मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्: Difference between revisions

From Samskrita Vyakaranam
मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान्
Jump to navigation Jump to search
Content added Content deleted
No edit summary
No edit summary
Line 51: Line 51:




<big>यथा - १) चन्द्रमुखी, चन्द्रमुखा |</big>
<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''न्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>


<big>२) अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला |</big>



सहनञ्विद्यमानपूर्वाच्च (४.१.५७)


<big>'''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) = नासिकाद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | '''ङ्याप्प्रातिपदिकात्''' (४.१.१), '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२)''', स्त्रियाम्''' (४.१.३) इत्येतेषाम् अधिकारः | '''अन्यतो ङीष्''' (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''अस्वाङ्गपूर्वपदाद्वा''' (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' '''वा''' |</big>


<big>यथा -</big>

<big>१) तुङ्गनासिकी, तुङ्गनासिका, २) तिलोदरी, तिलोदरा, ३) बिम्बोष्ठी, बिम्बोष्ठा, ४) दीर्घजङ्घी, दीर्घजङ्घा,५) समदन्ती, समदन्ता, ६) चारुकर्णी, चारुकर्णा, ७) तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा | '''पुच्छाच्चेति वक्तव्यम्''' | ८) कल्याणपुच्छी, कल्याणपुच्छा | '''कबरमणिविषशरेभ्यो नित्यम्''' | ९) कबरपुच्छी १०) मणिपुच्छी ११) विषपुच्छी १२) शरपुच्छी | '''उपमानात् पक्षात् च पुच्छात् च''' | १३) उलूकपक्षी सेना १४) उलूकपुच्छी शाला |</big>


'''<big>सहनञ्विद्यमानपूर्वाच्च</big>''' <big>(४.१.५७) = सह नञ् विद्यमान इत्येवंपूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४)''', नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च''' ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः विद्यमानः इति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानापूर्वं, तस्मात् | सहनञ्विद्यमानापूर्वात् पञ्चम्यन्तं, चाव्ययम् | '''अजाद्यतष्टाप्''' (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | '''स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्''' ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | '''न क्रोडादिबह्वचः''' ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— '''सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च''' '''प्रत्ययः परश्च स्त्रियां ङीष्''' न |</big>

<big>यथा - १) सकेशा ( सह केशा यस्याः सा) २) अकेशा ( अविद्यमानाः केशाः यस्याः सा), ३) विद्यमानकेशा (विद्यमाना नासिका यस्याः सा), ४) सनासिका (सह नासिका यस्याः सा), ५) अनासिका (अविद्यमाना नासिका यस्याः सा), ६) विद्यमाननासिका (विद्यमाना नासिका यस्याः सा) चेति |</big>

Revision as of 07:38, 18 May 2024

मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषा | अनया परिभाषया सूत्रपाठे सामान्यशास्त्रमध्ये पठितानि विशेषसूत्राणि (अपवादसूत्राणि) स्वापेक्षया पूर्वाणि एव तानि बाधन्ते न तु पराणि इति परिभाषार्थः | मध्ये पठिताः अपवादाः पूवस्यैव विधेः बाधकाः भवन्ति, उत्तरस्य विधेः बाधकाः न भवन्ति इत्यर्थः |


उदाहरणानि -


१) इणो यण् ( ६.४.८१) = इण्-धातोः यण्‌-आदेशः भवति अजादिप्रत्यये परे | इणः षष्ठ्यन्तं, यण्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— इणः अङ्गस्य यण्‌ अचि | यन्ति, यन्तु, आयन् इति एवं रूपाणि भवन्ति लटि, लोटि, लङि च प्रथमपुरुषे बहुवचने |


अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः इणो यण् ( ६.४.८१) इति सूत्रम् | यन्ति, यन्तु, आयन् चेत्यत्र इयङादेशं प्राबाध्य इणो यण् ( ६.४.८१) इत्यनेन यणादेशः भवति |


इदानीम् इण्-धातुतः यदा ण्वुल्प्रत्ययः अथवा ल्युट्प्रत्ययः विधीयते तदा इणो यण् ( ६.४.८१) इत्यनेन यणादेशः भवति किम् ?


ण्वुल्प्रत्यये परे अचो ञ्णिति (७.२.११५) इति सूत्रमपि प्रसक्तम् अस्ति | ल्युट्प्रत्यये परे सार्वधातुकार्धधातुकयोः (७.३.८४) इति सूत्रमपि प्रसक्तम् अस्ति | एतत् सूत्रद्वयमपि इणो यण् ( ६.४.८१) इत्यस्य अपेक्षया परसूत्रम् अस्ति | यथा इणो यण् ( ६.४.८१) इति सूत्रम् अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशस्य अपवादः तथा अचो ञ्णिति (७.२.११५), सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्यनयोः अपि अपवादः अस्ति वा इति प्रश्नः जायते |


मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते, नोत्तरान् इति परिभाषायाः अवगमनार्थं सूत्रक्रमः ज्ञातव्यः -

सूत्रक्रमः
इको यणचि ( ६.१.७७)
अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७)
इणो यण् ( ६.४.८१) - मध्ये अपवादः पठितः
अचो ञ्णिति (७.२.११५)
सार्वधातुकार्धधातुकयोः (७.३.८४)


अत्र एका परिभाषा वर्तते - मध्येपऽवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान् इति | अस्याः परिभाषायाः बलेन इणो यण् ( ६.४.८१) इति अपवादभूतसूत्रं यत् मध्ये वर्तते, तत् पूर्वान् विधीन् एव बाधन्ते इति कृत्वा अचि श्नुधातुभ्रुवां य्वोरियङुवङौ ( ६.४.७७) इति सूत्रस्य इयङादेशमेव बाधते न तु परसूत्राणां कार्यम् | इति कृत्वा इणो यण् ( ६.४.८१) इति विधिः परयोः गुणवृद्ध्योः न बाध्यते | अर्थात् इणो यण् ( ६.४.८१) इति विधिः अचो ञ्णिति (७.२.११५), सार्वधातुकार्धधातुकयोः (७.३.८४) चेत्यनयोः अपवादः नास्ति अतः एव अयनम्, आयकः इति रूपं लभ्यते |


अचो ञ्णिति (७.२.११५) = अजन्ताङ्गस्य अन्त्यवर्णस्य वृद्धिः भवति ञिति णिति प्रत्यये परे | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन अचः अङ्गस्य नाम न केवलम्‌ अच्‌ इत्यङ्गस्य, अपि तु अजन्तस्य अङ्गस्य | अलोऽन्तस्य इत्यनेन अन्तिमवर्णस्य एव स्थाने वृद्धिः | ञ्‌ च ण्‌ च ञ्णौ, ञ्णौ इतौ यस्य तत्‌ ञ्णित्‌, तस्मिन्‌ ञ्णिति, द्वन्द्वगर्भबहुव्रीहिसमासः | अचः षष्ठ्यन्तं, ञ्णिति सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | मृजेर्वृद्धिः (७.२.११४) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अचः अङ्गस्य वृद्धिः ञ्णिति |


सार्वधातुकार्धधातुकयोः (७.३.८४) = इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे | सार्वधातुकञ्च आर्धधातुकञ्च तयोरितरेतरद्वन्द्वः सार्वधातुकार्धधातुके, तयोः सार्वधातुकार्धधातुकयोः | सार्वधातुकार्धधातुकयोः सप्तम्यन्तम्‌, एकपदमिदं सूत्रम्‌ | मिदेर्गुणः (७.३.८२) इत्यस्मात्‌ गुणः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस् अधिकारः | इको गुणवृद्धी (१.१.३) इत्यनेन परिभाषा-सूत्रेण, इक्‌ स्थानी भवति यत्र स्थानी नोक्तम्‌ | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन 'इकः अङ्गस्य' इत्युक्ते न केवलम्‌ इक्‌ इति अङ्गं, किन्तु तादृशम्‌ अङ्गं यस्य अन्ते इक्‌; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अङ्गस्य स्थाने गुणादेशः इति न, अपि तु अङ्गस्य अन्तिमवर्णस्य स्थाने गुणादेशः | अनुवृत्ति-सहितसूत्रम्‌— इकः अङ्गस्य गुणः सार्वधातुकार्धधातुकयोः |


२) स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) = यस्य उपसर्जनसंज्ञकस्य स्वाङ्गवाचिनः शब्दस्य उपधायां संयोगः न स्यात्, सः शब्दः अदन्तः च स्यात्, तादृशशब्दात् स्त्रीत्वविवक्षायां विकल्पेन ङीष् इति प्रत्ययः विधीयते | स्वम् अङ्गं स्वाङ्गं, तस्मात् | संयोगः उपधा यस्य सः संयोगोपधः, न संयोगोपधः असंयोगापधस्तस्मात् | स्वाङ्गात् पञ्चम्यन्तं, च अव्ययपदं, उपसर्जनात् पञ्चम्यन्तम्, असंयोगोपधात् पञ्चम्यन्तम्, अनेकपदमिदं सूत्रम् | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | अस्वाङ्गपूर्वपदाद्वा (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— उपसर्जनात् असंयोगोपधात् स्वाङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् वा |


यथा - १) चन्द्रमुखी, चन्द्रमुखा |

२) अतिक्रान्ता केशान् अतिकेशी, अतिकेशा माला |



नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) = नासिकाद्यन्तात् प्रातिपदिकात् स्त्रियां वा ङीष् प्रत्ययो भवति | नासिका च उदरं च ओष्ठश्च जङ्घा च दन्तश्च कर्णश्च शृङ्गं च तेषां समाहारद्वन्द्वः नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गं, तस्मात् नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात्, पञ्चम्यन्तं, चाव्ययम् | ङ्याप्प्रातिपदिकात् (४.१.१), प्रत्ययः (३.१.१), परश्च (३.१.२), स्त्रियाम् (४.१.३) इत्येतेषाम् अधिकारः | अन्यतो ङीष् (४.१.४०) इत्यस्मात् ङीष् इत्यस्य अनुवृत्तिः | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | अस्वाङ्गपूर्वपदाद्वा (४.१.५३) इत्यस्मात् वा इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गात् अतः प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् वा |


यथा -

१) तुङ्गनासिकी, तुङ्गनासिका, २) तिलोदरी, तिलोदरा, ३) बिम्बोष्ठी, बिम्बोष्ठा, ४) दीर्घजङ्घी, दीर्घजङ्घा,५) समदन्ती, समदन्ता, ६) चारुकर्णी, चारुकर्णा, ७) तीक्ष्णशृङ्गी, तीक्ष्णशृङ्गा | पुच्छाच्चेति वक्तव्यम् | ८) कल्याणपुच्छी, कल्याणपुच्छा | कबरमणिविषशरेभ्यो नित्यम् | ९) कबरपुच्छी १०) मणिपुच्छी ११) विषपुच्छी १२) शरपुच्छी | उपमानात् पक्षात् च पुच्छात् च | १३) उलूकपक्षी सेना १४) उलूकपुच्छी शाला |


सहनञ्विद्यमानपूर्वाच्च (४.१.५७) = सह नञ् विद्यमान इत्येवंपूर्वात् प्रातिपदिकात् स्त्रियां ङीष् प्रत्ययो न भवति | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४), नासिकोदरौष्ठजङ्घादन्तकर्णशृङ्गाच्च ( ४.१.५५) इति च प्राप्तो ङीष् प्रतिषिध्यते | सह, नञ्, तथा विद्यमानः इति शब्दः पूर्वपदे तथा च उपसर्जनसंज्ञकः स्वाङ्गवाची शब्दः उत्तरपदे चेत्, तदन्तात् प्रातिपदिकात् ङीष् इति प्रत्ययः न भवति स्त्रीत्वस्य विवक्षायाम् | अस्मिन् सूत्रे सह इत्यस्य अर्थः विद्यमानः इति | सहश्च नञ्च विद्यमानं च तेषाम् इतरेतरयोगद्वन्द्वः सहनञ्विद्यमानानि, तानि पूर्वे यस्य तत् सहनञ्विद्यमानापूर्वं, तस्मात् | सहनञ्विद्यमानापूर्वात् पञ्चम्यन्तं, चाव्ययम् | अजाद्यतष्टाप् (४.१.४) इत्यस्मात् अतः इत्यस्य अनुवृत्तिः | स्वाङ्गाच्चोपसर्जनादसंयोगोपधात् ( ४.१.५४) इत्यस्मात् उपसर्जनात्, स्वाङ्गात् इत्यनयोः अनुवृत्तिः | न क्रोडादिबह्वचः ( ४.१.५६) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्‌— सहनञ्विद्यमानपूर्वात् उपसर्जनात् स्वाङ्गात् प्रातिपदिकात् च प्रत्ययः परश्च स्त्रियां ङीष् न |

यथा - १) सकेशा ( सह केशा यस्याः सा) २) अकेशा ( अविद्यमानाः केशाः यस्याः सा), ३) विद्यमानकेशा (विद्यमाना नासिका यस्याः सा), ४) सनासिका (सह नासिका यस्याः सा), ५) अनासिका (अविद्यमाना नासिका यस्याः सा), ६) विद्यमाननासिका (विद्यमाना नासिका यस्याः सा) चेति |