नूतनवर्गः न्यायशास्त्र-सम्बद्धः

From Samskrita Vyakaranam
Jump to navigation Jump to search

posted Dec 31, 2015, 7:37 PM by Swarup Bhai   [ updated Dec 31, 2015, 7:37 PM ]


- 31 December 2015 न्यायशास्त्रस्य प्रसङ्गे पाठः

नमस्कारः सर्वेषाम्‌,

अस्मिन्‌ वर्षे नूतनवर्गः आरब्धः -- न्यायशास्त्रसम्बद्धः | पञ्चभ्यः वर्षेभ्यः पूर्वं शृङ्गेर्यां तर्कसङ्ग्रहम्‌ अधीतवान्‌ | अग्रे पाठयितुम्‌ इष्टवान्‌, किञ्च उचितग्रन्थस्य प्रतीक्षायाम्‌ आसं, यतोहि तर्कसङ्ग्रहः दीपिका च सरलौ ग्रन्थौ न | अधुना विद्याधरी इति पुस्तकम्‌ आगतम्‌ अस्ति; अस्माकं सदृशसामान्य-जनानां कृते बहु समीचीनं स्पष्टं च | अधुना विद्याधरीग्रन्थम्‌ आधारीकृत्य न्यायवर्गः प्रवर्तमानः | अधः प्रथमजालपुटे वर्गस्य सर्वाणि ध्वनिमुद्रणानि सन्ति | अनन्तरम्‌ अग्रिमाः जालपुटाः विभिन्नन्यायसम्बद्ध-विषयेषु विरचिताः | आनन्देन अवलोक्यन्ताम्‌ | शुभं, स्वरूपः |

01 - न्यायशास्त्रम्‌ अत्र लभ्यते | (अस्मिन्‌ पुटे वर्गस्य ध्वनिमुद्रणानि)

02 - प्रश्नाः उत्तराणि च अत्र लभ्यते |

03- सामान्यं विशेषः च अत्र लभ्यते |

04 – सामान्यम्‌ अत्र लभ्यते |

05 - असाधारणधर्मो लक्षणम्‌ अत्र लभ्यते |

06 - समवायः अतिरिक्तः पदार्थः किमर्थम्‌ ? अत्र लभ्यते |

07 - विशेषणं विशेष्यम्‌ अत्र लभ्यते |

07 - सुवर्णं तैजसं द्रव्यम्‌ अत्र लभ्यते |

08 - भूतले समवायसम्बन्धेन घटो नास्ति अत्र लभ्यते |