7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

From Samskrita Vyakaranam
7---ArdhadhAtukaprakaraNam/19---lRut lakAraH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(21 intermediate revisions by 2 users not shown)
Line 1: Line 1:
<big>{{DISPLAYTITLE:19 - लृट्-लकारः}}</big>
<big>{{DISPLAYTITLE:19 - लृट्-लकारः}}</big>





Line 20: Line 21:
|-
|-
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/410_lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18.mp3 lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18]</big>
|<big>७) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/410_lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18.mp3 lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18]</big>
|-
|<big>८) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/411_lRuT-lakAraH---lang-lung-liT-luT-lRuT%20ityeShAM-vyavahAra-punassmaraNam_%2B_lRuT-visheShah-smRTi-bodhake-sati_2024-06-25.mp3 lRuT-lakAraH---lang-lung-liT-luT-lRuT ityeShAM-vyavahAra-punassmaraNam_+_lRuT-visheShah-smRti-bodhake-sati_2024-06-25]</big>
|-
|<big>९) [https://archive.org/download/SamskritaVyakaranam2015-PaniniiyaStudy/412_lRuT-lakAraH---lRuT-visheShah-smRTi-bodhake-trINi-sUtrANi_%2B_%E0%A4%86%E0%A4%B6%E0%A4%82%E0%A4%B8%E0%A4%BE%E0%A4%AF%E0%A4%BE%E0%A4%82-%E0%A4%AD%E0%A5%82%E0%A4%A4%E0%A4%B5%E0%A4%9A%E0%A5%8D%E0%A4%9A_%2B_%E0%A4%95%E0%A5%8D%E0%A4%B7%E0%A4%BF%E0%A4%AA%E0%A5%8D%E0%A4%B0%E0%A4%B5%E0%A4%9A%E0%A4%A8%E0%A5%87-%E0%A4%B2%E0%A5%83%E0%A4%9F%E0%A5%8D_2024-07-09.mp3 lRuT-lakAraH---lRuT-visheShah-smRTi-bodhake-trINi-sUtrANi_+_आशंसायां-भूतवच्च_+_क्षिप्रवचने-लृट्_2024-07-09]</big>
|}
|}


Line 178: Line 183:




<big>कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।</big>


<big>कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।</big>


<big>'''अभिज्ञावचने लृट्''' (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | स्मरणार्थे उपपदसज्ञकशब्दे सति अनद्यन्तभूतकालार्थे लृट्‌-लकारः भवति | लङः अपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत्‌ अभिज्ञा इति पदमेव भवेत्‌ इति न; स्मृत्यर्थे यत्‌ किमपि पदं भवितुम्‌ अर्हति—स्मरसि,  बुध्यसे,  चेतयसे इत्यादीनि पदानि सम्भवन्ति | निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात्‌ यत्‌ वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१),  '''परश्च''' (३.१.२),  '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते धातोः लृट्  प्रत्ययः परश्च''' |</big>


<big>'''अभिज्ञावचने लृट्''' (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | स्मरणार्थे उपपदसज्ञकशब्दे सति अनद्यन्तभूतकालार्थे लृट्‌-लकारः भवति | लङः अपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत्‌ अभिज्ञा इति पदमेव भवेत्‌ इति न; स्मृत्यर्थे यत्‌ किमपि पदं भवितुम्‌ अर्हति—स्मरसि,  बुध्यसे,  चेतयसे इत्यादीनि पदानि सम्भवन्ति | निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात्‌ यत्‌ वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१),  '''परश्च''' (३.१.२),  '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते धातोः लृट्  प्रत्ययः परश्च''' |</big>


<big>'''न यदि''' (३.२.११३) = यद्‌-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्‌-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत्‌ इति अव्यवपदं तस्मिन्‌ वाक्ये उपयुज्यते चेत्‌ लृट्‌-लकारः न विधीयते | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य निषेधकसूत्रम्‌ | एकवारं यदा '''अभिज्ञावचने लृट्''' (३.२.११२) इति सूत्रं निषिद्ध, तदा सामान्यसूत्रम्‌ '''अनद्यतने लङ्''' (३.२.१११) इत्यनेन लङ्‌-लकारः विधीयते |</big>


<big>यथा</big> <big>“अभिजानासि कृष्ण यद्वने अभुञ्जमहि” इति | स्मरसि कृष्ण यत्‌ वने वयम्‌ अखादाम | लृट्‌-लकारः भवति स्म, किन्तु यत्‌ इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्‌-लकारः विहितः, अत्र ’अभुञ्जमहि’ इति भुज्‌-धातोः लङ्‌ इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ |  '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न''' |</big>
<big>'''न यदि''' (३.२.११३) = यद्‌-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्‌-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत्‌ इति अव्ययपदं तस्मिन्‌ वाक्ये उपयुज्यते चेत्‌ लृट्‌-लकारः न विधीयते | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य निषेधकसूत्रम्‌ | एकवारं यदा '''अभिज्ञावचने लृट्''' (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम्‌ '''अनद्यतने लङ्''' (३.२.१११) इत्यनेन लङ्‌-लकारः विधीयते |</big> <big>यथा</big> <big>“अभिजानासि कृष्ण यद्वने अभुञ्ज्महि” इति | स्मरसि कृष्ण यत्‌ वने वयम्‌ अखादाम | लृट्‌-लकारः भवति स्म, किन्तु यत्‌ इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्‌-लकारः विहितः, अत्र ’अभुञ्ज्महि’ इति भुज्‌-धातोः लङ्‌ इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ |  '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न''' |</big>


<big>'''विभाषा साकाङ्क्षे''' (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | साकाङ्क्ष-शब्दस्य अर्थः एवम्‌ अस्ति क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं (लक्षणं), अन्या क्रिया भवति लक्ष्यम्‌ | एकया क्रियया अपरस्याः अर्थपूर्तिः | यथा “अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः” अथवा, विकल्पेन, “अभिजानासि देवदत्त कश्मीरान् अगच्छाम, तत्र सक्तून् अपिबाम” | अत्र गमनं लक्षणं, पानं लक्ष्यम्‌ |  पुनः, ’यत्‌’ शब्दस्य व्यवहारे सति, “अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् अगच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि)” | आकाङ्क्षया सह वर्तते साकाङ्क्षः इति सहपूर्वपदबहुव्रीहिः | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>    


<big>'''आशंसायां भूतवच्च''' (३.३.१३२) = भविषत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन, आशायाः विवक्षायाम्‌ | भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुद्याम्‌ | अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा—अप्राप्तपदार्थस्य प्राप्तेः इच्छाम्‌ ’आशंसा’ इत्युच्यते | आशंसा भविष्यति एव भवति | तथापि आशंसायाः विवक्षायाम्‌ अनेन सूत्रेण धातोः भूतकालार्थकश्च वर्तमानार्थकश्च प्रत्ययः विकल्पेन विधीयते | भूतवत्‌ इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम्‌ अतः सामान्यभूते लुङ्‌ इत्यस्य एव व्यवहारः अत्र न तु लङ्‌ वा लिट्‍ वा | निदर्शने “उपाध्यायश्चेदगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्यगीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे” इति | अद्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम | आशंसायां सप्तम्यन्तं, भूतवत् अव्ययं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | '''वर्तमानसामीप्ये वर्तमानवद्वा''' (३.३.१३१) इत्यस्मात्‌ '''वर्तमानवत्''', '''वा''' इत्यनयोः अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां धातोः भूतवत्‌ वर्तमानवत् च प्रत्ययः वा परश्च''' |</big>


<big>'''क्षिप्रवचने लृट्''' (३.३.१३३) = क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट्‌-लकारः भवति | क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति इति काशिकायाम्‌ | ’वचन’ इति शब्दस्य कथनेन क्षिप्र-शब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्‌, आशु, त्वरितम् इत्यादीनि पदानि | निदर्शने “उपाध्यायश्चेत्क्षिप्रमागमिष्यति क्षिप्रं व्याकरणमध्येष्यामहे | अध्यापकः शीघ्रम्‌ आगमिष्यति चेत्‌, शीघ्रमेव व्याकरणं पठिष्यामः | क्षिप्रवचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्मात्‌ '''आशंसायां''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च''' |</big>


<big>प्रकृतसूत्रम्‌ '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्य अपवादः यतोहि '''आशंसायां भूतवच्च''' (३.३.१३२) इति सूत्रेण क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म; '''क्षिप्रवचने लृट्''' (३.३.१३३) इत्यनेन केवलं लृट्‌-लकारः भवति | प्रश्नः उदेति यत्‌ प्रकृतसूत्रे ’लृट्‌’ इति वदनस्य आवश्यकता नास्ति | आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं ’न क्षिप्रवचने’ इति पर्याप्तम्‌ आसीत्‌ | उत्तरत्वेन उच्यते यत्‌ ’लृट्‌’ इति वदनस्य आवश्याकता अस्त्येव स्पष्टीकरणार्थं यत्‌ लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि, यथा “श्वः क्षिप्रमध्येष्यामहे”—श्वः क्षिप्रं पठिष्यामः |</big>      



<big>'''विभाषा साकाङ्क्षे''' (३..११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि स्त्यपि असत्यपि यदा सम्बद्धक्र्याद्वयमस्ति अपि एकस्याः आवश्यकता भवति अपरस्य अर्थपूरनार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | अभिजानासि देवदत्तः कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः अथवा अभिजानासि देवदत्तः कश्मीरान् गच्छामः, तत्र सक्तून् अपिबामः | अभिजानासि देवदत्तः यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् गच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि) | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''अभिज्ञावचने लृट्''' (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | '''अनद्यतने लङ्''' (३.२.१११) इत्यस्मात्‌ '''अनद्यतने''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''भूते''' (३..८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—'''अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा''' |</big>                                                                                                                                                   
<big>'''किंवृत्ते लिङ्लृटौ''' (३..१४४) = किम्‌ इति प्रश्नवाचके सति गर्हायाम्‌ अर्थायां धातोः लिङ्‌ च लृट्‌ लकारौ भवतः किम्‌-कतर-कतम इत्येषु अन्यतमः उपस्थितः स्यात्‌ इत्यनेन ’मिंवृत्तः’ गर्हायामिति निन्दायाम्‌ इत्यर्थः ’लिङ्‌’ इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत्‌ ’लट्‌’, यस्य अनुवृत्तिः भवति स्म, जायेत “गर्हायामित्येव। विभाषा स्वर्यते। किंवृत्त उपपदे गर्हायां गम्यमानायां धातोर्लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। लिङ्ग्रहणं लटोऽपरिग्रहार्थम्।“ इति काशिकायाम्‌ किमो वृत्तम्‌ किंवृत्तं, तस्मिन्‌ किंवृत्ते, षष्ठीतत्पुरुषसमासः लिङ्‌ लृट्‌ तयोरितरेतरयोगद्वन्द्वो लिङ्लृतौ किंवृत्ते सप्तम्यन्तं, लिङ्लृटौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ '''गर्हायां लडपिजात्वोः''' (३.३.१४२) इत्यस्मात्‌ '''गर्हायाम्''' इत्यस्य अनुवृत्तिः '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''परश्च''' (३..) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''किंवृत्ते गर्हायाम् धातोः लिङ्‌ लृट् प्रत्ययौ परश्च''' |</big>                                                                                                                                        

Latest revision as of 04:09, 10 July 2024


ध्वनिमुद्रणानि
2024 वर्गः
१) lRuT-lakAraH---mAtuH-prakriyA-cintanam_+_lRuT-paricayaH_+_kriyarthA-kriyA_2024-05-07
२) lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_2024-05-14
३) lRuT-lakAraH---kriyArthA-kriyA_+_upapada-sangyA_+_SheSHe_2024-05-21
४) lRuT-lakAraH---lRuT-SheSHe_+_apavAdabhUta-luT-lakAraH_2024-05-28
५) lRuT-lakAraH---luT-katham-apavAdaH_+_vyAmishre-lRuT_2024-06-04
६) lRuT-lakAraH---nyAye-apavAdasya-arthaH_+_vyAmishre-lRuT---bahuvriihi-tatpuruShayoh-bhedaH_2024-06-11
७) lRuT-lakAraH---lRuTah-luTaH-ca-vyavahAraH-kutra_2024-06-18
८) lRuT-lakAraH---lang-lung-liT-luT-lRuT ityeShAM-vyavahAra-punassmaraNam_+_lRuT-visheShah-smRti-bodhake-sati_2024-06-25
९) lRuT-lakAraH---lRuT-visheShah-smRTi-bodhake-trINi-sUtrANi_+_आशंसायां-भूतवच्च_+_क्षिप्रवचने-लृट्_2024-07-09


लृट्‌-लकारः  


प्रक्रिया-चिन्तनम्‌


आर्धधातुकप्रक्रियायाः आरम्भे अनिडादि-प्रत्ययाः परिशीलिताः—णिच्‌, यक्‌, यासुट्‌, यङ्लुक्‌, यङ्‌, ल्यप्‌ | अनेन सौकर्यम्‌ आसीत्‌ यतोहि कुत्रापि इडागम-चिन्तनं नापेक्षितम्‌ | यत्र यत्र कार्यसाम्यं वर्तते तत्र तत्र समूहीकृत्य एकत्र पाठः क्रियते चेत्‌ लाभाय इति मातुः सिद्धान्तः | अनिडादि-प्रत्ययान्‌ परिसमाप्य इडागमपाठः आरब्धः | अनेन अधुना सर्वे जानन्ति के-के धातवः सामान्यतया सेटः, के च अनिटः | अग्रे गत्वा द्रक्ष्यामः यत्‌ इडागमापवादाः सन्ति—किन्तु प्रथमतया सामान्यं ज्ञातव्यम्‌ आसीत्‌, तदा तदाधारेण अपवादानां ग्रहणसामर्थ्यं जायते | अधुना च तादृशं ग्रहणसामर्थ्यम्‌ आगतमस्ति अस्माकम्‌ | तर्हि अग्रे इडानुकूलप्रत्ययाः परिशीलनीयाः, समूहरूपेण | कीदृशसमूहः ? कार्यस्य आधारेण | प्रत्ययस्य प्रथमवर्णम्‌ अधिकृत्य समूहीकरणं भवति यतः तमेव वर्णम्‌ अनुसृत्य कार्यं भवति | अङ्गकार्यं च सन्धिकार्यं च प्रत्ययस्य प्रथमवर्णसम्बद्धं च भवति |  


येषां इडानुकूलप्रत्ययानाम्‌ आरम्भे तकारः वर्तते अपि च ये अकितः सन्ति, ते एकत्र एकः समूहः भवन्ति—तास्‌, तव्यत्‌, तुमुन्‌, तृच्‌ | एते चत्वारः तकारादि-अकित्‌-प्रत्ययाः | स्यतासी लृ-लुटोः (३.१.३३) इत्यनेन लुटि परे धातुतः तास्‌-प्रत्ययः भवति | धातुभ्यः विधीयमानः तास्‌ न तिङ्‌ न वा शित्‌ इति कृत्वा आर्धधातुकसंज्ञकः; वलादिः इति कृत्वा इडनुकूलः | तदा पश्यामः यत्‌ तव्यत्, तुमुन्, तृच् अपि तथैव सन्ति | एते त्रयः प्रत्ययाः न तिङ्‌ न वा शित्‌ इति कृत्वा आर्धधातुकसंज्ञकाः; वलादयः च वशादयः न इति कृत्वा इडनुकूलाः | अधुना अत्र पुनः इतोऽपि सादृश्यं वर्तते यतोहि तास्‌-प्रत्ययः तकारादिः, एते त्रयः तव्यत्, तुमुन्, तृच् अपि तकारादयः | अस्य सर्वस्य दर्शनेन अवगच्छामः यत्‌ लुट्‌-लकारप्रक्रियायां यादृशम्‌ अङ्गकार्यं सन्धिकार्यं च भवति, तादृशमेव अङ्गकार्यं सन्धिकार्यं च भवति एतेषु त्रिषु प्रत्ययेषु अपि | पुनः एतेषु त्रिषु प्रक्रियासाम्यं बहु अधिकम्‌ अस्ति इत्यतः एतेषां त्रयाणां तकारादिकृत्प्रत्ययानां चिन्तनं मिलित्वा कृतम्‌ |


तर्हि अग्रे किमर्थं क्त्वा, क्तवतु, क्त, क्तिन्‌ इति प्रसिद्ध-तकारादि-प्रत्ययाः अस्मिन्‌ पाठसमूहे सम्मिलिताः न सन्ति ? कारणमस्ति यत्‌ एतेषां चतुर्णाम्‌ इडागमविशेषाः अनेके सन्ति | तास्‌, तव्यत्‌, तुमुन्‌, तृच्‌ इत्येषु विशिष्ट-इडागमसूत्राणि अतीव न्यूनानि सन्ति | अतः ये इडागमसम्बद्ध-सामान्यनियमाः अस्माभिः अधीताः ते सर्वे सङ्गच्छन्ते अस्मिन्‌ पाठे | अपवादाः न्यूनाः एव दृश्यन्ते | परञ्च क्त्वा, क्तवतु, क्त, क्तिन्‌ इत्येषां प्रत्ययानां कृते अनेकानि विशिष्ट-इडागमसूत्राणि सन्ति, तदर्थम्‌ एषां पाठः पृथक्‌ भवति | क्तवतु, क्त इत्यनयोः इडागमव्यवस्था समाना अतः एकत्र तयोः पाठः भविष्यति | परन्तु क्त्वा पृथक्तया करिष्यते, पुनः क्तिन्‌ पृथक्तया करिष्यते |


एतावता सामान्यतकारादि-अकित्‌-प्रत्ययानां पाठः समाप्तः | अधुना नूतनपाठसमूहः आरभ्यमाणः—इडनुकूल-सकारादि-अर्धधातुक-अकित्‌-प्रत्ययाः सम्मिलितरूपेण क्रमेण पठिष्यन्ते | ते एते सन्ति—स्य (लृट्‌, लृङ्‌), सिप्‌ (लेट्‌), सीयुट्‌ (आत्मनेपदि आशीर्लिङ्‌), सन्‌ (सन्नन्तधातवः) | अनन्तरं सिच्‌ (लुङ्‌), लिट्‌, नामधातवः च, एते पृथक्तया करिष्यन्ते | लुङ्‌-लकारस्य सिच्‌-प्रत्ययः पृथक्‌ अस्ति यतोहि लुङ्‌-लकारे अनेके प्रत्ययाः सन्ति, एषां प्रत्ययानां प्रसङ्गे सिच्‌ करिष्यते |


लृटः परिचयः


तर्हि अधुना, अस्मिन्‌ पाठे स्य-प्रत्ययं स्वीकुर्मः | अस्मिन्‌ पाठे लृट्‌-लकारस्य स्य-प्रत्ययः अवलोक्यते, तदा अग्रिमे पाठे लृङ्‌-लकारः स्वीकरिष्यते | लृट्‌-लकारः सामान्य-भविष्यत्कालः इत्युच्यते | अस्य तात्पर्यम्‌ एवं यत्‌ सर्वत्र भविष्यत्कालार्थे लृट्‌-लकारः व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत्‌ | अपवादस्तु अत्र लुट्‌-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम्‌ अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्‌—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |


प्रथमतया लृट्‌-लकारस्य विधायकं सूत्रम्‌ अवलोकयाम—


लृट् शेषे च (३.३.१३) = सामान्य-भविष्यत्कालार्थे धातोः लृट्‌-लकारः भवति, उपपदरूपेण अन्या क्रिया भवति चेदपि, न भवति चेदपि | भविष्यदर्थाद्धातोर्लृट् स्यात्‌ क्रियार्थायां क्रियायां सत्यामसत्यां वा (इति लघुसिद्धान्तकौमुदी) | लृट् प्रथमान्तं, शेषे सप्तम्यन्तं, च अव्ययपदं, त्रिपदमिदं सूत्रम् | भविष्यति गम्यादयः (३.३.३) इत्यस्मात्‌ भविष्यति इत्यस्य अनुवृत्तिः | तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इत्यस्मात्‌ क्रियायाम्, क्रियार्थायाम् इत्यनयोः अनुवृत्तिः | धातोः (३.१.९१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च  |


अत्र अनुवृत्ति-सहितसूत्रे ’भविष्यति’ इत्यनेन भविष्यत्कालार्थे | ’क्रियार्थायां क्रियायाम्‌’ इत्यनेन विशिष्टपरिस्थिति वर्तते यस्मिन्‌ द्वितीया क्रिया साहाय्यकरूपेण कार्यं करोति | यत्र यत्र तादृशी द्वितीया क्रिया नास्ति, लृट्‌-लकारे एव एका क्रिया अस्ति, तत्र शेषे इत्युक्तम्‌ | “क्रियार्थायां क्रियायां” इत्यस्य प्रसङ्गे ’उपपद’ इत्यपि शब्दः प्रयुक्तः | “क्रियार्थायां क्रियायाम्‌”,  ’उपपद’ इत्यनयोः अवगमनार्थं तुमुन्‌-ण्वुल्‌ इति प्रत्यययोः विधायकं सूत्रम्‌ अवलोकयामः | तुमुन्‌-प्रत्ययस्य पाठे इदं सूत्रं पठितवन्तः, पुनश्च परिशीलयामः यतोहि अत्रैव एषां पारिभाषिकशब्दानां मूलव्यहारः कृतः—


“क्रियार्थायां क्रियायाम्‌” इत्यस्य परिचयः तुमुन्‌-प्रत्ययस्य माध्यमेन


तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) = एकस्याः क्रियायाः साधनार्थम्‌ अपरस्यां क्रियायाम्‌ उपपदे सति भविष्यदर्थे प्रथमायाः (क्रियायाः) धातुतः तुमुन्‌ च ण्वुल्‌ च प्रत्ययौ भवतः | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले तुमुन्ण्वुलौ प्रत्ययौ भवतः इति काशिका | अत्र इमौ द्वौ प्रत्ययौ तुमुन्‌ ण्वुल् भविष्यत्यर्थे; तुमुन्‌ भावार्थे, ण्वुल् च कर्त्रर्थे | तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यनेन ’क्रियायां क्रियार्थायाम्’ उपपदसप्तमीविभक्तौ स्तः | ’पठितुं गच्छति’ इत्यस्मिन्‌ पठनक्रियायाः साधनार्थं गमनक्रिया वर्तते | पठनम्‌ अस्ति प्रयोजनं, नाम लक्ष्यं; गमनम्‌ अस्ति साधनम्‌ | पठनम्‌ इति क्रियायाः कृते गमनम्‌ इति क्रिया वर्तते इति कृत्वा गमन-क्रिया अस्ति “क्रियार्था क्रिया” | एतदर्थं गमनक्रियायाः ’उपपद’ संज्ञा भवति | तुमुन्‌ च ण्वुल्‌ च तयोरितरेतरद्वन्दः तुमुन्ण्वुलौ | क्रिया अर्थः प्रयोजनं यस्याः सा क्रियार्था, तस्यां क्रियार्थायां, बहुव्रीहिः | तुमुन्ण्वुलौ प्रथमान्तं, क्रियायां सप्तम्यन्तं, क्रियार्थायां सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | भविष्यति गम्यादयः (३.३.३) इत्यस्मात्‌ भविष्यति इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२), धातोः  (३.१.९१) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—धातोः तुमुन्ण्वुलौ प्रययौ परश्च भविष्यति क्रियार्थायां क्रियायाम्‌ |


तत्रोपपदं सप्तमीस्थम् (३.१.९२) = धातोः (३.१.९१) इति सूत्रस्य अधिकारे विद्यमानेषु सूत्रेषु यः शब्दः सप्तमीविभक्त्याम्‌ अस्ति, तेन निर्दिष्टं पदम् उपपद-संज्ञकं भवति | एतेषु सूत्रेषु सप्तमीविभक्त्याः अर्थः अस्ति उपपदसप्तमी; तेषु ’तत्र’ इत्यपि अन्वेति ‘सति सप्तमी’ इति अर्थे | यत्‌ सूत्रं धातोः (३.१.९१) इति सूत्रस्य अधिकारे अस्ति (इत्युक्ते तृतीयाध्यायस्य अन्तपर्यन्तम्‌), सप्तमीविभक्त्या निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च ’तत्र’ इत्यनेन ’तस्मिन्‌ उपपदसंज्ञकपदे सति’ (नाम तस्य उपस्थितौ) तेन सूत्रेण यः प्रत्ययः विधातव्यः, स च प्रत्ययः अस्य उपपदसंज्ञकपदबलेन विधीयते | तस्मिंश्च सत्येव वक्ष्यमाण: प्रत्ययः स्यात्‌ |



यथा तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रे निर्दिष्टपदस्य उपपदसंज्ञा भवति, अपि च तादृशपदस्य उपस्थितौ एव विहितं कार्यं विधीयते | नाम अनेन सूत्रेण ’भोक्तुं व्रजति’ इति निदर्शने, “क्रियायां क्रियार्थायाम्” इत्यनेन (तत्रोपपदं सप्तमीस्थम् (३.१.९२) इत्यस्य साहाय्येन) (१) ’व्रजति’ इत्यस्य उपपदसंज्ञा भवति, अपि च (२) ’यदा’ इयं व्रजन-क्रिया अस्ति, ’तदा’ भुज्‌-धातुतः तुमुन्‌-प्रत्ययः विधीयते | अतः उपपदसप्तमी अपि अस्ति, सति सप्तमी अपि अस्ति |



कस्याः अपि क्रियायाः साधनार्थं यदा द्वितीया क्रिया उपयुज्यते, सा द्वितीया क्रिया ’क्रियार्था क्रिया’ इत्युच्यते | यथा ’भोक्तुं गच्छति’ इत्यस्मिन्‌ भोजनक्रियायाः साधनार्थं गमनक्रिया उपयुज्यते, अतः गमनक्रिया ’क्रियार्था क्रिया’ | तस्याः च गमनक्रियायाः उपपदसंज्ञा भवति | तत्र प्रथमा क्रिया भविष्यत्‌-काले अस्ति यतोहि एतावता सा क्रिया न आरब्धा | अत्र भोजनक्रिया नारब्धा अतः सा भविष्यत्‌-काले अस्ति | यदा एका क्रिया न आरब्धा, नाम भविष्यत्‌-काले अस्ति, अपि च तस्याः साधनार्थम्‌ एका द्वितीया क्रिया उपयुज्यते, तस्यां दशायां प्रथमक्रियायाः व्यक्तीकरणार्थं यः धातुः अस्ति, तस्मात्‌ धातोः तुमुन्‌ च ण्वुल्‌ च भवतः | निदर्शनार्थं ’भोक्तुं व्रजति’ इत्यस्मिन्‌ तुमुन्‌-प्रत्ययः विहितः; ’भोजको व्रजति’ इत्यस्मिन्‌ ण्वुल्‌-प्रतययः विहितः | किन्तु उभयत्र अर्थः भिन्नः—तुमुन्‌-प्रत्ययः भावार्थे, ण्वुल्‌-प्रत्ययः कर्त्रर्थे | तर्हि एवमस्ति चेत्‌, ण्वुल्तृचौ (३.१.१३३) इत्यनेन ण्वुल्‌-प्रत्ययः विधीयते एव; पुनः कर्त्रर्थे ण्वुल्‌-प्रत्ययः अपरेण सूत्रेण किमर्थम्‌ ? इति चेत्‌, अत्र “यः करोति सः” इति अर्थः अस्त्येव, किन्तु भविष्यति |  ’भोजको व्रजति’ इत्युक्ते गच्छति, गत्वा च खादकः भविष्यति (अधुना खादकः नास्ति) | अतः तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम् (३.३.१०) इति सूत्रेण भविष्यत्कालार्थे ण्वुल्‌-प्रत्ययः विधीयते | इदमपि बोध्यं यत्‌ भविष्यत्कालार्थे अयं ण्वुल्‌-प्रत्ययः अव्ययं नास्ति; त्रिषु लिङ्गेषु भवति—भोजकः, भोजिका, भोजकम्‌ | तर्हि अयं ण्वुल्‌-प्रत्ययः भविष्यत्कालार्थे, किन्तु ण्वुल्तृचौ (३.१.१३३) इत्यनेन त्रिषु कालेषु भवति |


“क्रियार्थायां क्रियायां” लृट्‌-लकारे


तर्हि अधुना लृट् शेषे च (३.३.१३) इत्यस्य प्रसङ्गे “क्रियार्थायां क्रियायाम्‌”,  ’उपपद’ इत्यनयोः व्यवहारः कथमस्ति इति परिशीलयितुं सिद्धाः वयम्‌ | क्रियार्थायां क्रियायामुपपदे धातोर्भविष्यति काले लृट्‌-लकारः भवति | तुमुन्‌-प्रत्ययस्य प्रसङ्गे ’भोक्तुं व्रजति’ इति निदर्शनं दत्तम्‌ | तत्र ’भोक्तुं’ भविष्यत्कालार्थे अस्ति, अपि च ’व्रजति’ क्रियार्थायां क्रियायामुपपदे अस्ति | एवमेव लृट्‌-लकारे भविति—’भोक्ष्यति इति व्रजति’ |  अर्थः अस्ति यत्‌ कोऽपि गच्छति येन खादितुं शक्नुयात्‌ | एतावता न खादति; गत्वा खादिष्यति | श्यामः भोक्ष्यति इति गृहं गच्छति | अस्मिन्नेवार्थे श्यामः भोक्तुं गृहं गच्छति | अत्र मुख्या क्रिया अस्ति भोजनक्रिया—भोक्ष्यति इति | यत्र एकां क्रियां कर्तुम् द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुं लृट्-लकारः उपयुज्यते | यदि श्यामः भोजनक्रियार्थं गृहं गच्छति, तर्हि अत्र 'भोजनक्रिया' मुख्या अस्ति, अपि च गमनक्रिया 'क्रियार्था क्रिया' अस्ति | भोजनक्रियार्थं गमनक्रिया कृता, अतः 'क्रियार्था क्रिया' इत्युक्तम्‌ |


लृट् “शेषे च”


लृट् शेषे च (३.३.१३) इत्यस्य अनुवृत्ति-सहितसूत्रम् अस्ति—भविष्यति क्रियार्थायां क्रियायां धातोः लृट् शेषे च  | तर्हि भविष्यत्कालार्थे क्रियार्थायां क्रियायां धातोः लृट् भवति इति अधुना परिशीलितम्‌ | तदा ’शेषे च’ | अनेन यत्र क्रियार्थायां क्रिया नास्ति, अन्यत्र सर्वत्र सामान्य-भविष्यत्कालार्थे लृट्‌-लकारप्रयोगः ’शेषे च’ इति अन्तरगतम्‌ अस्ति | यथा “पिता कार्यं करिष्यति” | “मम मित्रं पत्रिकायां लेखं लेखिष्यति” | यत्र कुत्रापि सामान्य-भविष्यत्कालार्थे लृटः व्यवहारः भवति, क्रियार्थायां क्रियां विहाय, ’शेषे च’ इत्यनेन विधीयते |


सामान्य-भविष्यत्कालः इति अर्थः


अधुना सामान्य-भविष्यत्कालः इति विषयः | उक्तम्‌ आसीत्‌ यत्‌ लृट्‌-लकारः “सामान्य-भविष्यत्काले” भवति | तत्‌ कुत्र कुत्र भवति इति बोध्यम्‌ अस्माभिः | भविष्यत्कालार्थे लृट्‌-लकारः सर्वत्र व्यवह्रियते, अपवादभूतव्यवहारः तस्य स्थाने न भवति चेत्‌ | अपवादस्तु अत्र लुट्‌-लकारः | तर्हि सामान्यस्य व्यवहारः कुत्र इत्यस्य बोधनार्थम्‌ अपवादस्य व्यवहारः कुत्र भवति इति बोध्यम्‌—तद्विहाय अवशिष्टं सर्वं सामान्यमिति |


अपवादभूत लुट्‌-लकारः


पूर्वमेव लुट्‌-लकारः परिशीलितः अस्माभिः | गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः इत्युच्यते | न विद्यते अद्यतनं यस्मिन्‌ अनद्यतनम्‌ | अनद्यतनभविष्यत्कालस्य विवक्षायां धातुभ्यः लुट्‌-लकारो विधीयते | यथा 'श्वः देवदत्तः कर्ता' | 'देवदत्तः श्वः भोक्ता' |


प्रहराणां पुनस्स्मरणम्‌—एकस्मिन्‌ तिथौ अष्टौ प्रहराः वर्तन्ते | एषु चत्वारः प्रहराः दिनस्य, चत्वारः च रात्रेः | प्रथमप्रहरः आरभ्यते सूर्योदयसमये | तर्हि षड्‌वादने प्रथमप्रहरस्य आरम्भः इति चेत्‌, प्रातःकालस्य षड्‌वादनात्‌ सयङ्कालपर्यन्तम्‌ दिनस्य प्रहराः | उक्तं यत्‌ गतरात्रेः अन्तिमप्रहरात्‌ आगम्यमानरात्रेः प्रथमप्रहरपर्यन्तम्‌ अद्यतनकालः  | गतरात्रेः अन्तिमप्रहरः रात्रौ त्रिवादनात्‌ षड्‌वादनपर्यन्तम्‌ | आगम्यमानरात्रेः प्रथमप्रहरः इत्युक्ते सायङ्कालस्य षड्‌वादनात्‌ नववादनपर्यन्तम्‌ | अतः अद्यतनकालः इत्यस्मिन्‌ आहत्य षड्‌प्रहराः सन्ति | रात्रिवेलायां त्रिवादनात्‌ आरभ्य आगम्यमानरात्रेः नववादनपर्यन्तम्‌ |


अनद्यतने लुट्‌ (३.३.१५) इत्यस्य प्रसङ्गे काशिकायां दत्तमस्ति—"भविष्यति इत्येव | भविष्यदनद्यतनेऽर्थे वर्तमानाद् धातोः लुट् प्रत्ययो भवति | लृटोऽपवादः| श्वः कर्ता| श्वो भोक्ता |“ अनद्यतने इत्युक्ते 'श्वोभावी' | भविष्यत्सामान्यम्‌ इति नास्ति, केवलं श्वः-कालिकभविष्यत्त्वम्‌ | एतदेव अनद्यतनम्‌ इति भाष्यमतम्‌ | लुट्‌-लकारस्य पाठे अस्माभिः दृष्टं यत्‌ यदि भविष्यत्सामान्यं सर्वम्‌ अनद्यतनशब्देन गृह्येत, तर्हि लृट्‌-लकारस्य ’सामान्य’ इति व्यवहारे किमपि स्थानं न तिष्ठेत्‌ | अद्यतनस्य निषेधं करोति इत्युक्ते अद्यतनकालेऽपि भावी वर्तते इति कृत्वा अद्यतनभविष्यत्कालस्य प्रतिषेधं करोति | कथनस्य आशयः एवं यत्‌ अद्यतनभविष्यत्कालस्य समीपकालः एव अनद्यतनकालः इति विवक्षितम्‌ | नाम अद्यतनभविष्यद्भिन्नः अद्यतनभविष्यत्सदृशः | यथा 'अनश्वम्‌ आनय' इति आदेशः प्राप्यते चेत्‌ कश्चित्‌ पक्षी आनीयते किम्‌ ? न, पक्षी नानीयते | अश्वभिन्नः अश्वसदृशः चतुष्पादः पशुविशेषः आनेतव्यः  | एवमेव अद्यतनभिन्नः इत्युक्ते अद्यतनभविष्यत्कालस्य निषेधम्‌ इत्यस्य कथनेन अद्यतनभविष्यत्कालसमीपभविष्यत्कालः एव अनद्यतनशब्देन विवक्षणीयः | निषेधः इत्युक्ते अद्यतनभविष्यद्भिन्नत्वे सति अद्यतनभविष्यत्सदृशकालः | अनेन अनद्यतनभविष्यत्कालः नाम श्वः एव | “अद्य भवति, श्वो भविता" |  इति भाष्यकारमतम्‌ |


तदा लोके तु अयं नियमः 'लुट्‌-लकारः श्वः एव' इति तु अनुस्रियमाणः न इति कारणतः नागेशेन समाधानं कल्पितं यत्‌ अत्यन्तविलम्बितभविष्यत्यपि श्वोभावित्वम्‌ | यथा निश्चितविवाहः यदा यदा समीपे भविष्यति, तदानीं किं भवति ? तद्विषयकचिन्तनं यदा अतिशयेन क्रियते तदानीं कालः न गच्छन्नेव भाति | अतः श्वोभावी अपि अतीव विलम्बितभावी इतिवत्‌ भासते कदाचित्‌ | अनेन अत्यन्तदूरभावी अपि श्वोभावी इत्यपि कदाचित्‌ भवितुमर्हति, भावनया | लोकेऽपि ईदृशः अनुभवः व्यवहारश्च वर्तते | चिरभाविन्यपि श्वोभावित्वम् | तर्हि अनेन समाधानं नागेशेन उक्तं, विशिष्टस्थितिषु | आहत्य 'अनद्यतन' इति श्वस्तन्याः एव संज्ञा | परञ्च लोके तद्विहायो‍पि प्रयोगः भवति इति दृष्ट्वा नागेशः मध्यमार्गं दत्तवान्‌ |


लृटः व्यवहारः कुत्र ?


अधुना प्रश्नः अस्ति यत्‌ लृटः स्थानं किम्‌ ? 'अनद्यतन'-शब्दस्य अर्थः कः, भाष्यकारस्य शिक्षा श्वोभावी, नागेशस्य च चिन्तनं यत्‌ अनद्यतने लुटि श्वोभावश्च सम्भवति | अधुनापि मनसि जिज्ञासा वर्तते यत्‌ लृटोऽपवादः इत्यस्य कथनेन 'अपवाद'-शब्दस्य कोऽर्थः ? व्याकरणे, यः अपवादभूतः तस्य एव प्राप्तिः न तु अन्यस्य | अनेन लृटः स्थानं किम्‌ अपि च केन तर्केण ? अपि च भाष्यकारस्य मतमनुसृत्य लुट्‌-लकारस्य क्षेत्रं श्वः एव इति चेत्‌, "अग्रिमे सप्ताहे/मासे/वर्षे" इति कस्य लकारस्य क्षेत्रम्‌ ?



लृटोऽपवादः इत्यनेन लुट्‌-लकारः लृटः अपवादः एव | नाम भविष्यत्सामान्ये विहितः लृट्‌; अनद्यतनभविष्यद्विशेषे अर्थात्‌ श्वोभाविरूपभविष्यद्विशेषे अयं लुट्‌-लकारः विधीयते इति हेतोः येन नाप्राप्ते यो विधिरारभ्यते स तस्य बाधको भवति  इति न्यायेन एकः अपरस्य अपवादः  | यत्कर्तृकः अवश्यप्राप्तौ सत्यां, नाम यः विधिः अवश्यं प्राप्नोति, एवम्‌ अस्मिन्‌ विधौ प्राप्ते सति पुनः अन्यः विधिः आरभ्यते चेत्‌, स च पुनः आरभ्यमाणः विधिः अवश्यप्राप्तविधिं बाधते | प्रकृतौ भविष्यत्सामान्ये विहितः लृट्‌ इति कृत्वा लृटः अवश्यप्राप्तिरस्ति | श्वोभविष्यत्यपि भविष्यदेव, एवं तद्भिन्नं भविष्यत्सामान्यमपि भविष्यदेव | अतः भविष्यत्वनिमित्तकतया लृट्‌-लकारः प्राप्नोति | येन नाप्राप्ते यत्कर्तृक-अवश्यप्राप्तौ सत्यां, लृट्कर्तृक-अवश्यप्राप्तौ सत्यां यो विधिरारभ्यते, लुट्‌-विधिरारभ्यते, अयं लुड्विधिः तस्य, नाम लृटः, लृट्‌-विधेः बाधकः भवति | अतः "श्वः गमिष्यामि" इति तु न भवतीत्येव |



लृट्‌ भवति कुत्र ? काशिकायाम्‌ ‘अनद्यतने' इति बहुव्रीहिः इति यदा उक्तं तदानीं व्यामिश्रे लुट्‌ न भवति | विग्रहवाक्यम्‌ अस्ति 'अविद्यमानः अद्यतनः यस्मिन्‌ सः'| अद्यतन-अनद्यतनभविष्यतोः संयोगः यत्र भवति तत्र व्यामिश्रः | तत्पुरुषः उच्यते चेत्‌, विग्रहवाक्यम्‌ अस्ति ‘न अद्यतनः' इत्युक्ते अद्यतनमात्रं न, किन्तु अन्यः अपि भवितुमर्हति |  अद्यतनभेदः अद्यतन-अनद्यतनव्यामिश्रे अपि अस्ति | अतः तत्पुरुषः अस्ति चेत्‌, व्यामिश्रे अपि भवति | इत्युक्ते अद्यतनकालः अस्ति चेत्‌, एवम्‌ अनद्यतनकालः अस्ति चेत्‌, नाम अद्यतन-अनद्यतनव्यामिश्रः अस्ति चेत्‌, तदानीं सः केवलम्‌ अद्यतनः न, अनद्यतनः अपि अस्ति | अतः अद्यतनभेदः अस्ति | अद्यतनभिन्नत्वे सति तत्रापि (व्यामिश्रे) लुट्‌-लकारः स्यात्‌ | तस्य निवारणार्थं बहुव्रीहिसमासः—'अविद्यमानः अद्यतनः यस्मिन्‌ सः' इत्यनेन अद्यतनस्य निषेधः एव उच्यते | अनेन व्यामिश्रः न सम्भवति | यदा अद्यतनकालश्च अनद्यतनकालश्च इति अवधिद्वयं विवक्षायाम्‌ अन्तर्भूतं, तदा लृट्‌-लकारः उपयुज्यते— 'अद्य वा श्वः देवदत्तः करिष्यति’; 'अद्य वा श्वः वा देवदत्तः खादिष्यति' इति |



अद्यतनभविष्यत्‌-अनद्यतनभविष्यतोः उभयोरपि प्राप्तौ तदानीं लुट्‌ न भवति | यत्र अद्यतनभविष्यत्‌-अनद्यतनभविष्यतोः मिश्रणम्‌ अस्ति तत्र लृट्‌ | अपि च श्वोभिन्नभविष्यत्कालेऽपि भवति लृट्‌ | परश्वः आरभ्य लृट्‌-लकारः एव भवति | लुट्‌-लकारः श्वोभाविन्येव भवति | नागेशस्य कथनमस्ति यत्‌ तद्भिन्नभविष्यत्काले अपि भवितुमर्हति आरोपात्‌ | वस्तुतः परश्वोभावी कालः अस्ति चेत् लुट्‌-लकारः न प्राप्नोति | किन्तु तादृशे काले अपि श्वोभावित्वम्‌ आरोप्यते, नाम परश्वोभाविनि काले श्वोभावी कालः आरोप्यते अतः कथञ्चित्‌ भावनया तादृशानां प्रयोगाणां समर्थनं कृतम्‌ अस्ति | नो चेत्‌ भाष्यकारस्य मतम्‌ अस्ति यत्‌ लुट्‌-लकारः नाम केवलं श्वः | परश्वः, अग्रिमे सप्ताहे, अग्रिमे मासे, अग्रिमे वर्षे च लृट्‌-लकारः | अद्य च परश्वः आरभ्य लृट्‌-लकारः |  



तर्हि एतावता उक्तं यत्‌ 'अनद्यतन' इत्यस्य कथनेन 'अद्यतनस्य निषेधः' नाम 'अद्यतनसमीपकालः' एव सूत्रकारैः विवक्षितः | किन्तु वस्तुतस्तु अयं शब्दः 'अद्यतन' किञ्चित्‌ रहस्यजनकः | एकः प्रश्नः उदेति यत्‌ शास्त्रकारैः 'अनद्यतन' इति एव उक्तं; "श्वः एव”, ‘श्वस्तन' इति वक्तुं शक्तवान्‌ किन्तु नोक्तम्‌ | किमर्थं साक्षात्‌ नोक्तवान्‌ ? उत्तरत्वेन उच्यते यत्‌ सूत्रकारः ज्ञात्वा साङ्केतिकरीत्या उक्तवान्‌ एवम्‌ इच्छन्‌ यत्‌ जनाः चिन्तयेयुः |



अतः वयम्‌ अनुमानं कृत्वा भावयामः यत्‌ अर्थः एतादृशः स्यात्‌ | नो चेत्‌ अद्य अपि बहवः एतादृशजनाः सन्ति ये चिन्तयन्ति यत्‌ 'अनद्यतन' इत्युक्ते "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति तावत्‌ सर्व‍म्‌" | किन्तु तथा सूत्रकारस्य आशयः न स्यात्‌ | अद्यतनं त्यक्त्वा सर्वोऽपि अनद्यतनः भवति चेत्‌, पुनः भविष्यत्सामान्ये लृट्‌-लकारः इति कथं वा 'सामान्यम्‌' वदेम ? अपि च भविष्यत्सामान्ये लृट्‌-लकारः, अनद्यतने भविष्यत्‌ लुट्‌-लकारः इति भेदं किमर्थं वक्ष्यति सूत्रकारः ? स्वारस्यम्‌ अत्र नास्ति | नाम "भवान्‌ आगच्छतु, किन्तु अद्य न" इति यदा उच्यते तदा तस्य आशयः अद्यतनभिन्नश्वोभावी इति समीपे एव | दशानां वर्षाणाम्‌ अनन्तरम्‌ इति नार्थः | अद्यतनस्य प्रतिषेधात्‌ अयं समीपकालः इति अर्थः ग्रहीतुं युज्यते इति प्रतिभाति | आहत्य लुट्‌-लकारस्य व्यवहारः अतीव विशिष्टः न तु लृट्‌-लकारस्य | लृट्‌-लकारः सामान्यं न तु लुट्-लकारः | 'अनद्यतन' इत्यनेन "अद्य त्यक्त्वा अग्रे गत्वा यावत्‌ अस्ति सर्व‍म्‌" इति स्वीक्रियते चेत्‌, लुट्‌-लकारः एव सामान्यं भवति | किन्तु लुट्‌-लकारः एव विशिष्टः | प्रत्येकं भाषायाम्‌ एकः विशिष्टः व्यवहारः भवति "quite recently completed actions”, अपि च "that which is very soon to take place” इत्यर्थम्‌ | संस्कृतभाषायां तदेव 'अनद्यतन' इत्यनेन उक्तं, नाम अनद्यतनभूते लङ्‌-लकारः, अनद्यतनभविष्यति लुट्‌-लकारश्च | एवं कृत्वा "recently finished actions”, “about to come future actions” | यत्‌ ह्यः जातं तदर्थं लङ्‌-लकारः, यत्‌ श्वः जायमानमस्ति तदर्थं लुट्‌-लकारः | अथवा यत्र तादृशभावः अध्यारोपितः वर्तते, यथा निश्चितविवाहे |


अन्ततो गत्वा इतोऽपि एका वार्ता अस्ति यत्‌ भूतकाले परोक्ष-अपरोक्ष इति तत्त्वं वर्तते; भविष्यत्काले तादृशं किमपि नास्ति यतोहि भविष्यति सर्वमपि परोक्षमस्ति ।



सारांशत्वेन अस्माकं शुकवनम्‌ महोदयः एतत्‌ कोष्ठकं निर्मितवान्‌—




कैश्चित्‌ विशिष्टविधिसूत्रैः अपि अर्थविशेषे लृट्‌-लकारः विधीयते ।


अभिज्ञावचने लृट् (३.२.११२) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः भवति  | स्मृतिबोधिन्युपपदे भूतानद्यतने धातोर्लृट् स्यात् इति सिद्धान्तकौमुद्याम्‌ | स्मरणार्थे उपपदसज्ञकशब्दे सति अनद्यन्तभूतकालार्थे लृट्‌-लकारः भवति | लङः अपवादः | अभिज्ञा स्मृतिः, सा उच्यतेऽनेनेति अभिज्ञावचनं तस्मिन्‌ | सूत्रे ’वचन’ शब्दस्य अर्थः एवं यत्‌ अभिज्ञा इति पदमेव भवेत्‌ इति न; स्मृत्यर्थे यत्‌ किमपि पदं भवितुम्‌ अर्हति—स्मरसि,  बुध्यसे,  चेतयसे इत्यादीनि पदानि सम्भवन्ति | निदर्शने “अभिजानासि देवदत्त कश्मीरेषु वत्स्यामः” | “देवदत्त, भवतः मनसि स्यात्‌ यत्‌ वयं कश्मीरे वसामः स्म” इत्यर्थः | अभिज्ञावचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनद्यतने लङ् (३.२.१११) इत्यस्मात्‌ अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१),  परश्च (३.१.२),  धातोः  (३.१.९१), भूते (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते धातोः लृट्  प्रत्ययः परश्च |


न यदि (३.२.११३) = यद्‌-शब्दस्य योगे स्मृतिबोधकपदस्य सामीप्ये सत्यपि भूतानद्यतनार्थे लृट्‌-लकारो न भवति | उपपदसज्ञकस्मृत्यर्थकपदे सत्यपि यत्‌ इति अव्ययपदं तस्मिन्‌ वाक्ये उपयुज्यते चेत्‌ लृट्‌-लकारः न विधीयते | अभिज्ञावचने लृट् (३.२.११२) इत्यस्य निषेधकसूत्रम्‌ | एकवारं यदा अभिज्ञावचने लृट् (३.२.११२) इति सूत्रं निषिद्धं, तदा सामान्यसूत्रम्‌ अनद्यतने लङ् (३.२.१११) इत्यनेन लङ्‌-लकारः विधीयते | यथा “अभिजानासि कृष्ण यद्वने अभुञ्ज्महि” इति | स्मरसि कृष्ण यत्‌ वने वयम्‌ अखादाम | लृट्‌-लकारः भवति स्म, किन्तु यत्‌ इति पदं यदा उपयुक्तं तदा लृटः निषेधे सति लङ्‌-लकारः विहितः, अत्र ’अभुञ्ज्महि’ इति भुज्‌-धातोः लङ्‌ इति | न अव्ययपदं, यदि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ |  अभिज्ञावचने लृट् (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनद्यतने लङ् (३.२.१११) इत्यस्मात्‌ अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), भूते (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते यदि धातोः लृट् प्रत्ययः न |


विभाषा साकाङ्क्षे (३.२.११४) = स्मृतिबोधक-उपपदे सति भूत-अनद्यतनकाले धातोः लृट्‌-लकारः विकल्पेन भवति यदि सत्यपि असत्यपि यदा सम्बद्धक्रियाद्वयमस्ति अपि च एकस्याः आवश्यकता भवति अपरस्याः अर्थपूरणार्थम्‌ | उक्तविषयो लृड्वा स्यात् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः इति सिद्धान्तकौमुद्याम्‌ | अभिज्ञावचन उपपदे यच्छब्दसहिते केवले च विभाषा लृट् प्रत्ययो भवति साकाङ्क्षश्चेत् प्रयोक्ता इति काशिकायाम्‌ | साकाङ्क्ष-शब्दस्य अर्थः एवम्‌ अस्ति क्रियाद्वयं वर्तते, तत्र एका क्रिया भवति माध्यमं (लक्षणं), अन्या क्रिया भवति लक्ष्यम्‌ | एकया क्रियया अपरस्याः अर्थपूर्तिः | यथा “अभिजानासि देवदत्त कश्मीरान् गमिष्यामः, तत्र सक्तून् पास्यामः” अथवा, विकल्पेन, “अभिजानासि देवदत्त कश्मीरान् अगच्छाम, तत्र सक्तून् अपिबाम” | अत्र गमनं लक्षणं, पानं लक्ष्यम्‌ |  पुनः, ’यत्‌’ शब्दस्य व्यवहारे सति, “अभिजानासि देवदत्त यत् कश्मीरान् गमिष्यामः (अथवा यत् कश्मीरान् अगच्छाम,) यत् तत्रौदनं भोक्ष्यामहे (अथवा यत् तत्रौदनमभुञ्ज्महि)” | आकाङ्क्षया सह वर्तते साकाङ्क्षः इति सहपूर्वपदबहुव्रीहिः | विभाषा प्रथमान्तं, साकाङ्क्षे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अभिज्ञावचने लृट् (३.२.११२) इत्यस्य सम्पूर्णरीत्या अनुवृत्तिः | अनद्यतने लङ् (३.२.१११) इत्यस्मात्‌ अनद्यतने इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), भूते (३.२.८४) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—अभिज्ञावचने अनद्यतने भूते साकाङ्क्षे धातोः लृट् प्रत्ययः विभाषा |    


आशंसायां भूतवच्च (३.३.१३२) = भविषत्कालार्थे भूतकालस्य वर्तमानस्य च प्रत्ययः भवति विकल्पेन, आशायाः विवक्षायाम्‌ | भविष्यति काले भूतवद्वर्तमानवच्च प्रत्यया वा स्युराशंसायाम् इति सिद्धान्तकौमुद्याम्‌ | अप्राप्तस्य प्रियार्थस्य प्राप्तुमिच्छा—अप्राप्तपदार्थस्य प्राप्तेः इच्छाम्‌ ’आशंसा’ इत्युच्यते | आशंसा भविष्यति एव भवति | तथापि आशंसायाः विवक्षायाम्‌ अनेन सूत्रेण धातोः भूतकालार्थकश्च वर्तमानार्थकश्च प्रत्ययः विकल्पेन विधीयते | भूतवत्‌ इत्यस्य कथनेन सामान्यभूतकालः इत्यस्य इङ्गितम्‌ अतः सामान्यभूते लुङ्‌ इत्यस्य एव व्यवहारः अत्र न तु लङ्‌ वा लिट्‍ वा | निदर्शने “उपाध्यायश्चेदगमत् वा आगतः वा आगच्छति वा आगमिष्यति वा एते व्याकरणमध्यगीष्महि वा अधीतवन्तः वा अधीमहे वा अध्येष्यामहे” इति | अद्यापकः यदि आगच्छति तर्हि व्याकरणं पठेम | आशंसायां सप्तम्यन्तं, भूतवत् अव्ययं, च अव्ययं, त्रिपदमिदं सूत्रम्‌ | वर्तमानसामीप्ये वर्तमानवद्वा (३.३.१३१) इत्यस्मात्‌ वर्तमानवत्, वा इत्यनयोः अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—आशंसायां धातोः भूतवत्‌ वर्तमानवत् च प्रत्ययः वा परश्च |


क्षिप्रवचने लृट् (३.३.१३३) = क्षिप्रशब्दस्य च तदर्थकस्य उपपदे सति आशायाः विवक्षायां धातोः लृट्‌-लकारः भवति | क्षिप्रवचन उपपद आशंसायां गम्यमानायां धातोर्लृट् प्रत्ययो भवति इति काशिकायाम्‌ | ’वचन’ इति शब्दस्य कथनेन क्षिप्र-शब्दस्य समानार्थकाः शब्दाः अपि अन्तर्भवन्ति, यथा शीघ्रम्‌, आशु, त्वरितम् इत्यादीनि पदानि | निदर्शने “उपाध्यायश्चेत्क्षिप्रमागमिष्यति क्षिप्रं व्याकरणमध्येष्यामहे | अध्यापकः शीघ्रम्‌ आगमिष्यति चेत्‌, शीघ्रमेव व्याकरणं पठिष्यामः | क्षिप्रवचने सप्तम्यन्तं, लृट् प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आशंसायां भूतवच्च (३.३.१३२) इत्यस्मात्‌ आशंसायां इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्—आशंसायां क्षिप्रवचने धातोः लृट् प्रत्ययः परश्च |


प्रकृतसूत्रम्‌ आशंसायां भूतवच्च (३.३.१३२) इत्यस्य अपवादः यतोहि आशंसायां भूतवच्च (३.३.१३२) इति सूत्रेण क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म; क्षिप्रवचने लृट् (३.३.१३३) इत्यनेन केवलं लृट्‌-लकारः भवति | प्रश्नः उदेति यत्‌ प्रकृतसूत्रे ’लृट्‌’ इति वदनस्य आवश्यकता नास्ति | आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं ’न क्षिप्रवचने’ इति पर्याप्तम्‌ आसीत्‌ | उत्तरत्वेन उच्यते यत्‌ ’लृट्‌’ इति वदनस्य आवश्याकता अस्त्येव स्पष्टीकरणार्थं यत्‌ लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि, यथा “श्वः क्षिप्रमध्येष्यामहे”—श्वः क्षिप्रं पठिष्यामः |      


किंवृत्ते लिङ्लृटौ (३.३.१४४) = किम्‌ इति प्रश्नवाचके सति गर्हायाम्‌ अर्थायां धातोः लिङ्‌ च लृट्‌ च लकारौ भवतः । किम्‌-कतर-कतम इत्येषु अन्यतमः उपस्थितः स्यात्‌ इत्यनेन ’मिंवृत्तः’ । गर्हायामिति निन्दायाम्‌ इत्यर्थः । ’लिङ्‌’ इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत्‌ ’लट्‌’, यस्य अनुवृत्तिः भवति स्म, न जायेत । “गर्हायामित्येव। विभाषा न स्वर्यते। किंवृत्त उपपदे गर्हायां गम्यमानायां धातोर्लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। लिङ्ग्रहणं लटोऽपरिग्रहार्थम्।“ इति काशिकायाम्‌ । किमो वृत्तम्‌ किंवृत्तं, तस्मिन्‌ किंवृत्ते, षष्ठीतत्पुरुषसमासः । लिङ्‌ च लृट्‌ च तयोरितरेतरयोगद्वन्द्वो लिङ्लृतौ । किंवृत्ते सप्तम्यन्तं, लिङ्लृटौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ । गर्हायां लडपिजात्वोः (३.३.१४२) इत्यस्मात्‌ गर्हायाम् इत्यस्य अनुवृत्तिः । प्रत्ययः (३.१.१), धातोः  (३.१.९१), परश्च (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्— किंवृत्ते गर्हायाम् धातोः लिङ्‌ लृट् प्रत्ययौ परश्च |