9---anye-vyAkaraNa-sambaddha-viShayAH/13---iiyasun-ishthan: Difference between revisions

From Samskrita Vyakaranam
9---anye-vyAkaraNa-sambaddha-viShayAH/13---iiyasun-ishthan
Jump to navigation Jump to search
Content added Content deleted
(Paragraph formatting)
(Again paragraph format)
Line 12: Line 12:
<u>ईयसुन्‌, इष्ठन्‌ इति तुलनात्मकप्रत्ययौ</u>
<u>ईयसुन्‌, इष्ठन्‌ इति तुलनात्मकप्रत्ययौ</u>



अतिशयार्थे चत्वारः प्रसिद्धप्रत्ययाः— तरप्‌, तमप्‌, ईयसुन्‌, इष्ठन्‌ च | यत्र द्वयोः समूहयोः अन्यतमः स्वीक्रियते, तत्र तरप्‌ च ईयसुन्‌ च उपयुज्येते; यत्र तदधिकेषु समूहेषु अन्यतमः स्वीक्रियते, तत्र तमप्‌ इष्ठन्‌ च उपयुज्येते | प्रश्नः उदेति यत्‌ तरप्‌, ईयसुन्‌ च अनयोर्मध्ये किमपि पार्थक्यं वर्तते किम्‌ ? तथैव तमप्‌ इष्ठन्‌ चेत्यनयोर्मध्ये किमपि पार्थक्यमस्ति वा ? अत्र वक्तव्यं यत्‌ अर्थदृष्ट्या यद्यपि भेदो नास्ति, तथापि प्रयोगक्षेत्रे भेदस्त्वस्ति | प्रथमतया अर्थः— तमप्‌, इष्ठन्‌ इत्यनयोर्विधायकसूत्रमस्ति '''अतिशायने तमबिष्ठनौ''' (५.३.५५) | एवमेव तरप्‌, ईयसुन्‌ इत्यनयोर्विधायकसूत्रमस्ति '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) | अनेन चतुर्णामपि प्रत्ययानाम्‌ अतिशयार्थो भवति | अतिशय-शब्दस्य 'अधिकं, पुनः 'इतोऽपि सम्यक्‌' इति अर्थद्वयं बोधयति, अतः सन्दर्भम्‌ अनुसृत्य आशयः बोध्यः | (यथा 'त्वचिष्ठ'-शब्दस्य अर्थः 'यस्य अधिका त्वक्‌ वर्तते’, अथवा 'यस्य त्वक्‌ इतोऽपि सम्यक्‌' इत्येतादृशभेदः सन्दर्भानुगुणं परिशीलनीयः |)<font size="4"><u><font face="Lohit Devanagari"><span lang="hi-IN">ईयसुन्‌</span></font><font face="Lohit Devanagari">, </font><font face="Lohit Devanagari"><span lang="hi-IN">इष्ठन्‌ इति तुलनात्मकप्रत्ययौ</span></font></u></font>
अतिशयार्थे चत्वारः प्रसिद्धप्रत्ययाः— तरप्‌, तमप्‌, ईयसुन्‌, इष्ठन्‌ च | यत्र द्वयोः समूहयोः अन्यतमः स्वीक्रियते, तत्र तरप्‌ च ईयसुन्‌ च उपयुज्येते; यत्र तदधिकेषु समूहेषु अन्यतमः स्वीक्रियते, तत्र तमप्‌ इष्ठन्‌ च उपयुज्येते | प्रश्नः उदेति यत्‌ तरप्‌, ईयसुन्‌ च अनयोर्मध्ये किमपि पार्थक्यं वर्तते किम्‌ ? तथैव तमप्‌ इष्ठन्‌ चेत्यनयोर्मध्ये किमपि पार्थक्यमस्ति वा ? अत्र वक्तव्यं यत्‌ अर्थदृष्ट्या यद्यपि भेदो नास्ति, तथापि प्रयोगक्षेत्रे भेदस्त्वस्ति | प्रथमतया अर्थः— तमप्‌, इष्ठन्‌ इत्यनयोर्विधायकसूत्रमस्ति '''अतिशायने तमबिष्ठनौ''' (५.३.५५) | एवमेव तरप्‌, ईयसुन्‌ इत्यनयोर्विधायकसूत्रमस्ति '''द्विवचनविभज्योपपदे तरबीयसुनौ''' (५.३.५७) | अनेन चतुर्णामपि प्रत्ययानाम्‌ अतिशयार्थो भवति | अतिशय-शब्दस्य 'अधिकं, पुनः 'इतोऽपि सम्यक्‌' इति अर्थद्वयं बोधयति, अतः सन्दर्भम्‌ अनुसृत्य आशयः बोध्यः | (यथा 'त्वचिष्ठ'-शब्दस्य अर्थः 'यस्य अधिका त्वक्‌ वर्तते’, अथवा 'यस्य त्वक्‌ इतोऽपि सम्यक्‌' इत्येतादृशभेदः सन्दर्भानुगुणं परिशीलनीयः |)




Line 27: Line 28:


प्रकृतिः अनेकाच्‌ चेत्‌—
प्रकृतिः अनेकाच्‌ चेत्‌—



लघु + ईयसुन्‌ → '''टेः''' (६.४.१५५) इत्यनेन टि-भागलोपः → लघ्‌ + ईयसुन्‌ → लघीयस्‌ → लघीयान्‌ |
लघु + ईयसुन्‌ → '''टेः''' (६.४.१५५) इत्यनेन टि-भागलोपः → लघ्‌ + ईयसुन्‌ → लघीयस्‌ → लघीयान्‌ |
Line 35: Line 37:


एवमेव 'पटु', 'मधु', 'बल' च इव यत्र शब्दः अनेकाच्‌, तत्र टि-भागस्य लोपः | पटीयान्‌, मधीयान्‌, बलीयान्‌ |
एवमेव 'पटु', 'मधु', 'बल' च इव यत्र शब्दः अनेकाच्‌, तत्र टि-भागस्य लोपः | पटीयान्‌, मधीयान्‌, बलीयान्‌ |




प्रकृतिः एकाच्‌ चेत्‌—
प्रकृतिः एकाच्‌ चेत्‌—





श्र + ईयसुन्‌ → '''प्रकृत्यैकाच्‌''' (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + ईयसुन्‌ → श्रेय‌स्‌ → श्रेयान्‌
श्र + ईयसुन्‌ → '''प्रकृत्यैकाच्‌''' (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + ईयसुन्‌ → श्रेय‌स्‌ → श्रेयान्‌





श्र + इष्ठन्‌ → '''प्रकृत्यैकाच्‌''' (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + इष्ठन्‌ → गुणसन्धिः → श्रेष्ठः
श्र + इष्ठन्‌ → '''प्रकृत्यैकाच्‌''' (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + इष्ठन्‌ → गुणसन्धिः → श्रेष्ठः





Line 52: Line 55:


<u>प्रकृत्यादेशः</u>
<u>प्रकृत्यादेशः</u>





Line 73: Line 77:


<u>सामान्यम्‌</u>
<u>सामान्यम्‌</u>






Revision as of 08:34, 10 May 2021

09 - अन्ये व्याकरण-सम्बद्ध-विषयाः‎ >


ध्वनिमुद्रणानि -

१) iiyasun-iShThan---prayoga-kShetraM-ca-tadantavyutpatti-prakriyA_2019-07-06

२) iiyasun-iShThan----tadantavyutpatti-prakriyA---shAstriiyAvalokanam_2019-07-13

३) iiyasun-iShThan----vyAvahArikAvalokanaM---vishiShTa-rUpANi---prakRutyAdeshaH-angakAryaM-ca_2019-07-20

ईयसुन्‌, इष्ठन्‌ इति तुलनात्मकप्रत्ययौ


अतिशयार्थे चत्वारः प्रसिद्धप्रत्ययाः— तरप्‌, तमप्‌, ईयसुन्‌, इष्ठन्‌ च | यत्र द्वयोः समूहयोः अन्यतमः स्वीक्रियते, तत्र तरप्‌ च ईयसुन्‌ च उपयुज्येते; यत्र तदधिकेषु समूहेषु अन्यतमः स्वीक्रियते, तत्र तमप्‌ इष्ठन्‌ च उपयुज्येते | प्रश्नः उदेति यत्‌ तरप्‌, ईयसुन्‌ च अनयोर्मध्ये किमपि पार्थक्यं वर्तते किम्‌ ? तथैव तमप्‌ इष्ठन्‌ चेत्यनयोर्मध्ये किमपि पार्थक्यमस्ति वा ? अत्र वक्तव्यं यत्‌ अर्थदृष्ट्या यद्यपि भेदो नास्ति, तथापि प्रयोगक्षेत्रे भेदस्त्वस्ति | प्रथमतया अर्थः— तमप्‌, इष्ठन्‌ इत्यनयोर्विधायकसूत्रमस्ति अतिशायने तमबिष्ठनौ (५.३.५५) | एवमेव तरप्‌, ईयसुन्‌ इत्यनयोर्विधायकसूत्रमस्ति द्विवचनविभज्योपपदे तरबीयसुनौ (५.३.५७) | अनेन चतुर्णामपि प्रत्ययानाम्‌ अतिशयार्थो भवति | अतिशय-शब्दस्य 'अधिकं, पुनः 'इतोऽपि सम्यक्‌' इति अर्थद्वयं बोधयति, अतः सन्दर्भम्‌ अनुसृत्य आशयः बोध्यः | (यथा 'त्वचिष्ठ'-शब्दस्य अर्थः 'यस्य अधिका त्वक्‌ वर्तते’, अथवा 'यस्य त्वक्‌ इतोऽपि सम्यक्‌' इत्येतादृशभेदः सन्दर्भानुगुणं परिशीलनीयः |)


किन्तु प्रयोगक्षेत्रे एकं सूत्रं वर्तते— अजादी गुणवचनादेव (५.३.५८) | चतुर्षु प्रत्ययेषु यौ द्वौ प्रत्ययौ अजादी, तयोः अनेन सूत्रेण प्रयोगक्षेत्रं सीमितम्‌ | संस्कृतभाषायां, सरलरीत्या सुबन्तपदानां त्रैविध्यं— द्रव्यवाचकानि, गुणवाचकानि, क्रियावाचकानि च | तरप्‌, तमप्‌ इति द्वौ प्रत्ययौ त्रिभ्यः अपि प्रकारेभ्यः विधीयेते | परन्तु ईयसुन्‌, इष्ठन्‌ इति द्वौ प्रत्ययौ अजादी; तदर्थम्‌ अजादी गुणवचनादेव (५.३.५८) इति सूत्रेण द्वावपि केवलं गुणवाचिभ्यः पदेभ्यः विधीयेते , न तु द्रव्यवाचिभ्यः क्रियावाचिभ्यः वा | अतः लघीयान्‌, लघिष्ठः इति एते द्वे भवतः | एवमेव पटीयान्‌, पटिष्ठः इति एते द्वे पदे भवतः | लघु-शब्दः अपि, पटु-शब्दः अपि गुणवाचकः |


किन्तु अजादी गुणवचनादेव (५.३.५८) इति सूत्रेण पाचक-शब्दा‍त्‌ एतौ द्वौ प्रत्ययौ न विधीयेते यतोहि पाचक-शब्दः क्रियावाचकः न तु गुणवाचकः; यः पचति सः पाचकः इति कृत्वा सः क्रियावान्‌ | तत्र तरप्‌, तमप्‌ च किन्तु भवति— पाचकतरः, पाचकतमः | 'द्वयोः मध्ये सम्यक्‌ पाचकः' इति पाचकतरः | 'बहुषु सम्यक्‌ पाचकः' इति पाचकतमः | पुनः गुणवचकशब्दः अस्ति चेदपि तरप्‌, तमप्‌ च भवति— पटुतरः, पटुतमः | आहत्य ईयसुन, इष्ठन्‌ च गुणवाचिभ्यः एव; तरप्‌ तमप्‌ च सर्वेभ्यः अपि भवति |


सम्प्रति सामान्यव्युत्पत्तिप्रक्रिया प्रदर्श्यते | प्रथमतया 'टि-भागः' नाम कः इति ज्ञातव्यः | 'टि' इति एका संज्ञा अस्ति | कस्यापि अंशस्य अन्तिम-स्वरस्य, अपि च तस्य स्वरस्य अनन्तरं हल्‌-वर्णः अस्ति चेत्‌ तर्हि मिलित्वा तयोः, 'टि'-संज्ञा भवति | यथा राम इति शब्दः, अत्र मकारोत्तर-अकारस्य टि-संज्ञा | तथैव हरि-शब्दे इकारस्य टि-संज्ञा | मनस्‌ इत्यस्मिन्‌ 'अस्' इत्यस्य टि-संज्ञा |


अधुना द्रष्टव्यं यत्‌ यस्मात्‌ शब्दात्‌ ईयसुन्‌ वा इष्ठन्‌ वा योजयितुमिच्छामः, स च शब्दः एकाच्‌ वा, अनेकाच्‌ वा ? यस्मिन्‌ शब्दे एक एव अच्‌-वर्णः विद्यते, सः शब्दः 'एकाच्‌' इति उच्यते; एकः एव अच्‌ यस्य सः, एकाच्‌ | अपि च यस्य शब्दस्य तदधिकाः स्वराः, सः तु अनेकाच्‌ | एतत्‌ किमर्थं ज्ञातव्यमिति चेत्‌, टेः (६.४.१५५) इति सूत्रेण शब्दः अनेकाच् अस्ति चेत्‌, तस्य टि-भागस्य लोपः भवति ईयसुन्‌ च इष्ठन्‌ च प्रत्यये परे | शब्दः एकाच्‌ अस्ति चेत्, प्रकृत्यैकाच्‌ (६.४.१६३) इति सूत्रेण प्रकृतेः (नाम मूलशब्दस्य) टि-भागलोपो न भवति ईयसुन्‌ च इष्ठन्‌ च प्रत्यये परे |

प्रकृतिः अनेकाच्‌ चेत्‌—


लघु + ईयसुन्‌ → टेः (६.४.१५५) इत्यनेन टि-भागलोपः → लघ्‌ + ईयसुन्‌ → लघीयस्‌ → लघीयान्‌ |


लघु + इष्ठन्‌ → टेः (६.४.१५५) इत्यनेन टि-भागलोपः → लघ्‌ + इष्ठन्‌ → लघिष्ठः |


एवमेव 'पटु', 'मधु', 'बल' च इव यत्र शब्दः अनेकाच्‌, तत्र टि-भागस्य लोपः | पटीयान्‌, मधीयान्‌, बलीयान्‌ |

प्रकृतिः एकाच्‌ चेत्‌—


श्र + ईयसुन्‌ → प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + ईयसुन्‌ → श्रेय‌स्‌ → श्रेयान्‌


श्र + इष्ठन्‌ → प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र + इष्ठन्‌ → गुणसन्धिः → श्रेष्ठः


इति सामान्यचिन्तनं, यत्र कोऽपि प्रकृत्यादेशः नस्ति, किमपि विशिष्टसूत्रं वा नास्ति | इतः अग्रे अनेकानि सूत्राणि सन्ति यैः यस्मात्‌ शब्दात्‌ ईयसुन्‌ इष्ठन्‌ च विधीयेते, तस्मिन्‌ शब्दे किमपि परिवर्तनम्‌ आनेतव्यम्‌ |


प्रकृत्यादेशः


प्रशस्यस्य श्रः (५.३.६०)

ज्य च ( ५.३.६१)

वृद्धस्य च ( ५.३.६२)

अन्तिकबाढयोर्नेदसाधौ (५.३.६३)

युवाल्पयोः कनन्यतरस्याम्‌ (५.३.६४)

विन्मतोर्लुक्‌ (५.३.६५)


अङ्गकार्यम्‌


सामान्यम्‌


टेः (६.४.१५५)

प्रकृत्यैकाच्‌ (६.४.१६३)


विशेषः

तुरिष्ठेमेयःसु (६.४.१५४)

स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६)

प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहि-गर्वर्षित्रब्द्राघिवृन्दाः (६.४.१५७)

बहोर्लोपो भू च बहोः (६.४.१५८)

इष्ठस्य यिट्‌ च (६.४.१५९)

ज्यादादीयसः (६.४.१६०)

र ऋतो हलादेर्लघोः (६.४.१६१)

विभाषर्जोश्छन्दसि (६.४.१६२)

प्रशस्यस्य श्रः (५.३.६०) = प्रशस्य-शब्दस्य स्थाने श्र-आदेशो भवति इष्ठन्‌, ईयसुन्‌ इति प्रत्यययोः परयोः |


श्रेष्ठः, श्रेयान्‌‌‌

सर्वे इमे प्रशस्याः, अयमेषामतिशयेन प्रशस्यः, श्रेष्ठः |

उभौ इमौ प्रशस्यौ, अयमनयोरतिशयेन प्रशस्यः, श्रेयान्‌‌‌ |


प्रशस्य + इष्ठन्‌ → प्रशस्यस्य श्रः (५.३.६०) इत्यनेन प्रशस्य-शब्दस्य स्थाने श्र-आदेशः → श्र +इष्ठ → श्र एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र +इष्ठ → आद्‌गुणः (६.१.८७) इत्यनेन अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → श्रेष्ठ | श्रेष्ठः |

प्रशस्य + ईयसुन्‌ → प्रशस्यस्य श्रः (५.३.६०) इत्यनेन प्रशस्य-शब्दस्य स्थाने श्र-आदेशः → श्र +ईयस्‌ → श्र एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → श्र +ईयस्‌ → आद्‌गुणः (६.१.८७) इत्यनेन अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → श्रेयस् | श्रेयान्‌ |


ज्य च ( ५.३.६१) = प्रशस्य-शब्दस्य स्थाने ज्य-आदेशोऽपि भवति इष्ठन्‌, ईयसुन्‌ इति प्रत्यययोः परयोः |

ज्यादादीयसः (६.४.१६०) = ज्य-शब्दात्‌ ईयसुन्‌-प्रत्ययस्य ई-स्थाने आकारादेशो भवति | ज्यात् पञ्चम्यन्तम्‌, आत् प्रथमान्तम्‌, ईयसः षष्ठ्यन्तम्‌ |


ज्येष्ठः, ज्यायान्‌ (प्रशस्य इति प्रादिपदिकात्‌)

प्रशस्य + इष्ठन्‌ → ज्य च ( ५.३.६१) इत्यनेन प्रशस्य-शब्दस्य स्थाने ज्य-आदेशः → ज्य +इष्ठ → ज्य एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +इष्ठ → आद्‌गुणः (६.१.८७) इत्यनेन अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → ज्येष्ठ | ज्येष्ठः |

प्रशस्य + ईयसुन्‌ → ज्य च ( ५.३.६१) इत्यनेन प्रशस्य-शब्दस्य स्थाने ज्य-आदेशः → ज्य +ईयस्‌ → ज्य एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +ईयस्‌ → ज्यादादीयसः (६.४.१६०) इत्यनेन ईयसुन्‌-प्रत्ययस्य ई-स्थाने आकारादेशः → ज्यायस् | ज्यायान् |


वृद्धस्य च ( ५.३.६२) = वृद्ध-शब्दस्य अपि स्थाने ज्य-आदेशो भवति इष्ठन्‌, ईयसुन्‌ इति प्रत्यययोः परयोः |


ज्येष्ठः, ज्यायान्‌ (वृद्ध इति प्रादिपदिकात्‌)

सर्वे इमे वृद्धाः, अयमेषामतिशयेन वृद्धः, ज्येष्ठः |

उभौ इमौ वृद्धौ, अयमनयोरतिशयेन वृद्धः, ज्यायान्‌ |


वृद्ध + इष्ठन्‌ → वृद्धस्य च ( ५.३.६२) इत्यनेन वृद्ध-शब्दस्य स्थाने ज्य-आदेशः → ज्य +इष्ठ → ज्य एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +इष्ठ → आद्‌गुणः (६.१.८७) इत्यनेन अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः → ज्येष्ठ | ज्येष्ठः |

वृद्ध + ईयसुन्‌ → वृद्धस्य च ( ५.३.६२) इत्यनेन वृद्ध-शब्दस्य स्थाने ज्य-आदेशः → ज्य +ईयस्‌ → ज्य एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → ज्य +ईयस्‌ → ज्यादादीयसः (६.४.१६०) इत्यनेन ईयसुन्‌-प्रत्ययस्य ई-स्थाने आकारादेशः → ज्यायस् | ज्यायान् |


अन्तिकबाढयोर्नेदसाधौ (५.३.६३) = अन्तिक, बाढ इति शब्दयोः यथासंख्यं नेद, साध इति आदेशौ भवतः अजादिप्रत्यये परे |


नेदिष्ठः, नेदीयान्‌

अन्तिक + इष्ठन्‌ → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन अन्तिक-स्थाने नेद-आदेशः → नेद +इष्ठ → नेद अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → नेद्‌ + इष्ठ → नेदिष्ठ |

अन्तिक + ईयसुन्‌ → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन अन्तिक-स्थाने नेद-आदेशः → नेद +ईयस्‌ → नेद अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → नेद्‌ + ईयस्‌ → नेदीयस्‌ | नेदीयान्‌ |


साधिष्ठः, साधीयान्‌

बाढ + इष्ठन्‌ → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन बाढ-स्थाने साध-आदेशः → साध +इष्ठ → सध अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → साध् + इष्ठ → साधिष्ठ |

बाढ + ईयसुन्‌ → अन्तिकबाढयोर्नेदसाधौ (५.३.६३) इत्यनेन बाढ-स्थाने सध-आदेशः → सध +ईयस्‌ → सध अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → साध् +ईयस्‌ → साधीयस्‌ | साधीयान्‌ |


युवाल्पयोः कनन्यतरस्याम्‌ (५.३.६४) =युवन्‌, अल्प इति शब्दयोः स्थाने विकल्पेन कन्‌-आदेशो भवति इष्ठन्‌, ईयसुन्‌ इति प्रत्यययोः परयोः |


कनिष्ठः, कनीयान्‌

सर्वे इमे युवानः, अयमेषामतिशयेन युवा, कनिष्ठः |

उभौ इमौ युवानौ, अयमनयोरतिशयेन युवा, कनीयान्‌ |


नकारान्त-पुंलिङ्गशब्दः युवन्‌ (वयसा लघुः)

युवा युवानौ युवानः
युवानम् युवानौ यूनः
यूना युवभ्याम् युवभिः
यूने युवभ्याम् युवभ्यः
यूनः युवभ्याम् युवभ्यः
यूनः यूनोः यूनाम्‌
यूनि यूनोः युवसु
हे युवन्‌ हे युवनौ हे युवानः


कनिष्ठः, कनीयान्‌

युवन्‌ + इष्ठन्‌ → युवाल्पयोः कनन्यतरस्याम्‌ (५.३.६४) इत्यनेन युवन्‌-शब्दस्य स्थाने विकल्पेन कन्‌-आदेशः → कन्‌ +इष्ठ → कन्‌ एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → कन्‌ +इष्ठ → कनिष्ठ | कनिष्ठः |

युवन्‌ + ईयसुन्‌ → युवाल्पयोः कनन्यतरस्याम्‌ (५.३.६४) इत्यनेन युवन्‌-शब्दस्य स्थाने विकल्पेन कन्‌-आदेशः → कन्‌ +ईयस्‌ → कन्‌ एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → कन्‌ +ईयस्‌ → कनीयस् | कनीयान्‌ |


यविष्ठः, यवीयान्‌

कन्‌-आदेशस्य विपक्षे—

युवन्‌ + इष्ठन्‌ → स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इत्यनेन युवन्‌-शब्दस्य वन्‌-भागस्य लोपः, तस्मात्‌ प्राक्‌ च स्थितस्य उकारस्य गुणः → यो +इष्ठ → एचोऽयवायावः (६.१.७७) इत्यनेन अव्‌-आदेशः → यविष्ठ | यविष्ठः |

युवन्‌ + ईयसुन्‌ → स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) इत्यनेन युवन्‌-शब्दस्य वन्‌-भागस्य लोपः, तस्मात्‌ प्राक्‌ च स्थितस्य उकारस्य गुणः → यो +ईयस्‌ → एचोऽयवायावः (६.१.७७) इत्यनेन अव्‌-आदेशः → यवीयस्‌ | यवीयान्‌ |


विन्मतोर्लुक्‌ (५.३.६५) = विन्‌, मतुप्‌ अनयोः लोपो भवति इष्ठन्‌, ईयसुन्‌ इति प्रत्यययोः परयोः |


स्रजिष्ठः, स्रजीयान्‌

सर्वे इमे स्रग्विणः, अयमेषामतिशयेन स्रग्वी, स्रजिष्ठः |

उभौ इमौ स्रग्विणौ, अयमनयोरतिशयेन स्रग्वी, स्रजीयान्‌ |


स्रग्विन्‌ + इष्ठन्‌ → विन्मतोर्लुक्‌ (५.३.६५) इत्यनेन विन्‌-भागस्य लुक्‌ (लोपः) → स्रज्‌ + इष्ठ → स्रज्‌ एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → स्रज्‌ + इष्ठ → स्रजिष्ठ |

स्रग्विन्‌ + ईयसुन्‌ → विन्मतोर्लुक्‌ (५.३.६५) इत्यनेन विन्‌-भागस्य लुक्‌ (लोपः) → स्रज्‌ + ईयस्‌ → स्रज्‌ एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → स्रज्‌ + ईयस्‌ → स्रजीयस्‌ | स्रजीयान्‌ |


त्वचिष्ठः, त्वचीयान्‌

सर्वे इमे त्वग्वन्तः, अयमेषामतिशयेन त्वग्वान्‌, त्वचिष्ठः |

उभौ इमौ त्वग्वन्तौ, अयमनयोरतिशयेन त्वग्वान्‌, त्वचीयान्‌ |


त्वग्वान्‌ + इष्ठन्‌ → विन्मतोर्लुक्‌ ( ५.३.६५) इत्यनेन मतुप्‌-लुक्‌ (लोपः) → त्वच्‌ + इष्ठ → त्वच्‌ एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → त्वच्‌ + इष्ठ → त्वचिष्ठ |

त्वग्वान्‌ + ईयसुन्‌ → विन्मतोर्लुक्‌ ( ५.३.६५) इत्यनेन मतुप्‌-लुक्‌ (लोपः) → त्वच्‌ + ईयस्‌ → त्वच्‌ एकाच्‌ अतः प्रकृत्यैकाच्‌ (६.४.१६३) इत्यनेन टि-भागलोपनिषेधः → त्वच्‌ + ईयस्‌ → त्वचीयस्‌ | त्वचीयान्‌ |


इदं सूत्रं विन्मतोर्लुक्‌ (५.३.६५) ज्ञापकमस्ति यत्‌ विन्नन्तशब्दस्य मतुबन्तशब्दस्य च तुलनात्मकार्थे इष्ठन्‌, ईयसुन्‌ इत्यनयोः व्यवहारः भवति | यथा बुद्धिमान्‌ इत्यस्य मतुप्‌-लुक्‌ बुद्धि + इष्ठ → बुद्धि अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → बुद्ध्‌ + इष्ठ → बुद्धिष्ठ | धनवान्‌ अपि तथैव कल्पनीयम् |


तुरिष्ठेमेयःसु (६.४.१५४) = शब्दस्य तृ-भागलोपो भवति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु |


करिष्ठ, विजयिष्ठ, वहिष्ठ

कर्तृ + इष्ठन्‌ → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः → कर्‌ + इष्ठ → करिष्ठ |

विजेतृ + इष्ठन्‌ → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः → विजे + इष्ठ → एचोऽयवायावः (६.१.७७) इत्यनेन अय्‌-आदेशः → विजयिष्ठ |

वह्‌ + तृच्‌ → वोढृ → वोढृ + इष्ठन्‌ → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः (मूले 'तृ' आसीत्‌) → वह्‌ + इष्ठ → वहिष्ठ |


दोहीयसी

दुह्‌ + तृच्‌ → दोग्धृ → स्त्रियां दोग्ध्री → दोग्ध्री + ईयसुन्‌ → भस्याढे तद्धिते पुंवद्भावो वक्तव्यः इत्यनेन वार्त्तिकेन पुंवद्भावः, ङीप्‌-निवृत्तिः → दोग्धृ + ईयस्‌ → तुरिष्ठेमेयःसु (६.४.१५४) इत्यनेन तृ-भागलोपः (मूले 'तृ' आसीत्‌) → दोह्‌ + ईयस्‌ → दोहीयस्‌ → दोहीयस्‌ + स्त्रियां ङीप्‌ → दोहीयसी | दोहीयसी धेनुः, या धेनुः बहु दुग्धं ददाति |


स्थूलदूरयुवह्रस्वक्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः (६.४.१५६) = स्थूल, दूर, युवन्‌, ह्रस्व, क्षिप्र, क्षुद्र इत्येषाम्‌ अङ्गानां यणादिपर-भागः, तस्य भागस्य लोपो भवति अपि च तस्मात्‌ भागा‍त्‌ पूर्वं स्थितस्य शब्दस्वरूपस्य इकः गुणो भवति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु | ‘यणादिपर-भागः’ इत्युक्तौ य्‌, र्‌, ल्‌, व्‌ एषु अन्यतमः अपि च तदनन्तरं यावत्‌ अस्ति |


स्थूल + इष्ठन्‌ → स्थो + इष्ठ → स्थविष्ठ | स्थविष्ठः, स्थवीयान्‌ |

दूर + इष्ठन्‌ → दो + इष्ठ → दविष्ठ | दविष्ठः, दवीयान्‌ |

युवन्‌ + इष्ठन्‌ → यो + इष्ठ → यविष्ठ | यविष्ठः, यवीयान्‌ |

ह्रस्व + इष्ठन्‌ → ह्रस्‌ + इष्ठ → ह्रसिष्ठ | ह्रसिष्ठः, ह्रसीयान्‌ |

क्षिप्र + इष्ठन्‌ → क्षेप्‌ + इष्ठ → क्षेपिष्ठ | क्षेपिष्ठः, क्षेपीयान्‌ |

क्षुद्र + इष्ठन्‌ → क्षोद्‌ + इष्ठ → क्षोदिष्ठ | क्षोदिष्ठः, क्षोदीयान्‌ |


प्रियस्थिरस्फिरोरुबहुलगुरुवृद्धतृप्रदीर्घवृन्दारकाणां प्रस्थस्फवर्बंहि-गर्वर्षित्रब्द्राघिवृन्दाः (६.४.१५७) = प्रिय, स्थिर, स्फिर, उरु, बहुल, गुरु, वृद्ध, तृप्र, दीर्घ, वृन्दारक इत्येषां स्थाने यथासंख्यम्‌ प्र, स्थ, स्फ, वर्‌, बंह्‌, गर्‌, वर्ष्‌, त्रप्‌, द्राघ्‌, वृन्द एते आदेशाः भवन्ति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु |


प्रिय + इष्ठन्‌ → प्र + इष्ठ → प्रेष्ठ | प्रेष्ठः, प्रेयान्‌ |

स्थिर + इष्ठन्‌ → स्थ + इष्ठ → स्थेष्ठ | स्थेष्ठः, स्थेयान्‌ |

स्फिर + इष्ठन्‌ → स्फ + इष्ठ → स्फेष्ठ | स्फेष्ठः, स्फेयान्‌ |

उरु + इष्ठन्‌ → वर्‌ + इष्ठ → वरिष्ठ | वरिष्ठः, वरीयान्‌ |

बहुल + इष्ठन्‌ → बंह्‌ + इष्ठ → बंहिष्ठ | बंहिष्ठः, बंहीयान् |

गुरु + इष्ठन्‌ → गर्‌ + इष्ठ → गरिष्ठ | गरिष्ठः, गरीयान्‌ |

वृद्ध + इष्ठन्‌ → वर्ष्‌ + इष्ठ → वर्षिष्ठ | वर्षिष्ठः, वर्षीयान्‌ |

तृप्र + इष्ठन्‌ → त्रप्‌ + इष्ठ → त्रपिष्ठ | त्रपिष्ठः, त्रपीयान्‌ |

दीर्घ + इष्ठन्‌ → द्राघ्‌ + इष्ठ → द्राघिष्ठ | द्राघिष्ठः, द्राघीयान्‌ |

वृन्दारक + इष्ठन्‌ → वृन्द + इष्ठ → वृन्दिष्ठ → वृन्दिष्ठः, वृन्दीयान्‌ |


(उपरितने सूत्रे 'बंहि’, 'द्राघि' अनयोः इकारः केवलम्‌ उच्चारणार्थः |)


बहोर्लोपो भू च बहोः (६.४.१५८) = बहु-शब्दस्य स्थाने भू-आदेशो भवति अपि च परयोः इमनिच्‌, ईयसुन्‌ अनयोः इ, ई च लोपो भवति |


बहु + ईयसुन्‌ → भू +यस्‌ → भूयस्‌ | भूयान्‌ |


इष्ठस्य यिट्‌ च (६.४.१५९) = बहु-शब्दस्य स्थाने भू-आदेशो भवति अपि च इष्ठन्‌-प्रत्ययस्य यिट्‌-आगमो भवति | काशिकावृत्तिः— बहोरुत्तरस्य इष्ठस्य यिडागमो भवति, बहोश्च भूरादेशो भवति | भूयिष्ठः | लोपापवादो यिडागमः, तस्मिन्निकार उच्चारणार्थः |


बहु + इष्ठन्‌ → भू + यिष्ठ → भूयिष्ठ | भूयिष्ठः |


र ऋतो हलादेर्लघोः (६.४.१६१) = हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशो भवति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु |


पृथु + इष्ठन्‌ → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → प्रथु + इष्ठ → प्रथु अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → प्रथ्‌ + इष्ठ → प्रथिष्ठ | प्रथिष्ठः, प्रथीयान्‌ |

मृदु + इष्ठन्‌ → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → म्रदु + इष्ठ → म्रदु अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → म्रद्‌ + इष्ठ → म्रदिष्ठ | म्रदिष्ठः, म्रदीयान्‌

भृश + इष्ठन्‌ → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → भ्रश + इष्ठ → भ्रश अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → भ्रश्‌ + इष्ठ → भ्रशिष्ठ | भ्रशिष्ठः, भ्रशीयान्‌

कृश + इष्ठन्‌ → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → क्रश + इष्ठ → क्रश अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → क्रश्‌ + इष्ठ → क्रशिष्ठ | क्रशिष्ठः, क्रशीयान्‌

दृढ + इष्ठन्‌ → र ऋतो हलादेर्लघोः (६.४.१६१) इत्यनेन हलादि-भसंज्ञक-अङ्गस्य लघु-ऋकारस्य स्थाने 'र'-आदेशः → द्रढ + इष्ठ → द्रढ अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → द्रढ्‌ + इष्ठ → द्रढिष्ठ | द्रढिष्ठः, द्रढीयान्‌


विभाषर्जोश्छन्दसि (६.४.१६२) = ऋजु-अङ्गस्य ऋकारस्य स्थाने र-आदेशो भवति वेदे, विकल्पेन, इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु |

ऋजु + इष्ठन्‌ → विभाषर्जोश्छन्दसि (६.४.१६२) इत्यनेन ऋजु-अङ्गस्य ऋकारस्य स्थाने र-आदेशः → रजु + इष्ठ → रजु अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → रज्‌ + इष्ठ → रजिष्ठ | रजिष्ठः | रजिष्ठमिति पन्थानम्‌ |

कार्यस्य विपक्षे—

ऋजु + इष्ठन्‌ → ऋजु + इष्ठ → ऋजु अनेकाच्‌ अतः टेः (६.४.१५५) इत्यनेन टि-भागलोपः → ऋज्‌ + इष्ठ → ऋजिष्ठ | ऋजिष्ठः | त्वमृजिष्ठः |


परिशिष्टम्‌


इष्ठन्‌, ईयसुन्‌ इति द्वौ अपि प्रत्ययौ सर्वनामस्थानसंज्ञक-भिन्न-अजादी, अपि च तयोः विधायकसूत्रं भवति (४.१.२) - (५.४.१५१) इति मध्ये, अतः अनयोः परयोः, पूर्वभागस्य यचि भम्‌ (१.४.१८) इति सूत्रेण भ-संज्ञा भवति | तदर्थं सामान्यम्‌ अङ्गकार्यद्वयं भवति टेः (६.४.१५५), प्रकृत्यैकाच्‌ (६.४.१६३) इति द्वाभ्यां सूत्राभ्याम्‌, अपि च एकं विशिष्टम्‌ अङ्गकार्यं भवति तुरिष्ठेमेयःसु (६.४.१५४) इति सूत्रेण | कार्यत्रयमपि उपरि वर्णितम्‌ अस्ति; ये शास्त्रीयरीत्या अवगन्तुमिच्छन्ति, ते अधःस्थसूत्राणि परिशीलयेयुः | उपरि केवलम्‌ 'एकाच्‌ चेत्‌', ‘अनेकाच्‌ चेत्‌' इत्युक्तं; वस्तुतः स च शब्दः भसंज्ञकः अपि भवेत् | (यस्मात्‌ अपि शब्दात्‌ इष्ठन्‌, ईयसुन्‌ इति द्वौ प्रत्ययौ विधीयेते, सः शब्दः भसंज्ञकः अस्त्येव; किमर्थमिति अग्रे पठति चेत्‌ स्पष्टं स्यात्‌ |)


अचोऽन्त्यादि टि (१.१.६४) = अचां मध्ये यः अन्त्यः, सः आदिः यस्य तत्‌ टि-संज्ञकं स्यात्‌ | अन्ते भवः अन्त्यः, अन्त्यः आदिर्यस्य सः अन्त्यादिः बहुव्रीहिः | अचः षष्ठ्यन्तम्‌, अन्त्यादिः प्रथमान्तं, टि प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अत्र अचः एकवचने यतोहि अनेन अच्‌-जातिः इति इष्टम्‌ | आशयः बहुवचनं, निर्धारण-सप्तमी (बहुषु एकम्‌) | जात्याख्यायामेकस्मिन्बहुवचनमन्यतरस्याम्‌ (१.२.५८) = जाति-आख्यायाम्‌ एकस्मिन्‌ बहुवचनम्‌ अन्यतरस्याम्‌ | सूत्रं स्वयं सम्पूर्णम्— अचः अन्त्यादि टि |


टेः (६.४.१५५) =भसंज्ञकशब्दस्वरूपस्य टि-भागस्य लोपो भवति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु | टेः षष्ट्यन्तम्‌, एकपदमिदं सूत्रम्‌ | अल्लोपोऽनः (६.४.१३४) इत्यस्मा‍त् लोपः इत्यस्य अनुवृत्तिः | तुरिष्ठेमेयःसु (६.४.१५४) इत्यस्मा‍त् इष्ठेमेयःसु इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— भस्य अङ्गस्य टेः लोपः इष्ठेमेयःसु |


प्रकृत्यैकाच्‌ (६.४.१६३) = एकाच्‌-भसंज्ञकशब्दस्वरूपस्य प्रकृतिभावो भवति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु | प्रकृत्या तृतीयान्तम्‌, एकाच्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | तुरिष्ठेमेयःसु (६.४.१५४) इत्यस्मा‍त् इष्ठेमेयःसु इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रं— एकाच्‌ भम्‌ अङ्गं प्रकृत्या इष्ठेमेयःसु |


यचि भम्‌ (१.४.१८) = सर्वनामस्थानसंज्ञक-प्रत्ययान्‌ अतिरिच्य सु-प्रत्ययात्‌ आरभ्य कप्‌-प्रत्ययपर्यन्तम्‌ ये प्रत्ययाः यकारादयः अजादयश्च, एषु कश्चन परे अस्ति चेत्‌ पूर्वतन-शब्दस्वरूपस्य भ-संज्ञा भवति | य्‌ च, अच्‌ च यच्‌ समाहारद्वन्द्वः, तस्मिन्‌ यचि | यचि सप्तम्यन्तं, भम्‌ प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | स्वादिष्वसर्वनामस्थाने (१.४.१७) इत्यस्य पूर्णतया अनुवृतिः | अनुवृत्ति-सहितसूत्रम्‌— स्वादिषु असर्वनामस्थाने यचि भम्‌ |


(स्वौजसमौट् (४.१.२) इत्यस्मात्‌ आरभ्य उरः प्रभृतिभ्यः कप्‌ (५.४.१५१) पर्यन्तम्‌ इमे सर्वे प्रत्ययाः 'स्वादयः' इत्युच्यन्ते |)


तुरिष्ठेमेयःसु (६.४.१५४) = भसंज्ञकशब्दस्वरूपस्य तृ-भागलोपो भवति इष्ठन्‌, ईयसुन्‌, इमनिच्‌ इत्येषु प्रत्ययेषु परेषु | तुः षष्ठ्यन्तम्‌, इष्ठेमेयस्सु सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | इष्ठश्च इमा (उमनिच्‌) च ईयान्‌ (ईयसुन्‌) च तेषमितरेतरद्वन्द्वः इष्ठेमेयांसः, तेषु इष्ठेमेयस्सु | ढे लोपोऽकद्र्वाः (६.४.१४७) इत्यस्मात्‌ लोपः इत्यस्य अनुवृत्तिः | भस्य (६.४.१२९) इत्यस्य अधिकारः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— भस्य अङ्गस्य तुः लोपः इष्ठेमेयःसु |


Swarup – July 2019