7---ArdhadhAtukaprakaraNam/19---lRut lakAraH: Difference between revisions

7---ArdhadhAtukaprakaraNam/19---lRut lakAraH
Jump to navigation Jump to search
Content deleted Content added
Vidhya (talk | contribs)
No edit summary
No edit summary
Line 200: Line 200:

<big>प्रकृतसूत्रम्‌ '''आशंसायां भूतवच्च''' (३.३.१३२) इत्यस्य अपवादः यतोहि '''आशंसायां भूतवच्च''' (३.३.१३२) इति सूत्रेण क्षिप्रावस्थायामपि भूतकालिकप्रत्ययः च वर्तमानकालिकः च प्रत्ययः विधीयते स्म; '''क्षिप्रवचने लृट्''' (३.३.१३३) इत्यनेन केवलं लृट्‌-लकारः भवति | प्रश्नः उदेति यत्‌ प्रकृतसूत्रे ’लृट्‌’ इति वदनस्य आवश्यकता नास्ति | आशायाः प्रसङ्गे भविष्यत्कालः स्वाभाविकः अतः लाघवार्थं ’न क्षिप्रवचने’ इति पर्याप्तम्‌ आसीत्‌ | उत्तारत्वेन उच्यते यत्‌ ’लृट्‌’ इति वदनस्य आवश्याकता अस्त्येव स्पष्टीकरणार्थं यत्‌ लुट् इत्यस्य व्यवहारः न भविष्यति तस्य प्रसङ्गः अस्ति चेदपि, यथा “श्वः क्षिप्रमध्येष्यामहे”—श्वः क्षिप्रं पठिष्यामः |</big>                                                                                                                                              

<big>'''किंवृत्ते लिङ्लृटौ''' (३.३.१४४) = किम्‌ इति प्रश्नवाचके सति गर्हायाम्‌ अर्थायां धातोः लिङ्‌ च लृट्‌ च लकारौ भवतः । किम्‌-कतर-कतम इत्येषु अन्यतमः उपस्थितः स्यात्‌ इत्यनेन ’मिंवृत्तः’ । गर्हायामिति निन्दायाम्‌ इत्यर्थः । ’लिङ्‌’ इति पदं पूर्वतने सूत्रे वर्तते तथापि प्रकृतसूत्रे पुनः उक्तं दर्शनार्थं यत्‌ ’लट्‌’, यस्य अनुवृत्तिः भवति स्म, न जायेत । “गर्हायामित्येव। विभाषा न स्वर्यते। किंवृत्त उपपदे गर्हायां गम्यमानायां धातोर्लिङ्लृटौ प्रत्ययौ भवतः। सर्वलकाराणामपवादः। लिङ्ग्रहणं लटोऽपरिग्रहार्थम्।“ इति काशिकायाम्‌ । किमो वृत्तम्‌ किंवृत्तं, तस्मिन्‌ किंवृत्ते, षष्ठीतत्पुरुषसमासः । लिङ्‌ च लृट्‌ च तयोरितरेतरयोगद्वन्द्वो लिङ्लृतौ । किंवृत्ते सप्तम्यन्तं, लिङ्लृटौ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ । '''गर्हायां लडपिजात्वोः''' (३.३.१४२) इत्यस्मात्‌ '''गर्हायाम्''' इत्यस्य अनुवृत्तिः । '''प्रत्ययः''' (३.१.१), '''धातोः  '''(३.१.९१), '''परश्च''' (३.१.२) इत्येषाम्‌ अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''किंवृत्ते गर्हायाम् धातोः लिङ्‌ लृट् प्रत्ययौ परश्च''' |</big>