9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 15: Line 15:
|-
|-
|[https://archive.org/download/Paniniiya-Vyakaranam-2019/175_dvirvachanEchi_2022-06-16.mp3 175_dvirvachanEchi_2022-06-16]
|[https://archive.org/download/Paniniiya-Vyakaranam-2019/175_dvirvachanEchi_2022-06-16.mp3 175_dvirvachanEchi_2022-06-16]
|-
|
|-
|
|}
|}


Line 483: Line 487:




<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | अर्थात् प्रत्ययस्य इति पूर्वसूत्रे विद्यमाने सति प्रत्ययग्रहणं किमर्थम् अस्मिन् सूत्रे ? कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>
<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इस्यमात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रे आद्यप्रत्ययग्रहणमेव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति | यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सति एव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>




Line 489: Line 493:




<big>प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति दर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् पूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति '''आङो यमनहनः''' (१.३.२८) इत्यनेन सूत्रेण |</big>
<big>प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन प्रत्ययलक्षणं साधयितुं न शक्यते इति प्रदर्शनार्थं हन् हिंसागत्योः इति अदादिगणीयधातोः विधिलिङ्लकारे उत्तमपुरुषैकवचनस्य प्रक्रियां पश्यामः | आङ् इति उपसर्गपूर्वकः हन् इति धातुः अकर्मकप्रयोगेषु आत्मनेपदी भवति '''आङो यमनहनः''' (१.३.२८) इत्यनेन सूत्रेण |</big>




Line 495: Line 499:




<big>आ + हन् + इट् → आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदिसंज्ञकः इट् इति तिङ्प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने | इड् इति तिङ्प्रत्ययः अपित् इत्यतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण इड् इति प्रत्ययः ङिद्वत् भवति | इड् इति प्रत्यये डकारस्य इत्संज्ञा भूत्वा, लोपः च भवति अतः इ इति अवशिष्यते |</big>
<big>आ + हन् + इट् → आङ् इति उपसर्गपूर्वकः हन् इति धातुतः आत्मनेपदिसंज्ञकः इड् इति तिङ्प्रत्ययः विधीयते विधिलिङ्लकारस्य स्थाने उत्तमपुरुषैकवचनस्य विवक्षायाम् | इड् इति तिङ्प्रत्ययः अपित् इत्यतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण इड् इति प्रत्ययः ङिद्वत् भवति | इड् इति प्रत्यये डकारस्य इत्संज्ञा भूत्वा, लोपः च भवति, अतः इ इति अवशिष्यते |</big>




<big>आ + हन् + शप् + इ → अधुना '''कर्तरि शप्''' ( ३.१.६८) इति सूत्रेण शप् इति विकरणप्रत्ययः विधीयते कर्त्रर्थे सार्वधातुकप्रत्यये परे |</big>
<big>आ + हन् + इ → अधुना '''कर्तरि शप्''' ( ३.१.६८) इति सूत्रेण शप् इति विकरणप्रत्ययः विधीयते कर्त्रर्थे सार्वधातुकप्रत्यये परे → आ + हन् + अ + इ इति भवति |</big>




<big>आ + हन् + इ → '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण अदिप्रभृतिभ्यः उत्तरस्य शपः लुग् भवति |</big>
<big>आ + हन् + अ + इ → '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इति सूत्रेण अदिप्रभृतिभ्यः उत्तरस्य शपः लुग् भवति → आ + हन् + इ इति भवति |</big>




<big>आ + हन् + सीयुट् + इ → '''लिङस्सीयुट्''' (३.४.१०२) इत्यनेन सूत्रेण लिङादेशानां सीयुडागमो भवति | अतः इ-प्रत्ययस्य सीयुट्-आगमः भवति | सीयुट् इति आगमः टित् इति कृत्वा '''आद्यन्तौ टकितौ''' ( १.१.४६) इति सूत्रेण तिङ्प्रत्ययस्य आद्यवयवः भवति | टकारस्य इत्संज्ञा भूत्वा लोपः च भवति, यकारोत्तरवर्ती उकारः उच्चारणार्थः, सीय् इति अवशिष्यते |</big> <big>आ + हन् + सीय् + इ</big> <big>इति भवति |</big> <big>सीय् इति आगमः प्रत्ययस्य अवयवः अस्ति</big> <big>यतोहि आगमः यस्य भवति तस्य तस्य अवयवः भवति</big> <big>|</big> <big>इदानीं सीयि इति तिङ्प्रत्ययः इति स्वीक्रियते |</big>
<big>आ + हन् + इ → '''लिङस्सीयुट्''' (३.४.१०२) इत्यनेन सूत्रेण लिङादेशानां सीयुडागमो भवति | अतः इ-प्रत्ययस्य सीयुट्-आगमः भवति | सीयुट् इति आगमः टित् इति कृत्वा '''आद्यन्तौ टकितौ''' ( १.१.४६) इति सूत्रेण तिङ्प्रत्ययस्य आद्यवयवः भवति | टकारस्य इत्संज्ञा भूत्वा लोपः च भवति, यकारोत्तरवर्ती उकारः उच्चारणार्थः, सीय् इति अवशिष्यते |</big> <big>आ + हन् + सीय् + इ</big> <big>इति भवति |</big> <big>सीय् इति आगमः प्रत्ययस्य अवयवः अस्ति</big> <big>यतोहि आगमः यस्य भवति तस्य आद्यवयवः भवति</big> <big>|</big> <big>इदानीं सीयि इति तिङ्प्रत्ययः इति स्वीक्रियते |</big>




<big>आ + हन् + सीय् + इ → अग्रे '''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) इति सूत्रेण सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सकारस्य लोपो भवति | अर्थात् लिङ्लकारस्य प्रत्ययस्य अवयवरूपेण यः सकारः न तु पदान्ते, तस्य लोपः भवति | आ + हन् + ईय् + इ इति भवति | अधुना '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण अनुदात्तोपदेशानाम् अङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परे | सीयि इति प्रत्यये तु सकारस्य लोपः अभवत् तर्हि अत्र प्रश्नः उदेति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रेण सकारस्य लोपानन्तरम् अपि तस्य लक्षणं तिष्ठति वा येन '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण अङ्गस्य अन्तिमवर्णस्य नकारस्य लोपः स्यात् ?</big>
<big>आ + हन् + सीयि → अग्रे '''लिङः सलोपोऽनन्त्यस्य''' (७.२.७९) इति सूत्रेण सार्वधातुके यो लिङ् तस्य अनन्त्यस्य सकारस्य लोपो भवति | अर्थात् लिङ्लकारस्य प्रत्ययस्य अवयवरूपेण यः सकारः न तु पदान्ते, तस्य लोपः भवति | आ + हन् + ईयि इति भवति | अधुना '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण अनुदात्तोपदेशानाम् अङ्गानां वनतेः तनोत्यादीनां च अनुनासिकलोपो भवति झलादौ क्ङिति प्रत्यये परे | अनुनासिकान्त-अनुदात्तोपदेश-धातवः एते सन्ति यम्‌, रम्‌, नम्‌, गम्‌, हन्‌, मन्‌ | सीयि इति प्रत्यये तु सकारस्य लोपः अभवत् तर्हि अत्र प्रश्नः उदेति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रेण सकारस्य लोपानन्तरम् अपि तस्य लक्षणं तिष्ठति वा येन '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण अङ्गस्य अन्तिमवर्णस्य नकारस्य लोपः स्यात् ?</big>




<big>उत्तरम् अस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इति कृत्वा सकारस्य लक्षणं स्वीकर्तुं न शक्यते यतोहि सम्पूर्णस्य प्रत्ययस्य लोपः न कृतः अपितु केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति | अनेन कारणेन '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण झलादि-ङित्-प्रत्ययं निमित्तीकृत्य अनुनासिकस्य लोपः न सिद्धयति |</big>
<big>उत्तरम् अस्ति यत् '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इति कृत्वा सकारस्य लक्षणं स्वीकर्तुं न शक्यते यतोहि सम्पूर्णस्य प्रत्ययस्य लोपः न कृतः अपितु केवलम् एकस्य अंशस्यैव लोपः कृतः अस्ति | अनेन कारणेन '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रेण झलादि-ङित्-प्रत्ययं निमित्तीकृत्य अनुनासिकस्य लोपः न सिद्धयति |</big>


<big>अपि च अत्र '''स्थानिवदादेशोऽनल्विधौ''' ( १.१.५६) इत्यनेन स्थानिवद्भावेन अपि झलादित्वम् इति यः धर्मः स्थानिनि अस्ति तस्य अध्यारोपः लोपादेशे न शक्यते यतोहि '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रम् अल्विधिः अस्ति | '''अनुदात्तोपदेशवनतितनोत्यादीनामनुनासिक लोपो झलि क्ङिति''' (६.४.३७) इति सूत्रं तदा एव कार्यं कर्तुं शक्यते यदा स्थानिनि यः झलादित्वम् अस्ति तस्य अध्यारोपः क्रियते ईयि इति प्रत्यये इति कृत्वा इदं सूत्रम् अल्विधिः इति मन्यते | '''अचः परस्मिन् पूर्वविधौ''' ( १.१.५७) इति सूत्रस्य प्रसङ्गः एव नास्ति यतोहि अत्र आदेशः तु सकारस्य स्थाने जातः न तु अच्वर्णस्य स्थाने |</big>


<big>आ + हन् + ईय् + इ → अधुना '''गमहनजनखनघसां लोपः क्ङित्यनङि''' ( ६.४.९८) इत्यनेन सूत्रेण गम हन जन खा घस इत्येतेषाम् अङ्गानाम् उपधायाः लोपो भवति अजादौ क्ङिति प्रत्यये, अनङि च परे | ईयि इति प्रत्ययः अजादिः, ङित्प्रत्ययः इति कृत्वा हकारोत्तरवर्तिनः अकारस्य लोपः जायते |</big> <big>आ + ह् न् + ईय् + इ</big> <big>इति भवति |</big>


<big>आ + हन् + ईयि → अधुना '''गमहनजनखनघसां लोपः क्ङित्यनङि''' ( ६.४.९८) इत्यनेन सूत्रेण गम हन जन खा घस इत्येतेषाम् अङ्गानाम् उपधायाः लोपो भवति अजादौ क्ङिति प्रत्यये, अनङि च परे | ईयि इति प्रत्ययः अजादिः, ङिद्वत्प्ररत्ययः इति कृत्वा हकारोत्तरवर्तिनः अकारस्य लोपः जायते |</big> <big>आ + ह् न् + ईयि</big> <big>इति भवति |</big>


<big>आ + ह् न् + ईय् + इ</big> <big>→ अग्रे '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इति सूत्रेण हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परे नकारे च परे | अतः हकारस्य स्थाने ककारादेशः जायते स्थानेऽन्तरतमः इत्यनेन → आ + घ् न् + ईय् + इ इति भवति |</big>


<big>आ + ह् न् + ईयि</big> <big>→ अग्रे '''हो हन्तेर्ञ्णिन्नेषु''' (७.३.५४) इति सूत्रेण हन्तेः हकारस्य कवर्गादेशो भवति ञिति णिति प्रत्यये परे नकारे च परे | अतः हकारस्य स्थाने ककारादेशः जायते '''स्थानेऽन्तरतमः''' (१.१.५०) इत्यनेन → आ + घ् न् + ईयि इति भवति |</big>


<big>आ + घ् न् + ईयि→ अधुना '''इटोऽत्''' (३.४.१०६) इति सूत्रेण लिङादेशस्य इटः अत् स्यात् | अतः इ इति प्रत्ययस्य स्थाने अ इति आदेशः भवति</big> <big>→ आ + घ् न् + ईय् + अ</big> <big>→</big> <big>'''<u>आघ्नीय</u>'''</big> <big>इति रूपं सिद्धं भवति |</big>


<big>आ + घ् न् + ईय् + इ → अधुना '''इटोऽत्''' (३.४.१०६) इति सूत्रेण लिङादेशस्य इटः अत् स्यात् | अतः इ इति प्रत्ययस्य स्थाने अ इति आदेशः भवति</big> <big>→ आ + घ् न् + ईय् + अ</big> <big>→</big> <big>आघ्नीय</big> <big>इति रूपं सिद्धं भवति |</big>




Line 531: Line 538:




<big>स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रम् | यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् | प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, '''यत्र हि''' '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌''' | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवति, यथा '''राजा''' इत्यत्र | राजन्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन स्‌-लोपः → '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सुप्‌-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन्‌ सुबन्तम्‌ इति मत्वा '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन प्रातिपदिकान्तस्य पदान्त-नकारस्य लोपो जायते |</big>
<big>स्थानिवत्सूत्रेण सिद्धे नियमार्थम् इदं सूत्रम् | यत्र प्रत्ययस्याऽसाधारणं रूपं प्रयोजकं तदेव कार्यं प्रत्ययलोपे सति भवतीति नियमार्थम् इदं सूत्रम् इति भाष्यादिषु स्पष्टतया उक्तम् | प्रत्ययस्याऽसाधरणं रूपं यत्र प्रयोजकं तद् एव कार्यं प्रत्ययलोपे सति भवति, न तु प्रत्ययाऽप्रत्ययसाधरणम् इति | यत्र हि प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् | यत्र प्रत्यये परे अप्रत्यये परे च उभयत्र ग्रहणं भवति, तत्र प्रत्ययलक्षणं न कर्तव्यम्‌ | इतोऽपि स्पष्टीकरणार्थम्‌ उच्यते, '''यत्र हि''' '''प्रत्ययस्यासाधारणं रूपमाश्रीयते तत्रैव तत्‌''' | केवलं प्रत्ययस्य असाधारणरूपस्य आश्रयम्‌ अवलम्ब्य कार्यं यत्र स्यात्‌, तत्रैव प्रत्ययलक्षणं भवति |</big>


<big>यथा '''राजा''' इत्यत्र | राजन्‌ + सु → '''हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल्‌''' (६.१.६७) इत्यनेन स्‌-लोपः → '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सुप्‌-प्रत्ययात्मक-प्रत्ययधर्ममात्रस्य पुरस्कारं कृत्वा राजन्‌ सुबन्तम्‌ इति मत्वा '''सुप्तिङन्तं पदम्‌''' (१.४.१४) इत्यनेन तस्य पद-संज्ञा-ग्रहणेन '''न लोपः प्रातिपदिकान्तस्य''' (८.२.७) इत्यनेन प्रातिपदिकान्तस्य पदान्त-नकारस्य लोपो जायते |</big>


<big>यथा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वम् आत्मनेपदत्वस्य कारणम्‌ | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति |</big>


<big>अन्यदृष्टान्तः अस्ति '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रम् | अनेन यत्‌ आत्मनेपदत्वं विधीयते, तस्य ङित्त्वं केवलं प्रत्ययनिमित्तकङित्त्वं न अपि तु यत्किमपि ङित्त्वं— प्रकृतेः ङित्त्वम्‌, आदेशस्य ङित्त्वम्‌ इत्यादिकमपि आत्मनेपदत्वस्य निमित्तं स्वीक्रियते | प्रत्ययमात्रधर्मस्य पुरस्कारं कृत्वा ङित्त्व-प्रयुक्त-आत्मनेपदत्वं नास्ति | तात्पर्यम्‌ इदं यत्‌ आत्मनेपदत्वं केवलं प्रत्ययनिमित्तकं कार्यं नास्ति अपि तु प्रत्यय-अप्रत्ययस्य च उभयत्र विद्यमानं ङित्त्वम् आत्मनेपदत्वस्य कारणम्‌ |</big>


<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक् भवति येन यङ्लुगन्तधातुः इति वदामः | यङ्लुगन्तधातुभ्यः परस्मैपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते यद्यपि यङ्प्रत्ययः तु ङित् अस्ति | उदाहरणार्थम् - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति तदा पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः? अर्थात् पापठ् इत्यत्र यङ्प्रत्ययस्य लोपे कृते अपि तस्य लक्षणं तिष्ठति इति स्वीकृत्य धातुः ङित् इति स्वीकर्तुं शक्यते वा येन पापठ् इति धातुतः आत्मनपदसंज्ञकस्य तिङ्प्रत्ययस्य विधानं स्यात् इति प्रश्नः।</big>
<big>यथा यङ्लुगन्तधातोः प्रसङ्गे यङ्प्रत्ययस्य लुक्</big> <big>विकल्पेन</big> <big>भवति येन यङ्लुगन्तधातुः</big> <big>सिद्धयति</big> <big>| यङ्लुगन्तधातुभ्यः परस्मैपदसंज्ञकाः तिङ्प्रत्ययाः एव विधीयन्ते यद्यपि यङ्प्रत्ययः तु ङित् अस्ति | अतः अत्र '''प्रत्ययलक्षणेन''' आत्मनेपदत्वं ग्रहीतुं न शक्यते | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यं तत्रैव भवति यत्र प्रत्ययः प्रत्ययरूपेण निमित्तं मत्वा विधीयमानं कार्यं साधयति | यथा - पठ् इति धातुतः यङ्प्रत्ययः विधीयते चेत् पठ् + यङ् इति भवति | यदा यङ्प्रत्ययस्य विकल्पेन लुक् भवति, पापठ् इति यङ्लुगन्तधातुः निष्पद्यते द्वित्वानन्तरम् | पापठ् इति धातौ यङ्प्रत्ययस्य विधानं कृत्वा तस्य लुक् जातम् | तर्हि '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन पापठ् इति धातौ यङ्प्रत्ययस्य लक्षणं कृत्वा धातुः ङित् इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन आत्मनपदसंज्ञकानां तिङ्प्रत्ययानां विधानं शक्यते वा इति प्रश्नः? अर्थात् पापठ् इत्यत्र यङ्प्रत्ययस्य लोपे कृतेऽपि तस्य लक्षणं स्वीकृत्य धातुः ङित् इति मत्वा पापठ् इति धातुतः आत्मनपदसंज्ञकस्य तिङ्प्रत्ययस्य विधानं शक्यते वा इति प्रश्नः।</big>




<big>समाधानमेवम् एवमस्ति -</big>
<big>समाधानमेवमस्ति -</big>




<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन सूत्रेण यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी इति | अस्मिन् सूत्रे</big> <big>'''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति | अर्थात् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं प्रत्ययस्य ङित्वम्, आदेशस्य ङित्वं, धातोः ङित्वं यत्किमपि ङित्वं स्वीकर्तुं शक्यते | शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं धातुः ङित् अस्ति यतोहि अत्र यङ्प्रत्यये ङित्वम् अस्ति | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं क्रियते| अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषे एकवचने | सारांशः यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते | अतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं न शक्यते | </big>
<big>'''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इत्यनेन सूत्रेण यस्य धातोः अनुदात्तस्वरस्य ङकारस्य च इत्‌-संज्ञा भवति, सः धातुः आत्मनेपदी भवति | अस्मिन् सूत्रे</big> <big>'''अनुदात्तेत्‌''' च '''ङित्‌''' चेत्याभ्यां पदाभ्याम्‌ अनुबन्धग्रहणं भवति | अर्थात् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं प्रत्ययस्य ङित्वम्, आदेशस्य ङित्वं, धातोः ङित्वं यत्किमपि ङित्वं स्वीकर्तुं शक्यते | </big>


<big>१) <u>धातौ ङित्वम्</u> = शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने | </big>

<big>२) <u>प्रत्यये ङित्वम्</u> = पठ् इति धातुतः यङ्प्रत्ययः क्रियते चेत् तदा पापठ्य इति यङन्तधातुः सिद्धयति | अयं धातुः ङित् यङ्प्रत्ययस्य ङित्वम् आश्रित्य | तर्हि प्रत्ययस्य ङित्वं स्वीकृत्य पापठ्य इति धातुतः आत्मनेपदसंज्ञकानां प्रत्ययानां विधानं क्रियते | अतः एव पापठ्यते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने | एवमेव '''ऋतेरीयङ्''' ( ३.१.२९) इत्यनेन ऋति, धृणायाम् इति सौत्रधातुतः ईयङ् प्रत्ययो भवति | अयं धातुः धातुपाठे न विद्यते एव | आदेशे ङकारः आत्मनेपदार्थः | ऋतीयते, ऋतीयेते, ऋतियन्ते |</big>

<big>तर्हि यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |</big>

<big>सारांशः यत् '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यार्थं यत्किमपि ङित्वं स्वीकर्तुं शक्यते, प्रत्ययस्य अप्रत्ययस्य द्वयोः अपि ग्रहणं शक्यते | अतः अस्य सूत्रस्य कार्यार्थं प्रत्ययलक्षणं स्वीकर्तुं न शक्यते | </big>


<big>तर्हि यङ्लुगन्तप्रसङ्गे ङित्त्वस्यस्वीकारार्थं लुप्तस्य यङ्‌-प्रत्ययस्य लक्षणं करणीयं; तच्च न कर्तुं शक्यते यतोहि ङित्त्वं केवलप्रत्ययधर्मो नास्ति अपि तु अपरेषु स्थलेष्वपि भवति, यथा शीङ्‌-धातौ | इति कृत्वा यङ्लुगन्तप्रसङ्गे '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन सूत्रेण यङ्प्रत्ययस्य लक्षणम् अस्ति इति मत्त्वा '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रस्य कार्यं न शक्यते यतोहि '''अनुदात्तङित‌ आत्मनेपदम्‌''' (१.३.१२) इति सूत्रं केवलं प्रत्ययस्य असाधारणधर्मम् आश्रित्य न प्रवर्तते |</big> <big>प्रत्ययस्य असाधारणधर्मः केवलं प्रत्यये भवति | तादृशधर्मं मत्वा प्रत्ययलक्षणं भवति, किन्तु यः धर्मः साधारणः, सः प्रत्यये अपि भवति अप्रत्यये अपि भवति, तादृशधर्मं मत्वा प्रत्ययलक्षणं न भवति |</big>




<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् | यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |</big>
<big>सारांशः यत् प्रत्ययलोपे प्रत्ययलक्षणम् इत्यनेन सूत्रेण प्रत्ययलप्ते सति प्रत्ययलक्षणं तदा एव शक्यते यदा सम्पूर्णस्य प्रत्ययस्य लोपः जायते अपि च यदा तृतीयकाले विधिसूत्रं केवलं प्रत्ययं निमित्तीकृत्य प्रवर्तते | अर्थात् वर्णनिमित्तकं कार्यं चेत् प्रत्ययलोपे प्रत्ययलक्षणं कर्तुं न शक्यते | तदर्थमेव परिभाषा अस्ति '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | परिभाषायाः अर्थः प्रत्ययलक्षणं तदा एव भवति यदा केवलं सम्पूर्णप्रत्ययनिमित्तकम् कार्यम् एव गृह्यते, न हि प्रत्ययस्य विशिष्टवर्णनिमित्तकं कार्यम् | यदा प्रत्ययस्य लोपः जायते तदा प्रत्ययलक्षणम् आश्रित्य वर्णकार्यं न कर्तव्यम्, अपितु सम्पूर्णप्रत्ययम् आश्रित्य कार्यं भवति चेत् तदेव करणीयम् |</big>

<big>यथा –</big>

<big>गवे हितम् इति विग्रहे सति गोहितम् इति चतुर्थीतत्पुरुषसमासः जायते '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण च | गवे हितम् = गोहितम् इति समासः | अस्य अलौकिकविग्रहवाक्यं भवति गो +ङे + हित + सु इति | समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | अग्रे '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समासे विद्यमानयोः सुप्प्रत्यययोः लुक् भवति इत्यतः ङे-प्रत्ययस्य सु-प्रत्ययस्य च लुक् भवति | गो +ङे + हित + सु इत्यत्र ङे (ए) इति प्रत्ययस्य लोपे कृते अपि, '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन लक्षणं स्वीक्रियते चेत् तदा '''एचोऽयवायावः''' (६.१.७८) इत्यनेन अवादेशः प्राप्यते येन गव्हितम् इति अनिष्टरूपं सिद्ध्यति | तद्वारणाय एव उच्यते यत् वर्णाश्रित्यकार्ये '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य कार्यं नैव भवति इति | अत्र अवादेशः केवलं प्रत्ययं निमित्तीकृत्य कार्यं नास्ति, अपितु वर्णनिमित्तकं कार्यम् | अतः एव उच्यते '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति परिभाषायां यत् वर्णाश्रये नास्ति प्रत्ययलक्षणम् इति | वर्णाश्रये कार्ये प्रत्ययलक्षणं न स्वीक्रियते इति कृत्वा '''गोहितम्''' इति समासः सिद्धयति |</big>