7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH: Difference between revisions
7---ArdhadhAtukaprakaraNam/09---yanganta-dhAtavaH
Content added Content deleted
No edit summary |
No edit summary |
||
Line 367: | Line 367: | ||
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big><big><br /></big> |
<big>'''पूर्वोऽभ्यासः''' (६.१.४) = द्वित्वानन्तरं, यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | पूर्वः प्रथमान्तम्, अभ्यासः प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रं— '''पूर्वः अभ्यासः द्वयोः''' |</big><big><br /></big> |
||
<big>यथा भू + य → भू भू य | यस्मिन् द्विवारम् उच्चारणं जातं तस्मिन् प्रथमभागस्य नाम अभ्यासः | अत्र 'भू भू' इत्यस्मिन् द्विवारम् उच्चारणं जातं अतः तस्मिन् प्रथमभागस्य नाम अभ्यासः—प्रथमः 'भू' इति भागः अभ्याससंज्ञकः |</big> |
|||
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—'''उभे द्वे अभ्यस्तम्''' |</big> |
<big>'''उभे अभ्यस्तम्''' (६.१.५) = द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | उभे प्रथमान्तम्, अभ्यस्तं प्रथमान्तं, द्विपदमिदं सूत्रम् | '''एकाचो द्वे प्रथमस्य''' (६.१.१) इत्यस्मात् '''द्वे''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्—'''उभे द्वे अभ्यस्तम्''' |</big> |
||
<big>यथा भू + य → भू भू य | द्वित्वानन्तरं, द्वयोः समुदायः अभ्यस्तसंज्ञको भवति | अत्र 'भू' इत्यस्य द्वित्वं कृतं; द्वयोः 'भू'-भागयोः समुदायः 'भू भू' अतः 'भू भू' इत्यस्य एव अभ्यस्तसंज्ञा न तु 'भू भू य' इत्यस्य | तथैव सर्वत्र | यस्य द्विवारं उच्चारणं जातं, तस्य द्वित्वकृतसमुदायः एव अभ्यस्तसंज्ञकः |</big> |
|||
<big><u>द्वित्वसम्बद्धम् इतोऽपि किञ्चित् चिन्तनम्</u></big> |
|||
<big>उपर्युक्तं यत् धातुः एकाच् अस्ति चेत्, द्वित्वावसरे सम्पूर्णधातुः स्वीकरणीयः | यथा यङ्लुकि पठ् → पठ् पठ् | अत्र भाष्यकारः चिन्तनं कुर्वन् निदर्शनं दत्वा वदति यत् जुहोत्यादिगणीयः णिजिर्-धातोः द्वित्वं कथम् ? अनुबन्धरहितत्वात् निज् भवति | औपदेशिक-निज्-धातोः सार्वधातुकप्रक्रियावसरे (लटि, लोटि, लङि, विधिलिङि, शतरि) द्वित्वं क्रियते | एकाच् बहुव्रीहिसमासः, एकः अच् येन सः | तर्हि निज्-धातोः विषये, केन एकाच् जातः इति प्रश्ने सति, इकारेण | तदर्थं चत्वारः सम्भावनाः सन्ति—नि, निज्, इ, इज् | ततः अग्रे उच्यते यत् 'इ' अथवा 'इज्' इत्यनयोः द्वित्वार्थं स्वीकारः भवति चेत्, इष्टं सार्वधातुकम् अङ्गं 'नेनिज्' न सिध्यति | परन्तु 'नि' अथवा 'निज्' द्वित्वार्थं स्वीक्रियते चेत् उभयत्र इष्टं सार्वधातुकम् अङ्गं जायते | नि नि ज् → नेनिज्; निज् निज् → नेनिज् | तर्हि अनयोः (‘नि' अथवा 'निज्' इत्यनयोः) मध्ये कस्य द्वित्वं स्यात् ?</big> |
|||
<big>अत्र भाष्यकारः प्रतिपादयति यत् 'नि' स्वीक्रियते चेत्, अभ्यस्तम् अस्ति 'निनि' | सार्वधातुकम् अङ्गम् अस्ति नेनिज्, किन्तु अभ्यस्तम् अस्ति 'निनि' | अत्र त्रिषु प्रधनस्थलेषु समस्या जायते |</big> |
|||
<big>१) '''अदभ्यस्तात्''' (७.१.४) इति सूत्रेण लटि लोटि च प्रथमपुरुषस्य बहुवचने झ्-स्थाने अत् आदेशः, अतः लटि झि → अति न तु अन्ति; लोटि झि → अतु न तु अन्तु |</big> |
|||
<big>'''अदभ्यस्तात्''' (७.१.४) = अभ्यस्तसंज्ञक-धातूत्तरस्य प्रत्ययस्य आदिमावयवस्य झकारस्य स्थाने अत्-आदेशो भवति | अत् प्रथमान्तम्, अभ्यस्तात् पञ्चम्यन्तं, द्विपदमिदं सूत्रम् | '''झोऽन्तः''' (७.१.३) इत्यस्मात् '''झः''' (षष्ठ्यन्तम्) इत्यस्य अनुवृत्तिः | '''आयनेयीनीयियः फढखछगां प्रत्ययादीनाम्''' (७.१.२) इत्यस्मात्, वचनपरिणामं कृत्वा '''प्रत्ययादेः''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— '''अभ्यस्तात् अङ्गात् प्रत्ययादेः झः अत्''' |</big> |
|||
<big>परन्तु 'निनि' अभ्यस्तम् अस्ति चेत्, ‘निनि' च झि-प्रत्यययोः मध्ये जकारः वर्तते, तदर्थम् अत्-आदेशः न भविष्यति |</big> |
|||
<big>२) लङि अभ्यस्तसंज्ञकधातोः परस्य झि-स्थाने जुस्-आदेशः | जुस् इत्यस्य अनुबन्धलोपे, रुत्वविसर्गौ, उः इति भवति | तर्हि अभ्यस्तसंज्ञकः धातुः अस्ति चेत्, लङि अन्-स्थाने उः इति प्रत्ययः भवति |</big> |
|||
<big>'''सिजभ्यस्तविदिभ्यश्च''' (३.४.१०९) = ङित्-लकारस्य अवस्थायां, सिच्-प्रत्ययात्, अभ्यस्तसंज्ञकात् धातोः, विद्-धातोः च, परस्य झि-प्रत्ययस्य स्थाने जुस्-आदेशो भवति | सिच् च अभ्यस्तश्च विदिश्च तेषामितरेतरद्वन्द्वः सिजभ्यस्तविदयः, तेभ्यः सिजभ्यस्तविदिभ्यः | सिजभ्यस्तविदिभ्यः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''नित्यं ङितः''' (३.४.९९) इत्यस्मात् '''ङितः''' इत्यस्य अनुवृत्तिः | '''झेर्जुस्''' (३.४.१०८) इत्यस्मात् '''झेः जुस्''' इत्यनयोः अनुवृत्तिः | '''लस्य''' (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— '''सिजभ्यस्तविदिभ्यः च ङितः लस्य झेः जुस्''' |</big> |
|||
<big>परन्तु 'निनि' अभ्यस्तम् अस्ति चेत्, ‘निनि' च झि-प्रत्यययोः मध्ये जकारः वर्तते, तदर्थम् जुस्-आदेशः न भविष्यति |</big> |
|||
<big>३) शतृ-प्रत्यये परे अभ्यस्तसंज्ञक-अङ्गात् विहितस्य शतृ-प्रत्ययस्य नुमागमः निषिद्धः भवति '''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन |</big> |
|||
<big>'''नाभ्यस्ताच्छतुः''' (७.१.७८) = अभ्यस्तादङ्गादुत्तरस्य शतुः नुम् न भवति | ददत्, ददतौ, ददतः | जाग्रत्, जाग्रतौ, जाग्रतः |</big> |
|||
<big>परन्तु 'निनि' अभ्यस्तम् अस्ति चेत्, ‘निनि' च अत्-प्रत्यययोः मध्ये जकारः वर्तते, तदर्थम् नुम्-आगमनिषेधः न भविष्यति |</big> |
|||
<big>अतः भाष्यकारः वदति यत् आहत्य श्लौ, लिटि, चङि च यत्र एकाच्-धातुः अस्ति, तत्र सदा सम्पूर्णधातोः द्वित्वं करणीयम् | एषु स्थलेषु (श्लौ, लिटि, चङि) यत्र औपदेशिकधातुः अनेकाच् अस्ति, तत्र तैः उक्तं यथा उपरि प्रदर्शितम् | नाम हलादिधातुः अस्ति चेत्, प्रथमस्य एकाच्-भागस्य द्वित्वम् अपि च अजादिधातुः अस्ति चेत् द्वितीयस्य एकाच्-भागस्य द्वित्वं करणीयम् | तत्र प्रथमः एकाच्-भागः समाप्यते वामतः प्रथमे अच्-वर्णे | यथा जागृ → जा जा गृ | ऊर्णु → ऊर्णु नु |</big> |
|||
<big>अधुना यङि सनि च धातुः सदा अनेकाच् | स च धातुः औपदेशिकः न अपि तु आतिदेशिकः | एषु स्थलेषु भाष्यकारैः साक्षात् नोक्तं कथं करणीयम् | अतः सिद्धान्ततः चिन्तनं करणीयम् |</big> |
|||
<big>अत्र द्वित्वप्रक्रियायां द्वौ सिद्धान्तौ प्रासङ्गिकौ | एकः अस्ति—'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम् | यथा 'ग्रामाद् आगच्छति' | अत्र दकारः अच्-हीनः हल्-वर्णः अतः तस्मात् परः यः आकारः तद्युक्तः भवेत्, उच्चारणदृष्ट्या च लेखनदृष्ट्या च | ग्रामादागच्छति इति | तदर्थम् अनेकवारं श्लोकानां लेखनावसरे, पङ्क्त्यन्ते शब्दस्य अन्तिमवर्णः हल्वर्णः चेत्,स च हल्वर्णः लिख्यते अग्रिमपङ्क्तेः आदौ, प्रथमशब्दस्य आदिमवर्णेन सह, सन्धिं कृत्वा | </big> |
|||
<big>इमं सिद्धान्तम् अनुसृत्य पठ् + य इति अवसरे 'प प ठ्य' इति रीत्या द्वित्वं भवति | अभ्यासः 'प', अभ्यस्तं 'प प' | अट् + य इति स्थले 'अ ट्य ट्य' इति रीत्या द्वित्वम् | अभ्यासः 'ट्य', अभ्यस्तं 'ट्य ट्य' |</big> |
|||
<big>द्वितीयः सिद्धान्तः एवम् अस्ति—भाष्यकारः प्रतिपादयति यत् उपदिष्टरूपैः मनसि बुद्धिः जायते | प्रक्रियायां क्रमेण अग्रे गमनेन यदा कदाचित् परिचितरूपं प्रविष्टं भवति—धातुः वा भवतु, प्रत्ययो वा भवतु, आदेशो वा भवतु, तदा नूतनबुद्धिः मनसि उत्पन्ना भवति | तस्य बुद्धेः महत्त्वम् अस्ति; यावच्छक्यं बुद्धिम् अनुसृत्य प्रक्रिया साधनीया | यथा पठ् + य इति स्थले पठ् इति बुद्धिः अस्ति; स च 'पठ'-धातुः अर्थवान् | अतः यावत् शक्यं तस्य विभागः न करणीयः | बुद्धिसिद्धान्तम् अनुसृत्य पठ् य → 'पठ् पठ् य' इति द्वित्वं कार्यं न तु 'प प ठ्य्' | किमर्थम् इति चेत्, ‘प' इति भागः बुद्धिः नास्ति, अर्थवान् नास्ति | अत्र प्रश्नः उदेति यत् तथा अस्ति चेत् बुद्धिम् अनुसृत्य अट् य → 'अट् अट् य' इति रीत्या द्वित्वं करणीयं न तु 'अ ट्य ट्य' | तर्हि किमर्थं 'अट् अट् य' इति रीत्या द्वित्वं न करणीयम् ? यतोहि तथा क्रियते चेत्, इष्टं रूपं न सिध्यति | अतः बुद्धिं अनुसृत्य कुर्मः चेत् कुत्रचित् नियमस्य पालनं कर्तुं शक्नुमः कुत्रचित् कर्तुं न शक्नुमः | तथापि विष्णुकान्थः पाण्डेयः नाम्ना जयपुर विश्वविद्यालयस्य व्याकरणविभागे अध्यापकः वक्ति यत् अनेन नियमेन द्वित्वं करणीयम् |</big> |
|||
<big>केचन वैयाकरणाः वदन्ति यत् 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति महाभाष्यवचनम् अनुसृत्य द्वित्वं करणीयम् | केचन वदन्ति यत् बुद्धिम् अनुसृत्य द्वित्वं करणीयम् | माता जि वदति यत् 'अज्झीनं व्यञ्जनं परेण संयोज्यम्' इति अनुसारं कुर्मश्चेत् लाभद्वयम् अस्ति—(१) अनेकाच् धातूनां कृते प्रक्रिया सर्वत्र समाना हलादिधातुः चेदपि, अजादिधातुः चेदपि; (२) लाघवम् | ‘प प ठ्य' इति रीत्या द्वित्वं क्रियते चेत्, हलादिः शेषः (७.४.६०) इत्यस्य आवश्यकता न भवति | </big> |
|||
<big>अभ्यासकार्यम्—</big><big><br /></big> |
<big>अभ्यासकार्यम्—</big><big><br /></big> |
||