7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah: Difference between revisions

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/11B---lyap pratyayah
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 1: Line 1:
{{DISPLAYTITLE:11B - ल्यप्-प्रत्ययः}}
{{DISPLAYTITLE:11B - ल्यप्-प्रत्ययः}}



test
<big>ल्यप्‌-प्रत्ययः</big>

<big>धातुतः सर्वे विधीयमानाः प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र '''धातोः''', '''प्रत्ययः''' इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत्‌ आरम्भे तिङ्‌-प्रत्ययाः सर्वे सार्वधातुकाः, '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम्‌ अवलोकयाम— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत्‌ प्रत्ययः धातुतः विहितः स्यात्‌ | (धातुतः विहितः नास्ति चेत्‌, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्‌, तिङ्‌ चेत्‌ सार्वधातुकम्‌ इति सामान्यतया निश्चितम्‌ | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत्‌ चेत्‌, किमपि नैश्चित्यं नास्ति‌ यत्‌ सार्वधातुकं भवेत्‌; कृत्‌ शित्‌ अस्ति चेदेव सार्वधातुकः | कृत्‌-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्‌, चानश्‌, शानन्‌, खश्‌, श, एश्‌, शध्यै, शधैन्‌ इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच्‌ च | अवशिष्टाः सर्वे कृत्‌ प्रत्ययाः आर्धधातुकाः, '''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रेण | तेषु शित्त्वाभावात्‌ क्त्वा-प्रत्ययः अपि अस्ति, ल्यप्‌-पत्ययः अपि अस्ति |</big>

<big>अस्य महत्त्वम्‌ अस्माभिः परिशीलितं पूर्वमेव बहुत्र, तिङ्‌-प्रसङ्गे कृत्‌-प्रसङ्गे च | प्रत्ययः सार्वधातुकः चेत्‌, '''कर्तरि शप्‌''' (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये धातुगणनिमित्तक-विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते | ल्यप्‌-प्रत्ययः यतोहि सार्वधातुकसज्ञकः नास्ति, तदर्थं शबादि-प्रत्ययाः न विधीयन्ते अतः धातुगणचिन्तनं नापेक्षितम्‌ |</big>

<big>आर्धधातुकत्वात्‌ इडागमचिन्तनमपेक्षितम्‌ | परन्तु ल्यप्‌-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक्‌ (कर्मणि यक्‌, यासुट्‌ (आशीर्लिङ्‌-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत्‌ यकारः यतोहि वल्‌-प्रत्याहारे नास्ति, अतः '''आर्धधातुकस्येड्वलादेः''' (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |</big>

<big>'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |</big>

<big>यत्र यत्र कृत्‌-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम्‌ आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम्‌ अन्तिमवर्णम्‌ अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—</big>

<big>१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |</big>

<big>२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |</big>

<big>३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |</big>

<big>४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |</big>

<big>५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |</big>

<big>६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |</big>

<big>७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |</big>

<big>८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |</big>

<big>९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |</big>

<big>१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |</big>

<big>११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |</big>

<big>१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |</big>

<big>१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |</big>

<big>१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |</big>

'''<big>ल्यप्‌-प्रत्ययः</big>'''

<big>'''समासेऽनञ्पूर्वे क्त्वो ल्यप्''' (७.१.३७) = यस्मिन्‌ समासे पूर्वपदं नञ्‌-भिन्न-अव्ययं भवति, तस्मिन्‌ धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्‌—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् |  न नञ्‌ अनञ्‌, अनञ्‌ पूर्वं यस्मिन्‌ स अनञ्‌पूर्वः, तस्मिन्‌ | अनञ्‌ इत्यनेन पर्युदासनिषेधः | नञ्‌-भिन्नं नञ्‌-सदृशं पदम्‌, इत्युक्ते अव्ययं स्यात्‌ किन्तु नञ्‌ इति अव्ययं न स्यात्‌ | समासे सप्तम्यन्तम्‌, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ट्यन्तं, ल्यप्‌ प्रथमान्त्म्‌, अनेकपदमिदं सूत्रम्‌ |  अनुवृत्ति-सहितसूत्रम्‌— '''समासे अनञ्पूर्वे क्त्वः ल्यप्‌'''  |</big>

<big>ल्यप्‌-प्रत्ययः विधीयते क्त्वा-प्रत्ययस्य स्थाने | क्त्व-प्रत्ययः कित्‌ अतः '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इत्यनेन ल्यप्‌ इति प्रत्यये कित्त्वम्‌ अध्यारोपितो भवति | '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण आदेशः स्थानिवत्‌ भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |</big>

<big>जानीमः यत्‌ यदा कोऽपि एकः एव कर्ता एकां क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमा क्रिया येन धातुना व्यक्ता, तस्य धातोः क्त्वा-प्रत्ययः भवति | परन्तु यदि धातोः पूर्वम्‌ उपसर्गः अस्ति, इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नञ्‌-भिन्नम्‌ अव्ययमस्ति, तर्हि क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः विहितो भवति | यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु उल्लङ्घ्य |</big>

<big>अपि च यदि तच्च अव्ययं नञ्‌ इति निषेधवाचकम्‌ अव्ययमस्ति (’अ’ अथवा ’अन्‌’), तर्हि क्त्वा-प्रत्ययः एव तिष्ठति; ल्यप्‌-प्रत्ययः तत्र न विधीयते | यथा कृत्वा → अकृत्वा, पठित्वा → अपठित्वा, अशित्वा → अनशित्वा इत्यादीनि रूपाणि |</big>

<big>वेदे च विशेषः वर्तते—</big>

<big>'''क्त्वापिच्छब्दसि''' (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति |</big>

<big>वेदे उपसर्गः अस्ति चेदपि क्त्वा-प्रत्ययः, यथा—कृष्णं वासो यजमानं परिधापयित्वा | प्रत्यञ्च्यमर्कं प्रत्यर्थयित्वा |</big>

<big>वेदे उपसर्गे सति ल्यप्‌-प्रत्ययः, यथा—उद्धृत्य जुहोति |</big>

<big>वेदे समासाभावे अपि ल्यपः व्यवहारः लभ्यते, यथा— अर्च्य तान्‌ देवान्‌ गतः |</big>

'''<big>ल्यप्‌-प्रत्ययस्य विधान-प्रक्रिया</big>'''

<big>ल्यप्‌-प्रत्यये '''लशक्वतद्धिते''' इत्यनेन लकारस्य इत्‌-सज्ञा, '''हलन्त्यम्‌''' इत्यनेन पकारस्य इत्‌-सज्ञा, '''तस्य लोपः''' इत्यनेन द्वयोः लोपः | अवशिष्यते ’य’ इत्येव |</big>

'''<big>ल्यप्‌-प्रत्ययस्य स्वभावः</big>'''

<big>यथोक्तं ल्यप्‌-प्रत्ययस्य कित्त्वं भवति '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रेण यतोहि क्त्वा-प्रत्ययस्य स्थाने आदिष्टः | ल्यप्-प्रत्ययस्य कित्त्वात्‌ त्रीणि विशिष्ट-कार्याणि—</big>

<big>१) गुणनिषेधः</big>

<big>'''क्क्ङिति च''' (१.१.५) इत्यनेन कित्‌-प्रत्यये ङित्‌-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |</big>

<big>वि + नी + ल्यप्‌ → '''क्क्ङिति च''' (१.१.५) इत्यनेन कित्‌-प्रत्यये परे गुणनिषेधः → विनीय</big>

<big>२) अनिदितां धातूनाम्‌ उपधायां नकारलोपः</big>

<big>'''अनिदितां हल उपधायाः क्ङिति''' (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधाभूतस्य नकारस्य लोपो भवति |</big>

<big>वि + ध्वंस्‌ + ल्यप्‌ → वि + ध्वस्‌ + य → विध्वस्य</big>

<big>नि + बन्ध्‌ + ल्यप्‌ → नि + बध्‌ + य → निबध्य</big>

<big>निर्‌ + मन्थ्‌ + ल्यप्‌ → निर्‌ + मथ्‌ + य → निर्मथ्य</big>

<big>३) सम्प्रसारणि-धातूनां सम्प्रसारणम्‌</big>

<big>सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— '''वचिस्वपियजादीनां किति''' (६.१.१५), '''ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च''' (६.१.१६) |</big>

<big>ल्यप्‌-प्रत्ययविधानार्थं धातूनां वर्गीकरणम्‌</big>

<big>१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ अजन्तधातवः</big>

<big>२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ हलन्तधातवः</big>

<big>३) णिजन्तधातवः</big>

<big>४) सन्‌-प्रत्ययान्ताः, यङ्‌-प्रत्ययान्ताः, क्यच्‌-प्रत्ययान्ताः, क्यङ्‌-प्रत्ययान्ताः,  क्यष्‌-प्रत्ययान्ताः धातवः</big>

Revision as of 01:47, 24 January 2024


ल्यप्‌-प्रत्ययः

धातुतः सर्वे विधीयमानाः प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः, प्रत्ययः इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत्‌ आरम्भे तिङ्‌-प्रत्ययाः सर्वे सार्वधातुकाः, तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम्‌ अवलोकयाम— धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌ | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत्‌ प्रत्ययः धातुतः विहितः स्यात्‌ | (धातुतः विहितः नास्ति चेत्‌, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्‌, तिङ्‌ चेत्‌ सार्वधातुकम्‌ इति सामान्यतया निश्चितम्‌ | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत्‌ चेत्‌, किमपि नैश्चित्यं नास्ति‌ यत्‌ सार्वधातुकं भवेत्‌; कृत्‌ शित्‌ अस्ति चेदेव सार्वधातुकः | कृत्‌-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्‌, चानश्‌, शानन्‌, खश्‌, श, एश्‌, शध्यै, शधैन्‌ इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच्‌ च | अवशिष्टाः सर्वे कृत्‌ प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण | तेषु शित्त्वाभावात्‌ क्त्वा-प्रत्ययः अपि अस्ति, ल्यप्‌-पत्ययः अपि अस्ति |

अस्य महत्त्वम्‌ अस्माभिः परिशीलितं पूर्वमेव बहुत्र, तिङ्‌-प्रसङ्गे कृत्‌-प्रसङ्गे च | प्रत्ययः सार्वधातुकः चेत्‌, कर्तरि शप्‌ (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये धातुगणनिमित्तक-विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते | ल्यप्‌-प्रत्ययः यतोहि सार्वधातुकसज्ञकः नास्ति, तदर्थं शबादि-प्रत्ययाः न विधीयन्ते अतः धातुगणचिन्तनं नापेक्षितम्‌ |

आर्धधातुकत्वात्‌ इडागमचिन्तनमपेक्षितम्‌ | परन्तु ल्यप्‌-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक्‌ (कर्मणि यक्‌, यासुट्‌ (आशीर्लिङ्‌-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत्‌ यकारः यतोहि वल्‌-प्रत्याहारे नास्ति, अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |

आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |

यत्र यत्र कृत्‌-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम्‌ आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम्‌ अन्तिमवर्णम्‌ अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—

१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |

२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |

३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |

४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |

५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |

६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |

७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |

८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |

९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |

१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |

११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |

१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |

१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |

१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |

ल्यप्‌-प्रत्ययः

समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) = यस्मिन्‌ समासे पूर्वपदं नञ्‌-भिन्न-अव्ययं भवति, तस्मिन्‌ धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्‌—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् |  न नञ्‌ अनञ्‌, अनञ्‌ पूर्वं यस्मिन्‌ स अनञ्‌पूर्वः, तस्मिन्‌ | अनञ्‌ इत्यनेन पर्युदासनिषेधः | नञ्‌-भिन्नं नञ्‌-सदृशं पदम्‌, इत्युक्ते अव्ययं स्यात्‌ किन्तु नञ्‌ इति अव्ययं न स्यात्‌ | समासे सप्तम्यन्तम्‌, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ट्यन्तं, ल्यप्‌ प्रथमान्त्म्‌, अनेकपदमिदं सूत्रम्‌ |  अनुवृत्ति-सहितसूत्रम्‌— समासे अनञ्पूर्वे क्त्वः ल्यप्‌  |

ल्यप्‌-प्रत्ययः विधीयते क्त्वा-प्रत्ययस्य स्थाने | क्त्व-प्रत्ययः कित्‌ अतः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन ल्यप्‌ इति प्रत्यये कित्त्वम्‌ अध्यारोपितो भवति | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण आदेशः स्थानिवत्‌ भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |

जानीमः यत्‌ यदा कोऽपि एकः एव कर्ता एकां क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमा क्रिया येन धातुना व्यक्ता, तस्य धातोः क्त्वा-प्रत्ययः भवति | परन्तु यदि धातोः पूर्वम्‌ उपसर्गः अस्ति, इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नञ्‌-भिन्नम्‌ अव्ययमस्ति, तर्हि क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः विहितो भवति | यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु उल्लङ्घ्य |

अपि च यदि तच्च अव्ययं नञ्‌ इति निषेधवाचकम्‌ अव्ययमस्ति (’अ’ अथवा ’अन्‌’), तर्हि क्त्वा-प्रत्ययः एव तिष्ठति; ल्यप्‌-प्रत्ययः तत्र न विधीयते | यथा कृत्वा → अकृत्वा, पठित्वा → अपठित्वा, अशित्वा → अनशित्वा इत्यादीनि रूपाणि |

वेदे च विशेषः वर्तते—

क्त्वापिच्छब्दसि (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन क्त्वा-प्रत्ययस्य स्थाने ल्यप्‌-प्रत्ययः भवति |

वेदे उपसर्गः अस्ति चेदपि क्त्वा-प्रत्ययः, यथा—कृष्णं वासो यजमानं परिधापयित्वा | प्रत्यञ्च्यमर्कं प्रत्यर्थयित्वा |

वेदे उपसर्गे सति ल्यप्‌-प्रत्ययः, यथा—उद्धृत्य जुहोति |

वेदे समासाभावे अपि ल्यपः व्यवहारः लभ्यते, यथा— अर्च्य तान्‌ देवान्‌ गतः |

ल्यप्‌-प्रत्ययस्य विधान-प्रक्रिया

ल्यप्‌-प्रत्यये लशक्वतद्धिते इत्यनेन लकारस्य इत्‌-सज्ञा, हलन्त्यम्‌ इत्यनेन पकारस्य इत्‌-सज्ञा, तस्य लोपः इत्यनेन द्वयोः लोपः | अवशिष्यते ’य’ इत्येव |

ल्यप्‌-प्रत्ययस्य स्वभावः

यथोक्तं ल्यप्‌-प्रत्ययस्य कित्त्वं भवति स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण यतोहि क्त्वा-प्रत्ययस्य स्थाने आदिष्टः | ल्यप्-प्रत्ययस्य कित्त्वात्‌ त्रीणि विशिष्ट-कार्याणि—

१) गुणनिषेधः

क्क्ङिति च (१.१.५) इत्यनेन कित्‌-प्रत्यये ङित्‌-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |

वि + नी + ल्यप्‌ → क्क्ङिति च (१.१.५) इत्यनेन कित्‌-प्रत्यये परे गुणनिषेधः → विनीय

२) अनिदितां धातूनाम्‌ उपधायां नकारलोपः

अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां धातूनाम्‌ उपधाभूतस्य नकारस्य लोपो भवति |

वि + ध्वंस्‌ + ल्यप्‌ → वि + ध्वस्‌ + य → विध्वस्य

नि + बन्ध्‌ + ल्यप्‌ → नि + बध्‌ + य → निबध्य

निर्‌ + मन्थ्‌ + ल्यप्‌ → निर्‌ + मथ्‌ + य → निर्मथ्य

३) सम्प्रसारणि-धातूनां सम्प्रसारणम्‌

सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— वचिस्वपियजादीनां किति (६.१.१५), ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |

ल्यप्‌-प्रत्ययविधानार्थं धातूनां वर्गीकरणम्‌

१) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ अजन्तधातवः

२) भ्वादिगणात्‌ आरभ्य क्र्यादिगण-पर्यन्तम्‌ हलन्तधातवः

३) णिजन्तधातवः

४) सन्‌-प्रत्ययान्ताः, यङ्‌-प्रत्ययान्ताः, क्यच्‌-प्रत्ययान्ताः, क्यङ्‌-प्रत्ययान्ताः,  क्यष्‌-प्रत्ययान्ताः धातवः