11B - ल्यप्-प्रत्ययः
ध्वनिमुद्रणानि |
---|
2024 वर्गः |
१) lyap-pratyayaH---paricayaH_2024-01-23 |
ल्यप्-प्रत्ययः
धातुतः सर्वे विधीयमानाः प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः, प्रत्ययः इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत् आरम्भे तिङ्-प्रत्ययाः सर्वे सार्वधातुकाः, तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम् अवलोकयाम— धातोः परश्च तिङ्-शित् प्रत्ययः सार्वधातुकम् | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् | (धातुतः विहितः नास्ति चेत्, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्, तिङ् चेत् सार्वधातुकम् इति सामान्यतया निश्चितम् | लिट्लकारे आशीर्लिङ्लकारे तिङ्प्रत्ययः अपवादत्वेन आर्धधातुकं भवति | परन्तु कृत् चेत्, किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्; कृत् शित् अस्ति चेदेव सार्वधातुकः | कृत्-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्, चानश्, शानन्, खश्, श, एश्, शध्यै, शधैन् इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच् च | अवशिष्टाः सर्वे कृत् प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण | तेषु शित्त्वाभावात् क्त्वा-प्रत्ययः अपि अस्ति, ल्यप्-पत्ययः अपि अस्ति |
अस्य महत्त्वम् अस्माभिः परिशीलितं पूर्वमेव बहुत्र, तिङ्-प्रसङ्गे कृत्-प्रसङ्गे च | प्रत्ययः सार्वधातुकः चेत्, कर्तरि शप् (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये धातुगणनिमित्तक-विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते | ल्यप्-प्रत्ययः यतोहि सार्वधातुकसज्ञकः नास्ति, तदर्थं शबादि-प्रत्ययाः न विधीयन्ते अतः धातुगणचिन्तनं नापेक्षितम् |
आर्धधातुकत्वात् इडागमचिन्तनमपेक्षितम् | परन्तु ल्यप्-प्रत्ययः यकारादिः | एतावता अनेके यकारादयः प्रत्ययाः अधीताः | यक् (कर्मणि यक्, यासुट् (आशीर्लिङ्-लकारः परस्मैपदे), यङन्तेषु, यङ्लुगन्तेषु च अस्माभिः दृष्टं यत् यकारः यतोहि वल्-प्रत्याहारे नास्ति, अतः आर्धधातुकस्येड्वलादेः (७.२.३५) इत्यनेन सूत्रेण इडागमः न विधीयते |
आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात् | इट्-आगमः टित् अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल् आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्, इट् प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम् | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अङ्गात् वलादेः आर्धधातुकस्य इट् |
यत्र यत्र कृत्-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम् आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम् अन्तिमवर्णम् अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—
१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |
२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |
३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |
४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |
५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |
६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |
७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |
८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |
९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |
१०) अदुपधाः— यथा पठ्, चल्, वद्, स्खल्, कक्, पच्, चट् इत्यादयः |
११) इदुपधाः— यथा चित्, मिद्, छिद्, भिद्, निद्, मिल् इत्यादयः |
१२) उदुपधाः— यथा बुध्, शुध्, मुद्, कुक्, उख् इत्यादयः |
१३) ऋदुपधाः— यथा कृष्, वृष्, नृत्, छृद्, वृत्, वृध् इत्यादयः |
१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्, शीक्, बुक्क्, अञ्च् इत्यादयः |
ल्यप्-प्रत्ययः
समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) = यस्मिन् समासे पूर्वपदं नञ्-भिन्न-अव्ययं भवति, तस्मिन् धातोः परस्य क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः भवति | सिद्धान्तकौमुद्याम्—अव्ययपूर्वपदे अनञ्समासे क्त्वो ल्यबादेशः स्यात् | न नञ् अनञ्, अनञ् पूर्वं यस्मिन् स अनञ्पूर्वः, तस्मिन् | अनञ् इत्यनेन पर्युदासप्रतिषेधः | नञ्-भिन्नं नञ्-सदृशं पदम्, इत्युक्ते अव्ययं स्यात् किन्तु नञ् इति अव्ययं न स्यात् | समासे सप्तम्यन्तम्, अनञ्पूर्वे सप्तम्यन्तं, क्त्वः षष्ट्यन्तं, ल्यप् प्रथमान्त्म्, अनेकपदमिदं सूत्रम् | सूत्रं स्वयं सम्पूर्णम्— समासे अनञ्पूर्वे क्त्वः ल्यप् |
ल्यप्-प्रत्ययः विधीयते क्त्वा-प्रत्ययस्य स्थाने | क्त्व-प्रत्ययः कित् अतः स्थानिवदादेशोऽनल्विधौ (१.१.५६) इत्यनेन ल्यप् इति प्रत्यये कित्त्वम् अध्यारोपितो भवति | स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण आदेशः स्थानिवत् भवति | नाम स्थानिनि ये गुणाः सन्ति, ते आदेशे अपि उपस्थिताः भवन्ति |
जानीमः यत् यदा कोऽपि एकः एव कर्ता एकां क्रियां कृत्वा अन्यां क्रियां करोति तदा प्रथमा क्रिया येन धातुना व्यक्ता, तस्य धातोः क्त्वा-प्रत्ययः भवति | परन्तु यदि धातोः पूर्वम् उपसर्गः अस्ति, इत्युक्ते यदि समासः अस्ति अपि च पूर्वपदं नञ्-भिन्नम् अव्ययमस्ति, तर्हि क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः विहितो भवति | यथा गत्वा किन्तु आगत्य, पठित्वा किन्तु प्रपठ्य, लङ्घित्वा किन्तु उल्लङ्घ्य |
अपि च यदि तच्च अव्ययं नञ् इति निषेधवाचकम् अव्ययमस्ति (’अ’ अथवा ’अन्’), तर्हि क्त्वा-प्रत्ययः एव तिष्ठति; ल्यप्-प्रत्ययः तत्र न विधीयते | यथा कृत्वा → अकृत्वा, पठित्वा → अपठित्वा, अशित्वा → अनशित्वा इत्यादीनि रूपाणि |
वेदे च विशेषः वर्तते—
क्त्वापिच्छन्दसि (७.१.३८) इत्यनेन वेदे अनञ्पूर्वे समासे क्त्वा-प्रत्ययस्य स्थाने विकल्पेन ल्यप्-प्रत्ययः भवति |
वेदे उपसर्गः अस्ति चेदपि क्त्वा-प्रत्ययः, यथा—कृष्णं वासो यजमानं परिधापयित्वा | प्रत्यञ्च्यमर्कं प्रत्यर्थयित्वा |
वेदे उपसर्गे सति ल्यप्-प्रत्ययः, यथा—उद्धृत्य जुहोति |
वेदे समासाभावे अपि ल्यपः व्यवहारः लभ्यते, यथा— अर्च्य तान् देवान् गतः |
ल्यप्-प्रत्ययस्य विधान-प्रक्रिया
ल्यप्-प्रत्यये लशक्वतद्धिते इत्यनेन लकारस्य इत्-सज्ञा, हलन्त्यम् इत्यनेन पकारस्य इत्-सज्ञा, तस्य लोपः इत्यनेन द्वयोः लोपः | अवशिष्यते ’य’ इत्येव |
ल्यप्-प्रत्ययस्य स्वभावः
यथोक्तं ल्यप्-प्रत्ययस्य कित्त्वं भवति स्थानिवदादेशोऽनल्विधौ (१.१.५६) इति सूत्रेण यतोहि क्त्वा-प्रत्ययस्य स्थाने आदिष्टः | ल्यप्-प्रत्ययस्य कित्त्वात् त्रीणि विशिष्ट-कार्याणि—
१) गुणनिषेधः
क्क्ङिति च (१.१.५) इत्यनेन कित्-प्रत्यये ङित्-प्रत्यये च परे गुणनिषेधः वृद्धिनिषेधश्च |
वि + नी + ल्यप् → क्क्ङिति च (१.१.५) इत्यनेन कित्-प्रत्यये परे गुणनिषेधः → विनीय
२) अनिदितां धातूनाम् उपधायां नकारलोपः
अनिदितां हल उपधायाः क्ङिति (६.४.२४) इत्यनेन अनिदितां धातूनाम् उपधाभूतस्य नकारस्य लोपो भवति |
वि + ध्वंस् + ल्यप् → वि + ध्वस् + य → विध्वस्य
नि + बन्ध् + ल्यप् → नि + बध् + य → निबध्य
निर् + मन्थ् + ल्यप् → निर् + मथ् + य → निर्मथ्य
३) सम्प्रसारणि-धातूनां सम्प्रसारणम्
सम्प्रसारणं भवति सामान्यसूत्रद्वयेन— वचिस्वपियजादीनां किति (६.१.१५), ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
ल्यप्-प्रत्ययविधानार्थं धातूनां वर्गीकरणम्
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् अजन्तधातवः
२) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् हलन्तधातवः
३) णिजन्तधातवः
४) सन्-प्रत्ययान्ताः, यङ्-प्रत्ययान्ताः, क्यच्-प्रत्ययान्ताः, क्यङ्-प्रत्ययान्ताः, क्यष्-प्रत्ययान्ताः धातवः
अवधेयम्— अग्रे गत्वा सर्वत्र प्रक्रियायां क्त्वा प्रत्ययः विहितो भवति, अनन्तरमेव अनञ्पूर्वे समासे सति, ल्यपि परे समासेऽनञ्पूर्वे क्त्वो ल्यप् (७.१.३७) इति सूत्रेण क्त्वा-प्रत्ययस्य स्थाने ल्यप्-प्रत्ययः विधीयते । सौकर्यार्थं प्रक्रियासु न प्रदर्श्यते, किन्तु तथा अस्ति सर्वत्र इति बोध्यम् ।
अन्यच्च सर्वत्र मनसि भवेत् यत् ल्यप् इत्यस्मात् अनुबन्धलोपानन्तरं ’य’ अवशिष्यते ।
१) भ्वादिगणात् आरभ्य क्र्यादिगण-पर्यन्तम् अजन्तधातूनां ल्याप्-विधान-प्रक्रिया
आकारान्तधातवः एजन्तधातवः च
सामान्य-आकारान्तधातूनां ल्यपि परे किमपि कार्यं नास्ति ।
यथा—
प्र + दा + ल्यप् → प्रदाय
नि + धा + ल्यप् → निधाय
वि + मा + ल्यप् → विमाय
एजन्तधातवः
जानीमः यत् आदेच उपदेशेऽशिति (६.१.४५) इति सूत्र्रेण सर्वे एजन्तधातवः आकारान्ताः भवन्ति एव, शित्-प्रत्ययः परे नास्ति चेत् । ल्यप् प्रत्ययः शित् नास्ति, अतः ल्यपि परे एजन्तानां धातूनाम् आत्वं भवति । अतः सामान्य-एजन्तधातूनाम् अपि ल्यपि परे किमपि कार्यं नास्ति ।
यथा—
वि + धे + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → वि + धा + य → विधाय
वि + ग्लै + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → वि + ग्ला + य → विग्लाय
वि + म्लै + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → वि + म्ला + य → विम्लाय
अभि + ध्यै + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) → अभि + ध्या + य → अभिध्याय
आदेच उपदेशेऽशिति (६.१.४५) = उपदेशे एजन्तस्य धातोरात्त्वं न तु शिति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तदन्तविधिः; अलोन्त्यस्य (१.१.५२) इत्यनेन अन्त्यस्य अलः स्थाने | एच् इत्यनेन 'ए, ऐ, ओ, औ' | श् इत् यस्य स शित्, न शित् अशित्, तस्मिन् (विषये) अशिति, नञ्तत्पुरुषः | आत् प्रथमान्तम्, एचः षष्ठ्यन्तम्, उपदेशे सप्तम्यन्तम्, अशिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | लिटि धातोरनभ्यासस्य (६.१.८) इत्यस्मात् धातोः इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— एचः धातोः आत् उपदेशे अशिति |
विशेष आकारान्ताः च एजन्ताः च धातवः
सम्प्रसारणि-धातवः
- वेञ्-धातुः
वेञ्-धातुः सम्प्रसारणी अस्ति । ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवेत् । परन्तु ल्यपि च (६.१.४१) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं न भवति ।
प्र + वेञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → प्र + वा + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → ल्यपि च (६.१.४१) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं निषिद्धम् → प्रवाय
एवमेव—
उप + वेञ् + ल्यप् →
वचिस्वपियजादीनां किति (६.१.१५) = वच्, स्वप्, यज्, वप्, वह्, वस्, वद्, वेञ्, ह्वेञ्, श्वि, व्येञ् इत्येषां धातूनां सम्प्रसारणं भवति किति प्रत्यये परे | यज् आदिर्येषां ते यजादयः | वचिश्च स्वपिश्च यजादयश्च तेषामितरेतरद्वन्द्वो वचिस्वपियजादयः, तेषां वचिस्वपियजादीनाम् | वचिस्वपियजादीनां षष्ठ्यन्तं, किति सप्तम्यन्तं, द्विपदमिदं सूत्रम् | ष्यङः सम्प्रसारणम् पुत्रपत्योस्तत्पुरुषे (६.१.१३) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— वचिस्वपियजादीनां सम्प्रसारणं किति |
ल्यपि च (६.१.४१) = वेञ्-धातोः सम्प्रसारणं न भवति ल्यपि परे । सिद्धान्तकौमुद्यां वेञो ल्यपि सम्प्रसारणं न स्यात् । ल्यपि सप्तम्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यस्मात् न इत्यस्य अनुवृत्तिः, वेञः (६.१.४०) इत्यस्मात् वेञः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्— ल्यपि च वेञः न सम्प्रसारणम् ।
- व्येञ्-धातुः
व्येञ्-धातुः सम्प्रसारणी अस्ति । ल्यप्-प्रत्ययः यतः कित् अस्ति, अतः ल्यपि परे वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणं भवेत् । परन्तु व्यश्च (६.१.४३) इत्यनेन ल्यपि परे वेञ्-धातोः सम्प्रसारणं न भवति ।
प्र + व्येञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → प्र + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं प्रसक्तम् → व्यश्च (६.१.४३) इत्यनेन ल्यपि परे व्येञ्-धातोः सम्प्रसारणं निषिद्धम् → प्रव्याय
व्यश्च (६.१.४३) = व्येञ्-धातोः सम्प्रसारणं न भवति ल्यपि परे । काशिकायां व्येञ् संवरणे इत्येतस्य धातोर्ल्यपि परतः संप्रसारणं न भवति। व्यः षष्ट्यन्तं, च अव्ययं, द्विपदमिदं सूत्रम् । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यस्मात् न इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्— व्यः च ल्यपि न सम्प्रसारणम् ।
व्येञ्-धातोः वैकल्पिकः सम्प्रसारणम्
परि-उपसर्गपूर्वक-व्येञ्-धातोः ल्यपि परे विभाषा परेः (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति ।
सम्प्रसारणे सति—
परि + व्येञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → परि + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यं, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यनेन सम्प्रसारणे परे पूर्वं स्थितस्य सम्प्रसारणं न भवति → परि + व् + इ + आ + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → परि + व् + इ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → परिवीय
सम्प्रसारण-विपक्षे—
परि + व्येञ् + ल्यप् → आदेच उपदेशेऽशिति (६.१.४५) इत्यनेन उपदेशे एजन्तस्य धातोरात्त्वम् → परि + व्या + य → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → विभाषा परेः (६.१.४४) इत्यनेन विकल्पेन सम्प्रसारणं न भवति → परि + व्या + य → परिव्याय
विभाषा परेः (६.१.४४) = परि-उपसर्गपूर्वक-व्येञ्-धातोः ल्यपि परे विकल्पेन सम्प्रसारणं न भवति । सिद्धान्तकौमुद्यां परेर्व्येञो वा सम्प्रसारणं स्याल्ल्यपि । काशिकायां परेरुत्तरस्य व्येञित्येतस्य धातोर्ल्यपि परतो विभाषा संप्रसारणं न भवति । अत्र मतभेदः दृश्यते यत् विकल्पेन सम्प्रसारणं भवति अथवा विकल्पेन न भवति इति, द्वयोर्मध्ये किं वक्तव्यम् । विभाषा प्रथमान्तं, परेः पञ्चम्यन्तं, द्विपदमिदं सूत्रम् । सम्प्रसारणम् ह्वः (६.१.३२) इत्यस्मात् सम्प्रसारणम् इत्यस्य अनुवृत्तिः, न सम्प्रसारणे सम्प्रसारणम् (६.१.३७) इत्यस्मात् न इत्यस्य अनुवृत्तिः, ल्यपि च (६.१.४१) इत्यस्मात् ल्यपि इत्यस्य अनुवृत्तिः, व्यश्च (६.१.४३) इत्यस्मात् व्यः इत्यस्य अनुवृत्तिः । अनुवृत्ति-सहितसूत्रम्—परेः व्यः विभाषा ल्यपि न सम्प्रसारणम् ।
हलः (६.४.२) = अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घो भवति | यः हल्-वर्णः अङ्गस्य अवयवः, तस्मात् परे स्थितं यत् अङ्गान्तं सम्प्रसारणं, तस्य दीर्घत्वं भवति | हलः पञ्चम्यन्तम् एकपदमिदं सूत्रम् | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम् अङ्गं यस्य अन्ते सम्प्रसारणसंज्ञकवर्णः अस्ति; अचश्च (१.२.२८), अलोऽन्त्यस्य (१.१.५२) इत्याभ्यां तस्य अङ्गस्य अन्तिमवर्णस्य अचः दीर्घादेशः | सम्प्रसारणस्य (६.३.१३९) इत्यस्मात् सम्प्रसारणस्य इत्यस्य अनुवृत्तिः | ढ्रलोपे पूर्वस्य दीर्घोऽणः (६.३.१११) इत्यस्मात् दीर्घः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— हलः सम्प्रसारणस्य अङ्गस्य दीर्घः |
- ह्वेञ्-धातुः
ह्वेञ्-धातुः सम्प्रसारणी अस्ति । अत्र किमपि निषेधकार्यं नास्ति ।
आ + ह्वेञ् + ल्यप् → वचिस्वपियजादीनां किति (६.१.१५) इत्यनेन सम्प्रसारणकार्यम् → आ + ह् + उ + ए + य → सम्प्रसारणाच्च (६.१.१०८) इत्यनेन सम्प्रसारण-संज्ञक-वर्णात् परम् अच् अस्ति चेत्, पूर्वपरयोः स्थाने एकः पूर्वरूपादेशो भवति → आ + ह् + उ + य → हलः (६.४.२) इत्यनेन अङ्गावयवात् हलः यदुत्तरं संप्रसारणं तदन्तस्याङ्गस्य दीर्घादेशो भवति → आ + ह् + ऊ + य → आहूय