7---ArdhadhAtukaprakaraNam/08---yanglugantadhAtUnAM-sArvadhAtukalakAreShu-tinganta-rUpANI: Difference between revisions
Gargi Dixit (talk | contribs) (added the rest of the page with links) |
Gargi Dixit (talk | contribs) (added spacing) |
||
Line 471: | Line 471: | ||
४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण् रपरः''' इत्यनेन रपरत्वम् | पापॄ + अति → पापुर् + अति → पापुरति |
४) अजाद्यपित्सु = गुणनिषेधः '''सार्वधातुकमपित्''' (१.२.४), '''क्क्ङिति च''' (१.१.५) | '''उदोष्ठ्यपूर्वस्य''' इत्यनेन उकारादेशः, '''उरण् रपरः''' इत्यनेन रपरत्वम् | पापॄ + अति → पापुर् + अति → पापुरति |
||
<font size="4"></font> |
<font size="4"></font> |
||
Line 563: | Line 564: | ||
अजादिषु पित्सु = गुणनिषेधः, '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यनेन | लेलिख् + ईति → लेलिखीति | मोमुद् + ईति → मोमुदीति | वरीवृष् + ईति → वरीवृषीति | |
अजादिषु पित्सु = गुणनिषेधः, '''नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यनेन | लेलिख् + ईति → लेलिखीति | मोमुद् + ईति → मोमुदीति | वरीवृष् + ईति → वरीवृषीति | |
||
<font size="4"></font> |
<font size="4"></font> |
||
Line 575: | Line 577: | ||
अस्य अपवादः मृज्-धातुः, यस्य इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | मृज् → मरीमृज् + ति → मरीमार्ष्टि | |
अस्य अपवादः मृज्-धातुः, यस्य इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | मृज् → मरीमृज् + ति → मरीमार्ष्टि | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
Line 587: | Line 591: | ||
'''मृजेर्वृद्धिः''' (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकम् भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''इकोगुण्वृद्धी''' (१.१.३) इत्यस्मात् परिभाषासूत्रात् '''इकः''' इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मृजेः अङ्गस्य इकः वृद्धिः''' | |
'''मृजेर्वृद्धिः''' (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकम् भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''इकोगुण्वृद्धी''' (१.१.३) इत्यस्मात् परिभाषासूत्रात् '''इकः''' इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मृजेः अङ्गस्य इकः वृद्धिः''' | |
||
एतदाधारेण यथानिर्दिष्टम् अङ्गकार्यं सन्धिकार्यं च कृत्वा एषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि | |
एतदाधारेण यथानिर्दिष्टम् अङ्गकार्यं सन्धिकार्यं च कृत्वा एषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि | |
||
Line 689: | Line 695: | ||
हकारान्तधातवः— गाह् → जागाह्, गुह् → जोगुह् |
हकारान्तधातवः— गाह् → जागाह्, गुह् → जोगुह् |
||
<font size="4"></font> |
<font size="4"></font> |
||
Line 715: | Line 722: | ||
हम्म् → जंहम्म् |
हम्म् → जंहम्म् |
||
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font><font size="4"></font><font size="4"></font> |
||
Line 797: | Line 805: | ||
''' यङ्लुकि''' मन्, हन्, गम्, रम्, नम्, यम् इति षण्णामेव धातूनाम् अनुनासिकलोपो भवति | अस्मिन् सूत्रे तनोत्यादीनां गणनिर्देशेन भवति इति कारणेन एषां यङ्लुकि अनुनासिकलोपो न भवति | यङ्लुगन्तानां धातुगणाभावात् | ‘वनति' इति तु श्तिप् इत्यनेन निर्दिष्टम् | |
''' यङ्लुकि''' मन्, हन्, गम्, रम्, नम्, यम् इति षण्णामेव धातूनाम् अनुनासिकलोपो भवति | अस्मिन् सूत्रे तनोत्यादीनां गणनिर्देशेन भवति इति कारणेन एषां यङ्लुकि अनुनासिकलोपो न भवति | यङ्लुगन्तानां धातुगणाभावात् | ‘वनति' इति तु श्तिप् इत्यनेन निर्दिष्टम् | |
||
<font size="4"></font> |
<font size="4"></font> |
||
Line 809: | Line 818: | ||
४) '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति | पञ्च धातवः | |
४) '''गमहनजनखनघसां लोपः क्ङित्यनङि''' (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति | पञ्च धातवः | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
Line 817: | Line 828: | ||
'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मः धातोः पदस्य अन्ते नः''' | |
'''मो नो धातोः''' (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | '''स्कोः संयोगाद्योरन्ते च''' (८.२.२९) इत्यस्मात् '''अन्ते''' इत्यस्य अनुवृत्तिः | '''पदस्य''' (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''मः धातोः पदस्य अन्ते नः''' | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
Line 825: | Line 837: | ||
'''म्वोश्च''' (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म् च व् च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मो नो धातोः''' (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''मः धातोः नः''' '''म्वोश्च''' | |
'''म्वोश्च''' (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यस्य साहाय्येन '''मः धातोः''' इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म् च व् च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''मो नो धातोः''' (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''मः धातोः नः''' '''म्वोश्च''' | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
Line 873: | Line 886: | ||
क्षिनु हिंसायाम् → क्षिन् → चेक्षिन्** |
क्षिनु हिंसायाम् → क्षिन् → चेक्षिन्** |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
<nowiki>*</nowiki>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | अस्य सूत्रस्य अन्तर्गते वार्तिकम् अस्ति '''पदान्तवच्चेति वक्तव्यम्''' | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यम् | तस्मात् '''वा पदान्तस्य''' (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः | |
<nowiki>*</nowiki>'''नुगतोऽनुनासिकान्तस्य''' (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | अस्य सूत्रस्य अन्तर्गते वार्तिकम् अस्ति '''पदान्तवच्चेति वक्तव्यम्''' | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यम् | तस्मात् '''वा पदान्तस्य''' (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः | |
||
<font size="4"></font> |
<font size="4"></font> |
||
Line 901: | Line 917: | ||
'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''विड्वनोरनुनासिकस्यात्''' (६.४.४१) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु '''क्ङिति''' इत्यस्य विशेषणम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति''' | |
'''जनसनखनां सञ्झलोः''' (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | '''अलोऽन्त्यस्य''' (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | '''विड्वनोरनुनासिकस्यात्''' (६.४.४१) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः, '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति''' (६.४.३७) इत्यस्मात् '''झलि''', '''क्ङिति''' इत्यनयोः अनुवृत्तिः | '''झलि''' इति अनुवृत्तिः '''सन्''' इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु '''क्ङिति''' इत्यस्य विशेषणम् | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति''' | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
Line 923: | Line 940: | ||
'''हन्तेर्जः''' (६.४.३६) = हि-प्रत्यये परे हन्-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम् | ज-आदेशः अनेकाल् अतः '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | '''शा हौ''' (६.४.३५) इत्यस्मात् '''हौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— '''हन्तेः अङ्गस्य जः हौ''' | |
'''हन्तेर्जः''' (६.४.३६) = हि-प्रत्यये परे हन्-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम् | ज-आदेशः अनेकाल् अतः '''अनेकाल्शित् सर्वस्य''' (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | '''शा हौ''' (६.४.३५) इत्यस्मात् '''हौ''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— '''हन्तेः अङ्गस्य जः हौ''' | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
Line 943: | Line 961: | ||
'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' | |
'''असिद्धवदत्राभात्''' (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | '''भस्य''' (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम् | '''असिद्धवदत्राभात्''' (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, '''भस्य''' इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— '''असिद्धवत् अत्र आ भात्''' | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
||
'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम् हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते, तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति | |
'''हन्तेर्जः''' (६.४.३६), '''अतो हेः''' (६.४.१०५) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम् हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते, तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति | |
||
<font size="4"></font><font size="4"></font> |
<font size="4"></font><font size="4"></font> |
Revision as of 14:37, 21 May 2021
08 - यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि
ध्वनिमुद्रणानि -
१) AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi-2018-08-12 २) AkArAnta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---dhA_+_jyA_2018-08-19 ११) halanta-yanglugantadhAtUnAM-sArvadhAtuka-lakAreShu-tingantarUpANi---अनिदित्-धातवः_2018-10-28 १३) sArvadhAtuka-lakAreShu--अनुनासिकान्त-धातवः---जङ्गम्, जङ्घन्, जञ्जन्_2018-11-11 १४) जञ्जन्, चङ्खन्, संसन्, मम्मन्, रंरम्, नन्नम्, यंयम्, तन्तन्, चेक्षिण्_2018-11-18
पूर्वतनपाठे दृष्टं यत् यङ्लुगन्तधातुभ्यः विधीयमान-सिद्धतिङ्प्रत्ययाः एते—
लट्-लकारः
आकारान्तधातवः
१. सामान्याकारान्ताः वा → वावा धै → ध्या → दाध्या ग्लै → ग्ला → जाग्ला
अजादिषु पित्सु = केवलं सन्धिकार्यम् | वावा + आनि → वावानि हलादिषु अपित्सु = धात्वन्तस्य आकार-स्थाने ई-कारादेशः (ई हल्यघोः इति सूत्रेण) | वावा + तः → वावीतः अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | वावा + अति → वावति
श्नाभ्यस्तयोरातः (६.४.११२) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य आकारस्य लोपो भवति, किति ङिति सार्वधातुकप्रत्यये परे | श्नाश्च अभ्यस्तश्च तयोरितरेतरद्वन्द्वः श्नाभ्यस्तौ, तयोः श्नाभ्यस्तयोः | श्नाभ्यस्तयोः षष्ठ्यन्तम्, आतः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | श्नसोरल्लोपः (६.४.१११) इत्यस्मात् लोपः, इत्यस्य अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः | अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— श्नाभ्यस्तयोः अङ्गस्य आतः लोपः क्ङिति सार्वधातुके |
अनेन सूत्रेण न केवलम् अजाद्यपिति अपि तु हलाद्यपिति अपि कार्यं विहितं, किन्तु हलादिषु अपित्सु ई हल्यघोः इति सूत्रम् एतत् कार्यं प्रबाध्य आकारस्य स्थाने ई-कारादेशं विदधाति |
ई हल्यघोः (६.४.११३) = श्ना-प्रत्ययान्तस्य अभ्यस्तसंज्ञकस्य च अङ्गस्य स्थाने ई-कारादेशो भवति, किति ङिति हलादिसार्वधातुकप्रत्यये परे—परन्तु घुसंज्ञक-धातुः चेत्, न भवति (घुसंज्ञक-धातुः नाम दा धा च धातू) | न घुः अघुः, तस्य अघोः | ई लुप्तप्रथमाकं पदं, हलि सप्तम्यन्तम्, अघोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | श्नाभ्यस्तयोरातः (६.४.११२) इत्यस्मात् श्नाभ्यस्तयोः, आतः चेत्यनयोः अनुवृत्तिः | गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) इत्यस्मात् क्ङिति इत्यस्य अनुवृत्तिः; अत उत्सार्वधातुके (६.४.११०) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गस्य श्नाभ्यस्तयोः आतः ई क्ङिति हलि सार्वधातुके अघोः |
उस्-प्रत्यये परे उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः | अवावा + उः → अवावुः |
उस्यपदान्तात् (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अवा + उः → अव् + उः → अवुः | न पदान्तम् अपदान्तं, तस्मात् अपदान्तात् | उसि सप्तम्यन्तम्, अपदान्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | आद्गुणः (६.१.८७) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः | इको यणचि (६.१.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; अनुवर्तते अत्र यतोहि परेषु सूत्रेष्वपि तस्य आवश्यकता | एङि पररूपम् (६.१.९४) इत्यस्मात् पररूपम् इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
२. विशेषाकारान्तधातवः
घुसंज्ञकधातवः— दा → दादा हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | दादा + ति → दादाति अजादिषु पित्सु = केवलं सन्धिकार्यम् | दादा + आनि → दादानि हलादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | दादा + तः → दात्तः अजादिषु अपित्सु = धात्वन्तस्य आकार-लोपः (श्नाभ्यस्तयोरातः इति सूत्रेण) | दादा + अति → दादति
उस्-प्रत्यये परे उस्यपदान्तात् (६.१.९६) इत्यनेन पररूपादेशः | अदादा + उः → अदादुः |
उस्यपदान्तात् (६.१.९६) = अपदान्तात् अकारात् उसि प्रत्यये परे पूर्वपरयोः पररूपम् एकादेशः भवति; आद्गुणस्य अपवादः | अनुवृत्ति-सहितसूत्रम्— अपदान्तात् आत् अचि उसि एकः पूर्वपरयोः पररूपम् संहितायाम् |
लोट्-लकारस्य मध्यमपुरुषे दादा + हि → दे + हि → देहि | सूत्रमिदम्—
घ्वसोरेद्धावभ्यासलोपश्च (६.४.११९) = हि-परे, घुसंज्ञक-धातोः अस्-धातोः च स्थाने एकारादेशो भवति; अभ्यासः अस्ति चेत् तस्य लोपो भवति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन धातुरूप्यङ्गस्य अन्तिमवर्णस्य स्थाने एकारादेशः, न तु पूर्णतया अङ्गस्य | घुश्च अस् च तयोरितरेतरद्वन्द्वो घ्वसौ, तयोः घ्वसोः | अभ्यासस्य लोपः, अभ्यासलोपः षष्ठीतत्पुरुषः | घ्वसोः षष्ठ्यन्तं, एत् प्रथमान्तं, हौ सप्तम्यन्तम्, अभ्यासलोपः प्रथमान्तं, च अव्ययपदम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— घ्वसोः अङ्गस्य एत् अभ्यासलोपः च हौ | चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
धा → दाधा
दाधा-धातोः कृते तिङ्प्रत्यय-निमित्तकम् अङ्गकार्यंम् उपर्युक्तमेव यथा दादा इत्यस्य; लोट्-लकारस्य मध्यमपुरुषे दाधा + हि → धे + हि → धेहि; सूत्रं पूर्वोक्तम् | अन्यच्च इतोऽपि एकं कार्यम् अस्ति— दधस्तथोश्च (८.२.३८) = द्वित्वकृतस्य झषन्तस्य धाञ्-धातोः बशो भष् स्यात् तथोः स्ध्वोः च परयोः | 'दधा' इत्यस्य यत्र आकारलोपः, तत्र 'दध्' इति झषन्तरूपं सिध्यति | तादृशस्य 'दध्' इत्यस्य दकारस्य स्थाने धकारादेशो भवति तकारे, थकारे, सकारे ध्व-शब्दे च परे | इदं कार्यं वर्णनिमित्तकं न तु अङ्गनिमित्तकं; हल्-सन्धिकार्यम् एव, अष्टमाध्याये च | झष्-प्रत्याहारे वर्गस्य चतुर्थवर्णाः अन्तर्भूताः— झ्, भ्, घ्, ढ्, ध् | बश्-प्रत्याहारे ब्, ग्, ड्, द् इत्येते वर्णाः | भष्-प्रत्याहारे भ्, घ्, ढ्, ध् इत्येते वर्णाः | तश्च थ् च तथौ, तकारादकारः उच्चारणार्थः, तयोः तथोः | दधः षष्ठ्यन्तं, तथोः सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | एकाचो बशो भष् झषन्तस्य स्ध्वोः (८.२.३७) इत्यस्मात् बशो, भष्, झषन्तस्य, स्ध्वोः इत्येषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— झषन्तस्य दधः बशः भष् स्ध्वोः तथोः च |
यथा— दाधा + तः → श्नाभ्यस्तयोरातः (६.४.११२) इत्यनेन आकारस्य लोपः → दाध् + तः → दधस्तथोश्च (८.२.३८) इत्यनेन द्-स्थाने ध् → धाध् + तः → खरि च इत्यनेन चर्त्वसन्धिः → धात्तः
ज्या → जाज्या
हलादिषु पित्सु = किमपि कार्यं नास्ति, केवलं योजनम् | अङ्गस्य आकारान्तत्वे सति गुणकार्यं न सम्भवति | जाज्या + ति → जाज्याति अजादिषु पित्सु = केवलं सन्धिकार्यम् | जाज्या + आनि → जाज्यानि हलादिषु अपित्सु = ग्रहि ज्या वयि इत्यनेन सम्प्रसारणं, तदा हलः इत्यनेन दीर्घः | जाज्या + तः → जाजीतः अजादिषु अपित्सु = सम्प्रसारणं, दीर्घत्वं, तदा धात्वन्तस्य ईकारस्य यण्-आदेशः (एरनेकाचोऽसंयोगपूर्वस्य इति सूत्रेण) | जाज्या + अति → जाजी + अति → जाज्यति
सम्प्रसारणम्—
इग्यणः सम्प्रसारणम् (१.१.४५) = यणः स्थाने यः इक्-प्रत्याहारे स्थितवर्णः आदिष्टः, तस्य सम्प्रसारण-संज्ञा भवति | इक् प्रथमान्तं, यणः षष्ठ्यन्तं, सम्प्रसारणम् प्रथमान्तं, त्रिपदमिदं सूत्रम् | सूत्रं सम्पूर्णम्— यणः इक् सम्प्रसारणम् |
सम्प्रसारणाच्च (६.१.१०८) = सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति | सम्प्रसारणात् पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको यणचि (६.१.७७) इत्यस्मात् अचि, अमि पूर्वः (६.१.१०७) इत्यस्मात् पूर्वः इत्यनयोः अनुवृत्तिः भवतः | एकः पूर्वपरयोः (६.१.८४), संहितायाम् (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्— सम्प्रसारणात् च अचि पूर्वपरयोः एकः पूर्वः संहितायाम् |
यथा— जाज्या + तः → जाज् + य् + आ + तः → ग्रहि ज्या (३.१.१३) इत्यनेन यकारस्य स्थाने इ-आदेशः → जाजि + आ + तः → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् अचि परे पूर्वपरयोः एकः पूर्वरूपादेशः → जाजि + तः → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशः → जाजी + तः → जाजीतः
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
एरनेकाचोऽसंयोगपूर्वस्य (६.४.८२) = असंयोगपूर्व-अनेकाच्-इकारान्ताङस्य यण्-आदेशो भवति अचि परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृश-धातुः यस्य अन्ते इकारः (न तु केवलम् इकाररूप्यङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अल्-वर्णस्य यणादेशः (न तु पूर्णाङ्गस्य) | न एकम्, अनेकम्, अनेके एकाचः यस्मिन् सः अनेकाच् नञ्तत्पुरुषगर्भो बहुव्रीहिः, तस्य अनेकाचः | नास्ति संयोगः पूर्वे यस्य स असंयोगपूर्वः बहुव्रीहिः, तस्य असंयोगपूर्वस्य | एः षष्ठ्यन्तम्, अनेकाचः षष्ठ्यन्तम्, असंयोगपूर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | इणो यण् (६.४.८१) इत्यस्मात् यण् इत्यस्य अनुवृत्तिः | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि, धातोः (विपरिणामेन षष्ठ्यन्तम्) इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनेकाचः असंयोगपूर्वस्य एः धातोः अङ्गस्य यण् अचि |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
असंयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः
भी → बेभी जि → जेजि चि → चेचि
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | नेनी + ति → नेनेति अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४); अय्-आदेशः, एचोऽयवायावः (६.१.७७) | नेनि + आनि → नेनयानि हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | नेनी + तः → नेनीतः अजादिषु अपित्सु = गुणनिषेधः, तदा यण्-आदेशः एरनेकाचोऽसंयोगपूर्वस्य इत्यनेन | नेनी + अति → नेन्यति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
किमर्थम् 'अजादौ जुसि परे' इति चेत् 'शृणुयुः' | अत्र जुस् भवति किन्तु स च जुस् अजादिः नास्ति, अतः इगन्ताङ्गस्य गुणो न भवति | यासुट्-आगमे सति गुणः न भवति |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
संयोगपूर्वाः इकारान्ताः ईकारान्ताः च धातवः
नेनी इति धातोः यथा, तथा अत्र कार्यं समानम् एकं कार्यं वर्जयित्वा | तदेकं भिन्नं कर्यम् इदम्—
अजादिषु अपित्सु = गुणनिषेधः, तदा इयङ्-आदेशः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन | चेक्री + अति → चेक्रिय् + अति → चेक्रियति
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु इत्यस्य), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम् इकारस्य उकारस्य स्थाने क्रमेण इयङ् उवङ् च आदेशो भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्, तस्मात् इत्यर्थः | य्वोः इति विशेषणं 'धातु' शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गं, भ्रू-प्रातिपदिकं च उकारान्तः एव अतः तत्र इयङ् इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात् इति अर्थः | श्नुश्च धातुश्च भ्रुश्च तेषाम् इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम् | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ् च उवङ् च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्, इयङुवङौ प्रथमान्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— य्वोः श्नुधातुभ्रुवाम् अङ्गानाम् इयङुवङौ अचि |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
उकारान्ताः ऊकारान्ताः च धातवः भू → बोभू पू → पोपू लू → लोलू
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | बोभू + ति → बोभोति अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४); अव्-आदेशः, एचोऽयवायावः (६.१.७७) | बोभू + ईति → बोभो + ईति → बोभव् + ईति → बोभवीति हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | बोभू + तः → बोभूतः अजादिषु अपित्सु = गुणनिषेधः, तदा उवङ्-आदेशः अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन | बोभू + अति → बोभुव् + अति → बोभुवति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ऋकारान्ताः धातवः
चर्कृ, चरिकृ, चरीकृ जर्हृ, जरिहृ, जरीहृ बर्भृ, बरिभृ, बरीभृ
हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | चर्कृ + ति → चर्कर्ति अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | चर्कृ + ईति → चर्करीति हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | चर्कृ + तः → चर्कृतः अजादिषु अपित्सु = गुणनिषेधः, तदा यण्-आदेशः इको यणचि (६.१.७७) इत्यनेन | चर्कृ + अति → चर्क्रति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अचर्कृ + उः → अचर्कर् + उः → अचर्करुः
इको यणचि (६.१.७७) = इकः स्थाने यण्-आदेशः स्यात् अचि परे संहितायां विषये | इकः यण् स्यात् असवर्णे अचि परे इति सूत्रस्य फलितः अर्थः इति ज्ञेयम् (सवर्णे अचि परे अकः सवर्णे दीर्घः (६.१.१०१) इत्येनेन यण् बाधितम्) | इकः षष्ठ्यन्तं, यण् प्रथमान्तं, अचि सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | संहितायाम् (६.१.७१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— इकः यण् अचि संहितायाम् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
अनोष्ठ्यपूर्वॠकारान्ताः धातवः
जॄ → जाजॄ शॄ → शाशॄ
१) हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | तातॄ + ति → तातर्ति २) अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | तातॄ + ईति → तातरीति ३) हलाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | ॠत इद्धातोः (७.१.१००) इत्यनेन इकारादेशः, उरण् रपरः (१.१.५१) इत्यनेन रपरत्वं, हलि च (८.२.७७) इत्यनेन उपधायाः उकारस्य दीर्घत्वम् | तातॄ + तः → तातिर् + तः → तातीर् + तः → तातीर्तः ४) अजाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | ॠत इद्धातोः (७.१.१००) इत्यनेन इकारादेशः, उरण् रपरः (१.१.५१) इत्यनेन रपरत्वम् | तातॄ + अति → तातिर् + अति → तातिरति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः— उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अतातॄ + उः → अतातर् + उः → अतातरुः
ॠत इद्धातोः (७.१.१००) = ॠदन्तस्य धातोः अङ्गस्य ह्रस्व-इकारादेशो भवति | किति ङिति प्रत्यये परे एव इति बोध्यं; नो चेत् गुणः | कित्-ङित् भिन्नप्रत्ययः परश्चेत्, गुणे सति इकारादेशस्य प्रसक्तिर्न भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन ॠतः इत्यनेन ॠदन्तस्य इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य ॠकारस्य स्थाने ह्रस्व-इकारादेशः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः; प्रत्ययः न भवति चेत् इदं कार्यं न स्यादेव, नो चेत् अनेन धातोः अपि मूलरूपं परिवर्तेत | ॠतः षष्ठ्यन्तम्, इत् प्रथमान्तम्, धातोः षष्ठ्यन्तम्, त्रिपदमिदं सूत्रम् | अनुवृत्ति-सहितसूत्रम्— ॠतः धातोः अङ्गस्य इत् |
उरण् रपरः (१.१.५१) = ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः भवति | ऋकारेण त्रिंशत्-प्रकारकः ऋकारः भवति इति बोध्यम् | रः परो यस्य सः रपरः | उः षष्ठ्यन्तम्, अण् प्रथमान्तम्, रपरः प्रथमान्तम्, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— उः स्थाने अण् रपरः |
हलि च (८.२.७७) = हलि परे रेफान्तानां वकारान्तानां च धातूनाम् उपधायां स्थितः इक्-वर्णः दीर्घो भवति | हलि सप्तम्यन्तम्, च अव्ययपदम्, द्विपदमिदं सूत्रम् | सिप धातो रुर्वा (८.२.७४) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः; र्वोरुपधाया दीर्घ इकः (८.२.७६) इत्यस्य पूर्णतया अनुवृत्तिः | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः र्वोः इत्यनेन येषाम् धातूनाम् अन्ते रेफः वकारश्च, तेषामपि ग्रहणम् | अनुवृत्ति-सहितसूत्रं— हलि च र्वोः धातोः उपधायाः इकः दीर्घः |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ओष्ठ्यपूर्वॠकारान्ताः धातवः
पॄ → पापॄ वॄ → वावॄ भॄ → बाभॄ मॄ → मामॄ
१) हलादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन | पापॄ + ति → पापर्ति
२) अजादिषु पित्सु = गुणः, सार्वधातुकार्धधातुकयोः (७.३.८४) | पापॄ + ईति → पापरीति
३) हलाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वं, हलि च इत्यनेन उपधायाः उकारस्य दीर्घत्वम् | पापॄ + तः → पापुर् + तः → पापूर् + तः → पापूर्तः
४) अजाद्यपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | उदोष्ठ्यपूर्वस्य इत्यनेन उकारादेशः, उरण् रपरः इत्यनेन रपरत्वम् | पापॄ + अति → पापुर् + अति → पापुरति
अजाद्यपित्-प्रत्ययक्षेत्रे विशेषः—
उस्-प्रत्यये परे जुसि च (७.३.८३) इत्यनेन अजादौ जुसि परे इगन्ताङ्गस्य गुणः भवति |
अपापॄ + उः → अपापर् + उः → अपापरुः
उदोष्ठ्यपूर्वस्य (७.१.१०२) = ओष्ठ्यपूर्वस्य ॠकारान्ताङ्गस्य ॠकारस्य ह्रस्वः उकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन तदन्तविधिः अतः तादृशम् अङ्गं यस्य अन्ते ॠकारः अस्ति, न तु ॠकारः इति अङ्गम्; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गान्तस्य वर्णस्य स्थाने उदादेशः, न तु अङ्गस्य पूर्णस्य | ओष्ठ्याः नाम पवर्गीय-वर्णाः | ओष्ठयोः भवः ओष्ठ्यः | ओष्ठ्यः पूर्वो यस्मात्, सः ओष्ठ्यपूर्वः बहुव्रीहिः, तस्य ओष्ठ्यपूर्वस्य (ॠवर्णस्य) | उत् प्रथमान्तम्, ओष्ठ्यपूर्वस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | ॠत इद् धातोः (७.१.१००) इत्यस्मात् ॠतः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— ओष्ठ्यपूर्वस्य ऋतः अङ्गस्य उत् |
चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
अनेन अजन्त-यङ्लुगन्तधातूनां सार्वधातुकलकारेषु चिन्तनं समाप्तम् |
हलन्त-यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि
यथासामान्यम् अत्र द्विस्तरीयकार्यम्—
१) अङ्गकार्यम्
२) सन्धिकार्यम्
हलन्तधातवः पञ्च श्रेणीषु विभज्यन्ते—
१) सामान्यधातवः, उपधायां च लघु इक्-वर्णो नास्ति
२) लघूपधधातवः
३) अनिदित्-धातवः
४) सम्प्रसारणिनः धातवः
५) अनुनासिकान्त-धातवः
सम्प्रति मिलित्वा प्रथमद्वयोः प्रकारयोः रूपाणि कल्पनीयानि | तदा पृथक्तया क्रमेण अनिदित्-धाततूनां, सम्प्रसारणि-
धाततूनाम्, अनुनासिकान्त-धाततूनां च रूपाणि कल्पनीयानि |
१) सामान्यधातवः, उपधायां च लघु इक्-वर्णो नास्ति इति चेत् अङ्गकार्यं नास्ति | अतः साक्षात् सन्धिकार्यं कृत्वा प्रकृति-प्रत्यययोः मेलनं करणीयम् |
२) लघूपधधातुः इति चेत् अङ्गकार्यं साधनीयं, तदा सन्धिकार्यं, प्रकृति-प्रत्यययोः मेलनं च | अत्र अङ्गकार्यं किमिति प्रदर्श्यते—
हलादिषु पित्सु = गुणः, पुगन्तलघूपधस्य च (७.३.८६) इत्यनेन; तदा सन्धिकार्यम् | लिख् → लेलिख् + ति → लेलेख् + ति → लेलेक्ति | मुद् → मोमुद् + ति → मोमोद् + ति → मोमोत्ति | वृष् → वरीवृष् + ति → वरीवर्ष् + ति → वरीवर्ष्टि |
अजादिषु पित्सु = गुणनिषेधः, नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) इत्यनेन | लेलिख् + ईति → लेलिखीति | मोमुद् + ईति → मोमुदीति | वरीवृष् + ईति → वरीवृषीति |
हलादिषु अपित्सु = गुणनिषेधः सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५); तदा सन्धिकार्यम् | लेलिख् + तः → लेलिक्तः | मोमुद् + तः → मोमुत्तः | वरीवृष् + तः → वरीवृष्टः |
अजादिषु अपित्सु = गुणनिषेधः, सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) | लेलिख् + अति → लेलिखति | मोमुद् + अति → मोमुदति | वरीवृष् + अति → वरीवृषति |
अस्य अपवादः मृज्-धातुः, यस्य इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | मृज् → मरीमृज् + ति → मरीमार्ष्टि |
पुगन्तलघूपधस्य च (७.३.८६) = पुगन्तस्य अङ्गस्य लघूपधस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | पुक् अन्ते यस्य तत् पुगन्तम्, लघ्वी उपधा यस्य तत् लघूपधम् | पुगन्तञ्च लघूपधञ्च तयोः पुगन्तलघूपधं समाहारद्वन्द्वः, तस्य पुगन्तलघूपधस्य | पुगन्तलघूपधस्य षष्ठ्यन्तं पदम्, च अव्ययपदं, द्विपदमिदं सूत्रम् | मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः; सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य पूर्णानुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इकः स्थानी भवति यत्र स्थानी नोक्तम् | अनुवृत्ति-सहितसूत्रम्— पुगन्तलघूपधस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धधातुकयोः |
नाभ्यस्तस्याचि पिति सार्वधातुके (७.३.८७) = अभ्यस्तस्य लघूपधगुणः न भवति अजादि-पित्-सार्वधातुकप्रत्यये परे | न अव्ययपदम्, अभ्यस्तस्य षष्ठ्यन्तम्, अचि सप्तम्यन्तं, पिति सप्तम्यन्तं, सार्वधातुके सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | पुगन्तलघूपधस्य च (७.३.८६) इत्यस्मात् लघूपधस्य इत्यस्य अनुवृत्तिः, मिदेर्गुणः (७.३.८२) इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अभ्यस्तस्य अङ्गस्य लघूपधस्य गुणः न अचि पिति सार्वधातुके |
मृजेर्वृद्धिः (७.२.११४) = मृज्-धातोः इकः वृद्धिः भवति सार्वधातुके च आर्धधातुके च प्रत्यये परे | अङ्गकार्यत्वात् प्रत्ययः परे अस्त्येव; स च प्रत्ययः धातोः भवति इति कृत्वा सार्वधातुकम् अथवा आर्धधातुकम् भवेदेव | मृजेः षष्ठ्यन्तं, वृद्धिः प्रथमान्तं, द्विपदमिदं सूत्रम् | इकोगुण्वृद्धी (१.१.३) इत्यस्मात् परिभाषासूत्रात् इकः इत्यस्य षष्ठ्यन्ता अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मृजेः अङ्गस्य इकः वृद्धिः |
एतदाधारेण यथानिर्दिष्टम् अङ्गकार्यं सन्धिकार्यं च कृत्वा एषां धातूनां चतुर्षु सार्वधातुकलकारेषु तिङन्तरूपाणि कल्पनीयानि |
ककारान्तधातवः— तिक् → तेतिक्
खकारान्तधातवः— लिख् → लेलिख्
गकारान्तधातवः— तिग् → तेतिग्
घकारान्तधातवः— ष्टिघ → धात्वादेः षः सः (६.१.६३), उपदेशेऽजनुनासिक इत् (१.३.२) → स्तिघ् → तेष्टिघ्
चकारान्तधातवः— षिच → सिच् → सेषिच्, व्रश्च् → वाव्रश्च्
छ्कारान्तधातवः— प्रच्छ् → पाप्रच्छ्
जकारान्तधातवः— त्यज् → तात्यज्, भ्रस्ज् → बाभ्रस्ज्, मृज् → मरीमृज्
टकारान्तधातवः— लुट् → लोलुट्
ठकारान्तधातवः— लुठ् → लोलुठ्
डकारान्तधातवः— तुड् → तोतुड्
तकारान्तधातवः— च्युत् → चोच्युत्
थकारान्तधातवः— कुथ् → चोकुथ्
दकारान्तधातवः— भिद् → बेभिद्
धकारान्तधातवः— रुध् → रोरुध्
पकारान्तधातवः— गुप् → जोगुप्
फकारान्तधातवः— रिफ् → रेरिफ्
बकारान्तधातवः— लम्ब् → लालम्ब्
भकारान्तधातवः— शुभ् → शोशुभ्
यकारान्तधातवः— हय् → जाहय्
वकारान्तधातवः— तुर्व् → तोतुर्व्, मव् → मामव्
रेफान्तधातवः— ज्वर् → जाज्वर्
शकारान्तधातवः— क्रुश् → चोक्रुश्
षकारान्तधातवः— कृष् → चरीकृष्
सकारान्तधातवः— वस् → वावस्
हकारान्तधातवः— गाह् → जागाह्, गुह् → जोगुह्
ऊदुपधाया गोहः (६.४.८९) = गोहोऽङ्गस्य उपधायाः ऊकारादेशो भवति अजादौ प्रत्यये परे | गुह उपधाया ऊत् स्याद् गुणहेतावजादौ प्रत्यये | अजादौ प्रत्यये परे यत्र गुह्-धातोः उपधागुणो भवति, तत्र तस्य गोह्-धातुरूप्यङ्गस्य ओकारस्य ऊकारादेशो भवति | ऊत् प्रथमान्तम्, उपधायाः षष्ठ्यन्तं, गोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गोहः अङ्गस्य उपधायाः ऊत् अचि |
३) अनिदित्-धातवः
मन्थ् → मामन्थ्
वञ्च् → वनीवञ्च्
ध्वंस् → दनीध्वंस्
हम्म् → जंहम्म्
अनिदितां हल उपधाया क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषाम् ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |
नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | धातोः अभ्यासस्य अन्ते अत् चेत्, धातोः अन्ते अनुनासिकहल्-वर्णः (ञ्, म्, ङ्, ण्, न्) चेत् इदं कार्यं प्रवर्तते | नुक्-आगमः कित् | ककारः इत्-संज्ञकः, उकारः उच्चारणार्थः | अनुनासिकः अन्ते यस्य तत् अनुनासिकान्तं, तस्य | नुक् प्रथमान्तं, अतः षष्ठ्यन्तम्, अनुनासिकान्तस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अत्र लोपोऽभ्यासस्य (७.४.५८) इत्यस्मात् अभ्यासस्य इत्यस्य अनुवृत्तिः | गुणो यङ्लुकोः (७.४.८२) इत्यस्मात् यङ्लुकोः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— अनुनासिकान्तस्य अङ्गस्य अतः अभ्यासस्य नुक् यङ्लुकोः |
४) सम्प्रसारणिनः धातवः
श्तिपा शपानुबन्धेन निर्दिष्टं यद् गणेन च |
यत्रैकाज्ग्रहणं किञ्चित् पञ्चैतानि न यङलुकि |
अनेन श्तिपा निर्दिष्टानां पञ्चानां यङ्लुकि न सम्प्रसारणम् |
ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) = ग्रह्, ज्या, वय्, व्यध्, वश्, व्यच्, व्रश्च्, प्रच्छ्, भ्रस्ज्, एषां सम्प्रसारणं भवति किति ङिति प्रत्यये परे | इतरेतरद्वन्द्वः, षष्ठीविभक्तौ | ग्रहि-ज्या-वयि-व्यधि-वष्टि-विचति-वृश्चति-पृच्छति-भृज्जतीनां षष्ठ्यन्तम्, ङिति सप्तम्यन्तम्, च अव्ययम्, त्रिपदमिदं सूत्रम् | वचिस्वपियजादीनां किति (६.१.१५) इत्यस्मात् किति इत्यस्य अनुवृत्तिः; ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रम्— ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति किति च सम्प्रसारणम् |
ग्रह् → जाग्रह्
ज्या → जाज्या
व्यध् → वाव्यध्
वश् → वावश्
व्यच् → वाव्यच्
व्रश्च् → वाव्रश्च्
प्रच्छ् → पाप्रच्छ्
भ्रस्ज पाके → भ्रस्ज् → बाभ्रस्ज्
एषु प्रथमत्रयाणां सम्प्रसारणं भवति यङ्लुकि; अन्तिमपञ्चानां तु यङ्लुकि सम्प्रसारणं नास्ति |
धेयं यत् अस्मिन् सूत्रे 'वयि' तु धातुः नास्ति अपि तु धात्वादेशः | मूलधातुः अस्ति वेञ् | वेञ्-धातोः स्थाने लिट्-लकारे एव 'वय्' इति धात्वादेशो भवति | तस्य च धात्वादेशस्य लिट्-लकारे किति प्रत्यये परे सम्प्रसारणं भवति; ग्रहि ज्या वयि इति सूत्रे 'वयि' इत्यस्य कार्यं केवलं लिट्-लकारे | लिट्-लकारं विहाय अस्य कार्यं अन्यत्र कुत्रापि न भवति | वेञ्-धातोः सम्प्रसारणं प्राप्यते वच्यादौ (वचिस्वपियजादीनां किति ६.१.१५), किन्तु तत्र किति प्रत्यये एव सम्प्रसाणम् इति हेतोः यङ्लुकि सार्वधातुकलकारेषु कित्वाभावात् सम्प्रसारणं न कुत्रापि भवति | वेञ् → वे → आदेच उपदेशेऽशिति (६.१.४५) → वा वा → वावा |
५) अनुनासिकान्त-धातवः
१) अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | पञ्चदश धातवः |
यङ्लुकि मन्, हन्, गम्, रम्, नम्, यम् इति षण्णामेव धातूनाम् अनुनासिकलोपो भवति | अस्मिन् सूत्रे तनोत्यादीनां गणनिर्देशेन भवति इति कारणेन एषां यङ्लुकि अनुनासिकलोपो न भवति | यङ्लुगन्तानां धातुगणाभावात् | ‘वनति' इति तु श्तिप् इत्यनेन निर्दिष्टम् |
२) जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | त्रयः धातवः |
३) अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | अवशिष्ट-धातवः | उपर्युक्तद्वाभ्यां सूत्राभ्यां ये नव धातवः कथिताः, तान् धातून् अतिरिच्य अवशिष्टानाम् अनुनासिकान्तानाम् अनेन सूत्रेण उपधादीर्घो भवति |
४) गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति | पञ्च धातवः |
मकारान्तानां पदत्वे सति, म्-स्थाने नकारः—
मो नो धातोः (८.२.६४) = मकारान्तस्य धातोः पदस्य नकारादेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | मः षष्ठ्यन्तं, नः प्रथमान्तं, धातोः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्कोः संयोगाद्योरन्ते च (८.२.२९) इत्यस्मात् अन्ते इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— मः धातोः पदस्य अन्ते नः |
मकारान्तानाम् अपदत्वे सति, म्-स्थाने नकारः—
म्वोश्च (८.२.६५) = मकारान्तधातोः धात्वन्त-मकारस्य स्थाने नकारादेशो भवति मकारे वकारे च परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यस्य साहाय्येन मः धातोः इत्यनेन मकारान्तस्य धातोः इत्यस्यापि ग्रहणम् | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन नकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य मकारस्य | म् च व् च म्वौ, तयोः म्वोः | म्वोः सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | मो नो धातोः (८.२.६४) इत्यस्य पूर्णतया अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— मः धातोः नः म्वोश्च |
एषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तरूपाणि वक्तव्यानि—
गम् → जंगम् / जङ्गम्*
हन् हिंसागत्योः → जङ्घन्
जन् → जञ्जन्
खनु अवदारणे → खन् → चङ्खन्
सन् → संसन्
मन् → मम्मन्
रम् → रंरम्
नम् → नन्नम्
यम् → यंयम् / यँय्यम्*
तन् → तन्तन्
क्षिनु हिंसायाम् → क्षिन् → चेक्षिन्**
*नुगतोऽनुनासिकान्तस्य (७.४.८५) = अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमो भवति यङि यङ्लुकि च | अस्य सूत्रस्य अन्तर्गते वार्तिकम् अस्ति पदान्तवच्चेति वक्तव्यम् | अनेन अनुनासिकान्ताङ्गस्य अदन्त-अभ्यासस्य नुक्-आगमे सति स च अभ्यासः पदान्तवत् इति मन्तव्यम् | तस्मात् वा पदान्तस्य (८.४.५९) इत्यनेन परसवर्णविकल्पः | अनुनासिकान्तधातुप्रसङ्गे सर्वत्र तथा कल्पनीयं यथासङ्गं— नाम यत्र अभ्यासः अदन्तः |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे |
वा पदान्तस्य (८.४.५९) = पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे |
**अत्र निमित्तत्वात् णत्वम्; अग्रे प्रक्रियावशात् यथासङ्गं णत्वं कर्तव्यम् | अतः क्षन्, क्षिन्, रन्, ऋन् इति मूलधातवः न तु क्षण्, क्षिण्, रण्, ऋण् | किन्तु कण्-धातुः स्वभावेन णकारान्तः | चेक्षिन् + ति → नश्चापदान्तस्य झलि (८.३.२४) | चेक्षिन् + ईति → अट्कुप्वाङ्नुम्व्यवायेऽपि (८.४.२) |
अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) = वन्-धातोः, अनुनासिकान्त-अनुदात्तोपदेश-धातोः, अनुनासिकान्त-तनादि-धातोः अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे | अनुदात्तः उपदेशे येषां ते, अनुदात्तोपदेशाः बहुव्रीहिः | तनोतिः आदिः येषां ते, तनोत्यादयः बहुव्रीहिः | अनुदात्तोपदेशाश्च वनतिश्च तनोत्यादयश्च तेषामितरेतरद्वन्द्वः अनुदात्तोपदेशवनतितनोत्यादयः, तेषाम् अनुदात्तोपदेशवनतितनोत्यादीनाम् | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुदात्तोपदेशवनतितनोत्यादीनां षष्ठ्यन्तम्, अनुनासिक इति लुप्तष्ठीकं पदं, लोपः प्रथमान्तं, झलि सप्तम्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति (वनतिं विहाय 'अनुनासिक' इति पदं सर्वेषां विशेषणम्); अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्ते स्थितस्य अनुनासिकवर्णस्य लोपः; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन झलि क्ङिति इत्युक्तौ झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिक-अनुदात्तोपदेशवनतितनोत्यादीनाम् अङ्गस्य लोपः झलि क्ङिति |
अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनां अन्ते स्थितस्य अनुनासिकस्य लोपो भवति झलादि-कित्ङित्-प्रत्यये परे |
जनसनखनां सञ्झलोः (६.४.४२) = जन्, सन्, खन् एषां धातूनां नकारस्य स्थाने आकारादेशो भवति झलादि-सन्-प्रत्यये परे झलादि-कित्ङित्-प्रत्यये परे च | अलोऽन्त्यस्य (१.१.५२) इत्यस्य साहाय्येन आकारादेशः पूर्णतया धातोः स्थाने न, अपि तु अन्तिमस्य नकारस्य | जनश्च सनश्च खन् च तेषामितरेतरद्वन्द्वः जनसनखनः, तेषां जनसनखनाम् | सन् च झल् च तयोरितरेतरद्वन्द्वः सञ्झलौ, तयोः सञ्झलोः | जनसनखनां षष्ठ्यन्तं, सञ्झलोः सप्तम्यन्तं, द्विपदमिदं सूत्रम् | विड्वनोरनुनासिकस्यात् (६.४.४१) इत्यस्मात् आत् इत्यस्य अनुवृत्तिः, अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिकलोपो झलि क्ङिति (६.४.३७) इत्यस्मात् झलि, क्ङिति इत्यनयोः अनुवृत्तिः | झलि इति अनुवृत्तिः सन् इत्यस्य विशेषणम्; अनेन यत्र सनि इडागमो भवति, तत्र सन् झलादिः नास्ति अतः नकारस्य आत्वं न भवति | सूत्रे स्थितं 'झलि' तु क्ङिति इत्यस्य विशेषणम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— जनसनखनाम् अङ्गानाम् आत् झलि सञ्झलोः क्ङिति |
अनुनासिकस्य क्विझलोः क्ङिति (६.४.१५) = अनुनासिकान्ताङ्गस्य उपधायाः दीर्घादेशो भवति क्वि च झलादि कित्ङित्-प्रत्यये परे | क्विश्च झल् तयोरितरेतरद्वन्द्वः क्विझलौ, तयोः क्विझलोः | क् च ङ् तयोरितरेतरद्वन्द्वः क्ङौ, तौ इतौ यस्य तत् क्ङित्, तस्मिन् क्ङिति | अनुनासिकस्य षष्ठ्यन्तं, क्विझलोः सप्तम्यन्तं, क्ङिति च सप्तम्यन्तं, त्रिपदमिदं सूत्रम् | नोपधायाः (६.४.७) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते अनुनासिकवर्णः अस्ति; यस्मिन् विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम् २९) इत्यनेन क्विझलोः क्ङिति इत्युक्तौ क्वि + झलादौ क्ङिति (तादृशप्रत्ययः यस्य आदौ झल् स्यात्) | अनुवृत्ति-सहितसूत्रम्— अनुनासिकस्य अङ्गस्य उपधायाः दीर्घः क्विझलोः क्ङिति |
गमहनजनखनघसां लोपः क्ङित्यनङि (६.४.९८) = अजादि-कित्ङित्-प्रत्यये परे गम्, हन्, जन्, खन्, घस् एषां धातूनाम् उपधायाः लोपो भवति (परन्तु अङ्-प्रत्ययः चेत् लोपः न भवति) | गमश्च हनश्च जनश्च खनश्च घस् च तेषामितरेतरद्वन्द्वो गमहनजनखनघसः, तेषां गमहनजनखनघसाम् | क् च ङ् च क्ङौ, क्ङौ इतौ यस्य सः क्ङित्, तस्मिन् क्ङिति | न अङ् अनङ्, तस्मिन् अनङि | गमहनजनखनघसां षष्ठ्यन्तं, लोपः प्रथमान्तं, क्ङिति सप्तम्यत्नम्, अनङि सप्तम्यतम् अनेकपदमिदं सूत्रम् | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात् अचि इत्यस्य अनुवृत्तिः; ऊदुपधाया गोहः (६.४.८९) इत्यस्मात् उपधायाः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— गमहनजनखनघसाम् अङ्गानाम् उपधायाः लोपः अनङि अचि क्ङिति |
लोटि—
केषुचित् स्थलेषु असिद्धवदत्राभात् (६.४.२२) इत्यनेन अभीयकार्यप्रसङ्गवशात् अतो हेः (६.४.१०५) इत्यस्य दृष्ट्या पूर्वकार्यम् असिद्धम् इति कारणतः हि-प्रत्ययस्य लुक् न भवति | अस्य उदाहरणम् उपदिष्ट-हन्-धातोः प्रसङ्गे लभ्यते |
हन्तेर्जः (६.४.३६) = हि-प्रत्यये परे हन्-धातोः स्थाने ज-आदेशो भवति | हन्तेः षष्ठ्यन्तं, जः प्रथमान्तं, द्विपदमिदं सूत्रम् | ज-आदेशः अनेकाल् अतः अनेकाल्शित् सर्वस्य (१.१.५५) इत्यनेन सर्वस्य स्थाने भवति न तु अन्त्यस्य | शा हौ (६.४.३५) इत्यस्मात् हौ इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकाराः | अनुवृत्ति-सहितसूत्रम्— हन्तेः अङ्गस्य जः हौ |
अनेकाल्शित् सर्वस्य (१.१.५५) = आदेशः अनेकाल् शित् च चेत्, सर्वस्य स्थाने आदेशः भवति न तु अन्त्यस्य | अलोऽन्त्यस्य (१.१.५२) इत्यस्य अपवादः | न एकः अनेकः नञ्तत्पुरुषः | अनेकः अल् यस्य सः अनेकाल्, बहुव्रीहिः | श इत् यस्य सः शित्, बहुव्रीहिः | अनेकाल् च शित् च अनेकाल्शित्, बहुव्रीहि-गर्भ-समाहारद्वन्द्वः | अल् इति प्रत्याहारे सर्वे वर्णाः अन्तर्भूताः; अनेकाल् इत्युक्तौ तादृशः आदेशः यस्मिन् एक एव वर्णः न अपि तु अनेके वर्णाः | अनेकाल् प्रथमान्तं, शित् प्रथमान्तं, सर्वस्य षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | स्थानेऽन्तरतमः (१.१.५०) इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— अनेकाल्शित् सर्वस्य स्थाने |
हन् + हि → ज + हि
अधुना अङ्गम् अदन्तं जातम् अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् विधीयते |
अतो हेः (६.४.१०५) = ह्रस्व-अकारात् अङ्गात् परस्य हि इत्यस्य लुक् (लोपः) भवति | अतः पञ्चम्यन्तं, हेः षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | चिणो लुक् (६.४.१०४) इत्यस्मात् लुक् इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः (अत्र अङ्गात् भवति विभक्तिपरिणाम इति सिद्धान्तेन) | अनुवृत्ति-सहितसूत्रम्— अतः अङ्गात् हेः लुक् |
असिद्धवदत्राभात् (६.४.२२) = कमपि आश्रयम् अधिकृत्य आभीय-कार्यं, द्वितीयं समानाश्रितम् आभीय-कार्यं प्रति असिद्धं भवति | अधिकारसूत्रम् | भस्य (६.४.१२९) इति अधिकारसूत्रेण भ-संज्ञा सम्बद्धकार्याणि भवन्ति षष्ठाध्ययस्य अन्तपर्यन्तम् | असिद्धवदत्राभात् (६.४.२२) इत्यनेन ६.४.२३ इत्यस्मात् आरभ्य, भस्य इत्यस्य अधिकारस्य अन्तपर्यन्तम् (६.४.१७५), एषां कार्याणां नाम आभीय-कार्यम् | असिद्धवत् अव्यपदयम्, अत्र अव्यपदयम्, आ अव्यपदयं, भात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | 'असिद्धवत्' इत्युक्ते 'यथा न अजनिष्यत' | सूत्रस्य विधानं जातं, कार्यञ्च सिद्धं; किन्तु अनेन सूत्रेण द्वितीयसूत्रं प्रति प्रथमस्य कार्यं 'यथा नाभविष्यत्' अतः 'असिद्धवत्' इत्युक्तम् | ‘समानाश्रितं कार्यम्' इति अर्थः उदेति 'अत्र' इति अव्ययपदेन | अस्मिन् + त्रल् → 'अत्र' | 'अस्मिन्' इत्यस्य सप्तम्यन्तत्वेन निमित्तत्वम् इति आशयः | सूत्रं स्वयं सम्पूर्णम्— असिद्धवत् अत्र आ भात् |
हन्तेर्जः (६.४.३६), अतो हेः (६.४.१०५) इत्याभ्यां यत् कार्यं सिध्यति, उभयत्र तत् कार्यं आभीयकार्यम् | द्वाभ्यां च सूत्राभ्यां यत् कार्यं विधीयते, तस्य कार्यस्य आश्रयः 'हि'-प्रत्ययः | अतः एकवारं यदा एकम् हि-प्रत्ययाश्रितम् आभीयकार्यं जातं, तदा यदा द्वितीयं हि-प्रत्ययाश्रितम् आभीयकार्यं विधीयते, तत् कार्यं प्रति प्रथमम् आभीयकार्यं असिद्धं भवति |
असिद्धवदत्राभात् (६.४.२२) इत्यनेन अतो हेः (६.४.१०५) इति सूत्रस्य दृष्ट्या हन्तेर्जः (६.४.३६) इति सूत्रेण यत् कार्यं जातं, तत् कार्यम् असिद्धम् अस्ति अतः अतो हेः (६.४.१०५) इत्यस्य दृष्ट्या हन्-धातोः स्थाने ज-आदेशः न जातः | तस्मात् अङ्गम् अदन्तं नास्ति, अतः अतो हेः (६.४.१०५) इत्यनेन हि इत्यस्य लुक् न भवति |
हन् + हि → ज + हि → जहि अनेन सर्वेषां यङ्लुगन्तधातूनां सार्वधातुकलकारेषु तिङन्तचिन्तनं परिसमाप्तम् |
Swarup - August 2018
धेयम्-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks. Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here. To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ]. |