गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम्

From Samskrita Vyakaranam
Jump to navigation Jump to search

(१७) ‘गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं’ पृथिव्याः लक्षणम् | गन्धसमानाधिकरणत्वे सति द्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम् |


द्वे दले :  १) गन्धसमानाधिकरणत्वम्   २) द्रव्यत्वापरजातिमत्त्वम्


गन्धाधिकरणत्वं वा गन्धमत्त्वम् एव पृथिवीत्वम् अथवा पृथिव्याः लक्षणम् इति कथ्यते चेत् अव्याप्तिदोषः इति दूषयति पुर्वपक्षी | अव्याप्तिः कुत्र ?


(१) उत्पन्ना पृथिवी क्षणमेकं निर्गुणा निष्क्रिया च तिष्ठति इत्यतः तादृश्यां पृथिव्याम् एव अव्याप्तिः अस्य लक्षणस्य | उत्पत्तेः प्रथमे क्षणे पृथिव्याम् इत्युक्ते घटपटादिषु नास्ति गन्धः इत्यस्मात् तत्र अव्याप्तिः | तदा सिद्धान्ती उत्तरयति, कालावच्छेदेन गन्धविद्यमानत्वम् अस्वीकृत्य लक्षणसमन्वयः करणीयः इति | यतः द्वितीये क्षणे गन्धः उत्पद्यते पृथिव्याम् |


(२) तथापि पुर्वपक्षिणः आपादनम् अनुवर्तते यत् उत्पन्नायां च तदनुक्षणमेव विनष्टायां पृथिव्यां गन्धः नोत्पद्यते एव | अत्रास्ति अव्याप्तिः इति पुर्वपक्षिणः आपादनम् | तदा सिद्धान्ती उत्तरयति, यथाश्रुतं लक्षणं, गन्धाधिकरणत्वं वा गन्धमत्त्वं पृथिव्याः लक्षणम् इति न स्वीकार्यम् | पृथिवीत्वम् इत्युक्ते गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वम् अथवा गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिव्याः लक्षणम् इत्येव स्वीकार्यम् |


गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वम् इत्यस्मिन् द्वे दले | दलयोः सार्थक्यम् अधः |

उपात्तं दलम् दोषः कुत्र ? निवारणम्
गन्धसमानाधिकरणत्वम् अतिव्याप्तिः गन्धसमानाधिकरणायां सत्ताजात्याम् अतिव्याप्तिः |

सत्ताजातिः अपि तत्रैव पृथिव्याम् अस्ति | सा जातिः गन्धसमानाधिकरणा | गन्धसमानाधिकरणत्वं लक्षणम् इति कथनेन सत्ताजातिमत्त्वं लक्षणम् इति आपतति |

सत्ताजातिः जलादौ अपि विद्यते इत्यनेन जलादौ अतिव्याप्तिः | सत्ता गुणकर्मणोः अपि अस्ति इति कृत्वा यत्र यत्र सत्ता वर्तते तत्र तत्र अतिव्याप्तिः स्यात् केवलं गन्धसमानाधिकरणत्वम् इति लक्षणेन |

द्रव्यत्वापरजातिमत्त्वम्
द्रव्यत्वापरजातिमत्त्वम् अतिव्याप्तिः जलत्वादिषु द्रव्यत्वस्य अपेक्षया न्यूनदेशवृत्तिषु अपरजातिषु द्रव्यत्वापरजातिमत्त्वम् अस्ति | अतः जले वा अन्येषु पृथिवीभिन्नद्रव्येषु अतिव्याप्तिः | गन्धसमानाधिकरणत्वम् इति केवलं पृथिवीत्वे |

गन्धस्य अधिकरणे द्रव्यत्वं, पृथिवीत्वं, घटत्वं वा पटत्वम् इत्यादयः बह्वयः जातयः स्युः | द्रव्यत्वस्य अपेक्षया पृथिवीत्वं, घटत्वं वा पटत्वम् अपरजातयः | तस्मात् घटत्वं वा पटत्वम् अपि द्रव्यत्वापरजातिः इति भूत्वा पृथिव्याः लक्षणदले आपतति | घटवं वा पटत्वं पृथिव्याः लक्षणम् इति लक्षणसमन्वयः दोषाय |

तन्निवारणाय द्रव्यत्वस्य साक्षात् अपरा जातिः या वर्तते, पृथीवीत्वम् इति सा एव स्वीकार्या लक्षणसमन्वये इति परिष्कारः | नाम द्रव्यत्वस्य अपेक्षया अधिकदेशवृत्तिजातिः न स्वीक्रियते | पृथिवीत्वस्य अपेक्षया न्यूनदेशवृत्तिजातिः घटत्वं वा पटवम् इत्यादिकं लक्षणसमन्वये न स्वीकार्यम् | द्रव्यत्वापरजातिः केवलं पृथिवीत्वम् एव | पृथिवीत्वं पृथिव्याः लक्षणम् इत्यनेन न कोऽपि दोषः |

गन्धसमानाधिकरणत्वम्
गन्धसमानाधिकरणत्वे सति द्रव्यत्वापरजातिमत्त्वम् नास्ति नास्ति नास्ति