04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca: Difference between revisions

From Samskrita Vyakaranam
04---aShTAdhyAyI-paricayaH/06---kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca
Jump to navigation Jump to search
Content added Content deleted
(Copied text and links from Google Sites)
(Copied text and links from Google Sites)
Line 19: Line 19:

पूर्वम्‌ अस्माभिः दृष्टं यत्‌ धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम् एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति '''कर्तरि शप्‌''' इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकः नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | पूर्वम्‌ इयं व्यवस्था अस्माभिः अवलोकिता तिङ्‌-प्रसङ्गे | अधुना अवलोकामहै कृत्‌-प्रसङ्गे |

[[File:VN dhAtubhyaH ting-kRut diagragm 4.jpg|center]]

कृत्‌ नाम किम्‌ ? यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | यः कोऽपि तिङ्‌-भिन्नः प्रत्ययः धातुतः विहितः, स च प्रत्ययः कृत्‌ इत्युच्यते | यस्य पदस्य अन्ते कृत्‌-प्रत्ययः अस्ति, तत्‌ पदं कृदन्तपदम्‌ | कृदन्तपदानि सर्वदा सुबन्तानि | इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि | यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्‌, प्रकाशमानम्— इमानि पदानि सर्वाणि कृदन्तानि | यतः एते प्रत्ययाः (तव्यत्‌, क्तिन्‌, तृच्‌, ण्वुल्‌, शतृ, शानच्‌) साक्षात्‌ धातुभ्यः विहिताः, तिङ्‌-भिन्नाः, पदान्ते च सन्ति |

एते सर्वे प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र '''धातोः''', '''प्रत्ययः''' इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत्‌ आरम्भे तिङ्‌-प्रत्ययाः सर्वे सार्वधातुकाः, '''तिङ्‌शित्सार्वधातुकम्‌''' (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम्‌ अवलोकयाम— '''धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌''' | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत्‌ प्रत्ययः धातुतः विहितः स्यात्‌ | (धातुतः विहितः नास्ति चेत्‌, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्‌, तिङ्‌ चेत्‌ सार्वधातुकम्‌ इति निश्चितम्‌ | परन्तु कृत्‌ चेत्‌, किमपि नैश्चित्यं नास्ति‌ यत्‌ सार्वधातुकं भवेत्‌; कृत्‌ शित्‌ अस्ति चेदेव सार्वधातुकः | कृत्‌-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्‌, चानश्‌, शानन्‌, खश्‌, श, एश्‌, शध्यै, शधैन्‌ इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच्‌ च | अवशिष्टाः सर्वे कृत्‌ प्रत्ययाः आर्धधातुकाः, '''आर्धधातुकं शेषः''' (३.४.११४) इति सूत्रेण |

अस्य महत्त्वम्‌ अस्माभिः परिशीलितं तिङ्‌-प्रसङ्गे | प्रत्ययः सार्वधातुकः चेत्‌, '''कर्तरि शप्‌''' (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते |

'''कर्तरि शप्‌''' (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति | अत्र कर्त्रर्थे कर्तरि प्रयोगः इति अवगम्यताम्‌ | भावे कर्मणि च शप्‌ प्रत्ययः न विहितः | अनुवृत्ति-सहितसूत्रम्‌— '''कर्तरि सार्वधातुके धातोः परश्च शप्‌ प्रत्ययः''' |

'''A.''' '''<u>कर्त्रर्थे सार्वधातुकानां कृत्‌-प्रत्ययानां (कृदन्तानां) दशानां धातुगणानां रूपभेदाः</u>'''

यथा शतृ-प्रत्ययः शित्‌ अतः सार्वधातुकः | कर्त्रर्थे एव भवति शतृ-प्रत्ययः | '''कर्तरि शप्‌''' इत्यनेन शबादय-विकरणप्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदाः—

शतृ → अनुबन्धलोपे → अत्‌

भ्वादौ पठ्‌ + अत्‌ → '''कर्तरि शप्‌''' → पठ्‌ + शप्‌ + अत्‌ → अनुबन्धलोपे → पठ्‌ + अ + अत्‌ → '''अतो गुणे'''* → पठ् + अत्‌ → वर्णमेलने → पठत्‌ इति प्रातिपदिकं (पुंसि पठन्‌, स्त्रियां पठन्ती)

अदादौ वच्‌ + अत्‌ → '''कर्तरि शप्‌''' → (वच्‌ + शप्‌ + अत्‌ →) '''अदिप्रभृतिभ्यः शपः''' (२.४.७२) इत्यनेन शपः लुक्‌ (लोपः) → वच्‌ + अत्‌ → वचत्‌ (वचन्, वचन्ती)

जुहोत्यादौ दा + अत्‌ → '''कर्तरि शप्‌''' → (दा + शप्‌ + अत्‌ →) '''जुहोत्यादिभ्यः श्लुः''' (२.४.७५) इत्यनेन शपः श्लुः (लोपः) → → ददत्‌ (ददत्‌, ददती) ['''नाभ्यस्ताच्छतुः''' (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति |]

दिवादौ नश्‌ + अत्‌ → '''कर्तरि शप्‌''' → (नश्‌ + शप्‌ + अत्‌ →) '''दिवादिभ्यः श्यन्‌''' (३.१.६९) इत्यनेन शपं प्रबाध्य श्यन्‌ → नश्‌ + श्यन्‌ + अत्‌ → अनुबन्धलोपे → नश्‌ + य + अत्‌ → नश्य + अत्‌ → '''अतो गुणे''' → नश्य्‌ + अत्‌ → नश्यत्‌ (नश्यन्‌, नश्यन्ती)

स्वादौ आप्‌ + अत्‌ → '''कर्तरि शप्‌''' → (आप्‌ + शप्‌ + अत्‌ →) '''स्वादिभ्यः श्नुः''' (३.१.७३) इत्यनेन शपं प्रबाध्य श्नु → आप्‌ + श्नु + अत्‌ → अनुबन्धलोपे → आप्‌ + नु‌ + अत्‌ → आप्नु + अत्‌ → → आप्नुवत्‌ (आप्नुवन्‌, आप्नुवती)

तुदादौ लिख्‌ + अत्‌ → '''कर्तरि शप्‌''' → (लिख्‌ + शप्‌ + अत्‌ →) '''तुदादिभ्यः शः''' (३.१.७७) इत्यनेन शपं प्रबाध्य श → लिख्‌ + श + अत्‌ → अनुबन्धलोपे लिख्‌ + अ + अत्‌ → '''अतो गुणे''' → लिख्‌ + अत्‌ → वर्णमेलने → लिखत्‌ (लिखन्‌, लिखन्ती)

रुधादौ भिद्‌ + अत्‌ → '''कर्तरि शप्‌''' → (भिद्‌ + शप्‌ + अत्‌ →) '''रुधादिभ्यः श्नम्‌''' (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्‌ → भिद्‌ + श्नम्‌ + अत्‌ → अनुबन्धलोपे भिद्‌ + न + अत्‌ → → भिन्द्‌ + अत्‌ → भिन्दत्‌ (भिन्दन्‌, भिन्दती)

तनादौ कृ + अत्‌ → '''कर्तरि शप्‌''' → (कृ + शप्‌ + अत्‌ →) '''तनादिकृञ्भ्यः उः''' (३.१.७९) इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत्‌ → → कुर्वत्‌ (कुर्वन्‌, कुर्वती)

क्र्यादौ क्री + अत्‌ → '''कर्तरि शप्‌''' → (क्री + शप्‌ + अत्‌ →) '''क्र्यादिभ्यः श्ना''' (३.१.९७) इत्यनेन शपं प्रबाध्य श्ना → क्री + श्ना + अत्‌ → अनुबन्धलोपे क्री + ना + अत्‌ → → क्रीणत्‌ (क्रीणन्‌, क्रीणती)

चुरादौ चुर्‍ → चोरि इति धातुः + अत्‌ → '''कर्तरि शप्‌''' → चोरि + शप्‌ + अत्‌ → अनुबन्धलोपे → चोरि + अ + अत्‌ → → चोरयत्‌ (चोरयन्‌, चोरयन्ती)

इति शत्रन्तानाम्‌ इव अपरेषां सर्वेषां सार्वधातुक-कृदन्तानां दशानां धातुगणानां रूपभेदाः | कर्त्रर्थे शानच्‌-प्रत्ययानाम्‌ अपि एतादृशाः गणीयभेदाः भवन्ति |

<nowiki>*</nowiki>'''अतो गुणे''' (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं '''वृद्धिरेचि''' (६.१.८८), '''अकः सवर्णे दीर्घः''' (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | '''उस्यपदान्तात्‌''' (६.१.९६) इत्यस्मात्‌ '''अपदान्तात्‌''' अपि च '''एङि पररूपम्‌''' (६.१.९४) इत्यस्मात्‌ '''पररूपम्‌''' इत्यनयोः अनुवृत्तिः | '''एकः पूर्वपरयोः''' (६.१.८४), '''संहितायाम्‌''' (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌''' |

धेयं यत्‌ शत्रन्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते, ते भेदाः जायन्ते विकरणप्रत्ययस्य द्विप्रकारक-प्रभावेन—

१) प्रथमतया विकरणप्रत्ययभेदेन धातुगणम्‌ अनुसृत्य शत्रन्तपदे रूपभेदः | शप्‌ इत्यनेन "अ" संयुज्यते, श्यन्‌ इत्यनेन "य" संयुज्यते, श्नु इत्यनेन "नु" संयुज्यते, श्नम्‌ इत्यनेन "न" संयुज्यते, उ इत्यनेन "उ" संयुज्यते, श्ना इत्यनेन "ना" संयुज्यते | अत्र विकरणप्रत्ययानां स्थूलाकृत्ति-भेदेन प्रभावः | अ, य, नु, न, उ, ना इत्येषाम्‌ रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति— प'''ठ'''न्‌, न'''श्य'''न्‌, आ'''प्नुव'''न्‌, भि'''न्द'''न्‌, कु'''र्व'''न्‌, क्री'''ण'''न्‌ |

२) विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात्‌ पूर्वं स्थितं यत्‌ धातुरूपि-अङ्गं, तस्मिन्‌ अपि रूपभेदः भवति | अदादिगणे जुहोत्यादिगणे च यत्र विकरणस्य लोपो भवति, तत्रापि लुक्‌, श्लु इत्याभ्यां विशिष्टकार्यं भवति |

अधः षट्‌ वृत्तान्ताः a-f इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात्‌ विकरणप्रत्ययेन कीदृशप्रभावः, इत्यस्य एका दृष्टिः भवति—

a) विकरणप्रत्ययेन गुणकार्यम्‌— भ्वादिगणे, चुरादिगणे च | भू + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → भो + अ + अत्‌ → भव + अत् → भवत्‌, पुंसि भवन्‌ | चुर्‍ + इ → चोरि + शप्‌ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' इत्यनेन इगन्त-धातोः इकः गुणः → चोरे + अ + अत्‌ → चोरय + अत्‌ → चोरयत्‌, पुंसि चोरयन्‌ |

b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्‌/उवङ्‌ आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत्‌ → शपः लुक्‌ (लोपः) → ब्रू + अत्‌ → '''अचि श्नुधातुभ्रुवां य्वोरियङुवङौ''' (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ्‌ आदेशः → ब्र्‍ + उव + अत्‌ → ब्रुव्‌ + अत्‌ → ब्रुवत्‌ (पुंसि ब्रुवन्‌) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत्‌ → जिह्र्‍ + इय्‌ + अत्‌ → जिह्रियत्‌

c) विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वम्— जुहोत्यादिगणे | दा‌ + अत्‌ → दा + श्लु + अत्‌ → '''श्लौ''' इत्यनेन द्वित्वम्‌ → दादा + अत्‌ → '''ह्रस्वः''' इत्यनेन अभ्यासय ह्रस्वत्वम्‌ → ददा + अत्‌ → → ददत्‌

d) विकरणप्रत्ययस्य अपित्वात्‌ गुणनिषेधः— दिवादिगणे, स्वादिगणे, क्र्यादिगणे | चि + श्नु + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) इत्यनेन इगन्त-धातोः इकः गुणः → '''सार्वधातुकमपित्‌''' (१.२.४), '''क्ङिति च''' (१.१.५) इत्याभ्यां गुणनिषेधः → चिनु + अत्‌ → चिन्वत्‌ (पुंसि चिन्वन्‌)

e) तनादिगणे कृ + अत्‌ → '''तनादिकृञ्भ्यः उः''' (३.१.७९) → इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत्‌ → '''सार्वधातुकार्धधातुकयोः''' ७.३.८४ इत्यनेन इगन्त-धातोः इकः गुणः → कर्‍ + उ + अत्‌ → करु + अत्‌ → '''अत उत्सार्वधातुके''' (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु + अत्‌ → यण्‌-सन्धिः → कुर्वत्‌ (पुंसि कुर्वन्‌)

f) रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, '''श्नान्नलोपः''' (६.४.२३) इत्येनेन सूत्रेण | यथा उन्द्‌ + श्नम्‌ + अत्‌ → उनन्द्‌ + अत्‌ | 'उनन्द्‌' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते अतः '''श्नान्नलोपः''' इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः | उनन्द्‌ + अत्‌ → उनद्‌ + अत्‌ → अपित्सु सार्वधातुकलकारेषु श्नम्‌-प्रत्यये स्थितस्य अकारस्य लोपो भवति '''श्नसोरल्लोपः''' (६.४.१११) इत्येनेन सूत्रेण → उन्द्‌ + अत्‌ → वर्णमेलने → उन्दत्‌ (पुंसि उन्दन्‌)

'''B.''' '''<u>आर्धधातुकानां कृत्‌-प्रत्ययानां रूपाणि</u>'''

उपर्युक्तान्‌ नव कृत्‌-प्रत्ययान्‌ विहाय, अवशिष्टाः सर्वे कृत्‌-प्रत्ययाः अशित्त्वात्‌ आर्धधातुकाः | कृत्‌-प्रत्ययः आर्धधातुकश्चेत्‌, धातुगणम्‌ अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदो नास्ति | अतः अत्रापि, आर्धधातुकलकाराः इव, धातुगणानां न काऽपि भूमिका |

1. <u>कर्त्रर्थे आर्धधातुकानां कृत्‌-प्रत्ययानां (कृदन्तानां) दशानां धातुगणानां रूपभेदः नास्ति</u>

आर्धधातुक-कृत्‌-प्रत्ययेषु परेषु, धातुः यस्मिन्‌ कस्मिनपि गणे भवतु नाम, गणं निमित्तीकृत्य रूपभेदः न भवति | ण्वुल्‌ इति प्रत्ययं पश्येम— अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ्‌ न वा शित्‌, अतः आर्धधातुकः | '''चुटू''' इत्यनेन णकारस्य इत्‌-संज्ञा, '''हलन्त्यम्‌''' इत्यनेन लकारस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन तयोः लोपः → वु अवशिष्यते | '''युवोरनाकौ''' (७.१.१) = अङ्गात्‌ उत्तरस्य यु, वु इत्यनयोः स्थाने क्रमशः अन अक चादेशौ भवतः | अतः वु-स्थाने अक-आदेशः सर्वत्र | यथा—

भ्वादौ पठ्‌ + अक → पाठक इति प्रातिपदिकम्‌ (पुंसि पाठकः)

अस्य मार्गस्य अवलोकनेन तत्क्षणं सार्वधातुकप्रक्रियातः महान्‌ भेदः लक्ष्यते | स च भेदः कः ? अत्र आर्धधातुकत्वात्‌ '''कर्तरि शप्‌''' (३.१.६८) इत्यनेन शप्‌ न भवति | शपः अभावे न कस्यापि विकरणप्रत्ययस्य अवसरः; तस्मात्‌ धातुगणीयभेदः नास्ति एव—

भ्वादौ पठ्‌ + अक → पाठक (पाठकः)

अदादौ वच्‌ + अक → वाचक (वाचकः)

जुहोत्यादौ दा + अक → दायक (दायकः)

दिवादौ नश्‌ + अक → नाशक (नाशकः)

सुवादौ आप्‌ + अक → आपक (आपकः)

तुदादौ लिख्‌ + अक → लेखक (लेखकः)

रुधादौ भिद्‌ + अक → भेदक (भेदकः)

तनादौ कृ + अक → कारक (कारकः)

क्र्यादौ क्री + अक → क्रायक (क्रायकः)

चुरादौ चुर्‍ → चोरि इति धातुः + अक → चोरक (चोरकः)

इमानि रूपाणि दृष्ट्वा अवगम्यते यत्‌ गणं निमित्तीकृत्य रूपभेदः न भवति | कारणं किम्‌ ? ण्वुल्‌-प्रत्ययः सार्वधातुकः नास्ति अतः '''कर्तरि शप्‌''' (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | '''कर्तरि शप्‌''' न भवति चेत्‌ शप् न भवति;| शप्‌ न भवति चेत्‌, अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति यतोहि ते सर्वे शपं प्रबाध्य आयान्ति | शप्‌ नास्ति चेत्‌, श्यन्‌, श्नु, श इत्यादयः विक्रणप्रत्ययाः अपि न भवन्ति | तेषाम्‌ अभावे गणं निमित्तीकृत्य रूपभेदः न भवति |

अनीयर् इति प्रत्ययं पश्येम— अयं प्रत्ययः न तिङ्‌ न वा शित्‌, अतः आर्धधातुकः | अनीयर्‌ न केवलम्‌ आर्धधातुकः, अपि तु कर्मणि अर्थे (न तु कर्तरि अर्थे) अस्ति | अस्मात्‌ कारणद्वयात्‌ '''कर्तरि शप्‌''' (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | अत्र '''हलन्त्यम्‌''' इत्यनेन रेफस्य इत्‌-संज्ञा, '''तस्य लोपः''' इत्यनेन लोपः → अनीय अवशिष्यते |

भ्वादौ पठ्‌ + अनीय → पठनीय

अदादौ वच्‌ + अनीय → वचनीय

जुहोत्यादौ दा + अनीय → दानीय

दिवादौ नश्‌ + अनीय → नशनीय

सुवादौ आप्‌ + अनीय → आपनीय

तुदादौ लिख्‌ + अनीय → लेखनीय

रुधादौ भिद्‌ + अनीय → भेदनीय

तनादौ कृ + अनीय → करणीय

क्र्यादौ क्री + अनीय → क्रयणीय

चुरादौ चुर्→ चोरि इति धातुः + अनीय → चोरणीय

यत्र यत्र कृत्‌-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम्‌ आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम्‌ अन्तिमवर्णम्‌ अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—

१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |

२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |

३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |

४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |

५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |

६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |

७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |

८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |

९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |

१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |

११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |

१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |

१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |

१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |

अन्यच्च आर्धधातुकः कृत्‌-प्रत्ययः चेत्‌, इडागमविचारः करणीयः |

2. <u>आर्धधातुकः कृत्‌-प्रत्ययानाम्‌ इडागमविचारः</u>

आर्धधातुक-कृत्‌-प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदो न भवति, किन्तु इडागमविचारः अपेक्षितः |

यथा—

क्तवतु— कृतवान्‌, गतवान्‌, परन्तु इडागमे सति प'''ठि'''तवान्‌, खा'''दि'''तवान्‌ |

तुमुन्‌— ज्ञातुम्‌‍, आप्तुं, परन्तु इडागमे सति क्री'''डि'''तुम्‌, जी'''वि'''तुम्‌ |

तव्यत्‌— द्रष्टव्यम्‌, दातव्यं, परन्तु इडागमे सति खा'''दि'''तव्यम्‌, क्री'''डि'''तव्यम्‌ |

तृच्‌— कर्ता, दाता, परन्तु इडागमे सति स्प'''र्धि'''ता, ड'''यि'''ता |

एवमेव अनीयर्, ण्वुल्‌, क्त, क्त्वा, ल्युट्‌ | यावन्तः कृत्‌-प्रत्ययाः अशितः सन्ति, ते सर्वे तथा आर्धधातुकाः | तत्र इडागम-विचारः करणीयः |

आर्धधातुकप्रत्ययः परे सति इट्‌— नाम "इ" इति आगमः— कुत्रचित्‌ धातु-प्रत्यययोः मध्ये उपविशति | यथा दृष्टं पूर्वं, धातुः अपि सेट्‌ (स-इट्‌), प्रत्ययः अपि सेट्‌ चेदेव इडागमो भवति | धातुप्रत्यययोः मध्ये एकोऽपि अनिट्‌ (अन्‌-इट्‌) चेत्‌, इडागमो न भवति | द्वयमपि सेट्‌ चेदपि कुत्रचित्‌ अपवादत्वेन इडागमः न भवति; परन्तु द्वयोर्मध्ये एकः अनिट्‌ चेत्‌ इडागमो नैव भवति |

कोऽपि आर्धधातुकप्रत्ययः सेट्— नाम इडागमयोग्यः— न वा इति कथं ज्ञातव्यम्‌ ? एतदर्थं प्रमुखं सूत्रद्वयम्‌ अस्ति |

'''आर्धधातुकस्येड्वलादेः''' (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः '''आद्यन्तौ टकितौ''' (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् वलादेः आर्धधातुकस्य इट्‌''' |

'''नेड्‌ वशि कृति''' (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | '''यस्मिन्‌ विधिस्तदादावल्ग्रहणे''' (१.१.७२, वार्तिकम्‌ २९) इत्यनेन '''वशि कृति''' इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश्‌ स्यात्‌) | वश्‌-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडानुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | '''अङ्गस्य''' (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— '''अङ्गात् न इट्‌ वशि कृति''' |

सारांशः एवं यत्‌ आर्धधतुक-कृत्‌-प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः सदस्यः, श्‌, ष्‌, स्‌, ह्‌ च इत्येषु अन्यतमः चेत्‌, सः प्रत्ययः इडानुकूलः भवति | धातुः अपि सेट्‌ चेत्‌, सामान्यतया इडागमो भविष्यति |

यथा ण्वुल्‌ अनिट्‌; तृच्‌ सेट्‌ | ण्वुल्‌ धातोः परे चेत्‌, इडागमः न कदापि भवति | तृच्‌ सेट्‌ अस्ति, अतः धातुः अपि सेट्‌ चेत्‌, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति) |

अधुना चिन्तनं कुर्वन्तु, एते आर्धधतुक-कृत्‌-प्रत्ययाः सेट्‌ वा अनिट्‌ वा— अनीयर्‍, क्त, तव्यत्‌, क्त्वा, ल्युट्‌, क्तवतु, तुमुन्‌ |

धातुः सेट्‌ वा अनिट्‌ वा इत्यस्य प्रपञ्चः अग्रे आर्धधातुकपाठे अधीयते | परन्तु एतावता अस्माभिः ज्ञातं यत्‌ आर्धधातुक-कृत्‌-प्रत्ययः अनिट्‌ चेत्‌, इडागमः अवश्यं न भवति | प्रत्ययः सेट्‌ चेत्‌, धातुः अपि सेट्‌ चेत्‌ इडागमस्य सम्भावना |

आहत्य कृत्‌-प्रत्ययाः तिङ्‌प्रत्ययाः च द्विविधाः— सार्वधातुकाः आर्धधातुकाः च | यत्र प्रत्ययः सार्वधातुकः, स च प्रत्ययः कृत्‌ वा तिङ्‌ वा भवतु, प्रक्रिया समाना | तथैव प्रत्ययः आर्धधातुकः चेत्‌, स च प्रत्ययः कृत्‌ वा तिङ्‌ वा भवतु, प्रक्रिया समाना | अतः धातुभ्यः प्रत्ययः यत्र विधीयते, तत्र चिन्तनं केवलं द्विविधं— सार्वधातुकम्‌ आर्धधातुकं च | तत्र स च प्रत्ययः कृत्‌ अथवा तिङ्‌, इत्यनेन प्रक्रियायां भेदः नास्ति | अतः सार्वधातुकप्रक्रियायाम्‌ अस्ति लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌, शतृ, शानच्‌— एषां कार्यं समानं विकरणप्रत्ययसहितत्वात्‌ | आर्धधातुकप्रक्रियायाम्‌ अस्ति लृ‌ट्‌, लृङ्‌, लुट्‌, लुङ्‌, लिट्‌ आशीर्लिङ्‌, तृच्‌, ण्वुल्‌, तव्यत्‌, अनीयर्‍, क्तवतु इत्यादयः— एषां कार्यं समानं विकरणप्रत्ययरहितत्वात्‌, इडागमचिन्तनसहितत्वात्‌ च |

इति कृत्‌-प्रत्ययानां समग्रदृष्टिः |

Swarup – August 2014 (Updated July 2016)

<nowiki>---------------------------------</nowiki>

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [[Mailto:dinbandhu@sprynet.com|<dinbandhu@sprynet.com>]].

[https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxzYW1za3JpdGF2eWFrYXJhbmFtfGd4OjQxZjAwM2JiNWMzNzBkZmM ०६ - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च .pdf] (85k) Swarup Bhai, Aug 11, 2016, 1:46 PM v.1

Revision as of 17:18, 9 May 2021

ध्वनिमुद्रणानि -

2016 varga--

1) kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--1__2016-08-03

2) kRut-pratyayAH-api-sArvadhAtukAH-ArdhadhAtukAshca--2_+_angam-it-viShayaH_2016-08-10

2014 varga--

1)  kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_I_2014-08-20

2)  kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_II_2014-09-03

3)  kRut-pratyayAH_api_sArvadhAtukAH_ArdhadhAtukAshca_III_2014-09-10

पूर्वम्‌ अस्माभिः दृष्टं यत्‌ धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | एते सर्वे प्रत्ययाः पुनः विभजिताः— सार्वधातुकाः आर्धधातुकाश्च | अस्य महत्त्वम् एवं यत्‌ प्रत्ययः सार्वधातुकश्चेत्‌, तर्हि कर्त्रर्थे शबादयः विकरणाः आयान्ति कर्तरि शप्‌ इत्यनेन | शबादयः आयान्ति चेत्‌ धातुगणभेदाः भवन्ति | प्रत्ययः सार्वधातुकः नास्ति चेत्‌ आर्धधातुकः एव; आर्धधातुकः चेत्‌ इडागमविचारः करणीयः | इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति | पूर्वम्‌ इयं व्यवस्था अस्माभिः अवलोकिता तिङ्‌-प्रसङ्गे | अधुना अवलोकामहै कृत्‌-प्रसङ्गे |

कृत्‌ नाम किम्‌ ? यथोक्तं धातुभ्यः विहिताः प्रत्ययाः द्विधाः—तिङ्‌ च कृत्‌ च | यः कोऽपि तिङ्‌-भिन्नः प्रत्ययः धातुतः विहितः, स च प्रत्ययः कृत्‌ इत्युच्यते | यस्य पदस्य अन्ते कृत्‌-प्रत्ययः अस्ति, तत्‌ पदं कृदन्तपदम्‌ | कृदन्तपदानि सर्वदा सुबन्तानि | इत्युक्तौ नामपदानि सन्ति न तु क्रियापदानि | यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्‌, प्रकाशमानम्— इमानि पदानि सर्वाणि कृदन्तानि | यतः एते प्रत्ययाः (तव्यत्‌, क्तिन्‌, तृच्‌, ण्वुल्‌, शतृ, शानच्‌) साक्षात्‌ धातुभ्यः विहिताः, तिङ्‌-भिन्नाः, पदान्ते च सन्ति |

एते सर्वे प्रत्ययाः—तिङः, कृतश्च—अष्टाध्याय्याः तृतीयाध्याये विहिताः, यत्र धातोः, प्रत्ययः इत्यनयोः अधिकारः | पूर्वमेव अवगतं यत्‌ आरम्भे तिङ्‌-प्रत्ययाः सर्वे सार्वधातुकाः, तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण | अत्र अनुवृत्ति-सहितसूत्रम्‌ अवलोकयाम— धातोः परश्च तिङ्‌-शित् प्रत्ययः सार्वधातुकम्‌ | अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत्‌ प्रत्ययः धातुतः विहितः स्यात्‌ | (धातुतः विहितः नास्ति चेत्‌, सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति |) तदा धातुतः विहितश्चेत्‌, तिङ्‌ चेत्‌ सार्वधातुकम्‌ इति निश्चितम्‌ | परन्तु कृत्‌ चेत्‌, किमपि नैश्चित्यं नास्ति‌ यत्‌ सार्वधातुकं भवेत्‌; कृत्‌ शित्‌ अस्ति चेदेव सार्वधातुकः | कृत्‌-प्रत्ययेषु नव शितः | ते च— शतृ, शानच्‌, चानश्‌, शानन्‌, खश्‌, श, एश्‌, शध्यै, शधैन्‌ इति | एषु द्वौ प्रसिद्धौ— शतृ, शानच्‌ च | अवशिष्टाः सर्वे कृत्‌ प्रत्ययाः आर्धधातुकाः, आर्धधातुकं शेषः (३.४.११४) इति सूत्रेण |

अस्य महत्त्वम्‌ अस्माभिः परिशीलितं तिङ्‌-प्रसङ्गे | प्रत्ययः सार्वधातुकः चेत्‌, कर्तरि शप्‌ (३.१.६८) इति सूत्रेण कर्त्रर्थे धातु-प्रत्यययोः मध्ये विकरणप्रत्ययः विहितो भवति | अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते |

कर्तरि शप्‌ (३.१.६८) = कर्त्रर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत्‌, धातुतः शप्‌-प्रत्ययः भवति | अत्र कर्त्रर्थे कर्तरि प्रयोगः इति अवगम्यताम्‌ | भावे कर्मणि च शप्‌ प्रत्ययः न विहितः | अनुवृत्ति-सहितसूत्रम्‌— कर्तरि सार्वधातुके धातोः परश्च शप्‌ प्रत्ययः |

A. कर्त्रर्थे सार्वधातुकानां कृत्‌-प्रत्ययानां (कृदन्तानां) दशानां धातुगणानां रूपभेदाः

यथा शतृ-प्रत्ययः शित्‌ अतः सार्वधातुकः | कर्त्रर्थे एव भवति शतृ-प्रत्ययः | कर्तरि शप्‌ इत्यनेन शबादय-विकरणप्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदाः—

शतृ → अनुबन्धलोपे → अत्‌

भ्वादौ पठ्‌ + अत्‌ → कर्तरि शप्‌ → पठ्‌ + शप्‌ + अत्‌ → अनुबन्धलोपे → पठ्‌ + अ + अत्‌ → अतो गुणे* → पठ् + अत्‌ → वर्णमेलने → पठत्‌ इति प्रातिपदिकं (पुंसि पठन्‌, स्त्रियां पठन्ती)

अदादौ वच्‌ + अत्‌ → कर्तरि शप्‌ → (वच्‌ + शप्‌ + अत्‌ →) अदिप्रभृतिभ्यः शपः (२.४.७२) इत्यनेन शपः लुक्‌ (लोपः) → वच्‌ + अत्‌ → वचत्‌ (वचन्, वचन्ती)

जुहोत्यादौ दा + अत्‌ → कर्तरि शप्‌ → (दा + शप्‌ + अत्‌ →) जुहोत्यादिभ्यः श्लुः (२.४.७५) इत्यनेन शपः श्लुः (लोपः) → → ददत्‌ (ददत्‌, ददती) [नाभ्यस्ताच्छतुः (७.१.७८) इत्यनेन अभ्यस्तसंज्ञकात्‌ शतृ-प्रत्ययस्य नुम्‌-आगमो न भवति |]

दिवादौ नश्‌ + अत्‌ → कर्तरि शप्‌ → (नश्‌ + शप्‌ + अत्‌ →) दिवादिभ्यः श्यन्‌ (३.१.६९) इत्यनेन शपं प्रबाध्य श्यन्‌ → नश्‌ + श्यन्‌ + अत्‌ → अनुबन्धलोपे → नश्‌ + य + अत्‌ → नश्य + अत्‌ → अतो गुणे → नश्य्‌ + अत्‌ → नश्यत्‌ (नश्यन्‌, नश्यन्ती)

स्वादौ आप्‌ + अत्‌ → कर्तरि शप्‌ → (आप्‌ + शप्‌ + अत्‌ →) स्वादिभ्यः श्नुः (३.१.७३) इत्यनेन शपं प्रबाध्य श्नु → आप्‌ + श्नु + अत्‌ → अनुबन्धलोपे → आप्‌ + नु‌ + अत्‌ → आप्नु + अत्‌ → → आप्नुवत्‌ (आप्नुवन्‌, आप्नुवती)

तुदादौ लिख्‌ + अत्‌ → कर्तरि शप्‌ → (लिख्‌ + शप्‌ + अत्‌ →) तुदादिभ्यः शः (३.१.७७) इत्यनेन शपं प्रबाध्य श → लिख्‌ + श + अत्‌ → अनुबन्धलोपे लिख्‌ + अ + अत्‌ → अतो गुणे → लिख्‌ + अत्‌ → वर्णमेलने → लिखत्‌ (लिखन्‌, लिखन्ती)

रुधादौ भिद्‌ + अत्‌ → कर्तरि शप्‌ → (भिद्‌ + शप्‌ + अत्‌ →) रुधादिभ्यः श्नम्‌ (३.१.७८) इत्यनेन शपं प्रबाध्य श्नम्‌ → भिद्‌ + श्नम्‌ + अत्‌ → अनुबन्धलोपे भिद्‌ + न + अत्‌ → → भिन्द्‌ + अत्‌ → भिन्दत्‌ (भिन्दन्‌, भिन्दती)

तनादौ कृ + अत्‌ → कर्तरि शप्‌ → (कृ + शप्‌ + अत्‌ →) तनादिकृञ्भ्यः उः (३.१.७९) इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत्‌ → → कुर्वत्‌ (कुर्वन्‌, कुर्वती)

क्र्यादौ क्री + अत्‌ → कर्तरि शप्‌ → (क्री + शप्‌ + अत्‌ →) क्र्यादिभ्यः श्ना (३.१.९७) इत्यनेन शपं प्रबाध्य श्ना → क्री + श्ना + अत्‌ → अनुबन्धलोपे क्री + ना + अत्‌ → → क्रीणत्‌ (क्रीणन्‌, क्रीणती)

चुरादौ चुर्‍ → चोरि इति धातुः + अत्‌ → कर्तरि शप्‌ → चोरि + शप्‌ + अत्‌ → अनुबन्धलोपे → चोरि + अ + अत्‌ → → चोरयत्‌ (चोरयन्‌, चोरयन्ती)

इति शत्रन्तानाम्‌ इव अपरेषां सर्वेषां सार्वधातुक-कृदन्तानां दशानां धातुगणानां रूपभेदाः | कर्त्रर्थे शानच्‌-प्रत्ययानाम्‌ अपि एतादृशाः गणीयभेदाः भवन्ति |

*अतो गुणे (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९६) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९४) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |

धेयं यत्‌ शत्रन्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते, ते भेदाः जायन्ते विकरणप्रत्ययस्य द्विप्रकारक-प्रभावेन—

१) प्रथमतया विकरणप्रत्ययभेदेन धातुगणम्‌ अनुसृत्य शत्रन्तपदे रूपभेदः | शप्‌ इत्यनेन "अ" संयुज्यते, श्यन्‌ इत्यनेन "य" संयुज्यते, श्नु इत्यनेन "नु" संयुज्यते, श्नम्‌ इत्यनेन "न" संयुज्यते, उ इत्यनेन "उ" संयुज्यते, श्ना इत्यनेन "ना" संयुज्यते | अत्र विकरणप्रत्ययानां स्थूलाकृत्ति-भेदेन प्रभावः | अ, य, नु, न, उ, ना इत्येषाम्‌ रूपभेदेन शत्रन्तपदे रूपभेदः भविष्यति— पन्‌, नश्यन्‌, आप्नुवन्‌, भिन्दन्‌, कुर्वन्‌, क्रीन्‌ |

२) विकरणं स्वयं प्रत्ययः, अतः प्रत्ययत्वात्‌ पूर्वं स्थितं यत्‌ धातुरूपि-अङ्गं, तस्मिन्‌ अपि रूपभेदः भवति | अदादिगणे जुहोत्यादिगणे च यत्र विकरणस्य लोपो भवति, तत्रापि लुक्‌, श्लु इत्याभ्यां विशिष्टकार्यं भवति |

अधः षट्‌ वृत्तान्ताः a-f इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात्‌ विकरणप्रत्ययेन कीदृशप्रभावः, इत्यस्य एका दृष्टिः भवति—

a) विकरणप्रत्ययेन गुणकार्यम्‌— भ्वादिगणे, चुरादिगणे च | भू + शप्‌ + अत्‌ → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त-धातोः इकः गुणः → भो + अ + अत्‌ → भव + अत् → भवत्‌, पुंसि भवन्‌ | चुर्‍ + इ → चोरि + शप्‌ + अत्‌ → सार्वधातुकार्धधातुकयोः इत्यनेन इगन्त-धातोः इकः गुणः → चोरे + अ + अत्‌ → चोरय + अत्‌ → चोरयत्‌, पुंसि चोरयन्‌ |

b) विकरणप्रत्ययस्य लोपे सति शतृ-प्रत्ययेन इयङ्‌/उवङ्‌ आदेशः— अदादिगणे जुहोत्यादिगणे च | ब्रू + अत्‌ → शपः लुक्‌ (लोपः) → ब्रू + अत्‌ → अचि श्नुधातुभ्रुवां य्वोरियङुवङौ (६.४.७७) इत्यनेन उ/ऊकारान्तधातुरूपि-अङ्गस्य उ/ऊकारस्य स्थाने उवङ्‌ आदेशः → ब्र्‍ + उव + अत्‌ → ब्रुव्‌ + अत्‌ → ब्रुवत्‌ (पुंसि ब्रुवन्‌) | जुहोत्यदौ अपि तथा; अत्र ह्री-धातुः इकारान्तः अतः इयङ्— ह्री → जिह्री + अत्‌ → जिह्र्‍ + इय्‌ + अत्‌ → जिह्रियत्‌

c) विकरणप्रत्ययस्य श्लौ अङ्गस्य द्वित्वम्— जुहोत्यादिगणे | दा‌ + अत्‌ → दा + श्लु + अत्‌ → श्लौ इत्यनेन द्वित्वम्‌ → दादा + अत्‌ → ह्रस्वः इत्यनेन अभ्यासय ह्रस्वत्वम्‌ → ददा + अत्‌ → → ददत्‌

d) विकरणप्रत्ययस्य अपित्वात्‌ गुणनिषेधः— दिवादिगणे, स्वादिगणे, क्र्यादिगणे | चि + श्नु + अत्‌ → सार्वधातुकार्धधातुकयोः (७.३.८४) इत्यनेन इगन्त-धातोः इकः गुणः → सार्वधातुकमपित्‌ (१.२.४), क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः → चिनु + अत्‌ → चिन्वत्‌ (पुंसि चिन्वन्‌)

e) तनादिगणे कृ + अत्‌ → तनादिकृञ्भ्यः उः (३.१.७९) → इत्यनेन शपं प्रबाध्य उ → कृ + उ + अत्‌ → सार्वधातुकार्धधातुकयोः ७.३.८४ इत्यनेन इगन्त-धातोः इकः गुणः → कर्‍ + उ + अत्‌ → करु + अत्‌ → अत उत्सार्वधातुके (६.४.११०) इत्यनेन अपिति प्रत्यये परे, करु इत्यस्य अङ्गस्य अकारस्य स्थाने उकारादेशः → कुरु + अत्‌ → यण्‌-सन्धिः → कुर्वत्‌ (पुंसि कुर्वन्‌)

f) रुधादिगणे एकमेव विकरणप्रत्यय-निमित्तकम् अङ्गकार्यं भवति, तच्च केवलं यत्र श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते | श्नम्‌-प्रत्ययात् परं स्थितस्य नकारस्य लोपः, श्नान्नलोपः (६.४.२३) इत्येनेन सूत्रेण | यथा उन्द्‌ + श्नम्‌ + अत्‌ → उनन्द्‌ + अत्‌ | 'उनन्द्‌' इत्यस्मिन्‌ श्नम्‌-प्रत्ययात्‌ परं धातौ नकारः वर्तते अतः श्नान्नलोपः इत्यनेन श्नम्‌-प्रत्ययात्‌ उत्तरस्य नकारस्य लोपः | उनन्द्‌ + अत्‌ → उनद्‌ + अत्‌ → अपित्सु सार्वधातुकलकारेषु श्नम्‌-प्रत्यये स्थितस्य अकारस्य लोपो भवति श्नसोरल्लोपः (६.४.१११) इत्येनेन सूत्रेण → उन्द्‌ + अत्‌ → वर्णमेलने → उन्दत्‌ (पुंसि उन्दन्‌)

B. आर्धधातुकानां कृत्‌-प्रत्ययानां रूपाणि

उपर्युक्तान्‌ नव कृत्‌-प्रत्ययान्‌ विहाय, अवशिष्टाः सर्वे कृत्‌-प्रत्ययाः अशित्त्वात्‌ आर्धधातुकाः | कृत्‌-प्रत्ययः आर्धधातुकश्चेत्‌, धातुगणम्‌ अनुसृत्य कृदन्तपदानां कोऽपि रूपभेदो नास्ति | अतः अत्रापि, आर्धधातुकलकाराः इव, धातुगणानां न काऽपि भूमिका |

1. कर्त्रर्थे आर्धधातुकानां कृत्‌-प्रत्ययानां (कृदन्तानां) दशानां धातुगणानां रूपभेदः नास्ति

आर्धधातुक-कृत्‌-प्रत्ययेषु परेषु, धातुः यस्मिन्‌ कस्मिनपि गणे भवतु नाम, गणं निमित्तीकृत्य रूपभेदः न भवति | ण्वुल्‌ इति प्रत्ययं पश्येम— अयं प्रत्ययः धातुभ्यः विधीयते किन्तु न तिङ्‌ न वा शित्‌, अतः आर्धधातुकः | चुटू इत्यनेन णकारस्य इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन लकारस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन तयोः लोपः → वु अवशिष्यते | युवोरनाकौ (७.१.१) = अङ्गात्‌ उत्तरस्य यु, वु इत्यनयोः स्थाने क्रमशः अन अक चादेशौ भवतः | अतः वु-स्थाने अक-आदेशः सर्वत्र | यथा—

भ्वादौ पठ्‌ + अक → पाठक इति प्रातिपदिकम्‌ (पुंसि पाठकः)

अस्य मार्गस्य अवलोकनेन तत्क्षणं सार्वधातुकप्रक्रियातः महान्‌ भेदः लक्ष्यते | स च भेदः कः ? अत्र आर्धधातुकत्वात्‌ कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ न भवति | शपः अभावे न कस्यापि विकरणप्रत्ययस्य अवसरः; तस्मात्‌ धातुगणीयभेदः नास्ति एव—

भ्वादौ पठ्‌ + अक → पाठक (पाठकः)

अदादौ वच्‌ + अक → वाचक (वाचकः)

जुहोत्यादौ दा + अक → दायक (दायकः)

दिवादौ नश्‌ + अक → नाशक (नाशकः)

सुवादौ आप्‌ + अक → आपक (आपकः)

तुदादौ लिख्‌ + अक → लेखक (लेखकः)

रुधादौ भिद्‌ + अक → भेदक (भेदकः)

तनादौ कृ + अक → कारक (कारकः)

क्र्यादौ क्री + अक → क्रायक (क्रायकः)

चुरादौ चुर्‍ → चोरि इति धातुः + अक → चोरक (चोरकः)

इमानि रूपाणि दृष्ट्वा अवगम्यते यत्‌ गणं निमित्तीकृत्य रूपभेदः न भवति | कारणं किम्‌ ? ण्वुल्‌-प्रत्ययः सार्वधातुकः नास्ति अतः कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | कर्तरि शप्‌ न भवति चेत्‌ शप् न भवति;| शप्‌ न भवति चेत्‌, अपरेषां गणानां विकरणप्रत्ययाः अपि न भवन्ति यतोहि ते सर्वे शपं प्रबाध्य आयान्ति | शप्‌ नास्ति चेत्‌, श्यन्‌, श्नु, श इत्यादयः विक्रणप्रत्ययाः अपि न भवन्ति | तेषाम्‌ अभावे गणं निमित्तीकृत्य रूपभेदः न भवति |

अनीयर् इति प्रत्ययं पश्येम— अयं प्रत्ययः न तिङ्‌ न वा शित्‌, अतः आर्धधातुकः | अनीयर्‌ न केवलम्‌ आर्धधातुकः, अपि तु कर्मणि अर्थे (न तु कर्तरि अर्थे) अस्ति | अस्मात्‌ कारणद्वयात्‌ कर्तरि शप्‌ (३.१.६८) इत्यस्य प्रसक्तिर्नास्ति | अत्र हलन्त्यम्‌ इत्यनेन रेफस्य इत्‌-संज्ञा, तस्य लोपः इत्यनेन लोपः → अनीय अवशिष्यते |

भ्वादौ पठ्‌ + अनीय → पठनीय

अदादौ वच्‌ + अनीय → वचनीय

जुहोत्यादौ दा + अनीय → दानीय

दिवादौ नश्‌ + अनीय → नशनीय

सुवादौ आप्‌ + अनीय → आपनीय

तुदादौ लिख्‌ + अनीय → लेखनीय

रुधादौ भिद्‌ + अनीय → भेदनीय

तनादौ कृ + अनीय → करणीय

क्र्यादौ क्री + अनीय → क्रयणीय

चुरादौ चुर्→ चोरि इति धातुः + अनीय → चोरणीय

यत्र यत्र कृत्‌-प्रत्ययः आर्धधातुकः, तत्र तत्र धातुगणम्‌ आधारीकृत्य भेदो न वर्तते | अतः यथा आर्धधातुकलकाराः, आर्धधातुककृत्प्रत्ययानां प्रक्रियार्थं धातूनाम्‌ अन्तिमवर्णम्‌ अनुसृत्य चतुर्दशवर्गेषु विभज्यन्ते | चतुर्दश वर्गाः एते—

१) अकारान्ताः— यथा कथ, गण, रच इत्यादयः |

२) आकारान्ताः— यथा पा, ला, वा, दा, धा इत्यादयः |

३) इकारान्ताः— यथा जि, श्वि, चि, कि, रि इत्यादयः |

४) ईकारान्ताः— यथा नी, शी, डी, क्री, वी इत्यादयः |

५) उकारान्ताः— यथा द्रु, नु, कु, गु, क्षु इत्यादयः |

६) ऊकारान्ताः— यथा भू, लू, पू, नू, मू इत्यादयः |

७) ऋकारान्ताः— यथा हृ, भृ, धृ, मृ, कृ, स्वृ, स्मृ इत्यादयः |

८) ॠकारान्ताः— यथा जॄ, झॄ, शॄ, गॄ, वॄ इत्यादयः |

९) एजन्ताः— यथा ग्लै, म्लै, धे, ध्यै, पै, शो, छो इत्यादयः |

१०) अदुपधाः— यथा पठ्‌, चल्‌, वद्‌, स्खल्‌, कक्‌, पच्‌, चट्‌ इत्यादयः |

११) इदुपधाः— यथा चित्‌, मिद्‌, छिद्‌, भिद्‌, निद्‌, मिल्‌ इत्यादयः |

१२) उदुपधाः— यथा बुध्‌, शुध्‌, मुद्‌, कुक्‌, उख्‌ इत्यादयः |

१३) ऋदुपधाः— यथा कृष्‌, वृष्‌, नृत्‌, छृद्‌, वृत्‌, वृध्‌ इत्यादयः |

१४) अवशिष्टाः— ये न सन्ति एषु वर्गेषु यथा मील्‌, शीक्‌, बुक्क्‌, अञ्च्‌ इत्यादयः |

अन्यच्च आर्धधातुकः कृत्‌-प्रत्ययः चेत्‌, इडागमविचारः करणीयः |

2. आर्धधातुकः कृत्‌-प्रत्ययानाम्‌ इडागमविचारः

आर्धधातुक-कृत्‌-प्रत्ययैः निष्पादितानां पदानां धातुगणीयभेदो न भवति, किन्तु इडागमविचारः अपेक्षितः |

यथा—

क्तवतु— कृतवान्‌, गतवान्‌, परन्तु इडागमे सति पठितवान्‌, खादितवान्‌ |

तुमुन्‌— ज्ञातुम्‌‍, आप्तुं, परन्तु इडागमे सति क्रीडितुम्‌, जीवितुम्‌ |

तव्यत्‌— द्रष्टव्यम्‌, दातव्यं, परन्तु इडागमे सति खादितव्यम्‌, क्रीडितव्यम्‌ |

तृच्‌— कर्ता, दाता, परन्तु इडागमे सति स्पर्धिता, डयिता |

एवमेव अनीयर्, ण्वुल्‌, क्त, क्त्वा, ल्युट्‌ | यावन्तः कृत्‌-प्रत्ययाः अशितः सन्ति, ते सर्वे तथा आर्धधातुकाः | तत्र इडागम-विचारः करणीयः |

आर्धधातुकप्रत्ययः परे सति इट्‌— नाम "इ" इति आगमः— कुत्रचित्‌ धातु-प्रत्यययोः मध्ये उपविशति | यथा दृष्टं पूर्वं, धातुः अपि सेट्‌ (स-इट्‌), प्रत्ययः अपि सेट्‌ चेदेव इडागमो भवति | धातुप्रत्यययोः मध्ये एकोऽपि अनिट्‌ (अन्‌-इट्‌) चेत्‌, इडागमो न भवति | द्वयमपि सेट्‌ चेदपि कुत्रचित्‌ अपवादत्वेन इडागमः न भवति; परन्तु द्वयोर्मध्ये एकः अनिट्‌ चेत्‌ इडागमो नैव भवति |

कोऽपि आर्धधातुकप्रत्ययः सेट्— नाम इडागमयोग्यः— न वा इति कथं ज्ञातव्यम्‌ ? एतदर्थं प्रमुखं सूत्रद्वयम्‌ अस्ति |

आर्धधातुकस्येड्वलादेः (७.२.३५) = आर्धधातुक-प्रत्ययस्य आदौ वल्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो भवति | वलादेरार्धधातुकस्येडागमः स्यात्‌ | इट्‌-आगमः टित्‌ अतः आद्यन्तौ टकितौ (१.१.४६) इत्यनेन प्रत्ययस्य आदौ आयाति | वल्‌-प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि | वल्‌ आदौ यस्य स वलादिः बहुव्रीहिः, तस्य वलादेः | आर्धधातुकस्य षष्ठ्यन्तम्‌, इट्‌ प्रथमान्तं, वलादेः षष्ठ्यन्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् वलादेः आर्धधातुकस्य इट्‌ |

नेड्‌ वशि कृति (७.२.८) = कृत्‌-प्रत्ययस्य आदौ वश्‌-प्रत्याहारे अन्यतमवर्णः अस्ति चेत्‌, तस्य इडागमो न भवति | यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन वशि कृति इत्युक्तौ वशादौ कृति (तादृशप्रत्ययः यस्य आदौ वश्‌ स्यात्‌) | वश्‌-प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः, चतुर्थः, पञ्चमश्च सदस्याः, वकाररेफलकाराः च | नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः अथवा श्‌, ष्‌, स्‌, ह्‌ चेत्‌, इडानुकूलः | न अव्ययपदम्‌, इट्‌ प्रथमान्तं, वशि सप्तम्यन्तं, कृति सप्तम्यन्तम्‌, अनेकपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गात् न इट्‌ वशि कृति |

सारांशः एवं यत्‌ आर्धधतुक-कृत्‌-प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः, द्वितीयः सदस्यः, श्‌, ष्‌, स्‌, ह्‌ च इत्येषु अन्यतमः चेत्‌, सः प्रत्ययः इडानुकूलः भवति | धातुः अपि सेट्‌ चेत्‌, सामान्यतया इडागमो भविष्यति |

यथा ण्वुल्‌ अनिट्‌; तृच्‌ सेट्‌ | ण्वुल्‌ धातोः परे चेत्‌, इडागमः न कदापि भवति | तृच्‌ सेट्‌ अस्ति, अतः धातुः अपि सेट्‌ चेत्‌, इडागमः सम्भवति (भवति इति सामान्यनियमः, परन्तु केचन अपवादाः सन्ति) |

अधुना चिन्तनं कुर्वन्तु, एते आर्धधतुक-कृत्‌-प्रत्ययाः सेट्‌ वा अनिट्‌ वा— अनीयर्‍, क्त, तव्यत्‌, क्त्वा, ल्युट्‌, क्तवतु, तुमुन्‌ |

धातुः सेट्‌ वा अनिट्‌ वा इत्यस्य प्रपञ्चः अग्रे आर्धधातुकपाठे अधीयते | परन्तु एतावता अस्माभिः ज्ञातं यत्‌ आर्धधातुक-कृत्‌-प्रत्ययः अनिट्‌ चेत्‌, इडागमः अवश्यं न भवति | प्रत्ययः सेट्‌ चेत्‌, धातुः अपि सेट्‌ चेत्‌ इडागमस्य सम्भावना |

आहत्य कृत्‌-प्रत्ययाः तिङ्‌प्रत्ययाः च द्विविधाः— सार्वधातुकाः आर्धधातुकाः च | यत्र प्रत्ययः सार्वधातुकः, स च प्रत्ययः कृत्‌ वा तिङ्‌ वा भवतु, प्रक्रिया समाना | तथैव प्रत्ययः आर्धधातुकः चेत्‌, स च प्रत्ययः कृत्‌ वा तिङ्‌ वा भवतु, प्रक्रिया समाना | अतः धातुभ्यः प्रत्ययः यत्र विधीयते, तत्र चिन्तनं केवलं द्विविधं— सार्वधातुकम्‌ आर्धधातुकं च | तत्र स च प्रत्ययः कृत्‌ अथवा तिङ्‌, इत्यनेन प्रक्रियायां भेदः नास्ति | अतः सार्वधातुकप्रक्रियायाम्‌ अस्ति लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌, शतृ, शानच्‌— एषां कार्यं समानं विकरणप्रत्ययसहितत्वात्‌ | आर्धधातुकप्रक्रियायाम्‌ अस्ति लृ‌ट्‌, लृङ्‌, लुट्‌, लुङ्‌, लिट्‌ आशीर्लिङ्‌, तृच्‌, ण्वुल्‌, तव्यत्‌, अनीयर्‍, क्तवतु इत्यादयः— एषां कार्यं समानं विकरणप्रत्ययरहितत्वात्‌, इडागमचिन्तनसहितत्वात्‌ च |

इति कृत्‌-प्रत्ययानां समग्रदृष्टिः |

Swarup – August 2014 (Updated July 2016)

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].

०६ - कृत्‌-प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च .pdf (85k) Swarup Bhai, Aug 11, 2016, 1:46 PM v.1