बहवः पाठाः नवीकृताः

From Samskrita Vyakaranam
Jump to navigation Jump to search

posted Dec 29, 2015, 7:42 AM by Swarup Bhai   [ updated Dec 29, 2015, 7:42 AM ]

- 28 December 2015 पाठाः नवीकृताः --

जान्वरी-मासस्य प्रथमदिनाङ्के भारतवर्षं गच्छामि अध्ययनार्थं; तत्र च स्थास्यामि मार्च्‌-मासस्य त्रयोदिनाङ्कपर्यन्तम्‌ | गमनात्‌ प्राक्‌ अस्मिन्‌ गतमासत्रये किं किं नूतनम्‌ अस्माकं जालस्थाने स्थापितम्‌ इति विषये अग्रिमेषु चतुर्षु दिनेषु वक्ष्यमाणम्‌ | यस्य पूर्वम्‌ उद्घोषणा जाता तन्न वक्ष्यते; यस्य एतावता सूचना न दत्ता, तत्प्रसङ्गे अत्र दीयमानम्‌ अस्ति |

सेप्तम्बर्‍-मासात्‌ आरभ्य अस्माकं नूतनव्याकरणवर्गः प्रवर्तमानः | तदर्थं पाणिनीयव्याकरणस्य प्रारम्भिकस्तरीयाः पाठाः सर्वे नवीकृताः | नवीकृतं नाम किम्‌ इति चेत्‌, बहूनां पाठानां सिद्ध्यनुभवस्य आधारेण एतावता शैली परिष्कृता | तदर्थं क्रमेण सर्वं नवीकृत्य निर्मीयमाणम्‌ अस्ति | तर्हि अत्र प्रथमाः एकादश पाठाः सन्ति--

१. धातुगणाः अत्र लभ्यते |

२. धातुगण-परिचयः अत्र लभ्यते |

३. गुणः अत्र लभ्यते |

४. पाणिनीयं सूत्रं‌ कथं पठनीयम् अत्र लभ्यते |

५. निमित्तम्‌ अत्र लभ्यते |६. इत्‌संज्ञा-प्रकरणम्‌ अत्र लभ्यते |७. गुणः, सूत्रसहिता दृष्टिः अत्र लभ्यते |८. उपधायाम्‌‌‌ अपि गुणः - सूत्रसहिता दृष्टिः अत्र लभ्यते |९. तुदादिगणे न गुणः अत्र लभ्यते |१०. गुणकार्यस्य अभ्यासः अत्र लभ्यते |११. केषु गणेषु गुणः सम्भवति धात्वङ्गे ? अत्र लभ्यते |