7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions
7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah
Content added Content deleted
No edit summary |
No edit summary |
||
Line 1,069: | Line 1,069: | ||
<big>अनेन आहत्य पञ्चदश धातवः निर्दिष्टाः | वन् धातुः (भ्वादिगणे), अनुनासिकान्त-अनुदात्तोपदेश-धातवः (यम्, रम्, नम्, गम्, हन्, मन्), अनुनासिकान्त-तनादि-धातवः (तनु, क्षिणु, क्षणु, ऋणु, तृणु, घृणु, वनु, मनु) | एषु धातुषु मन्-धातुः दिवादिगणे अस्ति; हन्-धातुः अदादिगणे अस्ति; अष्ट धातवः तनादिगणे सन्ति; अवशिष्टाः भ्वादौ एव | एषां धातूनाम् अन्ते स्थितस्य अनुनासिकस्य लोपो भवति ल्यपि परे; स च अनुनासिकवर्णः मकारः अस्ति चेत् तस्य लोपः वैकल्पिकः, मकारः नास्ति चेत् तस्य लोपः नित्यः |</big> |

<big>यः धातुः ऋकारादिः, तस्मात् पूर्वं तादृशः उपसर्गः अस्ति यस्य अन्ते अकारः अस्ति चेत्, द्वयोः वर्णयोः स्थाने एकः वृद्धेः एकादेशः भवति '''उपसर्गादृति धातौ''' (६.१.९१) इति सूत्रेण |</big> |
|||
<big>यथा—</big> |
|||
<big>प्र + ऋणु + ल्यप् → प्र + ऋण् + य → '''उपसर्गादृति धातौ''' (६.१.९१) इत्यनेन अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः → '''उरण् रपरः''' (१.१.५१) इत्यनेन ऋकारस्य स्थाने यदा अण्-आदेशः भवति, तदा सः अण् सदा रपरः → प्रार्ण् + य → '''वा ल्यपि''' (६.४.३८) इत्यनेन अनुनासिकलोपः ल्यपि → प्रार् + य → '''ह्रस्वस्य पिति कृति तुक्''' (६.१.७१) इत्यनेन ह्रस्ववर्णस्य तुगागमः भवति कृत्-संज्ञके पित्-प्रत्यये परे → प्रार्त् + य → प्रार्त्य</big> |
|||
<big>'''उपसर्गादृति धातौ''' (६.१.९१) = अवर्णान्तात् उपसर्गात् ऋकारादि-धातौ परे पूर्वपरयोः वृद्धेः एकादेशः भवति | उपसर्गात् पञ्चम्यन्तम्, ऋति सप्तम्यन्तं, धातौ सप्तम्यन्तम्, त्रिपदमिदं सूत्रम् | '''आद्गुणः''' (६.१.८७) इत्यस्मात् '''आत्''' इत्यस्य अनुवृत्तिः | '''वृद्धिरेचि''' (६.१.८८) इत्यस्मात् '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४) इत्यस्य अधिकारः | '''यस्मिन् विधिस्तदादावल्ग्रहणे''' इति परिभाषया तदादिविधिना तादृशधातुः यस्य आदौ ऋकारः स्यात् | अनुवृत्ति-सहितसूत्रम्— '''आत् उपसर्गात् ऋति धातौ पूर्वपरयोः एकः वृद्धिः''' |</big> |
|||