7---ArdhadhAtukaprakaraNam/02---preraNArthe-Nic---visheShAH-ajantadhAtavaH: Difference between revisions

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/02---preraNArthe-Nic---visheShAH-ajantadhAtavaH
Jump to navigation Jump to search
Content added Content deleted
(copied over everything from original page)
(resolved comments)
Line 143: Line 143:




'''मितां ह्रस्वः''' (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |
'''मितां ह्रस्वः''' (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | '''ऊदुपधाया गोहः''' (६.४.८९) इत्यस्मात्‌ '''उपधायाः''' इत्यस्य अनुवृत्तिः | '''दोशो णौ''' (६.४.९०) इत्यस्मात्‌ '''णौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ''' |




Line 204: Line 204:


त्रयः ज्ञा-धातवः सन्ति--
त्रयः ज्ञा-धातवः सन्ति--

१. भ्वादिगणे मारणतोषणनिशामनेषु
१. भ्वादिगणे मारणतोषणनिशामनेषु

२. क्र्यादिगणे अवबोधने
२. क्र्यादिगणे अवबोधने

३. चुरादिगणे नियोगे
३. चुरादिगणे नियोगे


Line 260: Line 263:
इ + णिच्‌ → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → ऐ + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → आ + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुक्‌-आगमः → आ + पुक्‌ + इ‌ → आपि इति णिजन्तधातुः → आपि + तिप्‌ → आपि + शप्‌ + तिप्‌ → आपयति → अधि* + आपयति → अध्यापयति
इ + णिच्‌ → '''अचो ञ्णिति''' इत्यनेन वृद्धिः → ऐ + इ → '''क्रीङ्जीनां णौ''' इत्यनेन एचः स्थाने आ-आदेशः → आ + इ → '''अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ''' इत्यनेन पुक्‌-आगमः → आ + पुक्‌ + इ‌ → आपि इति णिजन्तधातुः → आपि + तिप्‌ → आपि + शप्‌ + तिप्‌ → आपयति → अधि* + आपयति → अध्यापयति


'''*उपसर्गाः क्रियायोगे''' (१.४.५९) इत्यनेन उपर्गसंज्ञा; '''ते प्राग्धातोः''' (१.४.८०) इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया | उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम्‌ अतः प्रक्रियायाः अन्ते एव संयुज्यते |


*'''उपसर्गाः क्रियायोगे''' (१.४.५९) इत्यनेन उपर्गसंज्ञा; '''ते प्राग्धातोः''' (१.४.८०) इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया | उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम्‌ अतः प्रक्रियायाः अन्ते एव संयुज्यते |




Line 302: Line 305:





*'लीयतेः' '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन श्तिप्‌ धातुनिर्देशे → ली + श्तिप्‌ ( कृत्‌-प्रत्ययः) → ली + ति → श्तिप्‌ सार्वधातुकप्रत्ययः अतः '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन कर्मणि यक्‌ → ली + यक्‌ + ति → लीयति इति प्रातिपदिकम्‌ → षष्ठ्यन्तं सुबन्तरूपं भवति लीयतेः | धेयं यत्‌ श्तिप्‌ कृत्‌-प्रत्ययः | अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम्‌ अपि तु कृदन्तं प्रातिपदिकम्‌ | अत्र च प्रश्नः उदेति यत्‌ किमर्थं न इक्‌-प्रत्ययः द्वारा 'लेः' इति न स्यात्‌ ? 'लीयतेः' इत्यस्य अपेक्षया 'लेः' इति रूपं लघु अभविष्यत्‌ | उत्तरमसित यत्‌ यङ्लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति |
<nowiki>*</nowiki>'लीयतेः' '''इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌''' (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन श्तिप्‌ धातुनिर्देशे → ली + श्तिप्‌ ( कृत्‌-प्रत्ययः) → ली + ति → श्तिप्‌ सार्वधातुकप्रत्ययः अतः '''सार्वधातुके यक्''' (३.१.६७) इत्यनेन कर्मणि यक्‌ → ली + यक्‌ + ति → लीयति इति प्रातिपदिकम्‌ → षष्ठ्यन्तं सुबन्तरूपं भवति लीयतेः | धेयं यत्‌ श्तिप्‌ कृत्‌-प्रत्ययः | अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम्‌ अपि तु कृदन्तं प्रातिपदिकम्‌ | अत्र च प्रश्नः उदेति यत्‌ किमर्थं न इक्‌-प्रत्ययः द्वारा 'लेः' इति न स्यात्‌ ? 'लीयतेः' इत्यस्य अपेक्षया 'लेः' इति रूपं लघु अभविष्यत्‌ | उत्तरमसित यत्‌ यङ्लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति |





Line 416: Line 421:





*अत्र प्रश्नः उदेति यत्‌ चि +इ +णिच्‌ इति स्थितौ, प्रथमं '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा, अथवा '''णेरनिटि''' (६.४.५१) इत्यनेन '''णेः लोपः अनिटि आर्धधातुके'''? अत्र बाध्यबाधकभावो नास्ति; द्वयमपि भविष्यति एव | तर्हि प्रथमं किं स्यात्‌ ? यद्यपि तादृशधातुः यस्मिन्‌ णिच्‌-द्वयं स्यात्‌ इति विचित्रं प्रतीयेत, किन्तु वस्तुतस्तु '''सनाद्यन्ता धातवः''' (३.१.३२) इति अन्तरङ्गमस्ति; तस्य बहितः किमपि निमित्तं नास्ति | अतः धातुसंज्ञा प्रथमा भवेत्‌ | '''अनन्तरं णेरनिटि''' (६.४.५१), '''अचो ञ्णिति''' (७.२.११५) इत्यनयोर्मध्ये प्रथमं किं स्यात् ? यद्यपि '''अचो ञ्णिति''' (७.२.११५) परसूत्रं, तथापि '''णेरनिटि''' (६.४.५१) नित्यशास्त्रम्‌ अतः तदेव प्रथमं भवति; अनन्तरम्‌ '''अचो ञ्णिति''' (७.२.११५) |
<nowiki>*</nowiki>अत्र प्रश्नः उदेति यत्‌ चि +इ +णिच्‌ इति स्थितौ, प्रथमं '''सनाद्यन्ता धातवः''' (३.१.३२) इत्यनेन धातुसंज्ञा, अथवा '''णेरनिटि''' (६.४.५१) इत्यनेन '''णेः लोपः अनिटि आर्धधातुके'''? अत्र बाध्यबाधकभावो नास्ति; द्वयमपि भविष्यति एव | तर्हि प्रथमं किं स्यात्‌ ? यद्यपि तादृशधातुः यस्मिन्‌ णिच्‌-द्वयं स्यात्‌ इति विचित्रं प्रतीयेत, किन्तु वस्तुतस्तु '''सनाद्यन्ता धातवः''' (३.१.३२) इति अन्तरङ्गमस्ति; तस्य बहितः किमपि निमित्तं नास्ति | अतः धातुसंज्ञा प्रथमा भवेत्‌ | '''अनन्तरं णेरनिटि''' (६.४.५१), '''अचो ञ्णिति''' (७.२.११५) इत्यनयोर्मध्ये प्रथमं किं स्यात् ? यद्यपि '''अचो ञ्णिति''' (७.२.११५) परसूत्रं, तथापि '''णेरनिटि''' (६.४.५१) नित्यशास्त्रम्‌ अतः तदेव प्रथमं भवति; अनन्तरम्‌ '''अचो ञ्णिति''' (७.२.११५) |





Line 758: Line 765:
---------------------------------
---------------------------------


धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.
धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, [http://feedburner.google.com/fb/a/mailverify?uri=samskrita_vyakaranam&loc=en_US click here] and fill in your email address. New lessons are added every few weeks.


Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.
Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, [https://sites.google.com/site/samskritavyakaranam/13---jAlasthAnasya-samAcAraH click here].


To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.
To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.

Revision as of 16:16, 20 May 2021

02 - प्रेरणार्थे णिच् - विशेषाः अजन्तधातवः‌


ध्वनिमुद्रणानि -

2020 वर्गः-

१) preraNArthe-Nic---visheShAdhAtavaH---AkArAntAnAM-puk-yuk-juk-luk-mit_+_ikArAntAnAM-Attvam-nuk_2020-05-06

२) ArdhadhAtuka-samagra-cintanam_+_preraNArthe-Nic---visheShAdhAtavaH---ikArAntAH---ली,चि,वी_2020-05-13

३) preraNArthe-Nic---visheShAdhAtavaH---ikArAnteShu-adhikacintanArtham--अधि-इ, ली, चि_2020-05-20

४) preraNArthe-Nic---visheShadhAtavaH---ली-dhAtoH-vibhinna-artha-prasange_+_चि, वि_2020-05-27

५) preraNArthe-Nic---visheShadhAtavaH---भी, स्मि, प्री, ह्री, व्ली, री,इण्‌-इक्‌_2020-06-03

६) preraNArthe-Nic---visheSha-ajanta-ca-halanta-ca-dhAtavaH---प्री, इण्‌-इक्‌, धूञ्‌, जागृ, दॄ, नॄ, जॄ, स्मृ, ऋ, स्फाय्‌, शद्‌_2020-06-10

2017 वर्गः-

१) preraNArthe-Nic---visheShAH-ajantadhAtavaH_2017-04-09

२) preraNArthe-Nic---AkArAntAnAM-puk-yuk-juk-luk-mit_+_ikArAntAnAM-Attvam-nuk_2017-04-30

३) preraNArthe-Nic---ikArAntAnAM-Attvam-puk-nuk_2017-05-07

४) preraNArthe-Nic---iN-ik_+_ukArAntAnAM_+_RukArAntAnAm_2017-05-14


गते करपत्रे सामान्यण्यन्तधातवः अवलोकिताः | अधुना विशेषधातवः परिशीलनीयाः | अस्मिन्‌ करपत्रे विशेषाः अजन्तधातवः वीक्ष्यन्ते; अग्रिमे करपत्रे विशेषाः हलन्तधातवः दृश्यन्ताम्‌ |


तर्हि अधुना क्रमेण अजन्तधातवः दृश्येरन्‌— आकारान्ताः, एजन्ताः, इ/ईकारान्ताः, उ/ऊकारान्ताः, ऋ/ॠकारान्ताः | एजन्तधातवः आकारान्तैः साकं क्रियन्तां यतोहि, यथा बुद्धं गते करपत्रे, तेषाम्‌ आत्वं तु भवति एव | अकारान्तधातवः (इत्युक्ते अदन्ताः) हलन्तधातुषु पश्येम यतोहि तेषाम्‌ अकारलोपः भवति अतः ते हलन्तधातुभिः तुल्याः |


A. आकारान्तधातवः


१) एजन्तधातवः


एतावता ज्ञातं यत्‌ सर्वे एजन्तधातवः णिच्‌-प्रकरणे आकारान्ताः भवन्ति आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण | एचः स्थाने आत्वम्‌ उपदेशे अशिति इति | आकारान्ताः भूत्वा पुगागमः प्राप्यते अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन | एजन्तेषु केचन परिगणिताः सन्ति ये शाच्छासाह्वाव्यावेपां युक् (७.३.३७) इति सूत्रेण पुगागमस्थाने युगागमं प्राप्नुवन्ति | सामान्यस्थितिः तथा; अत्र द्वौ धातू स्तः यौ अर्थम्‌ अनुसृत्य भिन्नरूपमपि प्राप्नुतः—


अ) गतपाठे अवलोकितेषु एजन्तेषु एकः पै-धातुः आसीत्‌ | तस्य गतिः प्रदर्शिता एवम्‌—


पै शोषणे → हेतुमति च (३.१.२६) इत्यनेन प्रयोजकव्यापारे प्रेषणादौ वाच्ये धातोः णिच्‌ → पै + णिच्‌ → आदेच उपदेशेऽशिति (६.१.४५) → पा + इ → शाच्छासाह्वाव्यावेपां युक् (७.३.३७) → पा + युक्‌ + इ → पायि इति णिजन्तधातुः → पाययति


पा पाने → पा + युक्‌ + णिच्‌ → पायि → पाययति


अधुना ततः अग्रे अदादिगणे एकः पा-धातुः रक्षणार्थे अपि भवति (लटि 'पाति') | रक्षणार्थे एकं वार्तिकं कार्यं करोति लुगागमस्तु तस्य वक्तव्यः इति | अनेन वार्तिकेन युकः स्थाने लुक्‌ आयाति |


पा रक्षणे → लुगागमस्तु तस्य वक्तव्यः इति वार्तिकेन रक्षनार्थे लुक्‌-आगमः → पा + लुक्‌ + णिच्‌ → पालि → पालयति


शाच्छासाह्वाव्यावेपां युक् (७.३.३७) इति सूत्रेण पा रक्षणे वर्जयित्वा सर्वेषां पा-धातूनां ग्रहणं— नाम पै शोषणे, पा पाने च |


आ) एषु एजन्तेषु एकः वै शोषणे इति धातुः भ्वादिगणीयः, लटि वायति | शुष्कं करोति इत्यर्थः |


अयं वै-धातुः णिचि परे आत्त्वम्‌ इति कृत्वा वा भवति, तदा अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन पुगागमः |


वै शोषणे → प्रेरणार्थे णिचि → वै + णिच्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन अशिति आत्त्वम्‌ → वा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन आकारान्तानां पुगागमः → वा + पुक्‌ + इ → वापि इति णिजन्तधातुः → वापयति |


वै-धातुः 'कम्पयति' इत्यस्मिन्‌ अर्थे पुक्‌-स्थाने जुक्‌ आगमं प्राप्नोति, वो विधूनने जुक् (७.३.३८) इति सूत्रेण |


वै कम्पनार्थे → प्रेरणार्थे णिचि → वै + णिच्‌ → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन अशिति आत्त्वम्‌ → वा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन आकारान्तानां पुगागमः → कम्पनर्थे वो विधूनने जुक् (७.३.३८) इत्यनेन पुगागमं प्रबाध्य जुक्‌-आगमः → वा + जुक्‌ + इ → वाजि इति णिजन्तधातुः → वाजयति


वो विधूनने जुक् (७.३.३८) = णिचि परे विधूनने, नाम कर्म्पनार्थे, वै-धातोः जुक्‌-आगमः | अशिति वै-धातोः आत्त्वं; वा इत्यस्य षष्ठ्यन्तं रूपं 'वः' | वः षठ्यन्तं, विधूनने सप्तम्यन्तं, जुक्‌ प्रथमान्तं, त्रपदमिदं सूत्रम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— वः अङ्गस्य जुक् णौ विधूनने |


२) ला-धातुः


अदादिगणे ला-धातुः, लट्‌-लकारे लाति इति रूपम्‌ | अर्थः = लभते, स्वीकरोति इति |


लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) = णिचि परे स्नेहविपातने, विकल्पेन ली-धातोः नुक्‌, ला-धातोः लुक्‌ च | तदभावे पुक्‌ | स्नेहः नाम तैलं, घृतं; विपातनं नाम to melt, dissolve | स्नेहविपातनार्थे णिचि, ली-धातोः नुगागमः, ला-धातोः लुगागमः च विकल्पेन भवति | लीश्च लाश्च लीलौ, द्वन्द्वः; तयोर्लीलोः | नुक्‌ च लुक्‌ च नुग्लुकौ, द्वन्द्वः | स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन्‌ स्नेहविपातने, षष्ठीतत्पुरुषः | लीलोः षष्ठ्यन्तं, नुग्लुकौ प्रथमान्तम्‌, अन्यतरस्यां सप्तम्यन्तं, स्नेहविपातने सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्‌ |


धेयं यत्‌ 'विकल्पेन' इत्यस्मिन्‌ अर्थे पाणिनीयसूत्रेषु इमानि पदानि लभ्यन्ते— विभाषा, वा, बहुलम्‌, अन्यतरस्याम्‌ इति | 'अन्यतर' इत्युक्ते 'any, either' |


ला + णिच्‌ → ला + लुक्‌ + णिच्‌ → ला + ल्‌ + इ → लालि इति णिजन्तधातुः → लालयति


लुगभावे अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन पुगागमः—


ला + णिच्‌ → ला + पुक्‌ + णिच्‌ → लापि इति णिजन्तधातुः → लापयति


अत्र प्रश्नः उदेति यत्‌ अदादिगणीयः ला-धातुः स्नेहविपातनार्थे नास्ति, अतः अस्य सूत्रस्य अत्र प्रसक्तिर्भवति किम्‌ ?उत्तरत्वेन धातूनाम्‌ अनेके अर्थाः सन्ति | अदादिगणीयस्य ला-धातोः स्नेहार्थे ल्युडन्तं रूपमस्ति प्रसिद्धं लालनं— शिशोः लालनं पालनं च | एवञ्च 'माता पुत्रं लालयति' | लालनं, लालयति—इमानि रूपाणि स्नेहार्थे भवन्ति अदादिगणीय-ला-धातोः | सिद्धान्तकौमुदी इत्यस्य टीकाग्रन्थः लघुशब्देन्दुशेखरः; तस्मिन्‌ दत्तमस्ति यत्‌ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इति सूत्रे 'ला' इति अंशः ला-अङ्गद्वयस्य कृते भवति— (१) अदादिगणस्य ला-धातुः (धातुपाठे एक एव ला-धातुः वर्तते, स च अयमेव); (२) ली-धातोः णिचि परे विभाषा लीयतेः (६.१.५१) इत्यनेन विकल्पेन आत्वपक्षे यत्‌ ला-अङ्गम्‌ |


ली-धातोः नुक्‌ अग्रे ईकारान्तेषु वक्ष्यमाणम्‌ |


३) अर्थविशेषे मित्‌ आकारान्तधातवः—ज्ञा, ग्ला, स्ना, श्रा


अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन आकारान्तधातूनां पुगागमः |


मितां ह्रस्वः (६.४.९२) इत्यनेन ये धातवः मितः, तेषाम्‌ उपधायां स्वरः ह्रस्वः भवति णिचि प्रत्यये परे |


मितां ह्रस्वः (६.४.९२) = मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः भवति, णिच्‌-प्रत्यये परे | मित्‌ कश्चन अन्तर्गणः | भ्वादिगणे घटादयः उपगणः मित्‌-अन्तर्गणे सन्ति, अपि च चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति | मितां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपमिदं सूत्रम्‌ | ऊदुपधाया गोहः (६.४.८९) इत्यस्मात्‌ उपधायाः इत्यस्य अनुवृत्तिः | दोशो णौ (६.४.९०) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— मिताम्‌ अङ्गानाम्‌ उपधायाः ह्रस्वः णौ |


भ्वादिगणे घटादयः इति उपगणे ४४ धातवः; घटादयो मितः इति गणसूत्रेण एते धातवः मित्‌ सन्ति | तदा चुरादिगणे ज्ञपादयः षट् धातवः मित्-अन्तर्गणे‌ सन्ति— ज्ञप, यम, चह, रह, बल, चिञ्‌ | किन्तु ज्ञपादीनां मित्त्वं भवति केवलं स्वार्थे; प्रेरणार्थे न |


ज्ञप ज्ञानज्ञापन-मारणतोषणे = सूचयति, जयति, मारयति, प्रसन्नः भवति

यम परिवेषणे = नियमयति, नियन्त्रणं करोति

चह परिकल्कने = वञ्चयति

रह त्यागे = त्यजति, जहाति

बल प्राणने = जीवति; पोषणं करोति

चिञ्‌ चयने = सङ्ग्रहणं करोति


इमानि रूपाणि केवलं स्वार्थे; प्रेरणार्थे ह्रस्वत्त्वं न जायते |

ज्ञप → ज्ञप्‌ + इ → अत उपधायाः (७.२.११६) → ज्ञापि → मितां ह्रस्वः (६.४.९२) → ज्ञपि इति णिजन्तधातुः → ज्ञपय → ज्ञपयति/ते

यम → यम्‌ + इ → यामि → यमि इति णिजन्तधातुः → यमय → यमयति/ते

चह → चह्‌ + इ → चाहि → चहि → चहय → चहयति/ते

रह → रह्‌ + इ → राहि → रहि → रहय → रहयति/ते

बल → बल्‌ + इ → बालि → बलि → बलय → बलयति/ते

चिञ्‌ → चि + इ → अचो ञ्णिति → चै + इ → चायि → चयि → चयय → चययति/ते


तदा केचन धातवः अर्थविशेषे मित्‌-धातवः भवन्ति | यथा—


स्मृ-धातुः यदा आध्यानार्थे तदा मित्‌, 'स्मरयति' | अन्यत्र 'स्मारयति' |

दॄ-धातुः भयार्थे दरयति | अन्यत्र यथा विदारणार्थे दारयति |


एवं रीत्या चत्वारः आकारन्ताः अर्थविशेषे मित्‌-धातवः सन्ति— श्रा, ज्ञा, ग्ला, स्ना |


श्रा पाके, पाकार्थे अपि भवति, स्वेदनार्थे अपि भवति | पाकार्थे मित्‌, स्वेदनार्थे मित्‌ न | अतः श्रपयति इत्युक्ते विक्लेदयति, मृदुं कारयति | श्रापयति इत्युक्ते स्वेदयति, स्वेदनं कारयति |


श्रा + णिच्‌ → श्रा + पुक्‌ + इ → श्रापि → मितां ह्रस्वः → श्रपि इति णिजन्तधातुः → श्रपयति


त्रयः ज्ञा-धातवः सन्ति--

१. भ्वादिगणे मारणतोषणनिशामनेषु

२. क्र्यादिगणे अवबोधने

३. चुरादिगणे नियोगे

ज्ञा मारणतोषणनिशामनेषु | प्रेरणार्थे क्र्यादिगणीय-ज्ञा-धातुः च चुरादिगणीय-ज्ञा-धातुः विकल्पेन मारणतोषणनिशामनम्‌ इति एषु त्रिषु अर्थेषु भवतः, एषु च अर्थेषु मितां ह्रस्वः (६.४.९२) इत्यनेन ह्रस्वत्वम्‌ | मारणम्‌ इत्यनेन हिंसा, तोषणम्‌ इत्यनेन सन्तुष्टिः, निशामनम्‌ इत्यनेन चाक्षुषज्ञानम्‌ | एषु अर्थेषु मितां ह्रस्वः (६.४.९२) इत्यनेन ह्रस्वत्वम्‌; अन्यत्र दीर्घत्वम्‌ | दुर्जनं संज्ञपयति इत्यनेन दुर्जनं मारयति | हरिं ज्ञपयति इत्यनेन हरिं संतोषयति | रूपं ज्ञपयति इत्यनेन दर्शयति, बोधयति | किन्तु सूचनां ददाति इति चेत्‌ ज्ञापयति |


ज्ञा + णिच्‌ → ज्ञा + पुक्‌ + इ → ज्ञापि → मितां ह्रस्वः → ज्ञपि → ज्ञपयति


तथैव—


ग्ला + णिच्‌ → ग्ला + पुक्‌ + इ → ग्लापि → मितां ह्रस्वः → ग्लपि इति णिजन्तधातुः → ग्लपयति

स्ना + णिच्‌ → स्ना + पुक्‌ + इ → स्नापि → मितां ह्रस्वः → स्नपि → स्नपयति


ग्ला-स्ना-वनु-वमां च इति गणसूत्रेण उपसर्गराहित्ये विकल्पेन मितः भवन्ति | अतः एकवारं मितां ह्रस्वः (६.४.९२) इत्यनेन ह्रस्वत्वम्‌; एकवारं ह्रस्वत्वं न भवति इति कृत्वा उपसर्गराहित्ये एकैकस्य धातोः रूपद्वयम्‌-- ग्लपयति / ग्लापयति, स्नपयति / स्नापयति, वनयति / वानयति, वमयति / वामयति | सोपसर्गः इति चेत्‌, नित्यं मित्त्वम्‌ इति कृत्वा मितां ह्रस्वः (६.४.९२) इत्यनेन नित्यं ह्रस्वत्वम्‌ |


B. इकारान्तधातवः


सामान्यव्यवस्था अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः, एचोऽयवायावः (६.१.७७) इत्यनेन आय्‌ आदेशः | नी → नाययति | यावन्तः इकारान्तधातवः ईकारान्तधातवः च अपवादभूताः सन्ति, तेषां वर्णनम्‌ अधः भवन्ति | कोऽपि धातुः अधः सूचितः नास्ति चेत्‌, तर्हि सामान्यरूपेण एव तस्य ण्यन्तरूपव्युत्पत्तिः इति बोध्यम्‌ |


१) क्री, जि, अधि + इ इति धातवः


क्री = क्र्यादिगणे | लटि क्रीणाति |

जि = भ्वादिगणे | लटि जयति |

अधि + इ = इङ्‌ अध्ययने नित्यम्‌ अधिपूर्वः | अदादिगणे | लटि अधीते |


क्रीङ्जीनां णौ (६.१.४८) = णिचि परे एषां धातूनाम्‌ एचः स्थाने आ-आदेशो भवति | क्रीश्च इङ्‌ च जिश्च तेषामितरेतरद्वन्द्वः क्रीङ्जिस्तेषां क्रीङ्जीनाम्‌ | क्रीङ्जीनां षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एचः इत्यनयोः अनुवृत्तिः भवति | अनुवृत्ति-सहितसूत्रम्‌— क्रीङ्जीनां एचः आत्‌ णौ |


क्री + णिच्‌ → अचो ञ्णिति इत्यनेन वृद्धिः → क्रै + इ → क्रीङ्जीनां णौ इत्यनेन एचः स्थाने आ-आदेशः → क्रा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुक्‌-आगमः → क्रा + पुक्‌ + इ‌ → क्रापि इति णिजन्तधातुः → क्रापयति

जि + णिच्‌ → अचो ञ्णिति इत्यनेन वृद्धिः → जै + इ → क्रीङ्जीनां णौ इत्यनेन एचः स्थाने आ-आदेशः → जा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुक्‌-आगमः → जा + पुक्‌ + इ‌ → जापि इति णिजन्तधातुः → जापयति

इ + णिच्‌ → अचो ञ्णिति इत्यनेन वृद्धिः → ऐ + इ → क्रीङ्जीनां णौ इत्यनेन एचः स्थाने आ-आदेशः → आ + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ इत्यनेन पुक्‌-आगमः → आ + पुक्‌ + इ‌ → आपि इति णिजन्तधातुः → आपि + तिप्‌ → आपि + शप्‌ + तिप्‌ → आपयति → अधि* + आपयति → अध्यापयति

*उपसर्गाः क्रियायोगे (१.४.५९) इत्यनेन उपर्गसंज्ञा; ते प्राग्धातोः (१.४.८०) इत्यनेन उपसर्गसंज्ञकाः शब्दाः धातोः पूर्वम् अव्यवहिततया | उपसर्गस्य पदसंज्ञा इति कृत्वा बहिरङ्गम्‌ अतः प्रक्रियायाः अन्ते एव संयुज्यते |



अत्र एकः प्रश्नः उदेति— ण्यन्तप्रकरणे इकारान्तानाम्‌ ईकारान्तानाम्‌ णिचि परे अचो ञ्णिति इत्यनेन वृद्ध्यनन्तरम्‌ आदेच उपदेशेऽशिति (६.१.४५) इति सूत्रेण प्रभावः किमर्थं न स्यात्‌ | यदा इकारान्त/ईकारान्तधातुः एजन्तधातुः जातः, तदा किमर्थम्‌ आदेच उपदेशेऽशिति इत्यनेन एव ऐकारस्य आकारादेशः न स्यात्‌ ? किमर्थम्‌ अत्र नूतनसूत्रस्य (क्रीङ्जीनां णौ इत्यस्य) आवश्यकता अस्ति ? यथा क्रै + इ इत्यस्यां दशायाम्‌ आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन एव क्रा + इ भवतु | अत्र एचः आत्‌ जातम्‌, अपि च अशित्‌ णिच्‌-प्रत्ययः परोऽस्ति | परन्तु, एका समस्या अस्ति— क्रै उपदेशः नास्ति, इत्युक्ते मूलधातुरूपं नास्ति | सूत्रे 'उपदेशे' इति दत्तम्‌ अस्ति, अतः यत्र मूले एजन्तधातुः अस्ति, तत्रैव सूत्रस्य प्रसक्तिः, नान्यत्र | अतः क्रीङ्जीनां णौ (६.१.४८) इत्यस्य आवश्यकता, अपि च अधः यावन्ति तुल्यसूत्राणि, तेषामपि |


अत्र क्रीङ्जीनां णौ (६.१.४८) इत्यादिनां सूत्राणां सङ्ख्याम्‌ अवलोकताम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्य अनन्तरम्‌ अनेकानि सूत्राणि सन्ति यैः, येषाम्‌ उपदेशावस्थायाम्‌ एजन्तत्वं नास्ति, तेषाम्‌ अपि आत्वं विधीयते |


२) ली-धातुः


ली = भ्वादिगणे लयति (to melt), दिवादिगणे लीयते (to be dissolved), क्र्यादिगणे लिनाति (to melt), चुरादिगणे लाययति (द्रवीकरणे) | पाणिनेः धातुपाठे त्रयः ली-धातवः सन्ति - दिवादिगणे, क्र्यादिगणे, चुरादिगणे च | यः धातुः चुरादिगणे अस्ति तस्य विकल्पेन णिच् विधीयते आधृषाद् वा इत्यनेन गणसूत्रेण | यस्मिन् पक्षे णिच् न विधीयते तस्मिन् पक्षे रूपं भ्वादिगणवत् भवति अतः मातृभिः उच्यते यत् अयं धातुः भ्वादिगणे भवेत् | (पाणिनिना तु चुरादिगणे एव अयं धातुः स्थापितः; एतादृशाः केचन धातवः सन्ति यत्र मातॄणां मतमस्ति यत्‌ धातुपाठः समीकरणीयः |)


लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) = णिचि परे स्नेहविपातने, विकल्पेन ली-धातोः नुक्‌, ला-धातोः लुक्‌ च | तदभावे पुक्‌ | स्नेहः नाम तैलं, घृतं; विपातनं नाम to melt, dissolve | स्नेहविपातनार्थे णिचि, ली-धातोः नुगागमः, ला-धातोः लुगागमः च विकल्पेन भवति | लीश्च लाश्च लीलौ, द्वन्द्वः; तयोर्लीलोः | नुक्‌ च लुक्‌ च नुग्लुकौ, द्वन्द्वः | स्नेहस्य विपातनं स्नेहविपातनं, तस्मिन्‌ स्नेहविपातने, षष्ठीतत्पुरुषः | लीलोः षष्ठ्यन्तं, नुग्लुकौ प्रथमान्तम्‌, अन्यतरस्यां सप्तम्यन्तं, स्नेहविपातने सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— स्नेहविपातने लीलोः अङ्गस्य नुग्लुकौ णौ अन्यतरस्याम्‌ |


नुक्‌-आगमे—

ली + णिच्‌ → ली + नुक्‌ + इ → लीनि → लीनयति


(अत्र किमर्थं न अचो ञ्णिति (७.२.११५) इति प्रथमं स्यात्‌ ?)


नुगभावे—


विभाषा लीयतेः (६.१.५१) =लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | अत्र एचः स्थानी नास्ति 'एचः विषये' इति उक्तत्वात् | नाम ली इत्यस्य यदा गुणो वा वृद्धिर्वा जायमानः यस्मात्‌ एकारो वा ऐकारो वा जायमानः, ततः पूर्वमेव तत्स्थाने (ईकारस्य स्थाने) आकारादेशो भवति | 'लीयतेः'* इति यक्‌-प्रत्यययुक्तं रूपं (न तु श्यन्‌-प्रत्यययुक्तम्‌) इत्यस्मात्‌ क्र्यादिगणीयः अपि च दिवादिगणीयः, द्वयोरपि धात्वोः ग्रहणम्‌ | पूर्वतने सूत्रे—मीनाति-मिनोति-दीङां ल्यपि च (६.१.५०) इति सूत्रे—'एचः' इत्यस्य 'एचः विषये' इत्यर्थः अस्ति इत्यस्मात्‌ अस्मिन्‌ सूत्रेऽपि तथा | विभाषा प्रथमान्तं, लीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एचः इत्यनयोः अनुवृत्तिः | मिनातिमिनोतिदीङां ल्यपि च (६.१.५०) इत्यस्मात्‌ ल्यपि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— विभाषा लीयतेः आत्‌ एचः ल्यपि |


*'लीयतेः' इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌ (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन श्तिप्‌ धातुनिर्देशे → ली + श्तिप्‌ ( कृत्‌-प्रत्ययः) → ली + ति → श्तिप्‌ सार्वधातुकप्रत्ययः अतः सार्वधातुके यक् (३.१.६७) इत्यनेन कर्मणि यक्‌ → ली + यक्‌ + ति → लीयति इति प्रातिपदिकम्‌ → षष्ठ्यन्तं सुबन्तरूपं भवति लीयतेः | धेयं यत्‌ श्तिप्‌ कृत्‌-प्रत्ययः | अतः लीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम्‌ अपि तु कृदन्तं प्रातिपदिकम्‌ | अत्र च प्रश्नः उदेति यत्‌ किमर्थं न इक्‌-प्रत्ययः द्वारा 'लेः' इति न स्यात्‌ ? 'लीयतेः' इत्यस्य अपेक्षया 'लेः' इति रूपं लघु अभविष्यत्‌ | उत्तरमसित यत्‌ यङ्लुकि अनयोः धात्वोः एचः विषये आत्वादेशो न भवति |



ईकारस्य वृद्धिः न जायते अपि तु आ-आदेशो भवति | तदा अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन पुगागमः |


ली + णिच्‌ → विभाषा लीयतेः (६.१.५१) इत्यनेन ई-स्थाने आ-आदेशः → ला + इ → ला + पुक्‌ + इ → ला + प्‌ + इ → लापि इति णिजन्तधातुः → लापयति


नुगभावे, अपि च आ-आदेशाभावे, अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः, तदा एचोऽयवायावः इत्यनेन आय्‌-आदेशः—


ली + णिच्‌ → लै + इ → लाय्‌ + इ → लायि इति णिजन्तधातुः → लाययति


अत्र च प्रश्नः—

स्नेहविपातने, विकल्पेन ली-धातोः नुक्‌ | तदभावे पुक्‌ इति उक्तम्‌ | किन्तु अत्र प्रश्नः उदेति यत्‌ पुक्‌-विधानं केन सूत्रेण | ली स्नेहविपातने धातोः केवलं रूपद्वयमेव भवति खलु | लीनयति, लाययति इति | विभाषा लीयतेः (६.१.५१) इत्यनेन आत्वं भवति श्लेषणार्थे एव; एवं चेत्‌ स्नेहविपातने लापयति न भवति |

अपि च दत्तमस्ति यत्‌ लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इत्यनेन नुक्‌; नुगभावे विभाषा लीयतेः (६.१.५१) इत्यनेन लीङ् श्लेषणे (दिवादौ), ली श्लेषणे (क्र्यादौ) विकल्पेन आत्वादेशो भवति एचः विषये | किन्तु विभाषा लीयतेः (६.१.५१) इत्यनेन अनयोः धात्वोः एव कार्यं भवेत् खलु | तर्हि स्नेहविपातने इत्यर्थे "नुगभावे—विभाषा लीयतेः (६.१.५१) " इति तु न भवति |


कौमुद्यां दीयते –

श्लेषणे इत्यस्मिन् अर्थे यः ली-धातुः, तस्य स्नेहनिपातनार्थः कथं भवति ?

उत्तरम् अस्ति – धातूनामनेकार्थाः इति सिद्धान्तः | अपि च उपसर्गस्य योगे धातोः अर्थस्य परिवर्तनं भवति | अतः विचित्रार्थाः उत्पद्यन्ते |


"वि" उपसर्गपूर्वकः ली श्लेषणे इति धातुतः स्नेहविपातनार्थे विलीनयति, विलाययति, विलालयति, विलापयति इति रूपाणि भवन्ति |

स्नेहविपातनार्थे ली-अङ्गात् विकल्पेन नुगागमः भवति, ला-अङ्गात् विकल्पेन लुगागमः भवति लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इति सूत्रेण |

वि + ली श्लेषणे इति धातुतः हेतुमति च (३.१.२६) इत्यनेन णिच्-प्रत्ययः विधीयते → वि + ली + इ | अधुना विभाषा लीयतेः (६.१.५१) इत्यनेन विकल्पेन आत्वम् |


आत्वाभावे

वि + ली + इ → लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इत्यनेन विकल्पेन नुगागमः → वि + ली + न् + इ → विलीनि इति नूतनधातुः → विलीनयति इति रूपम् |


आत्वाभावे अपि च नुगभावे अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः, तदा एचोऽयवायावः इत्यनेन आय्‌-आदेशः—

वि + ली + णिच्‌ → वि + लै + इ → वि + लाय्‌ + इ → विलायि इति णिजन्तधातुः → विलाययति


आत्वपक्षे

वि + ली + इ → विभाषा लीयतेः (६.१.५१) इत्यनेन विकल्पेन ई-स्थाने आ-आदेशः |

वि + ला + इ → लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इत्यनेन लुगागमः | अत्र लुगागमः कथं भवति ? आत्वपक्षे यद्यपि ली-धातुः अधुना ला इति जातः तथापि तस्य मूलरूपं तु ली इत्येव अस्ति इति कृत्वा एकदेशविकृतस्यानन्यत्वात्‌ नुगागमः स्यात् |

प्रकृतेः ग्रहणेन विकृतेः अपि ग्रहणम्‌ | यत्र प्रकृतौ कार्यं विधीयते, एकदेशविकृतस्यानन्यत्वात्‌ इत्यनया परिभाषया विकृतौ अपि कार्यं विधीयते | एकस्मिन्‌ देशे विकारः भवति चेत्‌, मूलं तदानीमपि तस्य बीजे अस्ति | छिन्नपुच्छश्वा श्वा एव | कुक्कुरस्य पुच्छः नास्ति चेदपि सः कुक्कुरः |

परन्तु लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इति सूत्रे ‘ई-युक्त-ली’ इति ईकारप्रश्लेषात् आत्वपक्षे नुक्‌ न स्यात् | अर्थात् लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इति सूत्रे लीलोः इत्यस्ति; तस्मिन् ली इत्यस्य ईकारस्य प्रश्लेषः अस्ति | नाम ईकारयुक्तस्य ली-धातोः एव नुगागमः भवति; ली-धातुः यदा ला इति जातं विभाषा लीयतेः (६.१.५१) इत्यनेन सूत्रेण तदा एकदेशविकृतस्यानन्यत्वात्‌ इत्यस्य कार्यं न भवति, अतः आत्वभूतस्य ला-अङ्गस्य नुगागमः न भवति अपि तु लुगागमः भवति विकल्पेन लीलोर्नुग्लुकावन्यतरस्यां स्नेहविपातने (७.३.३९) इति सूत्रद्वारा |

वि + ला + लुक् +इ = विलालि इति नूतनधातुः | विलालयति इति रूपम् |


आत्वपक्षे अपि च लुगभावे अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन पुगागमः —

वि + ली + णिच्‌ → विभाषा लीयतेः (६.१.५१) इत्यनेन ई-स्थाने आ-आदेशः → वि + ला + इ → वि + ला +पुक्‌ + इ → वि + ला + प्‌ + इ → विलापि इति णिजन्तधातुः → विलापयति |


आहत्य एतानि रूपाणि सम्भवन्ति स्नेहविपातनार्थे—आत्वाभावे, विकल्पेन नुगागमः – विलीनयति, विलाययति |

आत्वपक्षे, विकल्पेन लुगागमः – विलालयति, विलापयति |



३) चि-धातुः


चि चयने स्वादिगणे | लटि चिनोति/चिनुते |


चिस्फुरोर्णौ (६.१.५४) = विकल्पेन चि, स्फुर्‌ इति धात्वोः एचः स्थाने आ-आदेशो भवति णौ | णौ इति अनुबन्धरहितत्वेन णिचि णिङि च भवति | चिश्च स्फुर्‌ च तयोरितरेतरद्वन्द्वः चिस्फुरौ, तयोः चिस्फुरोः | चिस्फुरोः षष्ठ्यन्तं, णौ सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एचः इत्यनयोः अनुवृत्तिः | विभाषा लीयतेः (६.१.५१) इत्यस्मात्‌ विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— विभाषा चिस्फुरोः एचः आत्‌ णौ |


आ-आदेशे—

चि + णिच्‌ → अचो ञ्णिति (७.२.११५) → चै + इ → चिस्फुरोर्णौ (६.१.५४) इत्यनेन ऐ-स्थाने आ → चा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन पुगागमः → चाप्‌ + इ → चापि इति णिजन्तधातुः → चापयति

आ-आदेशाभावे—

चि + णिच्‌ → अचो ञ्णिति (७.२.११५) → चै + इ → एचोऽयवायावः (६.१.७७) इत्यनेन आय्‌-आदेशः → चाय्‌ + इ → चायि इति णिजन्तधातुः → चाययति


चि चुरादिगणे नान्ये मितोऽहेतौ इति गणसूत्रेण मित्‌ अहेतौ, अतः मितां ह्रस्वः इत्यनेन उपधायां स्वरः ह्रस्वः भवति स्वार्थे एव | गणसूत्रम् - नान्ये मितोऽहेतौ इत्यनेन अहेतौ स्वार्थे णिचि ज्ञपादिभ्योऽन्ये मितो न स्युः | अत्र कथनस्य शैली अवगन्तव्या, नो चेत्‌ अर्थस्स्पष्टो न स्यात्‌ | पाणिनेः धातुपाठे, चुरादिगणस्य स्थले ज्ञपादयः इति अन्तर्गणः दीयते | तत्र षट् धातवः— ज्ञप, यम, चह, रह, बल, चिञ्‌ | अस्मिन्नेव प्रसङ्गे नान्ये मितोऽहेतौ इति गणसूत्रं वर्तते | सूत्रस्य अर्थः एवं यत्‌ "एतान्‌ षट्‌ धातून्‌ अतिरिच्य अन्ये चुरादिगणीयधातवः अहेतौ मितः न सन्ति" | अनेन ज्ञायते यत्‌ एते षट्‌ धातवः अहेतौ मितः सन्ति, अपि च हेतौ मितः न सन्ति | तर्हि प्रश्नः स्वाभाविकः यत् किमर्थं साक्षात्‌ नोक्तम्‌ ? किमर्थं ये तथा न सन्ति तदेव दीयते, यस्य द्वारा बोध्यं यत् एते षट्‌ तथा सन्ति ? अनेन सूत्रस्य लघुत्वम्‌ | 'नान्ये' इत्यस्य स्थाने 'ज्ञपादयः' इति स्थाप्यते चेत्‌ सूत्रम्‌ इतोऽपि दीर्घम्‌ | अपि च यतोहि सूत्रं दत्तमस्ति ज्ञपादयः इति अन्तर्गणस्थले, तदर्थं 'ज्ञपादयः' इति शब्दस्य आवश्यकता नास्ति |


आ-आदेशे—

चि → सत्यापाश-रूप-वीणा-तूल-श्लोक-सेना-लोम-त्वच-वर्म-वर्ण-चूर्ण -चुरादिभ्यो णिच् (३.१.२५) इत्यनेन चुरादिगणे णिच्‌-प्रत्ययः विधीयते स्वार्थे → चि + णिच्‌ → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा → चि +इ → हेतुमति च (३.१.२६) → चि +इ +णिच्‌ → सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा* → णेरनिटि (६.४.५१) इत्यनेन णेः लोपः अनिटि आर्धधातुके → चि +इ → चि +इ → अचो ञ्णिति (७.२.११५) → चै + इ → चिस्फुरोर्णौ (६.१.५४) इत्यनेन आ-आदेशः → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन पुगागमः → चापि → नान्ये मितोऽहेतौ इति गणसूत्रेण मितां ह्रस्वः न भवति हेतौ → चापि इति णिजन्तधातुः → चापयति


धेयं यत्‌ धातु-संज्ञा सर्वप्रथमं भवति सदा; यावत् धातु-संज्ञा न स्यात्‌, ‌अन्यत्‌ किमपि कार्यं न भवेत्‌ | तदर्थं चुरादिगणे प्रेरणार्थे णिचि सर्वप्रथमं द्विवारं णिच्‌ विधीयेत | यतोहि एवम्‌ अस्ति, तदर्थं यदा अन्ते मितां ह्रस्वः इत्यनेन ह्रस्वत्वं स्यात्‌, तस्य तदानीं प्रसक्तिरेव नास्ति, नान्ये मितोऽहेतौ इति गणसूत्रात्‌ |


*अत्र प्रश्नः उदेति यत्‌ चि +इ +णिच्‌ इति स्थितौ, प्रथमं सनाद्यन्ता धातवः (३.१.३२) इत्यनेन धातुसंज्ञा, अथवा णेरनिटि (६.४.५१) इत्यनेन णेः लोपः अनिटि आर्धधातुके? अत्र बाध्यबाधकभावो नास्ति; द्वयमपि भविष्यति एव | तर्हि प्रथमं किं स्यात्‌ ? यद्यपि तादृशधातुः यस्मिन्‌ णिच्‌-द्वयं स्यात्‌ इति विचित्रं प्रतीयेत, किन्तु वस्तुतस्तु सनाद्यन्ता धातवः (३.१.३२) इति अन्तरङ्गमस्ति; तस्य बहितः किमपि निमित्तं नास्ति | अतः धातुसंज्ञा प्रथमा भवेत्‌ | अनन्तरं णेरनिटि (६.४.५१), अचो ञ्णिति (७.२.११५) इत्यनयोर्मध्ये प्रथमं किं स्यात् ? यद्यपि अचो ञ्णिति (७.२.११५) परसूत्रं, तथापि णेरनिटि (६.४.५१) नित्यशास्त्रम्‌ अतः तदेव प्रथमं भवति; अनन्तरम्‌ अचो ञ्णिति (७.२.११५) |



आ-आदेशाभावे एवेमेव क्रमः—

चि + णिच्‌ं → चि +इ +णिच्‌ → णेरनिटि (६.४.५१) → चि +इ → अचो ञ्णिति → चै + इ → एचोऽयवायावः (६.१.७७) → चाय्‌ + इ → चायि → नान्ये मितोऽहेतौ इति गणसूत्रेण मितां ह्रस्वः न भवति हेतौ → चायि इति णिजन्तधातुः → चाययति


४) वी-धातुः


वी गतिव्याप्तिप्रजनकान्त्यसनखादनेषु, अदादिगणे | लट्‌-लकारे वेति | अर्थः = गच्छति, जन्यते च; णिचि अनेके अर्थाः; तेषु एकः अर्थः = प्रजनयति


प्रजने वीयतेः (६.१.५५) इत्यनेन प्रजनार्थे आ-आदेशः विकल्पेन भवति णिच्‌-प्रत्यये परे | तदा अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यनेन पुगागमः |


प्रजने वीयतेः (६.१.५५) = प्रजनार्थे, विकल्पेन वी-धातोः एचः स्थाने आकारादेशो भवति णौ परे | प्रजने सप्तम्यम्तं, वीयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एच्‌ इत्यनयोः अनुवृत्तिः | चिस्फुरोर्णौ (६.१.५४) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः; विभाषा लीयतेः (६.१.५१) इत्यस्मात्‌ विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— प्रजने विभाषा वीयतेः एचः आत्‌ णौ |


'वीयतेः' इक्श्तिपौ धातुनिर्देशे इति वक्तव्यम्‌ (३.३.१०८, वार्तिकम्‌) इति वार्तिकेन श्तिप्‌ धातुनिर्देशे → वी + श्तिप्‌ ( कृत्‌-प्रत्ययः) → वी + ति → श्तिप्‌ सार्वधातुकप्रत्ययः अतः सार्वधातुके यक् (३.१.६७) इत्यनेन कर्मणि यक्‌ → वी + यक्‌ + ति → वीयति इति प्रातिपदिकम्‌ → षष्ठ्यन्तं सुबन्तरूपं भवति वीयतेः | धेयं यत्‌ श्तिप्‌ कृत्‌-प्रत्ययः | अतः वीयति इति रूपं न आत्मनेपदं न वा परस्मैपदम्‌ अपि तु कृदन्तं प्रातिपदिकम्‌ |


यद्यपि वी-धातुः अपि, अन्ये विशेषाः इकारान्ताः ईकारान्ताः धातवः इव एजन्तः नास्ति, तथापि प्रक्रियायां वृद्ध्यादेशेन एच्‌ आयाति | णिचि परे अचो ञ्णिति इत्यनेन वृद्धिः | यथा—


वी + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → वै + इ → ईकारान्तः वी-धातुः एजन्तः जातः → प्रजने वीयतेः (६.१.५५) इत्यनेन प्रजनार्थे आकारादेशः‌ → वा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) → वा + पुक्‌ + इ → वापि इति णिजन्तधातुः → वापयति


प्रजनार्थे आत्त्वाभावे—


वी + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → वै + इ → एचोऽयवायावः (६.१.७७) → वाय्‌ + इ → वायि → वाययति


प्रजनार्थे नास्ति चेत्‌—

वी + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → वै + इ → एचोऽयवायावः (६.१.७७) → वाय्‌ + इ → वायि → वाययति


५) भी-धातुः


भी भये जुहोत्यादिगणे | लटि बिभेति |


बिभेतेर्हेतुभये (६.१.५६) = बिभेतेरेचः णौ आत्त्वं वा स्यात्प्रयोजकाद्भयं चेत्‌ | प्रयोजकात्‌ साक्षात्‌ भीतिः अस्ति चेत्‌, भी-धातोः अन्त्यस्य एचः स्थाने आ-आदेशो विकल्पेन भवति णौ परे | हेतोर्भयं, हेतुभयं, तस्मिन्‌ हेतुभये, पञ्चमीतत्पुरुषः | बिभेतेः षष्ठ्यन्तं, हेतुभये सप्तम्यन्तम्‌, द्विपदमिदं सूत्रेम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एच्‌ इत्यनयोः अनुवृत्तिः | चिस्फुरोर्णौ (६.१.५४) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः; विभाषा लीयतेः (६.१.५१) इत्यस्मात्‌ विभाषा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— विभाषा हेतुभये बिभेतेः एचः आत्‌ णौ |‌


भीस्म्योर्हेतुभये (१.३.६८) = प्रयोजकात्‌ साक्षात्‌ भीतिः चेत्‌, भी-धातुः स्मि-धातुः च आत्मनेपदिनौ भवतः | भीश्च स्मिश्च भीस्मी, तयोर्भीस्म्योः | हेतोर्भयं हेतुभयं, तस्मिन्‌ हेतुभये, पञ्चमीतत्पुरुषः | भीस्म्योः षष्ठ्यन्तं, हेतुभये सप्तम्यन्तम्‌ | अनुदात्तङित आत्मनेपदम्‌ (१.३.१२) इत्यस्मात्‌ आत्मनेपदम्‌ इत्यस्य अनुवृत्तिः | णेरणौ यत्कर्म णौ चेत्‌ स कर्तानाधाने (१.३.६७) इत्यस्मात्‌ णेः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— हेतुभये णेः भीस्म्योः आत्मनेपदम्‌ |


अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) = आत्त्वं भवति चेत्‌, पुगागमः अपि विधीयते |


भी + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → भै + इ → बिभेतेर्हेतुभये (६.१.५६) इत्यनेन ऐकारस्य आत्त्वम्‌ → भा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) → भा + पुक्‌ + इ → भापि इति णिजन्तधातुः → भीस्म्योर्हेतुभये (१.३.६८) इत्यनेन प्रयोजकात्‌ साक्षात्‌ भीतिः चेत्‌ आत्मनेपदत्वम्‌ → भापि + शप्‌ + ते → भापयते


भियो हेतुभये षुक्‌ (७.३.४०) = प्रयोजकात्‌ साक्षात्‌ भीतिः अस्ति चेत्‌, भी-धातोः अन्त्यस्य ईकारस्य स्थाने, आ-आदेशाभावे षुक्‌-आगमो भवति | इदं सूत्रं अचो ञ्णिति (७.२.११५) इत्यस्य बाधकसूत्रम्‌ | षुकि ककार-उकारयोः इत्‌-संज्ञा लोपश्च, षकारः अवशिष्यते | हेतोर्भयं हेतुभयं, तस्मिन्‌ हेतुभये पञ्चमीतत्पुरुषः | भी (भी धातुः) इति शब्दस्य षष्ठ्यन्तं रूपं भियः | भियः षष्ठ्यन्तं, हेतुभये सप्तम्यन्तं, षुक्‌ प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— भियो हेतुभये षुक्‌ णौ |


भी + णिच्‌ → भी + षुक्‌ + इ → भी + ष्‌ + इ → भीषि इति णिजन्तधातुः → भीषयते


अत्र प्रश्नः उदेति, भियो हेतुभये षुक्‌ (७.३.४०) इति अचो ञ्णिति (७.२.११५) इत्यस्य अपवादभूतसूत्रं चेत्‌, कथं वा भी + णिच्‌ इति स्थितौ अचो ञ्णिति (७.२.११५) इति कदाचिदपि प्रवर्तेत ? उत्तरमेव यत्‌ प्रयोजकाद्भयम्‌ इति स्थितौ सदा भियो हेतुभये षुक्‌ (७.३.४०) इत्येव भवति चेत्‌, बिभेतेर्हेतुभये (६.१.५६) इति सूत्रं निरवकाशं भविष्यति | बिभेतेर्हेतुभये (६.१.५६) इति विकल्पेन प्रवर्तते अतः प्रयोजकाद्भये सति एकवारम्‌ अचो ञ्णिति (७.२.११५) + बिभेतेर्हेतुभये (६.१.५६) इति भवति, एकवारं भियो हेतुभये षुक्‌ (७.३.४०) |


प्रयोजकात्‌ साक्षात्‌ भीतिः नास्ति चेत्, आ-आदेशो न भवति, न वा पुगागमः, न वा षुगागमः | तस्यां स्थितौ—


भी + णिच्‌ → अचो ञ्णिति → भै + इ → एचोऽयवायावः (६.१.७७) → भाय्‌ + इ → भायि → भाययति


'छुरिकया बालकं भाययति' इत्यस्मिन्‌ प्रयोजकात्‌ साक्षात्‌ भीतिः नास्ति अपि तु छुरिकायाः सः भीतः |


६) स्मि-धातुः


ष्मिङ् ईषद्धसने (ईषत्‌ हसने) भ्वादिगणे | लटि स्मयते = to smile; प्रेरणार्थे स्माययति = to cause to smile |

परन्तु विस्मयः = आश्चर्यं, विस्मितिः, चमत्कारः |


नित्यं स्मयतेः (६.१.५७) = यदा प्रयोजकः विस्मयस्य साक्षात्‌ कारणं, तदा नित्यम्‌ एचः आकारादेशो भवति | नित्यत्त्वात्‌ अत्र 'विभाषा' इत्यस्य अनुवृत्तिक्रमः समाप्यते | नित्यं प्रथमान्तं, स्मयतेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | आदेच उपदेशेऽशिति (६.१.४५) इत्यस्मात्‌ आत्‌, एच्‌ इत्यनयोः अनुवृत्तिः; चिस्फुरोर्णौ (६.१.५४) इत्यस्मात्‌ णौ इत्यस्य अनुवृत्तिः; बिभेतेर्हेतुभये (६.१.५६) इत्यस्मात्‌ र्हेतुभये इत्यस्य अनुवृत्तिः | अत्र भयशब्दः आश्चर्यार्थे स्वीक्रियते | अनुवृत्ति-सहितसूत्रम्‌— र्हेतुभये नित्यं स्मयतेः एचः आत्‌ णौ |


विस्मि + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → विस्मै + इ → नित्यं स्मयतेः (६.१.५७) इत्यनेन एचः आत्त्वम्‌ → विस्मा + इ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) → विस्मा + पुक्‌ + इ → विस्मापि इति णिजन्तधातुः → भीस्म्योर्हेतुभये (१.३.६८) इत्यनेन प्रयोजकात्‌ साक्षात्‌ विस्मयः चेत्‌ आत्मनेपदत्वम्‌ → विस्मापि + शप्‌ + ते → विस्मापयते (to surprise, astonish)


प्रयोजकात्‌ विस्मयः चेत्—

मुण्डोजटिलो बालकं विस्मापयते | (The bald ascetic astonishes the boy.)

प्रयोजकात्‌ विस्मयः नास्ति चेत्—

चोरः कुञ्चिकया एनं विस्माययति |


७) प्री-धातुः


प्रीञ् तर्पणे | अर्थः = प्रीतिं करोति, प्रसन्नं करोति, तृप्तं करोति | चुरादिगणे प्रीणयति/ते, विकल्पेन च णिच्‌-अभावे प्रयति/ते; क्र्यादिगणे प्रीणाति, प्रीणीते |


धूञ्प्रीञोर्नुग्वक्तव्यः इति वार्तिकम्‌ | णिचि परे धू प्री इति धात्वोः नुक्‌-आगमः | धू-धातुः इति अग्रे उ/ऊकारान्तेषु दृश्यताम्‌ | नुकि क्, उ, इत्यनयोः इत्‌-संज्ञा लोपश्च, न्‌‌ अवशिष्यते |


प्रीञ्‌ + णिच्‌ → प्री + नुक्‌ + इ → प्रीणि इति णिजन्तधातुः → प्रीणयति |


८) ईकारान्तधातूनां पुगागमः— ह्री, व्ली, री


ह्री जुहोत्यादिगणे | लटि जिह्रेति | अर्थः = लज्जते | णिचि ह्रेपयति = लज्जयति | ह्री इति स्त्रीलिङ्गशब्दः, लज्जा इत्यर्थः |

व्ली क्र्यादिगणे | प्वादीनां ह्रस्वः (७.३.८०) इत्यनेन शिति ह्रस्वत्वे, लटि व्लिनाति | अर्थः = गच्छति, समर्थनं करोति, चिनोति |

री क्र्यादिगणे | प्वादीनां ह्रस्वः (७.३.८०) इत्यनेन शिति ह्रस्वत्वे, लटि रिणाति | अर्थः = मोचयति |


प्वादीनां ह्रस्वः (७.३.८०) = पूञ्‌, लूञ्‌, धूञ्‌, ज्या, री, ली व्ली, प्ली, स्तॄञ्‌, कॄञ्‌, वॄ, शॄ, पॄ, वॄञ्‌, भॄ, मॄ, दॄ, जॄ, झॄ, धॄञ्‌, नॄ, कॄ, ॠ, गॄ, एषां धातूनां ह्रस्वत्वं भवति शिति प्रत्यये परे | पूः आदिर्येषां ते, प्वादयः बहुव्रीहिः, तेषां प्वादीनाम्‌ | येन विधिस्तदन्तस्य (१.१.७२), अलोऽन्त्यस्य (१.१.५२), अचश्च (१.२.२८) इत्येभिः सूत्रैः एषां धातूनाम्‌ अन्तिमस्वरस्य ह्रस्वादेशो भवति | प्वादीनां षष्ठ्यन्तं, ह्रस्वः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | ष्ठिवुक्लमुचमां शिति (७.३.३५) इत्यस्मात्‌ शिति इत्यस्य अनुवृतिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— प्वादीनाम्‌ अचः अङ्गस्य ह्रस्वः शिति |


अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) अस्मिन्‌ सूत्रे त्रयः ईकारान्तधातवः सूचिताः, ह्री, व्ली, री इति— अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ् णौ | एभ्यः धातुभ्यः पुगागमः भवति णिच्‌-प्रत्यये परे | कोऽपि ईकारान्तधातुः अस्ति चेत्‌ यः अस्मिन्‌ सूत्रे न सूचितः, तर्हि णिच्‌-प्रत्यये परे तस्य पुगागमः न भवति एव | यथा नी + णिच्‌ → नाययति (न तु नेपयति) |


धेयं यत्‌ पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन न केवलं लघूपधस्य गुणः, अपि तु पुगन्तस्य अपि गुणः—


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


ह्री + णिच्‌ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) → ह्री + पुक्‌ + णिच्‌ → ह्री + प्‌ + इ → ह्रीप्‌ + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → ह्रेप्‌ + इ → सनाद्यन्ता धातवः इत्यनेन ह्रेपि इति णिजन्तधातुः → ह्रेपि + शप्‌ + ति → ह्रेपयति

व्ली + णिच्‌ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ → व्ली + पुक्‌ + णिच्‌ → व्ली + प्‌ + इ → व्लीप्‌ + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → व्लेप्‌ + इ → व्लेपि → सनाद्यन्ता धातवः → व्लेपि + शप्‌ + ति → व्लेपयति

री + णिच्‌ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ → री + पुक्‌ + णिच्‌ → री + प्‌ + इ → रीप्‌ + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → रेप्‌ + इ → रेपि → सनाद्यन्ता धातवः → रेपि + शप्‌ + ति → रेपयति


९) इण्‌-इक्‌-धातू


इण्‌ गतौ अदादिगणे | लटि एति, इतः, यन्ति इत्यादीनि रूपाणि |


णौ गमिरबोधने (२.४.४६) = णिचि परे इण्‌-धातुः गत्यर्थे न तु बोधनार्थे चेत्‌, गम्‌ इति धात्वादेशो भवति | न बोधनम्‌ अबोधनं, नञ्तत्पुरुषः; तस्मिन्‌ अबोधने | गमि-पदे इकारः उच्चारणार्थः | णौ सप्त्यम्यन्तं, गमिः प्रथमान्तम्‌, अबोधने सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | इणो गा लुङि (२.४.४५) इत्यस्मात्‌ इणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— अबोधने इणः गमिः णौ |


इण्‌ गत्यर्थे + णिच्‌ → णौ गमिरबोधने (२.४.४६) इत्यनेन गम्‌ इति धात्वादेशः → गम्‌ + इ → गम्‌ इति अमन्तः इत्यस्मात्‌ जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति गणसूत्रेण मित्‌-संज्ञा → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → गाम्‌ + इ → मितां ह्रस्वः (६.४.९२) इत्यनेन मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः → गमि इति णिजन्तधातुः → गमयति


प्रति-उपसर्गपूर्वकः इण्‌-धातुः बोधनार्थे भवति—

प्रति + इ + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → प्रति + ऐ + इ → एचोऽयवायावः (६.१.७७) इत्यनेन आय्‌-आदेशः → प्रति + आय्‌ + इ → प्रति + आयि → इको यणचि इत्यनेन यण्‌-आदेशः → प्रत्यायि इति णिजन्तधातुः → प्रत्याययति


(एवं 'प्रत्ययः' इति शब्दः बोधनार्थे; प्रति + इ + अच्‌)


इक्‌-धातुः


इक्‌-स्मरणे अददिगणे, नित्यम्‌ अधि-उपसर्गपूर्वकः | लटि अध्येति, अधीतः, अधियन्ति इत्यादीनि रूपाणि |


इण्वदिकः इति वार्तिकेन इक्‌-धातोः इण्वद्भावः | अनेन इण्‌-धातोः येन केनापि सूत्रेण यत्‌ किमपि कार्यं भवति, तेनैव सूत्रेण इक्‌-धातोः अपि तदेव कार्यम्‌ भवति | अतः इणो यण्‌ (६.४.८१) इत्यनेन अजादि-प्रत्यये परे यण्‌-आदेशः इक्‌-धातोः अपि भवति; अत्र णौ गमिरबोधने (२.४.४६) इत्यनेन णिचि परे गत्यर्थे (अबोधने) गम्‌ इति धात्वादेशः इक्‌-धातोः अपि भवति | गतिः इत्यस्य चत्वारः अर्थाः—गमनं, ज्ञानं, प्राप्तिः, मोक्षः च | बोधनार्थे इत्युक्ते ज्ञानार्थे; ज्ञानार्थम्‌ अतिरिच्य अपरेषु त्रिषु अर्थेषु अन्यतमः भवति चेत्‌ गमादेशः इति तात्पर्यम्‌ | इक्‌-धातुः स्मरणार्थे अस्ति; माता वदति यत्‌ व्याकरणक्षेत्रे 'स्मरणं' ज्ञानार्थकः नास्ति | काशिकायां च दत्तमस्ति यत्‌ 'इण्वदिक इत्येव, अधिगमयति', नाम इण्वदिकः इति वार्तिकस्य बलेन एव गम्‌-आदेशः; अर्थम्‌ अवलम्ब्य इक्‌-धातोः गम्‌-आदेशः इति न |


अधि + इक्‌ + णिच्‌ → अधि + इ + इ → इण्वदिकः इति वार्तिकेन इक्‌-धातोः इण्वद्भावः → णौ गमिरबोधने (२.४.४६) इत्यनेन गत्यर्थे गम्‌ इति धात्वादेशः → अधि + गम्‌ + इ → गम्‌ इति अमन्तः इत्यस्मात्‌ जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति गणसूत्रेण मित्‌-संज्ञा → अत उपधायाः (७.२.११६) इत्यनेन उपधायाम्‌ अतः वृद्धिः ञिति णिति प्रत्यये परे → अधि + गाम्‌ + इ → मितां ह्रस्वः (६.४.९२) इत्यनेन मित्‌-धातूनाम्‌ उपधायाः स्वरः ह्रस्वः → अधि + गमि → अधिगमि इति णिजन्तधातुः → अधिगमयति


C. उकारान्तधातवः ऊकारान्तधातवः च


उ/ऊकारान्तधातूनां सामान्यव्यवस्था अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः, एचोऽयवायावः इत्यनेन आव्‌‌ आदेशः |


भू + णिच्‌ → भौ + इ → भावि इति णिजन्तधातुः → भावयति |


अत्र एक एव अपवादः—


धूञ् कम्पने चुरादिगणे | लटि धूनयति/ते, धवति/ते |


धूञ्प्रीञोर्नुग्वक्तव्यः इति वार्तिकेन णिचि परे धूञ्‌ प्रीञ्‌ इति धात्वोः नुगागमः |


धूञ्‌ + णिच्‌ → धू + नुक्‌ + इ → धू + न्‌ + इ → धूनि इति णिजन्तधातुः → धूनयति


D. ऋकारान्तधातवः ॠकारान्तधातवः च


१) जागृ-धातुः


जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) = जागृ-धातोः गुणो भवति वि, चिण्‌, णल्‌, ङित्‌ इत्येषां प्रत्ययाणां पर्युदासे | वि इति प्रत्ययविशेषः, चिण्‌ इति लुङ्‌-लकारस्य, णल्‌ इति लिट्‌-लकारस्य, ङित्‌ इत्यनेन इत्‌-संज्ञकः ङकारः यस्य | वि, ङित्‌ इत्यनयोः विषये गुणनिषेधः इदानीमपि भवति | चिण्‌, णल्‌ इत्यनयोः विषये वृद्धिः इदानीमपि भवति | अन्यत्र सर्वत्र गुणः भवति एव | अचो ञ्णिति (७.२.११५), क्क्ङिति च (१.१.५) इत्यनयोः अपवादः | विश्च चिण्‌ च णल्‌ च ङित्‌ च, तेषामितरेतरद्वन्द्वः विचिण्णल्ङितः, न विचिण्णल्ङितः अविचिण्णल्ङितः, तेषु अविचिण्णल्ङित्सु | जाग्रः षष्ठ्यन्तम्‌, अविचिण्णल्ङित्सु सप्तम्यन्तम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— जाग्रः गुणः अविचिण्णल्ङित्सु |


जागृ + णिच्‌ → अचो ञ्णिति (७.२.११५) इति प्रबाध्य जाग्रोऽविचिण्णल्ङित्सु (७.३.८५) इत्यनेन गुणः → जागर्‌ + इ → जागरि इति णिजन्तधातुः → जागरयति


२) दॄ-नॄ-जॄ-धातवः


इमे त्रयः धातवः मितः अतः उपधायां स्थितस्य अचः ह्रस्वत्वं भवति मितां ह्रस्वः (६.४.९२) इति सूत्रेण |


दॄ भये क्र्यादिगणे | लटि दृणाति | अर्थः = विदारयति, बिभेति | यदा भयार्थे अस्ति, तदा घटादिगणे पठितः अतः णिचि मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम्‌ | अतः णिचि भये दरयति, अन्यार्थेषु दारयति इति |


नॄ नये क्र्यादिगणे | लटि नृणाति | अर्थः = to bring to; to lead | यदा नयनार्थे (प्रापणार्थे) अस्ति, तदा घटादिगणे पठितः अतः णिचि मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम्‌ | अतः णिचि नये नरयति, अन्यार्थेषु नारयति इति |


जॄ-धातुः दिवादिगणे, क्र्यादिगणे, चुरादिगणे च | चुरादिगणे णिच्‌-प्रत्ययः वैकल्पिकः इति कृत्वा एकं रूपं भ्वादिगणवत्‌ इत्यतः माता "भ्वादिगणे अपि" इति वदति | लटि जीर्यति, जृणाति, जरयति/जरति | अर्थः = 1.to grow old; 2.to perish (fig. also); 3.to be dissolved or digested; 4.to break up or fall to pieces | जनीजॄष्क्नसुरञ्जोऽमन्ताश्च इति गणसूत्रेण जनी, जॄष्‌, क्नसु, रञ्ज्‌ एते चत्वारः धातवः च येषां धातूनाम्‌ अन्ते अम् इति अंशः भवति (यथा गम्‌, रम्‌, नम्‌), एषां धातूनां मित्‌-संज्ञा भवति | तदा मितां ह्रस्वः इत्यनेन उपधायां स्थितस्य अचः ह्रस्वत्वम्‌ | अतः णिचि जरयति इति भवति |


दॄ + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → दार्‌ + इ → दारि → मितां ह्रस्वः → दरि इति णिजन्तधातुः → दरयति

नॄ + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → नार्‌ + इ → नारि → मितां ह्रस्वः → नरि इति णिजन्तधातुः → नरयति

जॄ + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → ‌ जार्‌ + इ → जारि → मितां ह्रस्वः → जरि इति णिजन्तधातुः → जरयति


३) स्मृ-धातुः


स्मृ आध्याने भ्वादिगणे | लटि स्मरति | अर्थः = स्मरति; जपं करोति, ध्यानं करोति; अभिलेखे लिखति, स्मृतौ लिखति; उपदिशति, घोषते; पाठयति | आध्यानार्थे अस्ति चेत्‌ मित्‌ अतः णिचि मितां ह्रस्वः इत्यनेन उपधायां स्वरः ह्रस्वः |


आध्यानार्थे—

स्मृ + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → स्मार्‌ + इ → स्मारि → मितां ह्रस्वः → स्मरि इति णिजन्तधातुः → स्मरयति


अपरेषु अर्थेषु—

स्मृ + णिच्‌ → अचो ञ्णिति (७.२.११५) इत्यनेन वृद्धिः → स्मार्‌ + इ → स्मारि इति णिजन्तधातुः → स्मारयति


४) ऋकारान्तधातूनां पुगागमः


ऋ गतिप्रापणयोः भ्वादिगणे | लटि ऋच्छति | पा-घ्रा-ध्मा-स्था-म्ना-दाण्‌-दृशि-अर्ति-सर्ति-शद-सदां, पिब-जिघ्र-धम-तिष्ठ-मन-यच्छ-पश्य-ऋच्छ-धौ-शीय-सीदाः (७.३.७८) इत्यनेन शिति परे ऋ-स्थाने ऋच्छ इति धात्वादेशो भवति | अर्थः = गच्छति; गन्तव्यस्थानं प्राप्नोति; लभते | णिचि अर्पयति = गमयति, क्षेपयति |


अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ (७.३.३६) इति सूत्रेण ऋ-धातोः अपि पुक्‌-आगमो भवति णिचि परे | अर्तिह्रीव्लीरीक्नूयीक्ष्माय्याताम्‌ इति |


पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक्‌ अन्ते यस्य तत्‌ पुगन्तम्‌, लघ्वी उपधा यस्य तत्‌ लघूपधम्‌ | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्‌, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम्‌ | अनुवृत्ति-सहितसूत्रम्‌— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |


ऋ + णिच्‌ → अर्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ → ऋ + पुक्‌ + णिच्‌ → ऋ + प्‌ + इ → ऋप्‌ + इ → पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन गुणः → अर्प्‌‌ + इ → सनाद्यन्ता धातवः इत्यनेन अर्पि इति णिजन्तधातुः → अर्पि + शप्‌ + ति → अर्पयति


इति अजन्तधातूनां विशेषणिजन्तरूपाणि | अग्रे हलन्तधातूनां विशेषणिजन्तरूपाणि परिशील्यन्ते |


Swarup – May 2013 (Updated April 2017)



धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup <dinbandhu@sprynet.com>.

File:०२ - प्रेरणार्थे णिच्_ - विशेषाः अजन्तधातवः.pdf