7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung: Difference between revisions
7---ArdhadhAtukaprakaraNam/05---karmaNi-bhAve-lung
Content added Content deleted
Gargi Dixit (talk | contribs) No edit summary |

||
Line 70: | Line 70: | ||
'''3.''' <u>लुङ्-लकारः कर्मणि भावे च</u> |

लुङ्-लकारेण सामान्यभूतकालः व्यक्तीक्रियते | अपरेषु लकारेषु एकस्य लकारस्य एकविध-तिङ्प्रत्ययाः भवन्ति | लटि, लोटि, लङि, विधिलिङि, लिटि, लृटि, लुटि, लृङि, आशीर्लिङि— एषु सर्वेषु, प्रत्येकं लकारस्य एकप्रकारकतिङ्प्रत्ययाः भवन्ति | यथा लटि ति, तः, अन्ति, सि, थः, थ इत्यादयः प्रत्ययाः | |

किन्तु लुङ्-लकारे कर्तरिप्रयोगे द्वादश प्रकारकाः प्रत्ययाः सन्ति— |

Line 88: | Line 92: | ||
११-१२. इट् + सिच्-प्रत्ययेन निष्पन्नाः प्रत्ययाः = परस्मैपदे आत्मनेपदे च |

अनेन अवगम्यते यत् लुङ्-लकारस्य भावे कर्मणि च क्स-प्रत्ययेन, सिच्-प्रत्ययेन एव सिद्धतिङ्प्रत्ययाः भवन्ति | लुङ्-लकारे सामान्यधातूनां कृते कर्त्रर्थे यस्य यस्य धातोः यत् यत् तिङन्तरूपं भवति, तस्य तस्य धातोः तत्तदेव तिङन्तरूपं भवति कर्मणि भावे च | केवलं स्मर्तव्यं यत् अत्र '''भावकर्मणोः''' (१.३.१३) इत्यनेन तिबादयः प्रत्ययाः आत्मनेपदिनः एव भवन्ति | |

लुङ्-लकारे केचन विशिष्टधातवः सन्ति येषां कृते विशेषनियमाः सन्ति | तेषां रूपाणि कथं भवन्ति इति अग्रे प्रदर्श्यते | |

<u>१७ शलन्त-इगुपध-अनिट्-धातवः</u> |
<u>१७ शलन्त-इगुपध-अनिट्-धातवः</u> |
||
Line 99: | Line 107: | ||
क्रुश्, दिश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्, कृष्, त्विष्, द्विष्, श्लिष्, मिह्, रुह्, लिह्, दिह्, दुह् | |

'''शल इगुपधादनिटः क्सः''' (३.१.४५) = इगुपध-शलन्तधातुतः अनिट्-च्लि-प्रत्ययस्य स्थाने क्स-आदेशो भवति | '''च्लेः सिच्''' (३.१.४४) इत्यस्य अपवादः | इगुपध-शलन्तधातवः सप्तदश सन्ति | क्स-आदेशे ककारस्य इत्-संज्ञा लोपश्च; 'स' तिष्ठति | अयं 'स' कित् | इक्-उपधा यस्य सः इगुपधः बहुव्रीहिः, तस्मात् इगुपधात् | न विद्यते इट् यस्य सः अनिट् बहुव्रीहिः, तस्य अनिटः | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन तदन्तविधिः '''शलः धातोः''' | शलः पञ्चम्यन्तम्, इगुपधात् पञ्चम्यन्तम्, अनिटः षष्ठ्यन्तं, क्सः प्रथमान्तम् अनेकपदमिदं सूत्रम् | '''च्लेः सिच्''' (३.१.४४) इत्यस्मात् '''च्लेः''' इत्यस्य अनुवृत्तिः | '''धातोरेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''इगुपधात् शलः धातोः अनिटः च्लेः क्सः''' | |

अत्र प्रश्नः उदेति यत् क्सः आदेशो वा, प्रत्ययो वा ? च्लि-स्थाने आदिष्टे सति आदेशः भवेदेव | परन्तु अयं क्स-आदेशः आदिष्टः तृतीयाध्याये | तृतीयः चतुर्थः पञ्चमः च अध्यायाः 'प्रत्ययाध्यायाः' इत्युच्यन्ते | धातुभ्यः यावन्तः प्रत्ययाः विधीयन्ते, ते सर्वे अस्मिन्नेव तृतीयाधाये | प्रातिपदिकेभ्यः यावन्तः प्रत्ययाः विहिताः भवन्ति, ते सर्वे चतुर्थाध्याये पञ्चमाध्याये चेत्यनयोः द्वयोः अध्याययोः | एषु सर्वेषु विधायकसूत्रेषु च '''प्रत्ययः''' (३.१.१) इति अधिकारसूत्रम् अनुवर्तते | किन्तु '''शल इगुपधादनिटः क्सः''' (३.१.४५) इति सूत्रे '''प्रत्ययः''' (३.१.१) इति सूत्रस्य अनुवर्तनं नास्ति | अस्य कारणम् अस्ति यत् क्सः साक्षात् धातुभ्यः न विधीयते; प्रत्ययस्य ''स्थाने'' आदिशति | साक्षात् धातुभ्यः न विधीयते इति कारणतः '''प्रत्ययः''' (३.१.१) इति अस्मिन् सूत्रे नानुवर्तते | किन्तु एका परिभाषासूत्रम् अस्ति '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) | अनेन सूत्रेण यस्य स्थाने आदेशः आदिशति, तस्य स्वभावोऽपि तेन स्वीक्रियते | च्लि-प्रत्ययस्य स्थाने क्सः आदिष्टः, अतः च्लि-प्रत्ययस्य स्वभावः स्वीकृतः तेन | इत्थञ्च '''च्लि लुङि''' (३.१.४३) इत्यनेन च्लि साक्षात् विधीयते धातुभ्यः, अतः '''प्रत्ययः''' (३.१.१) इति सूत्रेण च्लि इत्यस्य प्रत्ययसंज्ञा भवति | च्लि 'प्रत्ययः' अस्ति इति कारणतः क्स अपि प्रत्ययः | लुङि च्लि-स्थाने सिच, क्स, अङ्, चङ्, चिण्, इत्येते सर्वे आदेशाः प्रत्ययस्य स्थाने आदिष्टः, अतः '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन एषां सर्वेषां प्रत्ययसंज्ञा भवति | |

कर्त्रर्थे क्स-प्रत्ययेन निष्पन्नाः आत्मनेपदसंज्ञकप्रत्ययाः इमे— |

Line 114: | Line 128: | ||
सावहि, सामहि— |
सावहि, सामहि— |
||
Line 119: | Line 134: | ||
लुङ्-लकारे सर्वदा च्लि-प्रत्ययः विधीयते '''च्लि लुङि''' (३.१.४३) इति सूत्रेण; तदा च्लि-स्थाने विभिन्नाः आदेशाः भवन्ति | तेषु अन्यतमः अस्ति क्स इति आदेशः; तस्य च 'स' इति अवशिष्यते | उपरितनेषु प्रत्ययेषु सर्वत्र आरम्भे अयं 'स' दृश्यते | |

कर्मणि भावे च '''चिण् भावकर्मणोः''' (३.१.६६) इत्यनेन लुङ्-लकारे आत्मनेपदे प्रथमपुरुषैकवचने त-प्रत्यये परे, सर्वेभ्यः धातुभ्यः चिण्-प्रत्यययो भवति | |

Line 127: | Line 144: | ||
'''चिणो लुक्''' (६.४.१०४) = चिणः उत्तरस्य (त-शब्दस्य) लुक् भवति | अनेन 'इ' एव अवशिष्यते | चिणः पञ्चम्यन्तं, लुक् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''अङ्गस्य चिणो लुक्''' | |

प्रथमपुरुषैकवचनं विहाय सर्वे तिङ्प्रत्ययाः कर्त्रर्थे यथा भवन्ति, तथैव |

Line 135: | Line 154: | ||
सि सावहि सामहि |
सि सावहि सामहि |
||
क्स कित् अतः '''क्क्ङिति च''' (१.१.५) इत्यनेन गुणनिषेधः | चिण् न गित्, कित् न वा ङित् अतः तस्मिन् परे गुणनिषेधो नास्ति; तत्र '''पुगन्तलघूपधस्य च''' (७.३.८६) इत्यनेन गुणो भवति | |

Line 145: | Line 166: | ||
अक्रुक्षि अक्रुक्षावहि अक्रुक्षामहि |
अक्रुक्षि अक्रुक्षावहि अक्रुक्षामहि |
||
'''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' (८.२.३६) = व्रश्च्, भ्रस्ज्, सृज्, मृज्, यज्, राज्, भ्राज्, छकारान्ताः शकारान्ताः चैषां धातूनाम् अन्तिमवर्णस्य स्थाने षकारादेशो भवति झलि पदान्ते च | अनुवृत्ति-सहितसूत्रम्— '''व्रश्चभ्रस्जसृजमृजयजराजभ्राजच्छशां षः''' '''झलि पदस्य अन्ते च''' | |

'''षढोः कः सि''' (८.२.४१) = सकारे परे षकारस्य ढकारस्य च ककारादेशो भवति | षश्च ढश्च तयोः इतरेतरद्वन्द्वः षढौ, तयोः षढोः | षढोः षष्ठ्यन्तं, कः प्रथमान्तं, सि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— '''षढोः कः सि''' | |

'''आदेशप्रत्यययोः''' (८.३.५९) = इण्-प्रत्याहारात् कवर्गीयात् च परे अपदान्तः आदेशरूपी प्रत्ययावयवो वा सकारः अस्ति चेत्, तस्य सकारस्य स्थाने षकारादेशो भवति | अनुवृत्ति-सहितसूत्रम्—'''इण्कोः आदेशप्रत्यययोः अपदान्तस्य सः मूर्धन्यः संहितायां,''' '''नुंविसर्जनीयशर्व्यवायेऽपि''' | |

एवमेव दिश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्, कृष्, त्विष्, द्विष्, श्लिष् इत्येषां रूपाणि भवन्ति | |