परिशिष्टं - प्रतिपदविधाना षष्ठी

From Samskrita Vyakaranam
Revision as of 16:38, 12 November 2022 by Vidhya (talk | contribs)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to navigation Jump to search

प्रतिपदविधाना षष्ठी


कैश्चित् सूत्रैः प्रतिपदम् उच्चार्य या षष्ठीविभक्तिः विधीयते सा प्रतिपदविधाना षष्ठी इत्युच्यते | अष्टाध्याय्यां ज्ञोऽविदर्थस्य करणे ( २.३.५१) इत्यस्मात् सूत्रात् आरभ्य व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रपर्यन्तम्, अपि च कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इत्येतैः सूत्रैः या षष्ठीविभक्तिः विहिता भवति सा प्रतिपदविधाना षष्ठी इत्युच्यते यतोहि सूत्रे एव उच्यते कैः पदैः सह षष्ठी विधीयते इति | कृद्योगे यः षष्ठीतत्पुरुषसमासः भवितुम् अर्हति, तं निषेधयितुमेव एतानि अष्टसूत्राणि कृतानि, न तु षष्ठीविभक्तेः विधानार्थम् | अतः एतानि अष्टसूत्राणि समासनिषेधार्थं कृतानि न तु षष्ठीविभक्तेः विधानार्थम् | षष्ठी विभक्तिः तु षष्ठी शेषे ( २.३.५०) इत्यनेनैव सूत्रेण सम्भवति तर्हि किमर्थं पाणिनिना पुनः एतानि अष्टसूत्राणि कृत्वा षष्ठी उच्यते इति चेत् समासनिषेधार्थमेव |


यद्यपि शेषत्वेन विवक्षिते षष्ठी शेषे ( २.३.५०) इत्यनेनैव सूत्रेण षष्ठी सम्भवति तथापि प्रतिपदविधाना षष्ठी न समस्यते इति वार्तिकस्य अनुरोधेन षष्ठ्यन्तेन सह समासस्य निषेधार्थमेव प्रतिपदविधाना षष्ठी इत्यस्य विधानं क्रियते | अतः एतैः सूत्रैः या षष्ठी उच्यते तैः सह समासः न सम्भवति | यैः सूत्रैः प्रतिपदविधाना षष्ठी जायते तेषां विवरणम् अग्रे दीयते —


१) ज्ञोऽविदर्थस्य करणे (२.३.५१) = जानातेः ( अर्थात् ज्ञा धातोः) अज्ञानार्थस्य करणे कारके शेषत्वेन विवक्षिते षष्ठी स्यात् | विद् अर्थः यस्य सः विदर्थः, न विदर्थः अविदर्थः तस्य, अविदर्थस्य | ज्ञः षष्ठ्यन्तम्, अविदर्थस्य षष्ठ्यन्तं, करणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— ज्ञः अविदर्थस्य करणे शेषे षष्ठी |


यथा - सर्पिषः ज्ञानम् | अर्थात् करणीभूतं यत्सर्पिः तत्संबन्धिनी प्रवृत्तिः इति अर्थः | सर्पिषः ज्ञानम् इति उदाहरणे ज्ञानम् इति पदम् ज्ञा इति धातुतः निष्पन्नः अस्ति, परन्तु अत्र ज्ञानम् इति अर्थः न विवक्षितः अपि तु प्रवृत्तिः इति अर्थः एव विवक्षितः | वस्तुतः सर्पिषा भोजने प्रवृत्तिः इत्यस्मिन् अर्थे सर्पिषा ज्ञानम् इति वाक्यं स्यात् परन्तु वक्त्रा सर्पिषा इति करणत्वेन वक्तुं नेष्यति इत्यतः करणस्य शेषत्वेन विवक्षिते सति, ज्ञोऽविदर्थस्य करणे (२.३.५१) इति सूत्रेण षष्ठी जायते | अनेन सर्पिषः ज्ञानम् इति वाक्यं सम्भवति | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


२) अधीगर्थदयेशां कर्मणि ( २.३.५२) = अधीगर्थाः धातवः स्मरणार्थकाः, दय दानगतिरक्षणेषु, ईश ऐश्वर्ये, इत्येतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इक् समरणे इति धातुः सर्वदा अधिपूर्वकः अस्ति इति कृत्वा सूत्रे अधीग् इति उक्तम् अस्ति | अधीग् अर्थः येषां ते अधीगर्थाः, अथवा अधीगः अर्थः इव अर्थः येषां ते अधीगर्थाः | अधीगर्थाश्च दयश्च ईश् च तेषामितरेतरयोगद्वन्द्वः अधीगर्थदयेशः तेषाम् अधीगर्थदयेशां, बहुव्रीहिगर्भद्वन्द्वः | अधीगर्थदयेशां षष्ठ्यन्तं, कर्मणि सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — अधीगर्थदयेशां कर्मणि शेषे षष्ठी |


यथा - १) मातुः स्मरणम् | अर्थात् कर्मीभूतमातृसंबन्धि स्मरणमित्यर्थः | २) सर्पिषो दयनम् | दयनं नाम रक्षणम् अथवा दानमिति अर्थः | अर्थात् कर्मीभूतसर्पिःसंबन्धि दयनमित्यर्थः | ३) सर्पिषः ईशनम् | ईशनं नाम स्वामित्वम् इत्यर्थः | कर्मीभूतसर्पिःसंबन्धी यथेष्टविनियोगः इत्यर्थः | एतेषु सर्वेषु उदाहरणेषु कर्मणः शेषत्वेन विवक्षिते अधीगर्थदयेशां कर्मणि ( २.३.५२) इति सूत्रेण षष्ठी जायते | अतः एव मातुः स्मरणं, सर्पिषः दयनं, सर्पिषः ईशनम् इत्यादीनि वाक्यानि सम्भवन्ति | परन्तु इयं षष्ठी एतेषु वाक्येषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


३) कृञः प्रतियत्ने ( २.३.५३) = कृञः धातोः कर्मणि शेषे षष्ठी स्यात् गुणाधाने | सतः गुणान्तराधानं प्रतियत्नः | प्रतियत्नः नाम गुणाधानम्, अर्थात् नूतनगुणस्य उत्पादनम् | कृञः षष्ठ्यन्तं, प्रतियत्ने सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — कृञः प्रतियत्ने कर्मणि शेषे षष्ठी |


यथा - एधोदकस्य उपस्करणम् | अर्थात् इन्धनं जलस्य शोधकं ( purifier) भवति | एधोदकम् इति शब्दस्य द्वेधा विभागः शक्यते | प्रथमः मार्गः अस्ति - एधस् इति शब्दः सकारान्तः नपुंसकलिङ्गे अस्ति, fuel इन्धनम् इत्यर्थः | दकशब्दः उदकवाची, जलम् इति अर्थः | अतः एधस् + दकम् = एधोदकम् ( fuel and water ) इति शब्दः निष्पन्नः भवति |


द्वितीयः मार्गः अस्ति - एधः इति शब्दः अकारान्तः पुंलिङ्गे अस्ति, fuel, इन्धनम् इत्येव अर्थः | उदकं तु जलम् इति एव अर्थः अस्ति | एधश्च उदकं चेति द्वन्द्वसमासः | एध + उदकम् = एधोदकम् |


वस्तुतः एधोदकस्य उपस्करणम् इत्यस्य कर्मीभूत-एधोदकसंबन्धि परिष्करणमित्यर्थः | कृ इति धातोः कर्म अस्ति एधोदकं, कर्मणः अविवक्षायां शेषत्वेन विवक्षायाम् कृञः प्रतियत्ने ( २.३.५३) इति सूत्रेण षष्ठी विभक्तिः जायते | परन्तु इयं षष्ठी प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


४) रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) = रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | सूत्रे भाववचनं नाम भावकर्तृकः इत्यर्थः | यदि धातोः अर्थः पीडा इति अस्ति अपि च कर्ता भावप्रत्ययान्तः अस्ति , तर्हि तादृशधातोः यत् कर्मकारकम् अस्ति, तस्य शेषत्वेन विवक्षायां षष्ठी विभक्तिः जायते ज्वर् -धातुं वर्जयित्वा | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं — रुजार्थानां भाववचनानाम् अज्वरेः कर्मणि शेषे षष्ठी |


यथा - रोगस्य चौरस्य रुजा | रोगकर्तृकं चौरसंबन्धपीडा इत्यर्थः | रोगस्य द्वारा चौरस्य पीडा भवति इत्यर्थः | रुजा इत्यस्य अर्थः पीडा इति | रुजा इति शब्दः रुज् इति धातुतः निष्पन्नः अस्ति | रुजा इति शब्दः भावार्थे विहितः इत्यतः कर्ता अपि अनुक्तः, कर्म अपि अनुक्तं भवति | पीडायाः कर्ता अस्ति रोगः | रोगः इति शब्दः रुज् इति धातुतः भावार्थे घञ्प्रत्ययं योजयित्वा निष्पन्नः, अतः रुजा इति शब्दे यः रुज् इति धातुः अस्ति सः भावकर्तृकः | अर्थात् भावः कर्ता यस्य सः भावकर्तृकः | रुज् इति धातुः भावकर्तृकः भवति यतोहि तस्य कर्ता रोगः भावप्रत्ययान्तः अस्ति | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति |


रुजा इति भावार्थे अस्ति इत्यतः कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये कर्मणः शेषत्वेन विवक्षिते षष्ठी जायते रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) इति सूत्रेण | चौरस्य रोगस्य रुजा इति वाक्ये चौरस्य इति शब्दे या षष्ठी सा प्रतिपदविधाना षष्ठी इत्यतः तस्य समासः न जायते |


भावकर्तृकस्य रुजार्थकधातोः कर्म अस्ति चौरम् | चौरः इति शब्दः रुज् इति धातोः कर्म अस्ति | रुजा इति भावार्थे अस्ति इत्यतः अनुक्तस्य कर्मणः द्वितीया स्यात् परन्तु अस्मिन् वाक्ये तादृशकर्मणः शेषत्वेन विवक्षायां षष्ठी भवति रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) इति सूत्रेण | रुज्धातोः कर्ता अस्ति रोगः, सः रुजा इत्यनेन अनुक्तः इति कृत्वा तस्य तृतीया स्यात् परन्तु रुजा इति कृदन्तस्य योग अनुक्तस्य कर्तुः कर्तृकर्मणोः कृतिः ( २.३.६५) इति सूत्रेण षष्ठी जाता | रोगस्य चौरस्य रुजा इत्यस्य अर्थः अस्ति रोगकर्तृक-कर्मीभूतचौरसम्बन्धि-सन्तापादिपीडा इत्यर्थः | अर्थात् रोगस्य द्वारा चौरस्य पीडा इत्यर्थः |


अज्वरिसन्ताप्योरिति वाच्यम् इति वार्तिकम् - ज्वर्, सन्तापि इति धातुभ्यां भावार्थे कृत्प्रत्ययं योजयित्वा ज्वरः, सन्तापः इति द्वौ शब्दौ निष्पन्नौ भवतः | ज्वरः, सन्तापः इति द्वौ शब्दौ भावार्थे विहितौ इत्यतः तयोः कर्म, कर्ता च अनुक्तः भवति | चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु ज्वरः, तथा सन्तापः इति अनयोः शब्दयोः योगे कर्मणः शेषत्वविवक्षायां षष्ठिविभक्तेः निषेधः क्रियते अनेन वार्तिकेन इत्यतः चौर-शब्दस्य षष्ठीविभक्तिः जायते षष्ठी शेषे ( २.३.५०) इति सूत्रेण | रुजार्थानां भाववचनानामज्वरेः ( २.३.५४) इति सूत्रेण एव अज्वरेः इति उक्त्वात् ज्वरशब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिद्धयते | अज्वरिसन्ताप्योरिति वाच्यम् इति वार्तिकेन स्पष्टीक्रियते यत् न केवलं ज्वर् शब्दः अपि तु सन्तापः इत्यस्य अपि ग्रहणं स्यात् प्रकृतसूत्रे | अतः सन्तापः इति शब्दस्य कर्मणः शेषत्वेन विवक्षायां षष्ठी निषिद्ध्यते अनेन वार्तिकेन | अतः चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु चौरस्य इति पदे कर्मकारकस्य अविवक्षायां षष्ठी जाता षष्ठी शेषे ( २.३.५०) इति सूत्रेण इति कृत्वा समासः अपि जायते | अनेन चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |


यदि चौरस्य ज्वरः, चौरस्य सन्तापः इत्यादिषु वाक्येषु कर्मणः विवक्षा अस्ति तर्हि कर्तृकर्मणोः कृति ( २.३.६५) इति सूत्रेण अनुक्तस्य कर्मणः षष्ठी जायते | कृद्योगे षष्ठी जाता इत्यतः समासः अपि जायते | अतः चौरस्य ज्वरः = चौरज्वरः, चौरस्य सन्तापः = चौरसन्तापः इति समासौ सिद्धौ भवतः |


५) आशिषि नाथः (२.३.५५) = आशीः इत्यर्थस्य नाथ् इति धातोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | इयं प्रतिपदविधाना षष्ठी इत्यतः षष्ठी ( २.२.८) इति सूत्रेण समासः न भवति | अशिषि सप्तम्यन्तं, नाथः, षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— आशिषि नाथः कर्मणि शेषे षष्ठी |


यथा सर्पिषो नाथनम् | इदं मे भूयाद् इति इच्छा एव आशीः | वस्तुतः कर्मीभूतसर्पिः सम्बन्धि आशासनमित्यर्थः |


६) जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ( २.३.५६) = ण्यन्तः जासि -धातुः, नि,प्र, च उपसर्गपूर्वकः हन्-धातुः, चुरादिगणीयौ ण्यन्तौ नाटि, क्राथि च धातू , पिष् -धातुः इत्येतेषां धातूनां हिंसाक्रियाणां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | जासिश्च निप्रहणश्च नाटश्च क्राथश्च पिष् च तेषामितरेतरद्वन्द्वः, जासिनिप्रहणनाटक्राथपिषस्तेषां, जासिनिप्रहणनाटक्राथपिषाम् | जासिनिप्रहणनाटक्राथपिषाम् इति षष्ठ्यन्तं, हिंसायां सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— जासिनिप्रहणनाटक्राथपिषां हिंसायां कर्मणि शेषे षष्ठी |


यथा -


अ) ण्यन्तः जासिधातुः - चौरस्य उज्जासनम् |


आ) नि,प्र, च उपसर्गपूर्वकः हन्-धातुः = निप्रौ संहतौ विपर्यस्तौ व्यस्तौ वा | एतेषाम् उपसर्गाणां क्रमः नास्ति, यः कोपि पूर्वं भवितुम् अर्हति अपि च यः कोपि व्यस्तः अपि भवितुम् अर्हति | चौरस्य निप्रहणनम् | चौरस्य प्रणिहननम् | चौरस्य निहननम् | चौरस्य प्रहणनं वा |


इ) चुरादिगणीयः ण्यन्तः धातुः नाटि = नट अवस्कन्दने चुरादिः | चौरस्योन्नाटनम् |


ई) चुरादिगणीयः ण्यन्तः धातुः क्राथि = चौरस्य क्राथनम् |


उ) पिष् - धातुः = वृषलस्य ( ox) पेषणम् |


एतेषु सर्वेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते | जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ( २.३.५६) इति सूत्रे हिंसायाम् इति उक्तत्वात् यत्र हिंसा नास्ति तत्र तु समासः भवति एव | यथा धानानां पेषणम् इत्यत्र तु हिंसा नास्ति अतः धानापेषणम् इति समासः भवति एव |


७) व्यवहृपणोः समर्थयोः ( २.३.५७) = व्यवहृ, पण, इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | व्यवहृ, पण, इत्यनयोः धात्वोः द्यूते क्रयविक्रयव्यवहारे च तुल्यार्थता | विश्च अवश्च तयोरितरेतरयोगद्वन्द्वः व्यवौ तौ पूर्वौ यस्य सः व्यवहा, व्यवहा च पण् च तयोरितरेतरयोगद्वन्द्वः व्यवहृपणौ, तयोः , व्यवहृपणोः | समोऽर्थः ययोः तौ समर्थौ तयोः समर्थयोः | व्यवहृपणोः षष्ठीद्विवचनान्तं, समर्थयोः षष्ठ्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अधीगर्थदयेशां कर्मणि ( २.३.५२) इत्यस्मात् सूत्रात् कर्मणि इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— व्यवहृपणोः समर्थयोः कर्मणि शेषे षष्ठी |


यथा - शतस्य व्यवहरणं पणनं वा | अर्थात् शतं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।


सहस्रस्य व्यवहरणम् =अर्थात् सहस्रं क्रयविक्रयरूपेण विनियुङ्क्ते, दीव्यति वेत्यर्थः।


एवमेव शतस्य पणनं, सहस्रस्य पणनम् | एतेषु उदाहरणेषु प्रतिपदविधाना षष्ठी इत्यतः समासः न जायते |


व्यवहृपणोः समर्थयोः ( २.३.५७) इति सूत्रे समर्थयोः इति उक्तत्वात् यत्र क्रयविक्रयव्यवहार्थः नास्ति तत्र समासनिषेधः नास्ति यथा शलाकानां व्यवहारः = शलाकाव्यवहारः ( counting of pencils) , ब्राह्मणस्य पणनम् = ब्राह्मणपणनम् ( ब्राह्मणस्य स्तुतिः) | अनयोः उदाहरणयोः क्रयविक्रयव्यवहार्थः नास्ति अतः कारकस्य अविवक्षायां सम्बन्धार्थे षष्ठी भूत्वा समासः अपि जातः |


८) कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) = कृत्वोऽर्थानां प्रयोगे कालेऽधिकरणे शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति | कृत्वसुच्-प्रत्ययस्य अर्थः इव अर्थः येषां ते कृत्वोऽर्थाः तेषां प्रयोगः कृत्वोऽर्थप्रयोगः तस्मिन् कृत्वोऽर्थप्रयोगे, बहुव्रीहिगर्भतत्पुरुषः | कृत्वोऽर्थप्रयोगे सप्तम्यन्तं, काले सप्तम्यन्तम्, अधिकरणे सप्तम्यन्तम् | षष्ठी शेषे ( २.३.५०) इत्यस्मात् सम्पूर्णसूत्रस्य अनुवृत्तिः | अनुवृत्ति-सहित-सूत्रं— कृत्वोऽर्थप्रयोगे कालेऽधिकरणे शेषे षष्ठी |


यथा - पञ्चकृत्वः अह्नः भोजनम् | अर्थात् पञ्चवारं दिने भोजनम् | अस्मिन् उदाहरणे कालवाची अहन् इति शब्दः | सामान्यतया वाक्यमेवं भवति - पञ्चकृत्वः अह्नि भुङ्क्ते इति | परन्तु अहन् शब्दस्य अधिकरणत्वेन प्रयोक्तुं न इच्छामः चेत् तदानीं प्रकृतसूत्रेण कृत्वोर्थप्रयोगे षष्ठी जायते | अतः एव पञ्चकृत्वः अह्नः भोजनम् इति वाक्यम् | अहन् इति कालवाचिशब्दस्य अधिकरणकारके अविवक्षिते , शेषत्वेन विवक्षिते या षष्ठी भवति तस्याः समासः न भवति | अत्र प्रतिपदविधाना षष्ठी इत्यतः समासः न भवति |


एवमेव द्विः अह्नः भोजनम् | अर्थात् द्विवारं दिने भोजनम् |



कृत्वसुच् इति प्रत्ययसम्बद्धसूत्राणि अत्र उक्तानि सन्ति -


संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् ( ५.४. १७) = सङ्ख्यावाचकशब्दात् कृत्वसुच् इति प्रत्ययः भवति क्रियायाः पौनःपुन्यस्य गणनार्थम् | कृत्वसुच् इति प्रत्यये चकारस्य इत्संज्ञा भूत्वा लोपः भवति | सकारोत्तरवर्ती उकारः उच्चारणार्थः | कृत्वस् इति अवशिष्यते |


पञ्चवारान् = पञ्चन् + कृत्वसुच् → पञ्चकृत्वः । रामः पञ्चकृत्वः भुङ्क्ते' इति उदाहरणम् |


द्वित्रिचतुर्भ्यः सुच् ( ५.४.१८) = द्वि, त्रि तथा चतुर् इत्येतेभ्यः शब्देभ्यः सुच् इति प्रत्ययः भवति क्रियायाः पौनः पुन्यस्य गणनार्थम् | सुच् इति प्रत्यये चकारस्य इत्संज्ञा, उकारः उच्चारणार्थः | सकारः एव अवशिष्यते |


द्वि + सुच् = द्विः | द्विवारं भुङ्क्ते इत्यस्मिन् अर्थे द्विः भुङ्क्ते |


त्रि + सुच् = त्रिः | त्रिवारं भुङ्क्ते इत्यस्मिन् अर्थे त्रिः भुङ्क्ते |


चतुर् + सुच् = चतुः | चतुर्वारं भुङ्क्ते इत्यस्मिन् अर्थे चतुः भुङ्क्ते |


एकस्य सकृच्च ( ५.४.१९) = एक इति शब्दात् सुच् इति प्रत्ययः भवति, तथा च एक इति शब्दस्य स्थाने सकृत् इति आदेशः अपि भवति क्रियायाः गणने कर्तव्ये | सुच् इति प्रत्यये चकारस्य इत्संज्ञा, उकारः उच्चारणार्थः | सकारः एव अवशिष्यते |


एक + सुच् = सकृत् + स् = सकृत् |


एकवारं भुङ्क्ते इत्यस्मिन् अर्थे सकृत् भुङ्क्ते इत्युच्यते |


विभाषा बहोर्धाविप्रकृष्टकाले ( ५.४.२०) = बहुशब्दात् क्रियाभ्यावृतिगणने वर्तमानात् विभाषा धा प्रत्ययो भवति | कृत्वसुचोऽपवादः इदं सूत्रम् | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | अविप्रकृष्टग्रहणं क्रियाभ्यावृत्तिविशेषणम् | कस्मिंश्चित् अविप्रकृष्टे काले क्रियायाः पौनःपुन्यम् दर्शयितुं 'बहु' शब्दात् विकल्पेन धा इति प्रत्ययः भवति | पक्षे कृत्वसुच् इति प्रत्ययः अपि विधीयते | क्रियाणाम् उत्पत्तयः चेत् आसन्नकालाः भवन्ति, न विप्रकृष्टकालाः | अविप्रकृष्टकालः = when the recurring of the action takes place within a short time |


उदा - बहुधा दिवसस्य भुङ्क्ते |


अथवा बहुकृत्वः दिवसस्य भुङ्क्ते |


इति एवं रीत्या कृत्वसुच् इति अधिकारे कतिचन सूत्राणि सन्ति | कृत्वोऽर्थप्रयोगे कालेऽधिकरणे ( २.३.६४) इति सूत्रे कृत्वसुच् इत्यस्मिन् अर्थे ये ये प्रत्ययाः उक्ताः तेषां सर्वेषाम् अपि ग्रहणं भवति |