9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 467: Line 467:




<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् प्रत्ययत्वपर्याप्तधिकरणस्य लोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् ? कृत्स्नप्रत्ययलोपे यथा स्यात् | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>


<big>'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति अतिदेशसूत्रेण एव प्रत्ययलोपेऽपि स्थानिवद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' ( १.१.६२) इति सूत्रं किमर्थम् इति प्रश्नः उदेति |</big>


<big>सामाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यथा अतृणेट् इत्यत्र | तृह्धातुः रुधादिगणीयधातुः, तस्मात् श्नम् इति विकरणप्रत्ययः आयाति कर्त्रर्थके सार्वाधातुकप्रत्यये परे। तृह्धातोः लङ्लकारे प्रथमपुरुषे अतृणेट् इति रूपं प्राप्तुं प्रक्रिया एवं भवति –</big>


<big>'''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति अतिदेशसूत्रेण एव प्रत्ययलोपेऽपि स्थानिवद्भावेन तत्प्रयुक्तकार्यस्य सिद्धत्वात् '''प्रत्ययलोपे प्रत्ययलक्षणम्''' ( १.१.६२) इति सूत्रं किमर्थम् इति प्रश्नः उदेति |</big>


<big>सामाधानत्वेन उच्यते यत् प्रत्ययलोपे तल्लक्षणं स्थानिवद्भावेन न सिद्ध्यति यतोहि अनल्विधौ इति निषेधात् | यदि</big>
<big>अतृह् + त्</big>
<big>प्रक्रियायां तिङ्प्रत्ययस्य लोपः जायते तर्हि तिङ्प्रत्ययस्य स्थानिवद्भावः तदा एव शक्यते यदा तृतीयकाले विधिसूत्रम् अनल्विधिः | उदाहरणार्थं -</big> <big>'''तृणह इम्‌''' (७.३.९२) इत्यनेन तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादौ पिति सार्वधातुकप्रत्यये परे इति उक्तम्, तस्मिन् सन्दर्भे द्रष्टव्यं यत् इदं कार्यं तदैव भवति यदा हलादिः सार्वधातुकप्रत्ययः परः अस्ति | एतादृशसन्दर्भेषु यदा तिङ्प्रत्ययस्य लोपः जायते तदा हलादिसार्वधातुकापेक्षत्वात् अल्विधित्वेन स्थानिवद्भावः न सिद्धयति यतोहि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे अनल्विधौ इति निषेधात् | अतः एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>


<big>अतृ '''श्नम्''' ह् + त् → '''रुधादिभ्यः श्नम्''' ( ३.१.७८) इत्यनेन श्नम् इति विकरणप्रत्ययः आयाति कर्त्रर्थके सार्वधातुकप्रत्यये परे | श्नम् इति विकरणप्रत्यये न इति अवशिष्यते इत्संज्ञकवर्णयोः लोपानन्तरम् | अतृनह् + त् इति सिद्धयति |</big>


<big>अतृनह् + त् → अधुना '''तृणह इम्‌''' (७.३.९२) इत्यनेन तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादौ पिति सार्वधातुकप्रत्यये परे | इम् इति आगमे मकारस्य लोपः भूत्वा इ एव अवशिष्यते | इम् इति आगमः '''मिदचोऽन्त्यात्परः''' ( १.१.४७) इति सूत्रेण अचां मध्ये यः अन्त्यः तस्मात् परस्तस्य एव अन्तावयवः मित्स्यात् | अतः अतृन '''इम्''' ह् + त् → अतृन इ ह् + त् इति भवति |</big>

<big>अतृन इ ह् + त् → '''आद्गुणः''' (६.१.८७) इत्यनेन गुणसन्धिः भवति → अतृनेह् + त् → '''हल्ङ्याब्भ्यो दीर्घात् सुतिस्यपृक्तं हल्''' ( ६.१.६८) इत्यनेन हलन्तात्, दीर्घात् ङ्यन्तात्, दीर्घात् आबन्तात् च परस्य सुँ-ति-सि-प्रत्ययानाम् अपृक्तः हल् लुप्यते | अतृनेह् + त् → इत्यत्र त् इति प्रत्ययस्य लोपः भवति हलन्तात् धातोः | अतृनेह् इति लभ्यते |</big>


<big>अधुना अतृनेह् इत्यत्र हो ढः इति सूत्रेण पदान्ते हकारस्य स्थाने ढकारादेशः जायते | अतृनेढ् इति भवति | अग्रे '''झलां जशोऽन्ते''' ( ८.२.३९) इत्यनेन जश्त्वं भूत्वा अतृनेड् इति भवति |</big>


<big>अतृनेड् → '''रषाभ्यां नो णः समानपदे''' ( ७.४.१) इति सूत्रेण णत्वं जायते → अतृणेड् इति भवति |</big>


<big>अतृणेड् → वाऽवसाने इत्यनेन विकल्पेन चर्त्वं भवति, अतः रूपद्वयं सिद्धयति अतृणेड्, अतृणेट् इति |</big>


<big>अस्यां प्रक्रियायां</big> <big>'''तृणह इम्‌''' (७.३.९२) इत्यनेन तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादौ पिति सार्वधातुकप्रत्यये परे इति उक्तम् आसीत्, तस्मिन् सन्दर्भे द्रष्टव्यं यत् इदं कार्यं तदैव भवति यदा हलादिः सार्वधातुकप्रत्ययः परः अस्ति | एतादृशसन्दर्भेषु यदि तिङ्प्रत्ययस्य लोपः जायते चेत् तदा हलादिसार्वधातुकापेक्षत्वात् अल्विधित्वेन स्थानिवद्भावः न सिद्धयति यतोहि '''स्थानिवदादेशोऽनल्विधौ''' (१.१.५६) इति सूत्रे अनल्विधौ इति निषेधात् | अतः एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् आवश्यकम् | स्थानिवद्भावादेव सिद्धे अल्विध्यर्थमिदं '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रम् |</big>




Line 503: Line 486:
<big>यथा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति |</big>
<big>यथा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वं आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति |</big>


<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक् भवति तदा धातुः यङ्लुगन्तधातुः इति वदामः | यङ्लुगन्तधातुभ्यः परस्मैपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते यद्यपि यङ्प्रत्ययः तु ङित् अस्ति | उदाहरणार्थम् - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः? अर्थात् पापठ् इत्यत्र यङ्प्रत्ययस्य लोपे कृते अपि तस्य लक्षणं तिष्ठति इति स्वीकृत्य धातुः ङित् इति स्वीकर्तुं शक्यते वा येन पापठ् इति धातुतः आत्मनपदसंज्ञकस्य तिङ्प्रत्ययस्य विधानं स्यात्।</big>
<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक् भवति तदा धातुः यङ्लुगन्तधातुः इति वदामः | यङ्लुगन्तधातुभ्यः परस्मैपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते यद्यपि यङ्प्रत्ययः तु ङित् अस्ति | उदाहरणार्थम् - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः? अर्थात् पापठ् इत्यत्र यङ्प्रत्ययस्य लोपे कृते अपि तस्य लक्षणं तिष्ठति इति स्वीकृत्य धातुः ङित् इति स्वीकर्तुं शक्यते वा येन पापठ् इति धातुतः आत्मनपदसंज्ञकस्य तिङ्प्रत्ययस्य विधानं स्यात् इति प्रश्नः।</big>


<big>समाधानमेवम् अस्ति -</big>
<big>समाधानमेवम् अस्ति -</big>


<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन सूत्रेण उक्तं यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी इति | अस्मिन् सूत्रे</big> <big>'''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति | अर्थात् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं प्रत्ययस्य ङित्वम् , आदेशस्य ङित्वं, धातोः ङित्वं यत्किमपि ङित्वं स्वीकर्तुं शक्यते | शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं धातुः ङित् अस्ति यतोहि अत्र यङ्प्रत्यये ङित्वम् अस्ति | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं शक्यते | अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | सारांशः यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते , प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते |</big>
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन सूत्रेण उक्तं यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी इति |</big>


<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रे '''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति |</big>


<big>यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१..१२) इति सूत्रे '''अनुदात्तेत्‌''' '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति |</big>
<big>तर्हि यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१..६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |</big>





<big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |</big>


<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌''' |</big>
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) = यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी | अनुदात्तश्च ङ्‌ च अनुदात्तङौ, तौ इतौ यस्य सः अनुदात्तङित्‌ द्वन्द्वगर्भ-बहुव्रीहिः, तस्मात्‌ अनुदात्तङितः | अनुदात्तङितः पञ्चम्यन्तम्‌, आत्मनेपदं प्रथमान्तम्‌, द्विपदमिदं सूत्रम्‌ | '''भूवादयो धातवः''' (१.३.१) इत्यस्मात्‌ '''धातोः''' इत्यस्य अनुवृत्तिः | टीकाकाराः सूचयन्ति यत्‌ '''लस्य''' इति पदम्‌ आयाति आक्षेपेण यतोहि तस्य अर्थः निहितः '''आत्मनेपदम्‌''' इत्यस्मिन्‌ | अनुवृत्ति-सहितसूत्रम्— '''अनुदात्तङितः धातोः लस्य आत्मनेपदम्‌''' |</big>



<big>'''तृणह इम्‌''' (७.३.९२) = तृनह्‌ इत्यङ्गस्य इम्‌-आगमो भवति हलादि-पित्‌-सार्वधातुक-प्रत्यये परे | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन तदादिविधिः; अस्मात्‌ '<nowiki/>'''हलि सार्वधातुके'''' इत्युक्तौ हलादि-सार्वधातुके | तृणहः षष्ठ्यन्तम्‌, इम्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | '''श्नाभ्यस्तस्याचि पिति सार्वधातुके''' (७.३.८७) इत्यस्मात्‌ '''पिति''', '''सार्वधातुके''' इत्यनयोः आनुवृत्तिः | '''वृद्धिर्लुके''' '''हलि''' (७.३.८९) इत्यस्मात्‌ '''हलि''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''तृणहः अङ्गस्य इम्‌ हलि पिति सार्वधातुके''' |</big>