मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

From Samskrita Vyakaranam
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
 
(16 intermediate revisions by the same user not shown)
Line 1: Line 1:
{{DISPLAYTITLE:<span style="color:#ff0000">मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् </span>}}



{| class="wikitable"
{| class="wikitable"
|+
|+
!ध्वनिमुद्रणानि
!ध्वनिमुद्रणानि
|-
|-
|) [https://archive.org/download/samAsaH-pANini-dvArA/192_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_2024-06-01.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-01]
|1) [https://archive.org/download/samAsaH-pANini-dvArA/192_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_2024-06-01.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-01]
|-
|-
|2) [https://archive.org/download/samAsaH-pANini-dvArA/193_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_2024-06-08.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-08]
|
|-
|-
|3) [https://archive.org/download/samAsaH-pANini-dvArA/194_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_2024-06-15.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-15]
|
|-
|4) [https://archive.org/download/samAsaH-pANini-dvArA/195_tatpuruShasamAsaH-%20madhyE%20apavAdhaH%20pUrvAn%20vidhin%20bAdhantE%20nOttarAn_%202024-06-22.mp4 tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_ 2024-06-22]
|}
|}





Line 15: Line 20:




<big>उदाहरणानि -</big>
<big>'''<u>उदाहरणानि</u>''' </big>





Line 23: Line 27:


<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः '''इणो यण्''' ( ६.४.८१) इति सूत्रम् | यन्ति, यन्तु, आयन् चेत्यत्र इयङादेशं प्राबाध्य '''इणो यण्''' ( ६.४.८१) इत्यनेन यणादेशः भवति |</big>
<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः '''इणो यण्''' ( ६.४.८१) इति सूत्रम् | यन्ति, यन्तु, आयन् चेत्यत्र इयङादेशं प्राबाध्य '''इणो यण्''' ( ६.४.८१) इत्यनेन यणादेशः भवति |</big>





Line 30: Line 33:


<big>ण्वुल्प्रत्यये परे</big> <big>'''अचो ञ्णिति''' (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि '''इणो यण्''' ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा '''इणो यण्''' ( ६.४.८१) इति सूत्रम् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |</big>
<big>ण्वुल्प्रत्यये परे</big> <big>'''अचो ञ्णिति''' (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि '''इणो यण्''' ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा '''इणो यण्''' ( ६.४.८१) इति सूत्रम् '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |</big>





Line 36: Line 38:




<big>एवमुच्यते चेत् '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नः उदेति | अस्य समाधानम् अस्ति यत् '''लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌''' इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्‌ | अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य (सूत्रस्य) अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम्‌ | लक्षणप्रतिपदोक्तयोः मध्ये साक्षातदुच्चारितत्त्वेन प्रतिपदोक्तत्वस्य एव शीघ्रोपस्थितिः भवति, अतः '''इणो यण्''' ( ६.४.८१) इति सूत्रे इण् -धातोः प्रतिपदोक्तत्त्वात् तस्य बलवत्त्वं स्यात् अन्येषां सूत्राणाम् अपेक्षया | एवं चेत् समस्या जायेत, अतः '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन निर्णयः शक्यते यत् प्रतिपदोक्तत्वं चेदपि पूर्वस्य विधिन् एव बाधते न तु उत्तरस्य इति |</big>
<big>एवमुच्यते चेत् '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नः उदेति | अस्य समाधानम् अस्ति यत् '''लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌''' इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्‌ | अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य (सूत्रस्य) अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम्‌ | लक्षणप्रतिपदोक्तयोः मध्ये साक्षादुच्चारितत्त्वेन प्रतिपदोक्तत्वस्य एव शीघ्रोपस्थितिः भवति, अतः '''इणो यण्''' ( ६.४.८१) इति सूत्रे इण् -धातोः प्रतिपदोक्तत्त्वात् तस्य बलवत्त्वं स्यात् अन्येषां सूत्राणाम् अपेक्षया | एवं चेत् समस्या जायेत, अतः '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः बलेन निर्णयः शक्यते यत् प्रतिपदोक्तत्वं चेदपि पूर्वस्य विधीन् एव बाधते न तु उत्तरस्य इति |</big>






<big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः अवगमनार्थं सूत्रक्रमः ज्ञातव्यः -</big>
<big>'''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्''' इति परिभाषायाः अवगमनार्थं सूत्रक्रमः ज्ञातव्यः -</big>



{| class="wikitable"
{| class="wikitable"
Line 59: Line 60:




<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''इणो यण्''' ( ६.४.८१) इति अपवादभूतसूत्रं यत् मध्ये वर्तते, तत् पूर्वान् विधीन् एव बाधन्ते नोत्तरान् इति कृत्वा '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशमेव बाधते न तु परसूत्राणां कार्यम् | इति कृत्वा '''इणो यण्''' ( ६.४.८१) इति विधिः परयोः गुणवृद्ध्योः न बाध्यते | अर्थात् '''इणो यण्''' ( ६.४.८१) इति विधिः '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपवादः नास्ति अतः एव ''अयनम्, आयकः'' इति रूपं लभ्यते |</big>


<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''इणो यण्''' ( ६.४.८१) इति अपवादभूतसूत्रं यत् मध्ये वर्तते, तत् पूर्वान् विधीन् एव बाधन्ते इति कृत्वा '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' ( ६.४.७७) इति सूत्रस्य इयङादेशमेव बाधते न तु परसूत्राणां कार्यम् | इति कृत्वा '''इणो यण्''' ( ६.४.८१) इति विधिः परयोः गुणवृद्ध्योः न बाध्यते | अर्थात् '''इणो यण्''' ( ६.४.८१) इति विधिः '''अचो ञ्णिति''' (७.२.११५), '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) चेत्यनयोः अपवादः नास्ति अतः एव अयनम्, आयकः इति रूपं लभ्यते |</big>


<big>'''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अचः अङ्गस्य''' नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | '''अलोऽन्तस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |</big>




<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस् अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इक्‌''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>


<big>'''अचो ञ्णिति''' (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन '''अचः अङ्गस्य''' नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | '''अलोऽन्तस्य''' इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''मृजेर्वृद्धिः''' (७.२.११४) इत्यस्मात्‌ '''वृद्धिः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''अचः अङ्गस्य वृद्धिः ञ्णिति''' |</big>


<big>'''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे '''प्रत्ययग्रहणे तदन्ता ग्राह्याः''' (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि''' |</big>




<big>'''अन्यत् उदाहरणम्'''</big> <big>—</big>
<big>'''सार्वधातुकार्धधातुकयोः''' (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | '''मिदेर्गुणः''' (७.३.८२) इत्यस्मात्‌ '''गुणः''' इत्यस्य अनुवृत्तिः | '''अङ्गस्य''' (६.४.१) इत्यस् अधिकारः | '''इको गुणवृद्धी''' (१.१.३) इत्यनेन परिभाषा-सूत्रेण, '''इक्‌''' स्थानी भवति यत्र स्थानी नोक्तम्‌ | '''येन विधिस्तदन्तस्य''' (१.१.७२) इत्यनेन ''''इकः अङ्गस्य'''<nowiki/>' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; '''अलोऽन्त्यस्य''' (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— '''इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः''' |</big>




२) <big>'''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) = स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | यस्य उपसर्जनसंज्ञकस्य स्वाङ्गवाचिनः शब्दस्य उपधायां संयोगः न स्यात्, सः शब्दः अदन्तः च स्यात्, तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन ङीष् इति प्रत्ययः विधीयते | स्वम् अङ्गं स्वाङ्गं, तस्मात् | संयोगः उपधा यस्य सः संयोगोपधः, न संयोगोपधः असंयोगापधस्तस्मात् | स्वाङ्गात् पञ्चम्यन्तं, च अव्ययपदं, उपसर्जनात् पञ्चम्यन्तम्, असंयोगोपधात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उपसर्जनात् असंयोगोपधात् स्वाङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष् वा''' |</big>


२) <big>'''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) = स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात् अदन्तात् प्रातिपदिकात् स्त्रियां विकल्पेन ङीष् प्रत्ययो भवति | यस्य उपसर्जनसंज्ञकस्य स्वाङ्गवाचिनः शब्दस्य उपधायां संयोगः न स्यात्, सः शब्दः अदन्तः च स्यात्, तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन ङीष् इति प्रत्ययः विधीयते | स्वम् अङ्गं स्वाङ्गं, तस्मात् | संयोगः उपधा यस्य सः संयोगोपधः, न संयोगोपधः असंयोगोपधस्तस्मात् | स्वाङ्गात् पञ्चम्यन्तं, च अव्ययपदं, उपसर्जनात् पञ्चम्यन्तम्, असंयोगोपधात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''उपसर्जनात् असंयोगोपधात् स्वाङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष् वा''' |</big>


<big>यथा - १) चन्द्रः इव मुखं यस्याः सा= चन्द्रमुखी, चन्द्रमुखा | स्मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति, अतः सः शब्दः असंयोगपधः | मुखम् इति शब्दः स्वाङ्गवाची शब्दः अस्ति | अत्र च '''प्रथमानिर्दिष्टम् उपसरजनम्''' ( १.२.४३ ) इत्यनेन मुखशब्दस्योपसर्जनसंज्ञा | समासः अदन्तः अस्ति | अतः स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | अतः चन्द्रमुख इति प्रातिपदिकात् ङीष् इति प्रत्ययः विकल्पेन विधीयते, अपक्षे टाप् इति प्रत्ययः भवति | चन्द्रमुख + ङीष् = चन्द्रमुखी, चन्द्रमुख + टाप् = चन्द्रमुखा ( '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति) |</big>


<big>यथा - १) चन्द्रः इव मुखं यस्याः सा= चन्द्रमुखी, चन्द्रमुखा | मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति, अतः सः शब्दः असंयोगोपधः | मुखम् इति शब्दः स्वाङ्गवाची शब्दः अस्ति | समासः अदन्तः च अस्ति | अत्र च '''प्रथमानिर्दिष्टम् उपसरजनम्''' ( १.२.४३ ) इत्यनेन मुखशब्दस्योपसर्जनसंज्ञा यतोहि समासः विधीयते '''अनेकमन्यपदार्थे''' (२.२.२४) इत्यनेन सूत्रेण | '''अनेकमन्यपदार्थे''' (२.२.२४) इति सूत्रं वदति यत् अनेकं सुबन्तमन्यपदार्थे वर्तमानं सह समस्यते, बहुव्रीहिश्च समासो भवति इति | अतः स्वाङ्गं यदुपसर्जनमसंयोगोपधं तददन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | अतः चन्द्रमुख इति प्रातिपदिकात् ङीष् इति प्रत्ययः विकल्पेन विधीयते, अपक्षे टाप् इति प्रत्ययः विधीयते | चन्द्रमुख + ङीष् = चन्द्रमुखी, चन्द्रमुख + टाप् = चन्द्रमुखा ( '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति) |</big>
<big>२) अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला |</big>




<big>२) अतिक्रान्ता केशान् = अतिकेशी, अतिकेशा माला |</big>




<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् (नासिक-उदर-ओष्ठ-जङ्घा (thigh)-दन्त-कर्ण-शृङ्गात्( horn) ) प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वाङ्गाच्चोपसर्जनात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>


<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् (नासिक-उदर-ओष्ठ-जङ्घा (thigh)-दन्त-कर्ण-शृङ्गात्( horn) ) प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वाङ्गाच्चोपसर्जनात्''' '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>
<big>'''आद्ययोः नासिकोदरयोः बह्वज्लक्षणो निषेधो बाध्यते पुरस्तादपवादन्यायात् |''' '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण नासिकोदरयोः ङीष्- प्रत्ययः विकल्पेन प्राप्तः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रेण विकल्पेन नासिकोदरयोः ङीष्प्रत्ययस्य विधानं क्रियते | '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषया '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति विधिः पूर्वविधिमेव बाधते अतः नासिकोदरयोः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इत्यनेन विकल्पेन ङीष् -प्रत्ययस्य विधानं क्रियते |</big>




<big>'''आद्ययोः नासिकोदरयोः बह्वज्लक्षणो निषेधो बाध्यते पुरस्तादपवादन्यायात् |''' नासिका-उदरयोः बह्वच्कत्वात् न क्रोडादिबह्वचः इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन विधीयते | ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गेभ्यः संयोगोपधत्वाद् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' (४.१.५४) इति सूत्रघटक-असंयोगोपधात् इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन ङीष् विधीयते |</big>
<big>इदानीं नासिकोदरयोः '''न क्रोडादिबह्वचः''' (४.१.५५) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | '''न क्रोडादिबह्वचः''' (४.१.५५) इति सूत्रस्य अपवादः प्रकृतसूत्रम् | अत्र '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५५) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते | '''अर्थात् न क्रोडादिबह्वचः''' (४.१.५५) इति अनन्तरविधिः, तस्य ङीष् -निषेधस्य बाधकं भवति प्रकृतभूतं अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे |</big>




<big>'''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण नासिकोदरयोः ङीष्- प्रत्ययः विकल्पेन प्राप्तः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण पुनः विकल्पेन नासिकोदरयोः ङीष् इति प्रत्ययस्य विधानं क्रियते | '''अनन्तरस्य विधिर्वा प्रतिषेधो वा''' इति परिभाषया '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति विधिः अव्यवहितं पूर्वविधिमेव, '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रमेव बाधते, अतः नासिकोदरयोः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इत्यनेन एव विकल्पेन ङीष् -प्रत्ययस्य विधानं क्रियते |</big>



<big>ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनं, मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः अतः एतेषां ङीष् अप्राप्तः अस्ति '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति प्रकृतसूत्रेण | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण प्रकृतसूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् |</big>
<big>इदानीं नासिकोदरयोः '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यनेन क्रोडादेः बह्वचः च स्वाङ्गात् ङीष् न भवति | '''न क्रोडादिबह्वचः''' (४.१.५६) इति सूत्रस्य अपवादः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं यतोहि '''न क्रोडादिबह्वचः''' (४.१.५६) इति सूत्रेण यः निषेधः उक्तः तस्य बाधकः अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् | अत्र '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते न तु उत्तरान् | '''अर्थात् न क्रोडादिबह्वचः''' (४.१.५६) इति अनन्तरप्रतिषेधः, तस्य ङीष्-निषेधस्य बाधकं भवति प्रकृतभूतम् अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे | अत्र उत्तरविधिः अस्ति '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रम् | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति अपवादसूत्रेण '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरविधिं न बाध्यते, केवलं '''न क्रोडादिबह्वचः''' (४.१.५६) इति अनन्तरप्रतिषेधमेव बाधते |</big>

<big>ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनम् इदं मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः सन्ति, अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः, अतः एतेषां ङीष् अप्राप्तः अस्ति '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' (४.१.५६) इति प्रकृतभूतसूत्रेण | एतेषु पञ्चसु शब्देषु बहवः अच्वर्णाः न सन्ति इत्यतः '''न क्रोडादिबह्वचः''' (४.१.५६) इत्यस्य प्रसङ्गः एव नास्ति | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण प्रकृतसूत्रम् अपवादसूत्रं सामान्यसूत्राणां मध्ये पठितं वर्तते इत्यतः '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | सहनञ्लक्षणः तु प्रतिषेधः परत्वात् अस्य प्रकृतसूत्रस्य बाधकः अस्ति | अर्थात् प्रकृतसूत्रस्य अपेक्षया अग्रे आगम्यमानं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं परशास्त्रम् अस्ति इत्यतः तत् प्रकृतसूत्रस्य बाधकम् अस्ति | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं परत्वात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्यापि बाधकं भवति |</big>




Line 98: Line 105:
<big>१) तुङ्गे ( elevated) नासिके यस्याः सा = तुङ्गनासिकी, तुङ्गनासिका,</big>
<big>१) तुङ्गे ( elevated) नासिके यस्याः सा = तुङ्गनासिकी, तुङ्गनासिका,</big>


<big>२) तिलम् उदरे यस्याः सा= तिलोदरी, तिलोदरा,</big>
<big>२) तिलम् उदरे यस्याः सा = तिलोदरी, तिलोदरा,</big>


<big>३) बिम्बम् इव ओष्ठौ यस्याः सा = बिम्बोष्ठी, बिम्बोष्ठा,</big>
<big>३) बिम्बम्( Red colored Bimba fruit ) इव ओष्ठौ यस्याः सा = बिम्बोष्ठी, बिम्बोष्ठा,</big>


<big>४) दीर्घे जङ्घे यस्याः सा = दीर्घजङ्घी, दीर्घजङ्घा,</big>
<big>४) दीर्घे जङ्घे यस्याः सा = दीर्घजङ्घी, दीर्घजङ्घा,</big>
Line 106: Line 113:
<big>५) समाः दन्ताः यस्याः सा = समदन्ती, समदन्ता,</big>
<big>५) समाः दन्ताः यस्याः सा = समदन्ती, समदन्ता,</big>


<big>६) शुभनौ कर्णौ यस्याः सा = सुकर्णी, सुकर्णा,</big>
<big>६) शोभनौ कर्णौ यस्याः सा = सुकर्णी, सुकर्णा,</big>


<big>७) तीक्ष्णे शृङ्गे यस्याः सा = तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा |</big>
<big>७) तीक्ष्णे शृङ्गे यस्याः सा = तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा |</big>


<big>'''पुच्छाच्चेति वक्तव्यम्''' |</big>
<big>'''पुच्छाच्चेति वक्तव्यम्''' |</big>


<big>८) कल्याणपुच्छी, कल्याणपुच्छा |</big>
<big>८) कल्याणपुच्छी, कल्याणपुच्छा |</big>




<big>'''कबर -मणि -विष -शरेभ्यो नित्यम्''' |</big>


<big>९) कबरं (चित्रं) पुच्छं यस्याः सा = कबरपुच्छी( a peahen) |</big>
<big>'''कबरमणिविषशरेभ्यो नित्यम्''' |</big>

<big>१०) मणिः पुच्छं यस्याः सा = मणिपुच्छी ( Having lumps on the tail) ,</big>

<big>११) विषः पुच्छं यस्याः सा = विषपुच्छी ( scorpion) ,</big>

<big>१२) शरः पुच्छं यस्याः सा = शरपुच्छी ( tail like a reed, grass) |</big>


<big>९) कबरं (चित्रं) पुच्छं यस्याः सा = कबरपुच्छी | १०) मणिपुच्छी,११) विषपुच्छी, १२) शरपुच्छी |</big>


<big>'''उपमानात् पक्षात् च पुच्छात् च''' |</big>
<big>'''उपमानात् पक्षात् च पुच्छात् च''' |</big>


<big>१३) उलूकपक्षौ इव पक्षौ यस्याः सा = उलूकपक्षी सेना</big>
<big>१३) उलूकपक्षौ इव पक्षौ यस्याः सा = उलूकपक्षी सेना</big>


<big>१४) उलूकस्य पुच्छम् इव पुच्छं यस्याः सा = उलूकपुच्छी शाला |</big>
<big>१४) उलूकस्य पुच्छम् इव पुच्छं यस्याः सा = उलूकपुच्छी (having the shape of the tail of an owl) शाला |</big>





<big>'''न क्रोडादिबह्वचः''' (४.१.५५) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>
<big>'''न क्रोडादिबह्वचः''' (४.१.५६) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | बह्वचः इत्युक्ते यस्मिन् त्रयः वा अधिकाः अचः सन्ति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् क्रोडादिबह्वचः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विक्लपेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>


<big>क्रोडा, खुरा, ऊखा, बाला, शफा , गुदा, घोणा, नखा, मुखा, सुभगा, सुगला इति शब्दाः क्रोडादिगणे सन्ति | क्रोडादिगणः आकृतिगणः अस्ति |</big>


<big>यथा -</big>

<big>कल्याणी ( good) क्रोडा ( chest) यस्याः सा = कल्याणक्रोडा |</big>

<big>शोभने जघने ( hip) यस्याः सा = सुजघना |</big>



'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७) = सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४)''', नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः ''विद्यमानः'' इति | ङीष् इति प्रत्ययस्य अभावे '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानपूर्वं, तस्मात् | सहनञ्विद्यमानपूर्वात् पञ्चम्यन्तं, चाव्ययम् | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | '''न क्रोडादिबह्वचः''' ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌ — '''सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>




<big>यथा -</big>
<big>यथा -</big>


<big>कल्याणी ( good) क्रोडा ( chest) यस्याः सा = कल्याण्डक्रोडा |</big>
<big>) सह केशा यस्याः सा = सकेशा</big>


<big>सु शोभने जघने ( hip) यस्याः सा = सुजघना |</big>
<big>२) अविद्यमानाः केशाः यस्याः सा = अकेशा</big>


<big>३) विद्यमाना नासिका यस्याः सा = विद्यमाननासिका</big>


<big>४) सह नासिका यस्याः सा = सनासिका</big>


<big>५) अविद्यमाना नासिका यस्याः सा = अनासिका |</big>


'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७) = सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४)''', नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः विद्यमानः इति | ङीष् इति प्रत्ययस्य अभावे '''अजाद्यतष्टाप्''' ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानापूर्वं, तस्मात् | सहनञ्विद्यमानापूर्वात् पञ्चम्यन्तं, चाव्ययम् | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | '''न क्रोडादिबह्वचः''' ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''न''' |</big>


<big>अत्र सूत्रक्रमः एवम् अस्ति -</big>


<big>यथा - १) सकेशा ( सह केशा यस्याः सा) २) अकेशा ( अविद्यमानाः केशाः यस्याः सा), ३) विद्यमाननासिका (विद्यमाना नासिका यस्याः सा), ४) सनासिका (सह नासिका यस्याः सा), ५) अनासिका (अविद्यमाना नासिका यस्याः सा) चेति |</big>


{| class="wikitable"
{| class="wikitable"
Line 157: Line 188:




'''<big>स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्</big>''' <big>( ४.१.५४), '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५),'''न क्रोडादिबह्वचः''' ( ४.१.५६), '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) चेत्येतेषु '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् अपवादसूत्रं मध्ये पठितम् अस्ति |</big>




'''<big>स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्</big>''' <big>( ४.१.५४), '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५), '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्येतेषु '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् अपवादसूत्रं मध्ये पठितम् अस्ति |</big>
<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव सहनासिका ( सह नासिका यस्याः सा ) इति उदाहरणे '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाधते यतोहि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपवादः नास्ति |</big>




<big>'''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः आधारेण '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति अपवादसूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति पूर्वसूत्रमेव बाधते तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव बिम्बोष्ठी, बिम्बोष्ठा इति उदाहरणयोः '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं बाधते यतोहि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपवादः नास्ति |</big>
<big>सहनासिका इति समासे, नासिक इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाची तथा असंयोगोपधः | अतः तदन्तात् सहनासिक इत्यस्मात् '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यनेन विकल्पेन ङीष् इति प्रत्ययः प्राप्तः अस्ति | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन सूत्रेण ङीष् इति प्रत्ययस्य निषेधः कृतः अस्ति | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रम् उत्तरविधेः बाधकं भवितुम् अर्हति | अतः सहनासिक इत्यत्र '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रेण ङीष् इति प्रत्ययस्य निषेधः क्रियते |</big>




<big>यथा पूर्वोक्तं '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''न क्रोडादिबह्वचः''' ( ४.१.५६) इति सूत्रस्य बाधकं भवति '''पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः बलेन | परन्तु '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य बाधकं न भवति | अर्थात् '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यनेन ङीषः विधानं निषिद्धियते | अतः पाक्षिकः ङीष् इति प्रत्ययः न भवितुम् अर्हति, अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति | सहनासिक इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते | एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते |</big>


'''<big>मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति परिभाषायाः स्वीकारेण ओष्ठादिषु पञ्चसु शब्देषु '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण प्राप्तनिषेधः हि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण बाध्यते | ओष्ठादीनां पञ्चानां तु असंयोगोपधाद् इति पर्युदासे प्राप्ते '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति वचनम् उक्तं, मध्येऽपवादन्यायात् |</big>


<big>ओष्ठादिषु पञ्चसु शब्देषु</big> '''<big>मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति परिभाषायाः स्वीकारेण '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रेण असंयोगोपधात् इति प्राप्तनिषेधः हि '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण बाध्यते | ओष्ठादीनां पञ्चानां तु असंयोगोपधाद् इति पर्युदासे प्राप्ते '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति वचनम् उक्तं, मध्येऽपवादन्यायात् | '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रस्य अपवादः |</big>



<big>ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्थानि पदानि स्वाङ्गानि सन्ति | तदान्तात् प्रातिपादिकात् स्त्रियाम् इत्यस्मिन् अधिकारे ङीष् प्राप्तः परन्तु '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रे असंयोगापधात् इति पर्युदासात्मकस्य निषेधस्य कारेण ङीष् इति प्रत्ययस्य प्राप्तिः न भवति यतोहि पूर्वोक्ताः ओष्ठादयः शब्दाः संयोगपधाः सन्ति | एतेषां पञ्चानां शब्दानां विषये '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रे उक्तस्य निषेधस्य बाधाः अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः प्रवृत्तिः अस्ति |</big>
<big>ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्थानि पदानि स्वाङ्गानि सन्ति | तदन्तात् प्रातिपादिकात् स्त्रियाम् इत्यस्मिन् अधिकारे ङीष् प्राप्तः विकल्पेन परन्तु '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रे असंयोगापधात् इति पर्युदासात्मकस्य निषेधस्य कारेण ङीष् इति प्रत्ययस्य प्राप्तिः न भवति यतोहि पूर्वोक्ताः ओष्ठादयः शब्दाः संयोगपधाः सन्ति | एतेषां पञ्चानां शब्दानां विषये '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रे उक्तस्य निषेधस्य बाधा अस्ति '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रेण | अत्र '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः प्रवृत्तिः अस्ति | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः | अनेन '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रस्य बाधकं भवति न तु उत्तरस्य '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य | आहत्य '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रं '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४), '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) चेति सूत्रद्वयं बाधते |</big>




Line 175: Line 209:




<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति, '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रयोः भाष्ये उभयोः सूत्रयोः तुल्यबलविरोधं प्रदर्श्य नासिकोदरेत्यादिसूत्रम् अपवदत्वात् '''न क्रोडादिबह्वचः''' (४.१.५६) इति सूत्रं, '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रं च बाधते | तथैव '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य अपि बाधकं भवति इति आशङ्क्य भाष्यकारः एवमुक्तवान् - '''मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति न्यायेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं तस्मात्पूर्ववर्तिनः '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इति सूत्रस्यैव बाधकं भवति, न तु उत्तरस्य '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इत्यस्य बाधकं भवति |</big>
'''<big>मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति परिभाषायाः अपेक्षया '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषा प्रबला अस्ति | अस्य प्रमाणमस्ति अष्टाभ्यः औश् ( ७.१.२९) इति सूत्रभाष्ये स्पष्टम् उक्तम् | यत्र अनयोः परिभाषायाः प्रयोगः अस्ति तत्र '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषायाः प्राबाल्यम् अस्ति | किमर्थं चेत् '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः प्रयोगे पूर्वसूत्रम् उत्तरसूत्रं च व्यवहितं भवितुम् अर्हति | समीपवर्तिनः भवेत् इति नियमः नास्ति इत्यतः पूर्वसूत्रम् उत्तरसूत्रं च भिन्ने अध्याये भवितुम् अर्हन्ति | अतः इयं परिभाषा महायत्नेन साध्या अस्ति | अस्याः परिभाषायाः अपेक्षया '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषायां समीपवर्तिनः उपस्थितिः स्मृतौ झटिति भवति इत्यतः अस्याः प्राबाल्यं वर्तते |</big>


<big>अत्र स्पष्टं प्रतीयते  यद् अपवादसूत्रं '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रं मध्ये पठितमस्ति | अतः अयमपवादः स्वस्मात् पूर्ववर्तिनः अर्थात् असंयोगोपधात् इत्यस्य बाधकः भवति | स्वस्माद् उत्तरवर्तिनः '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७) इति सूत्रस्य बाधकः न भवति | '''सहनञ्विद्यमानपूर्वाच्च''' (४.१.५७)  इति सूत्रं परं भवति, अतः परत्वात् '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति सूत्रस्य बाधकं भवति |</big>

<big>वर्गे यथा अस्माभिः चर्चितं तदाधारीकृत्य श्रीराममहोदयेन अतीव सुन्दररीत्या सर्वं मानचित्ररूपेण चित्रितं वर्तते —</big>

[[File:मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् .jpg|border|center|frameless|572x572px|मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् ]]



'''<big>मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्</big>''' <big>इति परिभाषायाः अपेक्षया '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषा प्रबला अस्ति | अस्य प्रमाणमस्ति '''अष्टाभ्यः औश्''' ( ७.१.२९) इति सूत्रम् | अस्मिन् सूत्रभाष्ये स्पष्टम् उक्तं यत् '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषा प्रबला इति | यत्र अनयोः परिभाषायाः प्रयोगः अस्ति तत्र '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषायाः प्राबाल्यम् अस्ति | किमर्थं चेत् '''मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्''' इति परिभाषायाः प्रयोगे पूर्वसूत्रम् उत्तरसूत्रं च व्यवहितं भवितुम् अर्हति | समीपवर्तिनः भवेत् इति नियमः नास्ति इत्यतः पूर्वसूत्रम् उत्तरसूत्रं च भिन्ने अध्याये भवितुम् अर्हति | अतः इयं परिभाषा महायत्नेन साध्या अस्ति | अस्याः परिभाषायाः अपेक्षया '''अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा''' इति परिभाषायां समीपवर्तिनः उपस्थितिः स्मृतौ झटिति भवति इत्यतः अस्याः प्राबाल्यं वर्तते |</big>

Latest revision as of 15:38, 26 June 2024



ध्वनिमुद्रणानि
1) tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-01
2) tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-08
3) tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_2024-06-15
4) tatpuruShasamAsaH- madhyE apavAdhaH pUrvAn vidhin bAdhantE nOttarAn_ 2024-06-22


मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |


उदाहरणानि


१) इणो यण् ( ६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इणः अङ्गस्य यण्‌ अचि | यन्ति, यन्तु, आयन् इति एवं रूपाणि भवन्ति लटि, लोटि, लङि च प्रथमपुरुषे बहुवचने |


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः इणो यण् ( ६.४.८१) इति सूत्रम् | यन्ति, यन्तु, आयन् चेत्यत्र इयङादेशं प्राबाध्य इणो यण् ( ६.४.८१) इत्यनेन यणादेशः भवति |


इदानीम् इण्-धातुतः यदा ण्वुल्प्रत्ययः अथवा ल्युट्प्रत्ययः विधीयते तदा इणो यण् ( ६.४.८१) इत्यनेन यणादेशः भवति किम् ?


ण्वुल्प्रत्यये परे अचो ञ्णिति (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि इणो यण् ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा इणो यण् ( ६.४.८१) इति सूत्रम् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा अचो ञ्णिति (७.२.११५), सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |


यदि एवमुच्यते यत् इणो यण् ( ६.४.८१) अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) अचो ञ्णिति (७.२.११५),तथा च सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्येतेषां सर्वेषां सूत्राणाम् अन्यत्रान्यत्रलब्धकाशः अस्ति इत्यतः विप्रतिषेधे परं कार्यम् (१.४.१) इत्यनेन परसूत्रस्य कार्यं स्यात् इति | तर्हि सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन गुणः एव स्यात् , किन्तु अचो ञ्णिति (७.२.११५) इति सूत्रं तु सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यस्य अपवादः इति कृत्वा तस्यैव कार्यं प्रथमतया स्यात् इति |


एवमुच्यते चेत् मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः आवश्यकता नास्ति इति वक्तुं शक्यते खलु इति प्रश्नः उदेति | अस्य समाधानम् अस्ति यत् लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्‌ इति परिभाषया प्रतिपदोक्तस्यैव ग्रहणं भवेत्‌ | अस्याः परिभाषायाः अर्थः अस्ति यत् लक्षणस्य (सूत्रस्य) अपेक्षया प्रतिपदोक्तस्य ग्रहणं, नाम बलवत्वम्‌ | लक्षणप्रतिपदोक्तयोः मध्ये साक्षादुच्चारितत्त्वेन प्रतिपदोक्तत्वस्य एव शीघ्रोपस्थितिः भवति, अतः इणो यण् ( ६.४.८१) इति सूत्रे इण् -धातोः प्रतिपदोक्तत्त्वात् तस्य बलवत्त्वं स्यात् अन्येषां सूत्राणाम् अपेक्षया | एवं चेत् समस्या जायेत, अतः मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः बलेन निर्णयः शक्यते यत् प्रतिपदोक्तत्वं चेदपि पूर्वस्य विधीन् एव बाधते न तु उत्तरस्य इति |


मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः अवगमनार्थं सूत्रक्रमः ज्ञातव्यः -


सूत्रक्रमः
इको यणचि ( ६.१.७७)
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७)
इणो यण् ( ६.४.८१) - मध्ये अपवादः पठितः
अचो ञ्णिति (७.२.११५)
सार्वधातुकार्धधातुकयोः (७.३.८४)


मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन इणो यण् ( ६.४.८१) इति अपवादभूतसूत्रं यत् मध्ये वर्तते, तत् पूर्वान् विधीन् एव बाधन्ते नोत्तरान् इति कृत्वा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशमेव बाधते न तु परसूत्राणां कार्यम् | इति कृत्वा इणो यण् ( ६.४.८१) इति विधिः परयोः गुणवृद्ध्योः न बाध्यते | अर्थात् इणो यण् ( ६.४.८१) इति विधिः अचो ञ्णिति (७.२.११५), सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्यनयोः अपवादः नास्ति अतः एव अयनम्, आयकः इति रूपं लभ्यते |


अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस् अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इक्‌ स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) = श्नुप्रत्ययान्ताङ्गस्य (स्वादिगणस्य अङ्गस्य यथा शक्नु, चिनु इत्यनयोः), इकारान्त-उकारान्तधातुरूपि-अङ्गस्य, भ्रू-प्रातिपदिकस्य च— एषाम्‌ इकारस्य उकारस्य स्थाने क्रमेण इयङ्‌ उवङ्‌ च आदेशः भवति अजादि-प्रत्यये परे | श्नु-प्रसङ्गे प्रत्ययग्रहणे तदन्ता ग्राह्याः (परिभाषा #२३) इति परिभाषया तदन्तविधिः; अनेन यस्य अङ्गस्य अन्ते श्नु-प्रत्ययः स्यात्‌, तस्मात्‌ इत्यर्थः | य्वोः इति विशेषणं "धातु" शब्दस्य एव यतोहि श्नुप्रत्ययान्ताङ्गम्‌, भ्रू प्रातिपदिकम्‌ च उकारान्तः एव अतः तत्र इयङ्‌ इत्यस्य प्रसक्तिः नास्ति | तर्हि 'धातु' इत्येव अवशिष्यते यस्य कृते य्वोः इति विशेषणं योग्यम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन यस्य धातोः अन्ते इकार-उकारः स्यात्‌ इति अर्थः | श्नुश्च धातुश्च, भ्रुश्च तयोः इतरेतरद्वन्द्वः श्नुधातुभ्रुवः, तेषां श्नुधातुभ्रुवाम्‌ | इश्च उश्च तयोः इतरेतरद्वन्द्वः यू, तयोः य्वोः | इयङ्‌ च उवङ्‌ च तयोः इतरेतरद्वन्द्वः, इयङुवङौ | अचि सप्तम्यन्तं, श्नुधातुभ्रुवां षष्ठ्यन्तं, य्वोः षष्ठ्यन्तम्‌, इयङुवङौ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— य्वोः श्नुधातुभ्रुवाम् ‌अङ्गानां इयङुवङौ अचि |


अन्यत् उदाहरणम्


२) स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) = स्वाङ्गं यदुपसर्जनमसंयोगोपधं तदन्तात् अदन्तात् प्रातिपदिकात् स्त्रियां विकल्पेन ङीष् प्रत्ययो भवति | यस्य उपसर्जनसंज्ञकस्य स्वाङ्गवाचिनः शब्दस्य उपधायां संयोगः न स्यात्, सः शब्दः अदन्तः च स्यात्, तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन ङीष् इति प्रत्ययः विधीयते | स्वम् अङ्गं स्वाङ्गं, तस्मात् | संयोगः उपधा यस्य सः संयोगोपधः, न संयोगोपधः असंयोगोपधस्तस्मात् | स्वाङ्गात् पञ्चम्यन्तं, च अव्ययपदं, उपसर्जनात् पञ्चम्यन्तम्, असंयोगोपधात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | अस्वाङ्गपूर्वपदाद्वा (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— उपसर्जनात् असंयोगोपधात् स्वाङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् वा |


यथा - १) चन्द्रः इव मुखं यस्याः सा= चन्द्रमुखी, चन्द्रमुखा | मुख इति प्रातिपदिकस्य उपधायां संयोगः नास्ति, अतः सः शब्दः असंयोगोपधः | मुखम् इति शब्दः स्वाङ्गवाची शब्दः अस्ति | समासः अदन्तः च अस्ति | अत्र च प्रथमानिर्दिष्टम् उपसरजनम् ( १.२.४३ ) इत्यनेन मुखशब्दस्योपसर्जनसंज्ञा यतोहि समासः विधीयते अनेकमन्यपदार्थे (२.२.२४) इत्यनेन सूत्रेण | अनेकमन्यपदार्थे (२.२.२४) इति सूत्रं वदति यत् अनेकं सुबन्तमन्यपदार्थे वर्तमानं सह समस्यते, बहुव्रीहिश्च समासो भवति इति | अतः स्वाङ्गं यदुपसर्जनमसंयोगोपधं तददन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | अतः चन्द्रमुख इति प्रातिपदिकात् ङीष् इति प्रत्ययः विकल्पेन विधीयते, अपक्षे टाप् इति प्रत्ययः विधीयते | चन्द्रमुख + ङीष् = चन्द्रमुखी, चन्द्रमुख + टाप् = चन्द्रमुखा ( अजाद्यतष्टाप् ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति) |


२) अतिक्रान्ता केशान् = अतिकेशी, अतिकेशा माला |


नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) = नासिकाद्यन्तात् (नासिक-उदर-ओष्ठ-जङ्घा (thigh)-दन्त-कर्ण-शृङ्गात्( horn) ) प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | अस्वाङ्गपूर्वपदाद्वा (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वाङ्गाच्चोपसर्जनात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् वा |


आद्ययोः नासिकोदरयोः बह्वज्लक्षणो निषेधो बाध्यते पुरस्तादपवादन्यायात् | नासिका-उदरयोः बह्वच्कत्वात् न क्रोडादिबह्वचः इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन विधीयते | ओष्ठ-जङ्घा-दन्त-कर्ण-शृङ्गेभ्यः संयोगोपधत्वाद् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् (४.१.५४) इति सूत्रघटक-असंयोगोपधात् इति निषेधे प्राप्ते अनेन प्रकृतसूत्रेण विकल्पेन ङीष् विधीयते |


स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रेण नासिकोदरयोः ङीष्- प्रत्ययः विकल्पेन प्राप्तः अस्ति | नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण पुनः विकल्पेन नासिकोदरयोः ङीष् इति प्रत्ययस्य विधानं क्रियते | अनन्तरस्य विधिर्वा प्रतिषेधो वा इति परिभाषया नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति विधिः अव्यवहितं पूर्वविधिमेव, स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रमेव बाधते, अतः नासिकोदरयोः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इत्यनेन एव विकल्पेन ङीष् -प्रत्ययस्य विधानं क्रियते |


इदानीं नासिकोदरयोः न क्रोडादिबह्वचः (४.१.५६) इत्यनेन ङीष्-प्रत्ययस्य विधानं निषिद्धः अस्ति यतोहि नासिकोदरयोः बहवः अच्वर्णाः सन्ति | न क्रोडादिबह्वचः (४.१.५६) इत्यनेन क्रोडादेः बह्वचः च स्वाङ्गात् ङीष् न भवति | न क्रोडादिबह्वचः (४.१.५६) इति सूत्रस्य अपवादः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं यतोहि न क्रोडादिबह्वचः (४.१.५६) इति सूत्रेण यः निषेधः उक्तः तस्य बाधकः अस्ति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रम् | अत्र पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन शास्त्रक्रमे पूर्वपठितेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (४.१.५६) इति अपवादसूत्रेण यत् वैकल्पिकं ङीष्- विधानं कृतं तत् अनन्तरविधिं बाधते न तु उत्तरान् | अर्थात् न क्रोडादिबह्वचः (४.१.५६) इति अनन्तरप्रतिषेधः, तस्य ङीष्-निषेधस्य बाधकं भवति प्रकृतभूतम् अपवादसूत्रं यत् पूर्वोक्तं शास्त्रक्रमे | अत्र उत्तरविधिः अस्ति सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रम् | नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (४.१.५६) इति अपवादसूत्रेण सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति उत्तरविधिं न बाध्यते, केवलं न क्रोडादिबह्वचः (४.१.५६) इति अनन्तरप्रतिषेधमेव बाधते |


ओष्ठादीनां ( ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग च) पञ्चानां तु असंयोगोपधात् इति पर्युदासे प्राप्ते वचनम् इदं मध्येऽपवादन्यायात् | ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग चेति स्वाङ्गवाचिनः शब्दाः सन्ति | तदन्तप्रातिपादिकात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन स्त्रियां विकल्पेन ङीष् अप्राप्तः यतोहि एते संयोगोपधाः सन्ति, अतः पर्युदासात्मकनिषेधः प्राप्तः | अर्थात् ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति संयोगोपधाः शब्दाः, अतः एतेषां ङीष् अप्राप्तः अस्ति स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन | एतेषां पञ्चानां शब्दानां ङीष् विधानम् अस्ति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च (४.१.५६) इति प्रकृतभूतसूत्रेण | एतेषु पञ्चसु शब्देषु बहवः अच्वर्णाः न सन्ति इत्यतः न क्रोडादिबह्वचः (४.१.५६) इत्यस्य प्रसङ्गः एव नास्ति | अत्र मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः आधारेण प्रकृतसूत्रम् अपवादसूत्रं सामान्यसूत्राणां मध्ये पठितं वर्तते इत्यतः स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति उत्तरसूत्रम् | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यनेन सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | सहनञ्लक्षणः तु प्रतिषेधः परत्वात् अस्य प्रकृतसूत्रस्य बाधकः अस्ति | अर्थात् प्रकृतसूत्रस्य अपेक्षया अग्रे आगम्यमानं सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं परशास्त्रम् अस्ति इत्यतः तत् प्रकृतसूत्रस्य बाधकम् अस्ति | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं परत्वात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्यापि बाधकं भवति |


यथा -

१) तुङ्गे ( elevated) नासिके यस्याः सा = तुङ्गनासिकी, तुङ्गनासिका,

२) तिलम् उदरे यस्याः सा = तिलोदरी, तिलोदरा,

३) बिम्बम्( Red colored Bimba fruit ) इव ओष्ठौ यस्याः सा = बिम्बोष्ठी, बिम्बोष्ठा,

४) दीर्घे जङ्घे यस्याः सा = दीर्घजङ्घी, दीर्घजङ्घा,

५) समाः दन्ताः यस्याः सा = समदन्ती, समदन्ता,

६) शोभनौ कर्णौ यस्याः सा = सुकर्णी, सुकर्णा,

७) तीक्ष्णे शृङ्गे यस्याः सा = तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा |


पुच्छाच्चेति वक्तव्यम् |

८) कल्याणपुच्छी, कल्याणपुच्छा |


कबर -मणि -विष -शरेभ्यो नित्यम् |

९) कबरं (चित्रं) पुच्छं यस्याः सा = कबरपुच्छी( a peahen) |

१०) मणिः पुच्छं यस्याः सा = मणिपुच्छी ( Having lumps on the tail) ,

११) विषः पुच्छं यस्याः सा = विषपुच्छी ( scorpion) ,

१२) शरः पुच्छं यस्याः सा = शरपुच्छी ( tail like a reed, grass) |


उपमानात् पक्षात् च पुच्छात् च |

१३) उलूकपक्षौ इव पक्षौ यस्याः सा = उलूकपक्षी सेना

१४) उलूकस्य पुच्छम् इव पुच्छं यस्याः सा = उलूकपुच्छी (having the shape of the tail of an owl) शाला |


न क्रोडादिबह्वचः (४.१.५६) = क्रोडादेः बह्वचः च स्वाङ्गात् न ङीष् | क्रोडादिगणे पठिताः स्वाङ्गावाचिनः तथा बह्वचः स्वाङ्गवाचिनः प्रातिपदिकेभ्यः स्त्रित्वविवक्षायां ङीष् -प्रत्ययः न भवति | बह्वचः इत्युक्ते यस्मिन् त्रयः वा अधिकाः अचः सन्ति | क्रोडा आदिः येषां ते , क्रोडादयः | बह्वोच् यस्य सः बह्वच् | क्रोडादयश्च बह्वच् च तेषां समाहारद्वन्द्वः, क्रोडादिबह्वच्, तस्मात् क्रोडादिबह्वचः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन विक्लपेन प्राप्तस्य ङीष् इत्यस्य प्रतिषेधः क्रियते | न अव्ययपदं, क्रोडादिबह्वचः पञ्चम्यन्तं, द्विपदं सूत्रम् | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्मात् स्वाङ्गाच्चोपसर्जनाद् इत्येतेषाम् अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— स्वाङ्गात् उपसर्जनात् क्रोडादिबह्वचः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् |


क्रोडा, खुरा, ऊखा, बाला, शफा , गुदा, घोणा, नखा, मुखा, सुभगा, सुगला इति शब्दाः क्रोडादिगणे सन्ति | क्रोडादिगणः आकृतिगणः अस्ति |


यथा -

कल्याणी ( good) क्रोडा ( chest) यस्याः सा = कल्याणक्रोडा |

शोभने जघने ( hip) यस्याः सा = सुजघना |


सहनञ्विद्यमानपूर्वाच्च (४.१.५७) = सह, नञ्, विद्यमान च इत्येवं पूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४), नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः विद्यमानः इति | ङीष् इति प्रत्ययस्य अभावे अजाद्यतष्टाप् ( ४.१.४) इत्यनेन अजादिभ्यः प्रातिपदिकेभ्यः अकारान्तात् च प्रातिपदिकात् स्त्रियां टाप् प्रत्ययो भवति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानपूर्वं, तस्मात् | सहनञ्विद्यमानपूर्वात् पञ्चम्यन्तं, चाव्ययम् | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | न क्रोडादिबह्वचः ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌ — सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् |


यथा -

१) सह केशा यस्याः सा = सकेशा

२) अविद्यमानाः केशाः यस्याः सा = अकेशा

३) विद्यमाना नासिका यस्याः सा = विद्यमाननासिका

४) सह नासिका यस्याः सा = सनासिका

५) अविद्यमाना नासिका यस्याः सा = अनासिका |


अत्र सूत्रक्रमः एवम् अस्ति -


सूत्रक्रमः
स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४)
नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) मध्ये अपवादः पठितः
न क्रोडादिबह्वचः ( ४.१.५६)
सहनञ्विद्यमानपूर्वाच्च (४.१.५७)


स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४), नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५),न क्रोडादिबह्वचः ( ४.१.५६), सहनञ्विद्यमानपूर्वाच्च (४.१.५७) चेत्येतेषु नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रम् अपवादसूत्रं मध्ये पठितम् अस्ति |


मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः आधारेण नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति अपवादसूत्रं स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति पूर्वसूत्रमेव बाधते न तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति उत्तरसूत्रम् | मध्ये पठितः अपवादः पूर्वान् विधीन् एव बाधते नोत्तरान् | अतः एव सहनासिका ( सह नासिका यस्याः सा ) इति उदाहरणे नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रस्य प्रवृत्तिः चेदपि परत्वात् सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यस्यैव प्रवृत्तिः भवति | अर्थात् सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति परत्वात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं बाधते यतोहि नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रस्य अपवादः नास्ति |


सहनासिका इति समासे, नासिक इति शब्दः उपसर्जनसंज्ञकः, स्वाङ्गवाची तथा च असंयोगोपधः | अतः तदन्तात् सहनासिक इत्यस्मात् स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यनेन विकल्पेन ङीष् इति प्रत्ययः प्राप्तः अस्ति | परन्तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यनेन सूत्रेण ङीष् इति प्रत्ययस्य निषेधः कृतः अस्ति | नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति प्रकृतसूत्रम् अस्य निषेधस्य बाधकं न भवितुम् अर्हति यतोहि मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रम् उत्तरविधेः बाधकं न भवितुम् अर्हति | अतः सहनासिक इत्यत्र सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रेण ङीष् इति प्रत्ययस्य निषेधः क्रियते |


यथा पूर्वोक्तं नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं न क्रोडादिबह्वचः ( ४.१.५६) इति सूत्रस्य बाधकं भवति पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः बलेन | परन्तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यस्य बाधकं न भवति | अर्थात् सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यनेन ङीषः विधानं निषिद्धियते | अतः पाक्षिकः ङीष् इति प्रत्ययः न भवितुम् अर्हति, अदन्तलक्षणात् टाप् इति प्रत्ययः एव भवति | सहनासिक इति प्रातिपदिकात् टाप् इति प्रत्ययं योजयित्वा सहनासिका इति रूपं लभ्यते | एवमेव अविद्यमाना नासिका यस्याः सा इति विग्रहे सति अनासिका इति समासः लभ्यते |


ओष्ठादिषु पञ्चसु शब्देषु मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः स्वीकारेण स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रेण असंयोगोपधात् इति प्राप्तनिषेधः हि नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण बाध्यते | ओष्ठादीनां पञ्चानां तु असंयोगोपधाद् इति पर्युदासे प्राप्ते नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति वचनम् उक्तं, मध्येऽपवादन्यायात् | नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रस्य अपवादः |


ओष्ठ, जङ्घा, दन्त, कर्ण, शृङ्ग इति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रस्थानि पदानि स्वाङ्गानि सन्ति | तदन्तात् प्रातिपादिकात् स्त्रियाम् इत्यस्मिन् अधिकारे ङीष् प्राप्तः विकल्पेन परन्तु स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रे असंयोगापधात् इति पर्युदासात्मकस्य निषेधस्य कारेण ङीष् इति प्रत्ययस्य प्राप्तिः न भवति यतोहि पूर्वोक्ताः ओष्ठादयः शब्दाः संयोगपधाः सन्ति | एतेषां पञ्चानां शब्दानां विषये स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रे उक्तस्य निषेधस्य बाधा अस्ति नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण | अत्र मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः प्रवृत्तिः अस्ति | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः | अनेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रस्य बाधकं भवति न तु उत्तरस्य सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यस्य | आहत्य सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४), नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) चेति सूत्रद्वयं बाधते |


सहनञ्लक्षणस्तु प्रतिषेधः परत्वात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इत्यस्य बाधकः | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इत्यस्य अपेक्षया परसूत्रमस्ति | द्वयोः सूत्रयोः अन्यत्रालब्धावकाशः अस्ति इति कृत्वा सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रं बलवद्भवति | सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रे यः निषेधः अस्ति, तस्य नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रेण न बाध्यते | अपि तु सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रमेव परत्वात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं बाध्यते येन सहनासिका इति रूपं लभ्यते |


नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति, सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रयोः भाष्ये उभयोः सूत्रयोः तुल्यबलविरोधं प्रदर्श्य नासिकोदरेत्यादिसूत्रम् अपवदत्वात् न क्रोडादिबह्वचः (४.१.५६) इति सूत्रं, स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रं च बाधते | तथैव सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रस्य अपि बाधकं भवति इति आशङ्क्य भाष्यकारः एवमुक्तवान् - मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति न्यायेन नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं तस्मात्पूर्ववर्तिनः स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इति सूत्रस्यैव बाधकं भवति, न तु उत्तरस्य सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इत्यस्य बाधकं भवति |


अत्र स्पष्टं प्रतीयते  यद् अपवादसूत्रं नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रं मध्ये पठितमस्ति | अतः अयमपवादः स्वस्मात् पूर्ववर्तिनः अर्थात् असंयोगोपधात् इत्यस्य बाधकः भवति | स्वस्माद् उत्तरवर्तिनः सहनञ्विद्यमानपूर्वाच्च (४.१.५७) इति सूत्रस्य बाधकः न भवति | सहनञ्विद्यमानपूर्वाच्च (४.१.५७)  इति सूत्रं परं भवति, अतः परत्वात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति सूत्रस्य बाधकं भवति |

वर्गे यथा अस्माभिः चर्चितं तदाधारीकृत्य श्रीराममहोदयेन अतीव सुन्दररीत्या सर्वं मानचित्ररूपेण चित्रितं वर्तते —

मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्


मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः अपेक्षया अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषा प्रबला अस्ति | अस्य प्रमाणमस्ति अष्टाभ्यः औश् ( ७.१.२९) इति सूत्रम् | अस्मिन् सूत्रभाष्ये स्पष्टम् उक्तं यत् अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषा प्रबला इति | यत्र अनयोः परिभाषायाः प्रयोगः अस्ति तत्र अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषायाः प्राबाल्यम् अस्ति | किमर्थं चेत् मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति परिभाषायाः प्रयोगे पूर्वसूत्रम् उत्तरसूत्रं च व्यवहितं भवितुम् अर्हति | समीपवर्तिनः भवेत् इति नियमः नास्ति इत्यतः पूर्वसूत्रम् उत्तरसूत्रं च भिन्ने अध्याये भवितुम् अर्हति | अतः इयं परिभाषा महायत्नेन साध्या अस्ति | अस्याः परिभाषायाः अपेक्षया अनन्तरस्य विधिर्वा भवति प्रतिषेधो वा इति परिभाषायां समीपवर्तिनः उपस्थितिः स्मृतौ झटिति भवति इत्यतः अस्याः प्राबाल्यं वर्तते |