अनन्तरस्य विधिर्वा प्रतिषेधो वा: Difference between revisions

From Samskrita Vyakaranam
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(5 intermediate revisions by the same user not shown)
Line 1: Line 1:
{| class="wikitable sortable mw-collapsible mw-collapsed"
<big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्यैव विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य पूर्वस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते | यथा '''वा छन्दसि''' (३.४.८८) इति सूत्रे अपित्त्वस्य एव वैकल्पिकविधानं क्रियते न तु हि इति प्रत्ययस्य |</big>
!२०२4 ध्वनिमुद्रणानि
|-
![https://archive.org/download/samAsaH-pANini-dvArA/191_tatpuruShasamAsaH-anantarasya%20vidhirvA%20pratiShedaO%20vA%20_2024-05-18.mp4 191_tatpuruShasamAsaH-anantarasya vidhirvA pratiShedaO vA _2024-05-18]
|}


<big>'''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषा | अनन्तरस्य विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः '''<u>च</u>''' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते |</big>




Line 15: Line 23:




<big>अपञ्चम्याः इत्यनेन '''`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति पञ्चम्याः अमादेश एव प्रतिषिध्यते, न तु अलुक् पूर्ववाक्येन विहितः | अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति | अनया परिभाषया अव्यवहितस्य पूर्वस्यैव प्रतिषेधः भवति, पूर्वं तु अमादेशः एव वर्तते |</big>
<big>अपञ्चम्याः इत्यनेन '''`अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति पञ्चम्याः अमादेश एव प्रतिषिध्यते, न तु अलुक् पूर्ववाक्येन विहितः | अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति | अनया परिभाषया अव्यवहितस्य पूर्वस्यैव प्रतिषेधः भवति, पूर्वं तु अमादेशः एव वर्तते | '''नाव्ययीभावादतोऽम्त्वपञ्चम्याः''' ( २.४.८३) इति तुशब्देनाप्ययमर्थो लभ्यते | तुशब्दः नियामको भवति अमेवापञ्चम्याः इति |</big>




Line 22: Line 30:




<big>'''सुडनपुंसकस्य''' ( १.१.४३)  इत्यस्मात् सूत्रात् प्राक् '''शि सर्वनामस्थानम्''' ( १.१.४२) इति सूत्रम् अस्ति | '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यस्य अर्थः शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति | '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे अनपुंसकमिति निषेधः उच्यते वा? यदि निषेधः उच्यते तर्हि सुडनपुंसकस्य जसि शिप्रतिषेधः स्यात् |</big>
<big>'''सुडनपुंसकस्य''' ( १.१.४३)  इत्यस्मात् सूत्रात् प्राक् '''शि सर्वनामस्थानम्''' ( १.१.४२) इति सूत्रम् अस्ति | '''शि सर्वनामस्थानम्''' ( १.१.४२) इत्यस्य अर्थः शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति | '''सुडनपुंसकस्य''' ( १.१.४३) इति सूत्रे अनपुंसकमिति निषेधः उच्यते वा? यदि निषेधः उच्यते तर्हि सुडनपुंसकस्य जसि शिप्रतिषेधः स्यात् |</big>



<big>यदि अनपुंसकमिति निषेधः उच्यते तर्हि '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |</big>




<big>यदि अनपुंसकमिति निषेधः उच्यते तर्हि '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा'''` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |</big>


<big>किन्तु अत्र '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>
<big>किन्तु अत्र '''सुडनपुंसकस्य''' ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |</big>

Latest revision as of 01:34, 20 May 2024

२०२4 ध्वनिमुद्रणानि
191_tatpuruShasamAsaH-anantarasya vidhirvA pratiShedaO vA _2024-05-18


अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषा | अनन्तरस्य विधिः वा प्रतिषेधः वा अव्यवहितस्य पूर्वस्यैव भवति न तु व्यवहितस्य इति परिभाषार्थः | अस्यां परिभाषायां वा इति शब्दः इत्यस्मिन् अर्थे प्रयुक्तः अस्ति इत्यतः एव विधिः निषेधः च द्वयमपि अनन्तरस्य अर्थात् समीपवर्तिनः एव भवति | एवं प्रकारेण अस्यां परिभाषायां समीपवर्तिनः विधानं वा निषेधः क्रियते यतोहि समीपवर्तिनः एव प्रथमोपस्थितिः भवति | यः व्यवहितः भवति तस्य उपस्थितिः विलम्बेन भवति इति स्वभाविकः एव | अतः अनया परिभाषया शीघ्रोपस्थितस्य समीपवर्तिनः एव विधानम् अथवा निषेधः क्रियते |


अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषायाः उदाहरणानि -


१)   नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) = अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति, अमादेशस्तु तस्य सुपो भवत्यपञ्चम्याः | एतस्मिन् प्रतिषिद्धे पञ्चम्याः श्रवणमेव भवति | अदन्तात् अव्ययीभावात्  सुप् प्रत्ययस्य लुक् न भवति, अपि तु पञ्चमीविभक्तिं विहाय अन्यासु विभक्तिषु सुप्प्रत्ययस्य स्थाने अमादेशः विधीयते | अनुवृत्ति-सहितसूत्रम्‌—अव्ययीभावाद् अतः तु न सुपः लुक् अपञ्चम्याः अम् |


अस्मिन् सूत्रे वाक्यद्वयं वर्तते –

१) अदन्तादव्ययीभावादुत्तरस्य सुपो न लुग् भवति इति एकं वाक्यम् |

२) `अमादेशस्तु तस्य भवत्यपञ्चम्याः` इति द्वितीयं वाक्यम् |


अपञ्चम्याः इत्यनेन `अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति पञ्चम्याः अमादेश एव प्रतिषिध्यते, न तु अलुक् पूर्ववाक्येन विहितः | अतः एव अलुकि सति पञ्चम्याः श्रवणमेव भवति | अनया परिभाषया अव्यवहितस्य पूर्वस्यैव प्रतिषेधः भवति, पूर्वं तु अमादेशः एव वर्तते | नाव्ययीभावादतोऽम्त्वपञ्चम्याः ( २.४.८३) इति तुशब्देनाप्ययमर्थो लभ्यते | तुशब्दः नियामको भवति अमेवापञ्चम्याः इति |


२)   सुडनपुंसकस्य ( १.१.४३) = सुट्‌-प्रत्याहारे सु-आदीनां पञ्चानां प्रत्ययानां सर्वनामस्थान-संज्ञा भवति परन्तु नपुंसकलिङ्गे न | सुट्‌-प्रत्याहारे सु, औ, जस्‌, अम्‌, औट्‌ इतीमे प्रत्ययाः अन्तर्भूताः | न नपुंसकम्‌, अनपुंसकम्‌ नञ्तत्पुरुषः, तस्य अनपुंसकस्य | सुट्‌ प्रथमान्तम्‌, अनपुंसकस्य षष्ठ्यन्तम्‌, द्विपदमिदं सूत्रम्‌ | शि सर्वनामस्थानम्‌ (१.१.४२) इत्यस्मात्‌ सर्वनामस्थानम्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सुट् सर्वनामस्थानम्‌ अनपुंसकस्य |


सुडनपुंसकस्य ( १.१.४३)  इत्यस्मात् सूत्रात् प्राक् शि सर्वनामस्थानम् ( १.१.४२) इति सूत्रम् अस्ति | शि सर्वनामस्थानम् ( १.१.४२) इत्यस्य अर्थः शि' इत्यस्य 'सर्वनामस्थान' इति संज्ञा भवति | सुडनपुंसकस्य ( १.१.४३) इति सूत्रे अनपुंसकमिति निषेधः उच्यते वा? यदि निषेधः उच्यते तर्हि सुडनपुंसकस्य जसि शिप्रतिषेधः स्यात् |


यदि अनपुंसकमिति निषेधः उच्यते तर्हि अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति नपुंसकलिङ्गे सर्वनामस्थानमेव प्रतिषिध्यते | शि सर्वनामस्थानं सुडनपुंसकस्य इति चेत् जसि शेः प्रतिषेधः प्राप्नोति – कुण्डानि तिष्ठन्ति, वनानि तिष्ठन्ति इत्यादीनि रूपाणि न भवन्ति |


किन्तु अत्र सुडनपुंसकस्य ( १.१.४३)  इति सूत्रे अनपुंसकमिति प्रसज्यप्रतिषेधः नास्ति अपि तु पर्युदासः अस्ति | प्रसज्यप्रतिषेधः चेत् नपुंसकलिङ्गे सुडः सर्वनामस्थानं न भवति इत्यर्थः आयाति | अर्थात् प्रतिषेधः उच्यते | पर्युदासः चेत् नपुंसकलिङ्गं विहाय अन्यत्र सुडः सर्वनामस्थानं भवति इत्यर्थः आयाति | अर्थात् पर्युदासे स्वीकृते प्रतिषेधस्य प्राधान्यमेव नास्ति |


सुडनपुंसकस्य ( १.१.४३) इति सूत्रे पर्युदासः एव स्वीकरणीयः यतोहि कुण्डानि वनानि इत्यादीनि रूपाणि तदैव प्राप्नुवः यदा नपुंसकलिङ्गे शि इत्यस्य शि सर्वनामस्थानम् ( १.१.४२) इत्यनेन शि इति प्रत्ययस्य सर्वनामस्थानं भवति | शि इति प्रत्ययस्य सर्वनामस्थानमस्ति चेदेव नुमागमः भवितुम् अर्हति येन कुण्डानि, वानानि इत्यादीनि रूपाणि प्राप्नुमः | अतः एव सुडनपुंसकस्य ( १.१.४३) इति सूत्रे प्रसज्यप्रतिषेधः निराक्रियते |


सुडनपुंसकस्य ( १.१.४३)  इति सूत्रे पर्युदासः स्वीकृतः इति कृत्वा पुंलिङ्गे स्त्रीलिङ्गे च व्यापारः भवति | यदि केनचित् सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तर्हि तेन भविष्यति एव | अत्र शि सर्वनामस्थानम् (१.१.४२) इत्यनेन पूर्वेण सूत्रेण नपुंसकलिङ्गे सर्वनामस्थानं प्राप्यते तस्य प्रतिषेधः न भवति अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति परिभाषया यतोहि परिभाषायाः प्रसक्तिः नास्ति एव यतोहि सुडनपुंसकस्य ( १.१.४३) इति सूत्रे नपुंसकलिङ्गस्य प्रसङ्गे प्रतिषेधः वा विधिः नोच्यते येन परिभाषायाः प्रयोगः स्यात् | अतः शि सर्वनामस्थानम् ( १.१.४२) इत्यनेन नपुंसकलिङ्गे शि इत्यस्य सर्वनामस्थानं भवति एव |


जश्शसोः शिः (७.१.२०) इत्यनेन नपुंसकात् परस्य जस्/शस्-प्रत्यययोः शि-आदेशः भवति |


३) वा छन्दसि ( ३.४.८८) = वैदिकप्रयोगेषु लोट्-लकारस्य सिप्-प्रत्ययस्य हि आदेशः विकल्पेन अपित् भवति | लोटो लङ्‌वत्‌ (३.४.८५) इत्यस्मात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | सेर्ह्यपिच्च (३.४.८७) इत्यस्य सम्पूर्णानुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य सेः हि छन्दसि वा अपित् च |


वा छन्दसि ( ३.४.८८) इत्यस्मिन् सूत्रे वा इत्यनेन कस्य विकल्पः उच्यते ? वा छन्दसि ( ३.४.८८) इत्यस्मात् सूत्रात् पूर्वं सूत्रम् अस्ति सेर्ह्यपिच्च (३.४.८७) इत्यतः वा छन्दसि ( ३.४.८८) इति सूत्रे हि इति आदेशस्य विकल्पः वा नोचेत् अपित्त्वस्य विकल्पः वा नोचेत् द्वयोः अपि विकल्पः उच्यते वा?


अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा` इति परिभाषया अव्यहितस्य पूर्वस्यैव विधिः वा निषेधः भवति | वा छन्दसि ( ३.४.८८) इत्यस्मिन् सूत्रे विकल्पविधानं यत् अस्ति तत् तु पूर्वस्यैव अव्यवहितस्य भवति, अतः वा इत्यस्य अन्वयः सेर्ह्यपिच्च (३.४.८७) इत्यस्मिन् सूत्रे अपित्त्वम् इत्यनेन सह एव भवति न तु हि इति आदेशेन सह | अर्थात् वा छन्दसि ( ३.४.८८) इत्यस्मिन् सूत्रे अपित्त्वं विकल्प्यते तस्यानन्तरत्वात् | आदेशस्तु अपित्त्वेन व्यवहितत्वाद् अनन्तरो न भवति अतः न विकल्प्यते |


सेर्ह्यपिच्च (३.४.८७) = लोट्‌-लकारस्य सि इत्यस्य स्थाने हि-आदेशो भवति; स च हि अपित्‌ भवति | सेः षष्ठ्यन्तं, हिः प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, च अव्ययपदम्‌, अनेकपदमिदं सूत्रम्‌ | लोटो लङ्‌वत्‌ (३.४.८५) इत्यस्मात्‌ लोटः इत्यस्य अनुवृत्तिः | लस्य (३.४.७७) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— लोटः लस्य सेः हि अपित्‌ च |