज्किद्भ्यः सन् (३.१.५) इत्यस्य सन् इत्यारभ्य कमेर्णिङ् (३.१.३०) इत्यस्य णिङ् इत्यन्तं द्वादश प्रत्ययाः येषाम् अन्ते भवन्ति, तेषां धातु-संज्ञा स्यात् | सन् आदौ येषां ते सनादयः; सनादयः अन्ते येषां ते सनाद्यन्ताः | सनाद्यन्ताः प्रथमान्तं, धातवः प्रथमान्तं, द्विपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— सनाद्यन्ताः धातवः |
द्वादश प्रत्ययाः सन्ति येषां योजनेन नूतनाः धातवः सृष्टाः भवन्ति— सन्, क्यच्, काम्यच्, क्यष्, क्यङ्, क्विप्, णिङ्, ईयङ्, णिच्, यक्, आय, यङ् इति | एषां प्रकृतिः क्वचित् धातुः, क्वचित् प्रातिपदिकम् | एषु द्वादशसु प्रत्ययेषु अन्यतमः णिच् एव | अतः णिच्-प्रत्ययस्य योजनेन चोरि, पाठि, लेखि इत्यादयः यावन्तः धातवः सृष्टाः, ते सर्वे सनाद्यन्ता धातवः (३.१.३२) इति सूत्रेण धातुसंज्ञकाः | एते आतिदेशिकधातवः | औपदेशिकधातवः उपद्विसहस्रं, ते भूवादयो धातवः (१.३.१) इति सूत्रेण धातुसंज्ञकाः भवन्ति |
णिच्-प्रत्ययः त्रिप्रकारकः
१. यः णिच् प्रातिपदिकेभ्यः विधीयते = मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभो णिच् (३.१.२१) इत्यनेन, सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) इत्यनेन च | प्रातिपदिकेभ्यः णिच् भिन्नार्थेषु भवति अतः अस्मिन् पाठे न प्रतिपाद्यते | नामधातुप्रकरणे अयं विषयः आयाति |
२. यः णिच् चुरादिभ्यः स्वार्थे विधीयते = सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (३.१.२५) इत्यनेन |
३. यः णिच् प्रेरणार्थे विधीयते = हेतुमति च (३.१.२६) इत्यनेन |
प्रेरणार्थे णिचि तिङन्तनिष्पादनप्रक्रिया
ये सामान्यनियमाः प्रयुक्ताः चुरादिगणे स्वार्थे, ते सर्वे प्रेरणार्थे ण्यन्तप्रक्रियायाम् अपि प्रयुक्ताः | अत्रापि तिङन्तरूपस्य साधनार्थं सोपानत्रयम्—
१. धातुः + णिच्-प्रत्ययः → णिजन्तधातुः
२. णिजन्तधातुः + शप्-विकरणप्रत्ययः → अङ्गम् (तिङ्-प्रत्ययं निमित्तं मत्वा)
३. अङ्गम् + तिङ्-प्रत्ययः → तिङन्तरूपम्
अत्रापि णिच्-प्रत्ययस्य संयोजनेन तस्य निमित्तत्वात् प्रमुखकार्यत्रयं सम्भवति औपदेशिकधातोः स्वरूपम् अनुसृत्य—
१. अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम् अच् इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ् च ण् च ञ्णौ, ञ्णौ इतौ यस्य तत् ञ्णित्, तस्मिन् ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |
प्रेरणार्थकणिचि यथा नी + णिच् → नै + इ → नायि → नाययति |
२. अत उपधायाः (७.२.११६) = उपधायाम् अतः वृद्धिः ञिति णिति प्रत्यये परे | अतः षष्ठ्यन्तम्, उपधायाः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात् वृद्धिः इत्यस्य अनुवृत्तिः; अचो ञ्णिति (७.२.११५) इत्यस्मात् ञ्णिति इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य उपधायाः अतः वृद्धिः ञ्णिति |
प्रेरणार्थकणिचि यथा पठ् + णिच् → पाठि → पाठयति
३. पुगन्तलघूपधस्य च (७.३.८६) = सार्वधातुके आर्धधातुके च प्रत्यये परे पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यस्मात् परिभाषा-सूत्रात् इकः आयाति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
प्रेरणार्थकणिचि यथा लिख् + णिच् → लेखि → लेखयति
चुरादिगणे प्रेरणार्थे वैशिष्ट्यम्
चुरादिगणे णिच्-प्रत्ययः स्वार्थे विधीयते एव चुर् + णिच् → चोरि; तदा प्रेरणार्थे विवक्षा भवति चेत्, द्वितीयः णिच्-प्रत्ययः विधीयते चोरि + णिच् | अस्यां दशायां किं भवति इत्यस्य निर्णयार्थं सूत्रम् इदम्—
णेरनिटि (६.४.५१) = यस्य आर्धधातुकप्रत्ययस्य इडागमो नास्ति, तस्मात् पूर्वं णि-प्रत्ययस्य लोपो भवति | अत्र 'णि' इत्यस्य अनुबन्धरहितत्वात् णिङ्, णिच् द्वयोः ग्रहणम्; उभयत्र 'इ' इत्येव अवशिष्यते | णेः षष्ठ्यन्तं, अनिटि सप्तम्यन्तं, द्विपदमिदं सूत्रम् | अतो लोपः (६.४.४८) इत्यस्मात् लोपः इत्यस्य अनुवृत्तिः | आर्धधातुके (६.४.४६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— णेः लोपः अनिटि आर्धधातुके |
णिच्-प्रत्ययः वलादिः नास्ति इति कारणतः तस्य इडागमो न कदापि भवति | अनेन चुरादिगणे कश्चन णिजन्तधातुः अस्ति चेत्, प्रेरणार्थे यदा द्वितीयः णिच्-प्रत्ययः विधीयते, तदा प्रथमणिचः (स्वार्थिकणिचः) लोपो भवति | अतः एकस्मिन् धातौ णिच् केवलं एकैव वारं सम्भवति | द्वितीयवारं णिचः विधानं भवति किन्तु णेरनिटि (६.४.५१) इत्यनेन प्रथमस्य लोपो भवति | अतः चुरादिगणे स्वार्थिकणिचः प्रेरणार्थकणिचः तिङन्तरूपं समानम् |
चुर् → सत्यापपाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणे णिच्-प्रत्ययः विधीयते स्वार्थे → चुर् + णिच् → चोरि स्वार्थे → हेतुमति च (३.१.२६) इत्यनेन प्रेरणार्थे णिच् → चोरि + णिच् → चोरि + इ → णेरनिटि (६.४.५१) इत्यनेन प्रथम-णिचः लोपः → चोर् + इ → चोरि प्रेरणार्थे
सामान्यधातूनां समग्रप्रक्रियाचिन्तनम्
क्रमेण अजन्तधातवः (अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः), तदा हलन्तधातवः (अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, अवशिष्टाः) अस्माभिः परिशील्यते | अकारान्तधातवः (इत्युक्ते अदन्ताः) हलन्तधातुषु पश्येम यतोहि तेषां अकारलोपः भवति अतः ते हलन्तधातुभिः तुल्याः |
अस्मिन् करपत्रे सामान्यधातूनाम् आलोचना क्रियते; अग्रिमे करपत्रे विशेषधातवः परिशील्यन्ते |
A. अजन्तधातवः
१. आकारान्तधातवः
अ) पुगागम-सहिताः ण्यन्तधातवः
अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) = ऋ, ह्री, व्ली, री, क्नूयी, क्ष्मायी, एभ्यः धातुभ्यः अपि च आकारान्तधातुभ्यः पुक्-आगमः भवति, णिच्-प्रत्यये परे | एषां धातूनां पुक्-आगमः णौ (णि इत्यस्य सप्तम्यन्तम्), णि इत्युक्ते णिच् इत्यतः णिच्-प्रत्यये परे इत्यर्थः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन धातोः परम् आयाति अयं पुगागमः | पुक् इत्यस्मिन क्, उ इत्यनयोः इत्-संज्ञा लोपश्च; प् अवशिष्यते | अर्तिश्च ह्रीश्च व्लीश्च रीश्च क्नूयीश्च क्ष्मायीश्च आच्च तेषामितरेतर्द्वन्द्वः, अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातः तेषाम् | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां षष्ठ्यन्तं, पुक् प्रथमान्तं, णौ सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम् अङ्गानां पुक् णौ |
सामान्येषु चुरादिगणीयधातुषु ज्ञा-धातुः एकैव आकारान्तधातुः, स च अस्माभिः दृष्टः | इदानीं प्रेरणार्थकणिचि आकारान्ताः यथा दा, धा इति | णिच् इत्यस्मिन् ण्, च् इत्यनयोः इत्-संज्ञा, पुक् इत्यस्मिन् उ, क् इत्यनयोः इत्-संज्ञा, लोपश्च |
दा + णिच् → दा + पुक् + इ → दा + प् + इ → दापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → दापि + शप् + ति → दापयति
धा + णिच् → धा + पुक् + इ → धा + प् + इ → धापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → धापि + शप् + ति → धापयति
धातुपाठे यावन्तः आकारान्तधातवः, तेषां सर्वेषां पुगागमो भवति |
धेयं यत् दापि, धापि इव पाठि, लेखि अपि यः कोऽपि णिजन्तः, सनाद्यन्ता धातवः (३.१.३२) इति सूत्रेण धातुसंज्ञां प्राप्नोति | यत्र धातुः जातः, तत्र विवक्षायां लट्, लोट्, लङ्, विधिलिङ् लकाराः विधीयन्ते, तेषां स्थाने तिङ्-प्रत्ययाः, तदा कर्तरि शप् इत्यनेन शप् विहितः, अन्ते वर्णमेलनेन तिङन्तरूपं निष्पन्नम् | दापि, धापि इत्यादयः णिजन्तधातवः नूतनतया धातुसंज्ञां यदि न प्राप्स्यन्, तर्हि तिबादयः तिङ्-प्रत्ययाः विहिताः नाभविष्यन् |
दापि इकारान्तधातुः अस्ति | शपः परत्वात् दापि + अ | सार्वधातुकार्धधातुकयोः इत्यनेन गुणः दापे, एचोऽयवायावः इत्यनेन अय् आदेशः दापय् + अ → दापय इति अङ्गम् |
एवमेव णिजन्तधातवः सर्वे इकारान्ताः— पाठि, लेखि, गमि, निन्दि, क्षालि— अतः सर्वत्र अयमेव चिन्तनक्रमः | अग्रे गत्वा अस्मिन् करपत्रे, बोध्यं यत् सर्वत्र धातोः व्युत्पत्त्यनन्तरं सार्वधातुकार्धधातुकयोः, एचोऽयवायावः इत्याभ्याम् अङ्गं, तदा तिङः योजनेन तिङन्तपदं निष्पन्नम् |
आ) एजन्तधातवः—सर्वे आकारान्तधातवः भवन्ति
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
यथा—
ग्लै → ग्ला
म्लै → म्ला
ध्यै → ध्या
शो → शा
सो → सा
वे → वा
छो → छा
अतः णिच्-प्रकरणे एजन्तधातवः आकारान्ताः एव इति अवगम्यताम् | आकारान्ताः इति कारणतः अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुगागमः भवति इति सामान्यनियमः |
यथा—
ग्लै + णिच् → ग्ला + इ → ग्ला + पुक् + इ → ग्ला + प् + इ → ग्लापि → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातु-संज्ञा → ग्लापि + शप् + ति → ग्लापयति
तथैव म्लै → म्लापयति, ध्यै → ध्यापयति, गै → गापयति, रै → रापयति, खै → खापयति
परन्तु केषाञ्चित् एजन्तानां च आकारान्तानां च युक् भवति न तु पुक्—
इ) युक्-आगमः (पुक्-आगम-अपवादः)
शाच्छासाह्वाव्यावेपां युक् (७.३.३७) = शो, छो, सो, ह्वे, व्ये, वे, पै इत्येषां धातूनां युक्-आगमो भवति णिचि परे | पुगागमस्य अपवादः | शाश्च, छाश्च, साश्च, ह्वाश्च, व्याश्च, वेश्च, पाश्च, तेषामितरेतरयोगद्वन्द्वः, शाच्छासाह्वाव्यावेपाः तेषां, शाच्छासाह्वाव्यावेपाम् | शाच्छासाह्वाव्यावेपां षष्ठ्यन्तं, युक् प्रथमान्तं, द्विपदमिदं सूत्रम् | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात् णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— शाच्छासाह्वाव्यावेपाम् अङ्गानां युक् णौ |
आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एषाम् एजन्तधातूनाम् आत्त्वम् | शो, छो, सो, ह्वे, व्ये, वे, पै |
शो तनूकरणे (कृशं करोति, श्यति) → शा + युक् + णिच् → शायि → शाययति
छो छेदने (छ्यति) → छा + युक् + णिच् → छायि → छाययति
षो अन्तकर्मणि (समापनं करोति, स्यति) → सा + युक् + णिच् → सायि → साययति
ह्वेञ् स्पर्धायां शब्दे च (आह्वयति) → ह्वा + युक् + णिच् → ह्वायि → ह्वाययति
व्येञ् संवरणे (आच्छादयति, व्ययति) → व्या + युक् + णिच् → व्यायि → व्याययति
वेञ् तन्तुसन्ताने (कुविन्दस्य कार्यम्, वयति) → वा + युक् + णिच् → वायि → वाययति
पै शोषणे (शुष्कं करोति, पायति) → पा + युक् + णिच् → पायि → पाययति
पा पाने → पा + युक् + णिच् → पायि → पाययति
२. इकारान्तधातवः, ईकारान्तधातवः च
अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य इकारस्य ईकारस्य च वृद्धिः | तदा एचोऽयवायावः इत्यनेन अय्, आय् च आदेशः |
यथा—
नी + णिच् → नै + इ → नाय् + इ → नायि → सनाद्यन्ता धातवः → नायि + शप् + ति → नाययति
धातुपाठे यावन्तः इकारान्ताः ईकारान्ताः च धातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
३. उकारान्तधातवः, ऊकारान्तधातवः च
अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य उकारस्य ऊकारस्य च वृद्धिः | तदा एचोऽयवायावः इत्यनेन अव्, आव् च आदेशः |
यथा—
भू + णिच् → भौ + इ → भाव् + इ → भावि → सनाद्यन्ता धातवः → भावि + शप् + ति → भावयति
लू + णिच् → लौ + इ → लाव् + इ → लावि → सनाद्यन्ता धातवः → लावि + शप् + ति → लावयति
पू + णिच् → पौ + इ → पाव् + इ → पावि → सनाद्यन्ता धातवः → पावि + शप् + ति → पावयति
द्रु + णिच् → द्रौ + इ → द्राव् + इ → द्रावि → सनाद्यन्ता धातवः → द्रावि + शप् + ति → द्रावयति
धातुपाठे यावन्तः उकारान्ताः ऊकारान्ताः च धातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
४. ऋकारान्तधातवः, ॠकारान्तधातवः च
अचो ञ्णिति (७.२.११५) इत्यनेन एषां धातूनाम् अन्त्यस्य ऋकारस्य ॠकारस्य वा वृद्धिः |
यथा—
कृ + णिच् → कार् + इ → कारि → सनाद्यन्ता धातवः → कारि + शप् + ति → कारयति
हृ + णिच् → हार् + इ → हारि → सनाद्यन्ता धातवः → हारि + शप् + ति → हारयति
तॄ + णिच् → तार् + इ → तारि → सनाद्यन्ता धातवः → तारि + शप् + ति → तारयति
धातुपाठे यावन्तः ऋकारान्ताः ॠकारान्ताः च धातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
B. हलन्तधातवः
१. अदुपधधातवः
अत उपधायाः (७.२.११६) इत्यनेन उपधायाम् अतः वृद्धिः |
पठ् + णिच् → पाठि → पाठयति
वद् + णिच् → वादि → वादयति
पत् +णिच् → पाति → पातयति
नट् + णिच् → नाटि → नाटयति
धातुपाठे यावन्तः अदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
२. इदुपधधातवः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
लिख् + णिच् → लेख् + इ → लेखि → लेखयति
छिद् + णिच् → छेद् + इ → छेदि → छेदयति
धातुपाठे यावन्तः इदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
३. उदुपधधातवः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
बुध् + णिच् → बोध् + इ → बोधि → बोधयति
मुद् + णिच् → मोद् + इ → मोदि → मोदयति
धातुपाठे यावन्तः उदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
४. ऋदुपधधातवः
पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन उपधायां लघु-इकः गुणः |
कृष् + णिच् → कर्ष् + इ → कर्षि → कर्षयति
वृष् + णिच् → वर्ष् + इ → वर्षि → वर्षयति
धातुपाठे यावन्तः ऋदुपधधातवः सन्ति, तेषां सर्वेषाम् एवमेव क्रमो भवति |
५. शेषधातवः
कार्यं नास्ति यतोहि उपधायाम् अत् अपि नास्ति, लघु इक् अपि नास्ति |
बुक्क् + णिच् → बुक्क् + इ → बुक्कि → बुक्कयति
एध् + णिच् → एध् + इ → एधि → एधयति
इति सामान्यधातूनां ण्यन्तव्यवस्था | अग्रिमे करपत्रे विशेषाः अजन्तधातवः वीक्ष्यन्ते |
Swarup – May 2013 (Updated April 2017)