कृद्योगे षष्ठी
कृद्योगे विभक्तिचिन्तनम्
प्रत्ययः भावार्थे चेत् –
भावार्थे एते प्रत्ययाःभवन्ति - ल्युट्, क्तिन्, घञ् इत्यादयः | भावः नाम धात्वर्थः, क्रिया इत्यर्थः | प्रत्ययाः भावार्थे भवन्ति चेत् कर्ता, कर्म च, द्वयमपि अनुक्तं भवति प्रत्ययेन | प्रत्ययाः भावार्थे भवन्ति चेत् कर्तृकर्मणोः कृति ( २.३.६५) , उभयप्राप्तौ कर्मणि ( २.३.६६) चेत्येतयोः सूत्रयोः चिन्तनम् अग्रे उच्यते |
यथा –
बालकः गच्छति | अस्मिन् वाक्ये क्रियापदस्य स्थाने भावार्थकं प्रत्ययं स्थापयामः चेत् वाक्यं भवति –
बालकस्य गतिः | गतिः इति क्तिन्प्रत्ययान्तः सदा स्त्रीलिङ्गे एव भवति | क्तिन्प्रत्ययः भावार्थे विहितः इत्यतः कर्ता अनुक्तः भवति | अतः कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रे गतिः इति कृदन्तपदस्य योगे कर्तुः षष्ठी विहिता वर्तते | यदि अस्मिन्नेव वाक्ये गतिः इति क्तिन्प्रत्ययस्य स्थाने ल्युट्प्रत्ययं स्थापयामः चेत् वाक्यं भवति बालकस्य गमनम् इति |
यदि बालकः गच्छति इत्यस्मिन्नेव वाक्ये कर्मपदम् अपि योजयामः चेत्, वाक्यं भवति –
बालकः ग्रामं गच्छति | अस्मिन् वाक्ये क्रियापदस्य स्थाने भावार्थकं कृत्प्रत्ययं स्थापयामः चेत् वाक्यं भवति –
बालकेन /बालकस्य ग्रामस्य गतिः | अत्र कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण कर्तुः, कर्मणः च षष्ठी भवति स्म परन्तु उभयप्राप्तौ कर्मणि ( २.३.६६) इति सूत्रेण यदा वाक्ये कर्तुः कर्मणः च प्राप्तिः भवति तदा कर्मणः एव षष्ठी इति उक्तत्वात् कर्तुः बालकस्य तृतीयाविभक्तिः जायते | परन्तु अग्रे शेषे विभाषा इत्यनेन वार्तिकेन कर्तुः बालकस्य षष्ठी विकल्पेन भवति | अनेन कर्तुः षष्ठी, तृतीया च भवति | अस्मिन् चिन्तनक्रमे क्तिन् इति प्रत्ययस्य स्थाने अन्यः यः कोपि भावार्थकं प्रत्ययं स्थापयितुं शक्यते | यदि अन्यभावार्थकं प्रत्ययं यथा ल्युट्प्रत्ययम् स्थापयामः तर्हि वाक्यं समानरीत्या भवति- बालकेन /बालकस्य ग्रामस्य गमनम् |
प्रत्ययः भावार्थे नास्ति चेत् –
केचन कृत्प्रत्ययाः यथा तृच्, ण्वुल् इत्यादयः सामान्यतया कर्त्रर्थे एव भवन्ति | अन्ये केचन कृत्प्रत्ययाः सन्ति ये कर्मार्थे, करणार्थे, सम्प्रदानार्थे, अपादानार्थे, अधिकरणार्थे भवन्ति | यथा क्तप्रत्ययः कर्मार्थे, भावार्थे च भवति | यदा प्रत्ययाः कारकं बोधयन्ति तदा कर्तृकर्मादयः उक्ताः भवन्ति प्रत्ययेन | प्रत्ययेन कारकमुक्तं चेत् तस्य प्रथमविभक्तिः एव भवति | कर्त्रर्थे प्रत्ययः चेत् कर्ता उक्तः भवति प्रत्ययेन इति कृत्वा कर्तुः प्रथमा विभक्तिः जायते | प्रत्ययः कर्मार्थे चेत् कर्म उक्तं भवति प्रत्ययेन इति कृत्वा कर्मणः प्रथमा विभक्तिः जायते | एवमेव अन्येषु अर्थेषु चिन्त्यम् | प्रत्ययाः भावार्थं विहाय अन्येषु अर्थेषु भवन्ति चेत् कर्तृकर्मणोः कृति ( २.३.६५) , उभयप्राप्तौ कर्मणि ( २.३.६६) चेत्येतयोः सूत्रयोः चिन्तनम् अग्रे उच्यते |
यथा –
बालकः पठति | अस्मिन् वाक्ये क्रियापदस्य स्थाने कर्त्रर्थकं कृत्प्रत्ययं स्थापयामः चेत् वाक्यमेव भवति –
बालकः पाठकः | अत्र पाठकः इति ण्वुल्प्रत्ययान्तः शब्दः कर्त्रर्थे अस्ति | अतः बालकः उक्तः भवति ण्वुल्प्रत्ययेन, इति कृत्वा बालकस्य प्रथमाविभक्तिः जाता |
पाठकः इत्यस्य स्थाने तृच्प्रत्ययं स्थापयामः चेत् वाक्यमेव भवति बालकः पठिता इति | तृच्प्रत्ययः कर्त्रर्थे अस्ति इत्यतः कर्ता उक्तः भवति प्रत्ययेन | कर्ता उक्तः चेत् कर्तुः प्रथमा विभक्तिः भवति |
यदि बालकः पठति इति वाक्ये कर्मपदम् अपि योजयामः चेत्, वाक्यमेव भवति –
बालकः पुस्तकं पठति | अस्मिन् वाक्ये क्रियापदस्य स्थाने कर्त्रर्थकं कृत्प्रत्ययं स्थापयामः चेत् वाक्यं भवति –
बालकः पुस्तकस्य पाठकः | बालकः पुस्तकस्य पठिता | यथा पूर्वोक्तं तृच्प्रत्ययः, ण्वुल् प्रत्ययः च कर्त्रर्थे स्तः इति कृत्वा बालकः उक्तः भवति | पुस्तकमिति कर्म अनुक्तं भवति कृत्प्रत्ययेन इति कृत्वा कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण पुस्तकस्य षष्ठी जाता |
एवं रीत्या सर्वत्र चिन्तनं कार्यं कृदन्तस्य योगे |