9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH: Difference between revisions

9---anye-vyAkaraNa-sambaddha-viShayAH/15---sthAnivattvAtideshaH
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 479: Line 479:




<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>
<big>'''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) = प्रत्यये लुप्ते सति, प्रत्ययं मत्वा तस्य द्वारा विहितं कार्यं स्यात्‌ | प्रत्ययलुप्तेऽपि तदाश्रितं कार्यं स्यादित्यर्थः | प्रत्ययलोपे प्रत्ययनिमित्तकं कार्यं भवति इत्यर्थः | प्रत्ययस्य लोपः प्रत्ययलोपः षष्ठीतत्पुरुषः, तस्मिन्‌ प्रत्ययलोपे | प्रत्ययस्य लक्षणं निमित्तं यस्य तत्‌ प्रत्ययलक्षणम्‌, बहुव्रीहिः | सूत्रं स्वयं सम्पूर्णं— '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' |</big>




Line 488: Line 488:




<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इत्यस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रे आद्यप्रत्ययग्रहणमेव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति | यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति | प्रत्ययस्य एकस्य अंशस्य अथवा एकस्य वर्णस्य लोपः जायते चेत् तदा प्रत्ययलक्षणं न भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सत्येव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>
<big>'''प्रत्ययस्य लुक्श्लुलुपः''' ( १.१.६१) इत्यस्मात् सूत्रात् प्रत्ययस्य इति अनुवृत्त्या सिद्धे आद्यप्रत्ययग्रहणसामर्थ्यात् कृत्स्नप्रत्ययलोपे एव प्रत्ययलक्षणं, न तु तदवयवलोपे इत्यर्थः सिद्धयति | पूर्वसूत्रात् प्रत्ययग्रहणानुवृत्त्या सिद्धे प्रत्ययग्रहणसामर्थ्यात् कृत्स्नस्य प्रत्ययस्य लोपः, न तु एकदेशस्य इति अर्थः लभ्यते | यथा आघ्नीत | '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इति सूत्रे आद्यप्रत्ययग्रहणमेव ज्ञापकं यत् सकलप्रत्ययलोपे एव प्रत्ययलक्षणं भवति इति | यद्यपि प्रत्ययस्य इति पदं पूर्वसूत्रे विद्यते तथापि अस्मिन् सूत्रे प्रत्ययग्रहणं क्रियते केवलं ज्ञापनार्थं यत् कृत्स्नप्रत्ययलोपे एव प्रत्ययलोपे प्रत्ययलक्षणं भवति इति | प्रत्ययस्य एकस्य अंशस्य अथवा एकस्य वर्णस्य लोपः जायते चेत् तदा प्रत्ययलक्षणं न भवति | तात्पर्यं यत् सम्पूर्णस्य प्रत्ययस्य लोपे सत्येव '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यस्य कार्यम् अर्हति | प्रत्ययस्य कश्चन भागः लुप्यते चेत् तदा '''प्रत्ययलोपे प्रत्ययलक्षणम्‌''' (१.१.६२) इत्यनेन लक्षणं कर्तुं न शक्यते |</big>




Line 558: Line 558:




<big>१) <u>अप्रत्यये (धातोः) ङित्वम्</u> = शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने | </big>
<big>१) <u>अप्रत्यये (धातौ) ङित्वम्</u> = शीङ् इति धातौ, धातोः ङित्वं स्वीकृत्य आत्मनेपदसंज्ञकः प्रत्ययः विधीयते, तदर्थं शेते इति रूपं सिद्धयति लटि प्रथमपुरुषैकवचने | </big>




Line 573: Line 573:




<big>गवे हितम् इति विग्रहे सति गोहितम् इति चतुर्थीतत्पुरुषसमासः जायते '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण | गवे हितम् = गोहितम् इति चतुर्थीतत्पुरुषसमासः | अस्य अलौकिकविग्रहवाक्यं भवति गो +ङे + हित + सु इति | समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | अग्रे '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समासे विद्यमानयोः सुप्प्रत्यययोः लुक् भवति इत्यतः ङे-प्रत्ययस्य, सु-प्रत्ययस्य च लुक् भवति | गो + ङे + हित + सु इत्यत्र ङे (ए) इति प्रत्ययस्य लोपे कृतेऽपि, '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन लक्षणं स्वीक्रियते चेत् तदा '''एचोऽयवायावः''' (६.१.७८) इत्यनेन अवादेशः प्राप्यते येन गव्हितम् इति अनिष्टरूपं सिद्ध्यति | तद्वारणाय एव उच्यते यत् वर्णाश्रये कार्ये '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य कार्यं न भवति इति | अत्र अवादेशः केवलं प्रत्ययं निमित्तीकृत्य कार्यं नास्ति, अपितु वर्णनिमित्तकं कार्यम् | अतः एव उच्यते '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | वर्णाश्रये कार्ये प्रत्ययलक्षणं न स्वीक्रियते इति कृत्वा गो + ङे इत्यत्र ङे इति प्रत्ययस्य लक्षणं न स्वीक्रियते '''एचोऽयवायावः''' (६.१.७८) इत्यस्य कार्यार्थं येन '''गोहितम्''' इति रूपं सिद्धयति |</big>
<big>गवे हितम् इति विग्रहे सति गोहितम् इति चतुर्थीतत्पुरुषसमासः जायते '''चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः''' (२.१.३६) इति सूत्रेण | गवे हितम् = गोहितम् इति चतुर्थीतत्पुरुषसमासः | अस्य अलौकिकविग्रहवाक्यं भवति गो +ङे + हित + सु इति | समासप्रक्रियायां समासस्य प्रातिपदिकसंज्ञा भवति '''कृत्तद्धितसमासाश्च''' (१.२.४६) इति सूत्रेण | अग्रे '''सुपो धातुप्रातिपदिकयोः''' (२.४.७१) इति सूत्रेण समासे विद्यमानयोः सुप्प्रत्यययोः लुक् भवति इत्यतः ङे-प्रत्ययस्य, सु-प्रत्ययस्य च लुक् भवति | गो + ङे + हित + सु इत्यत्र ङे (ए) इति प्रत्ययस्य लोपे कृतेऽपि, '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यनेन लक्षणं स्वीक्रियते चेत् तदा '''एचोऽयवायावः''' (६.१.७८) इत्यनेन अवादेशः प्राप्येत येन गव्हितम् इति अनिष्टरूपं सिद्ध्येत् | आद्ये ङेप्रत्ययस्य लुका लुप्तत्वेन तत्र प्रत्ययलोपे तल्लक्षणमिति अज्-निमित्तकः अयादिः प्रसज्येत | प्रत्ययग्रहणे प्रत्ययनिमित्तकमेव कार्यं प्रत्ययलोपे भवति, न तु वर्णनिमित्तकमिति अयादेः अचीति वर्णनिमित्तकत्वेन न तत्र प्रत्ययलक्षणप्रसक्तिः | अतः एव तद्वारणाय एव उच्यते '''वर्णाश्रये नास्ति प्रत्ययलक्षणमिति''' | वर्णाश्रये कार्ये '''प्रत्ययलोपे प्रत्ययलक्षणम्''' (१.१.६२) इत्यस्य कार्यं न भवति इत्यर्थः| अत्र अवादेशः केवलं प्रत्ययं निमित्तीकृत्य कार्यं नास्ति, अपितु वर्णनिमित्तकं कार्यम् | अतः एव उच्यते '''वर्णाश्रये नास्ति प्रत्ययलक्षणम्''' इति | वर्णाश्रये कार्ये प्रत्ययलक्षणं न स्वीक्रियते इति कृत्वा गो + ङे इत्यत्र ङे इति प्रत्ययस्य लक्षणं न स्वीक्रियते '''एचोऽयवायावः''' (६.१.७८) इत्यस्य कार्यार्थं येन '''गोहितम्''' इति रूपं सिद्धयति |</big>