04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH

From Samskrita Vyakaranam
Revision as of 18:20, 8 May 2021 by VNatarajan (talk | contribs) (Copied text and links from Google Sites)

04---aShTAdhyAyI-paricayaH/09---pANinIyavyAkraNa-paricayaH-1---prakaraNa-prakriyA-bhedaH
Jump to navigation Jump to search

अयं विषयः संस्कृतभारत्याः जाह्नवी-शिबिरे उपस्थापितः August 30, 2014; तत्र इदं करपत्रं सर्वेभ्यः दत्तम्‌ | जालस्थानस्य homepage मध्ये आङ्ग्लभाषया यत्‌ लिखितं, तस्मिन्‌ विषये अत्र संस्कृतेन उपस्थापनं कृतम्‌ |


अष्टाध्यायी-ग्रन्थस्य नाम वयं सर्वे श्रुतवन्तः | परन्तु एकं तथ्यम्‌ अतीव न्यूनाः जानन्ति— पाणिनेः व्याकरणं सरलम्‌ | "पाणिनीयव्याकरणं कठिनम्‌" इति मतं बहूनां मनसि वर्तते | इदम्‌ एकम्‌ अन्यथा चिन्तनम्‌ इति पुष्पादीक्षित-महोदयायाः बोधः | वस्तुतः पाणिनेः एव चिन्तनविधिं मनसि निधाय कोऽपि अग्रे सरति चेत्‌, पाणिनीयव्याकरणं सरलम्‌— इति महोदया वदति | तस्याः मनसि पाणिनेः समग्रदृष्टिः वर्तते; इयं समग्रदृष्टिः सर्वत्र प्रसारिता भवतु, इति महोदयायाः जीवनलक्षयम्‌ | अधुना एषा एव व्याकरणसमग्रदृष्टिः इत्यस्य प्रसङ्गे वक्तव्यम्‌ अस्ति, येन भवन्तः अपि अवगन्तुं शक्नुयुः यत्‌ पाणिनीयव्याकरणं सरलम्‌ |


अत्र प्रमुखवार्ता अध्ययनविधिः | सङ्गणके यावती सूचना स्थाप्यते, तावती स्वीक्रियते तेन, चिन्ता नास्ति | परन्तु मनुष्यस्य मस्तिष्कः न तथा | लौकिकी सूचना— तत्र सीमा अस्ति | सूचनायाः आयोजनशैलीम्‌ अवलम्ब्य मनुष्यः अधीते | सूचनायोजनं समीचीनं चेत्‌, शीघ्रमेव अधिकं शिक्षते | गणितविषये भवतु, विज्ञानविषये भवतु, सङ्गीतविषये भवतु, कस्मिनपि विषये सूचनायोजनं सम्यक्‌ चेत्‌, शीघ्रमेव अधिकं शिक्षते मनुष्यः | सूचनायोजनं सम्यक्‌ नास्ति चेत्‌, मनुष्यः मन्दं मन्दं न्यूनमेव अनुबुध्यते |


तर्हि शिक्षणविधिः सम्यक्‌ स्यात्‌ इति सिद्धान्तः | शिक्षणविधिः सम्यक्‌ चेत्‌, मनुष्यस्य क्षमता तेन वर्धिता भवति, तस्याः च वर्धित-क्षमतायाः पूर्तिः अपि तेन विधिना भवति | अनया दृष्ट्या पाणिनिः अत्युत्तमः अध्यापकः | तस्य अष्टाध्यायी-ग्रन्थस्य सूचनायोजनशैली विलक्षणा | कथं विलक्षणा इति चेत्‌, संस्कृतभाषायाः आकृतिः तु बृहती; अस्याः बृहदाकृत्याः प्रकटीकरणार्थं यत्‌ विशिष्टज्ञानायोजनम्‌ आवश्यकम्‌, अष्टाध्याय्याः तादृशम्‌ एव एकं विशिष्टज्ञानायोजनम्‌— “systems approach” नाम्ना |


पाणिनेः पूर्वं बहवः वैयाकरणाः आसन्‌, तैः विरचिताः ग्रन्थाश्च आसन्‌ | परन्तु एकवारं यदा अष्टाध्यायी आगता, तदा अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः | किमर्थम्‌ ? अष्टाध्यायी-ग्रन्थः सम्पूर्णः इति सत्यम्‌, तस्य लघुत्वं वर्तते इत्यपि सत्यम्‌— परन्तु कारणेषु अन्यतमम्‌ इदम्‌ अवश्यम्‌, विशालविषयस्य कृते एका विलक्षणा व्यवस्था |


अद्य येषां वृत्तिः संस्कृतव्याकरणमेव, तेषां सविधे अधिकसमयश्च अधिकं प्रशिक्षणञ्च अतः अष्टाध्याय्याः “systems approach” यद्यपि मनसि न स्यात्‌, तथापि ते बहु सङ्घर्षं कृत्वा, बहु समयं यापयित्वा व्याकरणाध्ययने सफलाः भवन्ति | परन्तु अस्माकं कृते, येषाम्‌ अन्या वृत्तिः, अवकाशः न्यूनश्च, पाणिनेः “systems approach” अतिमहत्त्वपूर्णम्‌ | अनेन “systems approach” इति शिक्षणविधिना, अध्ययनमार्गे तर्कः अधिकः, कण्ठस्थीकरणम्‌ अतीव न्यूनम्‌ | अपि च वृत्तिः या काऽपि भवतु नाम, अनेन मार्गेण सर्वेषां प्रगतिः शीघ्रमेव भवति इति निश्चितम्‌ |


अस्मिन्‌ पाठद्वये पाणिनेः अध्यापनविधिः “systems approach” कथम्‌ इत्यस्य बोधनार्थं द्वौ बिन्दू अवलोक्येते—

१) प्रकरण-प्रक्रिया-भेदः

२) अष्टाध्याय्याः मानचित्रम्‌


A. वृत्तान्तः—कार्यानस्य निर्माणम्‌


१) Assembly Line Model

- क्रमेण आवल्यां भिन्नैः कर्मचारिभिः यानस्य एकैकस्य भागस्य निर्माणम्‌ | एकस्य कर्मचारिणः एकम्‌ एव कार्यं, यत्‌ तेन कर्मचारिणा वारं वारम् आदिनं क्रियते | आनन्देन तस्य कर्मचारिणः तस्मिन्‌ कार्ये नैपुण्यं जायते | शीघ्रमेव सम्यक्तया च तेन निर्धारितं कार्यं सिध्यति | कोऽपि piston निर्माति, कोऽपि steering wheel निर्माति, कोऽपि radiator निर्माति | एवं च यानस्य प्रत्येकं भागः assembly line मध्ये पृथक्‌ स्थले, पृथक्‌ जनेन निर्मीयते | तदा अन्ते सर्वं सङ्गृह्य कार्‍-यानं भवति | एवं रीत्या यन्त्रागारं सम्यक्तया प्रवर्तते |


२) एकस्मिन्‌ प्रकोष्ठे पूर्णयानस्य निर्माणम्‌

- आरम्भतः अन्तपर्यन्तम्‌, एकेन कर्मचारिणा पूर्णयानं निर्मीयते | सः कर्मचारी स्वयं एकां घण्टां यावत्‌ tires, तदा एकां घण्टां यावत्‌ engine, तदा तथैव वातानुकूलनम्‌, exhaust, आसनानि, काचम्‌ इत्यादिकम्‌ | अनेन तस्य नैपुण्यं कस्मिनपि कार्ये न जायते | अतः कार्यं मन्दं, कष्टकरं, ससङ्घर्षमेव सिध्यति | यन्त्रागारं सम्यक्तया न प्रवर्तते इति तु निश्चितम्‌ |


तथैव व्याकरणक्षेत्रे


उपरि पूर्णम्‌ एकं यानं निर्मीयते; व्याकरणक्षेत्रे क्रियापदनिर्माणम्‌ इति उदाहरणं स्वीक्रियताम् | संस्कृते मूलं धातुः इति ज्ञायते; क्रियापदस्य निर्माणे महान्‌ प्रपञ्चः | अत्र यन्त्रागारे सर्वेषां दशानां धातुगणानां सर्वे दश लकाराः निर्मीयन्ते |


१) Assembly Line Model

- क्रमेण आवल्यां भिन्नेषु स्थलेषु भाषायाः एकैकस्य लकारस्य निर्माणम्‌ | Assembly line इत्यस्य प्रत्येकस्मिन्‌ स्थले एकम्‌ एव कार्यं— एकः लकारः—यः वारं वारम् क्रियते | आनन्देन तस्मिन्‌ कार्ये नैपुण्यं जायते | शीघ्रमेव सम्यक्तया च निर्धारितं कार्यं सिध्यति | यथा एकस्मिन्‌ स्थले लट्‌-लकारः एव निर्मीयते, सर्वेषां दशानां गणानाम्‌, द्विसहस्रस्य धातूनाम्‌ | तत्र सामान्यनियमाः, अपवादाश्च सर्वेषां लटः कृते एव | लट्‌-विषये नैपुण्यं शीघ्रमेव प्रकटम्‌ | Assembly line इत्यस्य अपरस्मिन्‌ स्थले लृट्‌, पुनः अपरस्मिन्‌ स्थले लिट्‌ इत्यादिकम्‌ | एकैकस्मिन् स्थले एक एव लकारः, द्विसहस्रस्य धातूनां कृते | एवं कृत्वा सर्वे कर्मचारिणः स्वकार्ये निपुणाः, आनन्देन सर्वाणि क्रियापदानि निर्मितानि च |


२) भाषायन्त्रागरस्य एकस्मिन्‌ प्रकोष्ठे एकस्य धातुगणस्य सर्वे दश लकाराः निर्मीयन्ते

एकस्मिन्‌ प्रकोष्ठे, एकस्मिन्‌ समये एकस्य घातुगणस्य सर्वेषां लकाराणां निर्माणम्‌ | भू-धातोः एकं निमेषं यावत्‌ लट्‌, तदा एकं निमेषं यावत्‌ लिट्‌, तदा लुट्‌, तदा लृट्‌, तदा लोट्‌ | प्रत्येकं लकारस्य प्रक्रिया भिन्ना ! यथा tire-निर्माणं engine-निर्माणं च भिन्नम्‌, तथा | अतः कार्यं मन्दं, कष्टकरं, ससङ्घर्षमेव सिध्यति | यन्त्रागारं सम्यक्तया न प्रवर्तते इति तु निश्चितम्‌ |


अष्टाध्याय्याः मार्गः उपर्युक्तः प्रथमविकल्पः | सिद्धान्तकौमुद्याः मार्गः उपर्युक्तः द्वितीयविकल्पः |


अष्टाध्याय्याः मार्गः सर्वोत्तमः | लटि यावन्तः नियमाः सन्ति सर्वान्‌ जानातु | भवति, माति, ददाति, नश्यति, आप्नोति, लिखति, भिनत्ति, करोति, क्रीणाति, चोरयति—आनन्देन जानीयाम | "भवति" इति जानीमश्चेत्‌, सौकर्येण अपरेषां धातूनां लट्‌-रूपाणि ज्ञातुं शक्यानि | यतोहि यन्त्रं समानम्‌ | परन्तु लिटि बभूव, उवाच— तत्र यन्त्रं भिन्नम्‌, प्रक्रिया भिन्ना; अतः लिटः कार्यं यन्त्रागारस्य अपरस्मिन्‌ स्थले क्रियते |


सिद्धान्तकौमुद्यां क्रमेण एकस्मिन्‌ स्थले "भवति, बभूव, भविता, भविष्यति, भवतु, अभवत्‌" इत्येषां निर्माणम्‌ | अनेन एकस्य अनन्तरं भिन्ना प्रक्रिया | प्रत्येकं प्रक्रिया पृथक्‌ ! महत्‌ कष्टम्‌ ! अतः खलु जनाः चिन्तयन्ति यत्‌ व्याकरणं कठिनम्‌ |

सारांशः एवम्— एकस्मिन्‌ स्थले लट्‌-लकारस्य सर्वेषां धातूनां भवतु, न तु भू-धातोः सर्वेषां लकाराणाम्‌ | (लट्‌ एकं यन्त्रम्‌; वारं वारं प्रयुक्तं चेत्‌ सरलम्‌ | विपरीतं भवति चेत्‌ अतिकठिनम्‌ |)


प्रकरण-ग्रन्थः, प्रक्रिया-ग्रन्थः


अष्टाध्यायी प्रकरण-आधारितो ग्रन्थः | सिद्धान्तकौमुदी प्रक्रिया-आधारितो ग्रन्थः | द्वयोरपि ग्रन्थयोर्महत्त्वं, द्वयोरपि ग्रन्थयोर्मूल्यम्‌ | परन्तु अध्ययनमार्गे द्वयोः भूमिका भिन्ना | पाणिनिः मार्गदर्शकः | तस्य अष्टाध्याय्यां यः शिक्षणविधिः वर्तते, सः मार्गः | पाठ्यक्रमः अस्मात्‌ आयाति | भट्टोजिदीक्षितविरचिता सिद्धान्तकौमुदी प्रक्रिया-ग्रन्थः; प्रक्रिया नाम पदस्य व्युत्पत्त्यर्थम्‌ आरम्भतः व्युत्पन्नपदपर्यन्तं यः मार्गः, तस्य प्रदर्शनम्‌ | प्रक्रिया अपि ज्ञातव्या अतः अस्य "reference text” इति रूपेण बहु मूल्यम्‌ | द्वयोरपि मूल्यम्‌; कार्यं भिन्नम्‌ |


B. इतिहासः


पाणिनिना अष्टाध्यायी विरचिता प्रायः common era (CE) इत्यस्मात्‌ पञ्चशतं वर्षाणि प्राक्‌ (fifth century BCE) | पाणिनेः पूर्वं बहवः वैयाकरणाः आसन्‌, तैः विरचिताः ग्रन्थाश्च आसन्‌ | परन्तु एकवारं यदा अष्टाध्यायी आगता, तदा अन्ये सर्वे ग्रन्थाः शनैः त्यक्ताः इत्युक्तम्‌ | बहुकालपर्यन्तं व्याकरणप्रशिक्षवः पूर्णाम्‌ अष्टाध्यायीं कण्ठस्थीकुर्वन्ति स्म; शिक्षणविधिः कण्ठस्थीकरणम्‌ | तेषु दिनेषु पुस्तकं लिखितरूपेण प्राप्यते स्म इति शङ्का; मुद्रणयन्त्रं नासीत्‌ खलु ! अतः चतुस्सहस्रं सूत्रकण्ठस्थीकरणम्‌ इति मार्गप्रचलनम्‌ | गच्छता कालेन अयं मार्गः व्यावहारिको न इति केषाञ्चित्‌ मतम्‌, अतः एकादश्यां शताब्द्यां (1100 CE) प्रक्रिया-ग्रन्थानाम्‌ उदयः | अनेके तादृशाः ग्रन्थाः लिखिताः; एषां ग्रन्थानां शिखरं प्राप्तं सप्तदश्यां शताब्द्यां यदा भट्टोजिदीक्षितेन वैयाकरणसिद्धान्तकौमुदी प्रणीता |


अष्टाध्याय्यां चतुस्सहस्रं सूत्राणि; वैयाकरणसिद्धान्तकौमुद्याम्‌ अपि तानि एव चतुस्सहस्रं सूत्राणि | परन्तु सिद्धान्तकौमुद्याम्‌ अष्टाध्याय्याः सूत्रक्रमः त्यक्तः; स्थाने पदानां व्युत्पत्त्यर्थं यथासङ्गं सूत्रस्य आनयनम्‌ | तस्मात्‌ आरभ्य अद्यपर्यन्तं प्रचलितो विधिः अयमेव |


प्रक्रियाग्रन्थे अष्टाध्याय्याः कण्ठस्थीकरणस्य आवश्यकता न, अतः जनेभ्यः रोचते स्म | तथापि अत्र बहु काठिन्यम्‌ | यथा उक्तम्‌, एकस्मिन्‌ प्रकोष्ठे सर्वेषां रूपाणां निर्माणम्‌ इत्यनेन नैपुण्यं मन्दं मन्दं जायते | अन्यच्च पाणिनीयसूत्रं स्वस्य मूलक्रमे नाम मूलवातावरणे नास्ति इति कारणतः अनुवृत्तिः न अवगम्यते | अग्रे अस्मिन्‌ विषये वक्ष्यते | एतत्‌ कारणद्वयमपि विहाय काठिन्यस्य अन्यानि बहूनि कारणानि सन्ति | तस्य फलम्‌ इदं यत्‌ केचन एव जनाः—ये पूर्णतया समर्पिताः—अस्मिन्‌ मार्गे गन्तुम्‌ अर्हन्ति स्म | सामान्यजनानां कृते एतादृशी सम्भावना नास्ति अतः खलु पश्यामः यत्‌ बहूनाम्‌ इच्छा वर्तते, बहवः आरभन्ते परन्तु आधिक्येन सर्वे मार्गं त्यजन्ति | येषां जीवने अन्यानि कार्याणि सन्ति, तेषां कृते अपि च वस्तुतः सर्वेषाम्‌ कृते अयं मार्गः कष्टकरः |


अधुना पुष्पादीक्षित-महोदया पुनः अष्टाध्याय्याः मूलमार्गम्‌ आनीतवती अस्ति | परन्तु प्राचीनकालस्य कण्ठस्थीकरण-शैली इति न; अष्टाध्याय्याः यः अन्तर्वर्ती तर्कः अस्ति तस्य पूर्णतया उपयोगं कृत्वा पाणिनेः समग्रदृष्टिम्‌ उद्घाटयति | अनेन येषां वृत्तिः संस्कृतं नास्ति येषां च वृत्तिः संस्कृतम्‌ अस्ति, सर्वेषां कृते पाणिनीयव्याकरणं सरलम्‌ अभवत्‌ | पण्डिताः सामान्यजनाः च, सर्वे सौकर्येण ज्ञातुं योग्याः |


आहत्य प्रायः प्राचीनकालात्‌ अद्यपर्यन्तं शास्त्रीय-व्याकरणपाठः परिगणितेषु गुरुकुलेषु प्रवर्तमानः | तेषु स्थलेषु अनेकवर्षाणांम्‌ अध्ययनानन्तरमेव कश्चन बोध उदेति स्म | अधुना प्रथमवारम्‌ एका पद्धतिः आविष्कृता यस्या द्वारा साधारण-मनुष्याः अपि बोद्धुम्‌ अर्हन्ति | वस्तुतः चिन्ताधारा पाणिनेः एव नान्यस्य | परन्तु माता दीक्षितपुष्पा अनया सरलरीत्या उपस्थापयति येन सर्वेषां मनसि ज्ञानप्रकाशः शीघ्रमेव प्रकटो भवति | This is a revolution in Samskrita Grammar | संस्कृतव्याकरण-शिक्षणे अयं वस्तुतः विप्लवः |

तर्हि अधुना पाणिनीयव्याकरणम्‌ आरभामहै !


C. अनुवृत्तिः


अष्टाध्याय्याम्‌ अनुवृत्तिः नाम सिद्धान्तः सर्वत्र केन्द्रीभूतः | अनेन सूत्राणाम्‌ अर्थपूरणं भवति | लौकिकम्‌ उदाहरणं दीयते चेत्‌ स्पष्टं स्यात्‌—द्वयोर्जनयोः सम्भाषणम्‌ | रामः वदति "अहम्‌ आपणं गच्छामि" | श्यामः वदति "अहम्‌ अपि" | वयं द्वयोः सम्भाषणं श्रुत्वा अवगच्छामः यत्‌ श्यामस्य आशयः "अहम्‌ अपि आपणं गच्छामि" इति | यद्यपि श्यामः केवलम्‌ "अहम्‌ अपि" इत्यवदत्‌, तथापि वयं तस्य अर्थं पूरयामः मनसि | तादृशम्‌ अर्थपूरणं पाणिनिः इच्छति सूत्रेषु | यानि पदानि न उक्तानि यतः पूर्वतनसूत्रेषु दत्तानि, तानि अनुवृत्तयः इत्युच्यन्ते |


अधुना, तस्मात्‌ एव उपरितनात्‌ सम्भाषणात्‌ यदि वयं केवलम्‌ "अहम्‌ अपि" शृण्मः, तर्हि कथं वा तस्य अर्थं ज्ञातुं शक्नुयाम ? "अहम्‌ अपि" इत्येव शृण्मः चेत्‌, वाक्यस्य पूरणं कर्तुं न शक्ष्यामः इति कारणतः "अहम्‌ अपि" इत्यस्य अर्थः न ज्ञायते |


तथैव अष्टाध्याय्याम्‌ एकं सूत्रं वर्तते— लिट्‌ च (३.४.११५) | श्यामस्य वाक्यम्‌ "अहम्‌ अपि" इव अस्ति | लिट्‌ च इत्युत्के "लिट्‌ अपि तथा" | अस्तु, किन्तु "तथा" इत्युक्ते किम्‌ ? तस्मात्‌ प्राक्‌ यत्‌ सूत्रं पाणिनिना दत्तं, तत्‌ अस्माकं पुरतः नास्ति चेत्‌, कथं वा अवगन्तुं शक्नुयाम ?


यदा सम्भाषणं पूर्णम्‌ अस्ति, तदा सौकर्येण श्यामस्य वाक्यम्‌ बुद्धम्‌—

रामः— "अहम्‌ आपणं गच्छामि" |

श्यामः— "अहम्‌ अपि" |


तथैव सूत्रप्रसङ्गे—

आर्धधातुकं शेषः (३.४.११४)

लिट्‌ च (३.४.११५)


सूत्रसङ्ख्यां दृष्ट्वा ज्ञायते यत्‌ आर्धधातुकं शेषः पूर्वसूत्रम्‌ अस्ति; साक्षात्‌ अनन्तरम्‌ परसूत्रम्‌ लिट्‌ च इति | अनेन बुद्धं यत्‌ लिट्‌ च इत्युक्ते "लिट्‌ अपि आर्धधातुकः" | इदानीम्‌ आर्धधातुकः नाम कः इति अस्माकं विषयः नास्ति; किन्तु तर्कः स्पष्टः खलु— "लिट्‌ अपि आर्धधातुकः" !


अनेन प्रकटम्‌ अस्ति यत्‌ सूत्राणां मूलक्रमे पठामः चेत्‌, महान्‌ लाभः | अष्टाध्याय्याम्‌ एव मूलक्रमः वर्तते | सिद्धान्तकौमुद्याम्‌ अपि तानि एव चतुस्सहस्रं सूत्राणि; परन्तु सिद्धान्तकौमुद्याम्‌ अष्टाध्याय्याः सूत्रक्रमः त्यक्तः |

परोक्षे लिट्‌ (SK# २१७१) [अष्टाध्यायी ३.२.११५]

लिट्‌ च (SK# २१७२) [अष्टाध्यायी ३.४.११५]


सिद्धान्तकौमुद्यां लिट्‌ च इत्यस्मात्‌ पूर्वम्‌ अस्ति परोक्षे लिट्‌; अनेन किमपि न अवगम्यते | लिट्‌ च इत्यस्य कोऽर्थः इति नैव ज्ञायते; अन्धकारे स्मः | अनेन द्वितीयः सङ्केतः प्राप्तः किमर्थम्‌ अष्टाध्यायीक्रमम्‌ अनुसृत्य पाठः करणीयः | प्रथमः सङ्केतः “assembly line model” इति, येन वारं वारं समानकार्यं कृत्वा बोधः नैपुण्यं च शीघ्रमेव जायेते | द्वितीयः सङ्केतः अनुवृतिः |


D. प्रकरणं प्रक्रिया च


अष्टाध्यायी प्रकरण-आधारितो ग्रन्थः; सिद्धान्तकौमुदी प्रक्रिया-आधारितो ग्रन्थः | प्रकरणं प्रक्रिया चेत्यनयोर्भेदः कः इति अस्माभिः बोध्यम्‌ | पुष्पादीक्षित-महोदया सदा पाकशालायाः उदाहरणं ददाति | भोजनस्य निर्माणार्थं सामग्री आवश्यकी | तण्डुलः, जलम्‌, शाकः, पिष्टम्‌, हरिद्रा, आर्द्रकम् इत्यादिकम्‌—इदं सर्वं भोजनस्य सामग्री | पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते; पृथक्‌-पृथक्‌ कोशेषु भवति | शाकः पृथक्‌ कोशे, पिष्टं पृथक्‌ कोशे, तण्डुलः पुनः पृथक्‌ कोशे | सर्वा सामग्री एकस्मिन्‌ एव कोशे एकत्र स्थाप्यते चेत्‌, अव्यवस्था भवति खलु; अतः सम्यक्तया, सावधानतया पृथक्‌ पृथक्‌ कोशेषु एकैकं वस्तु स्थाप्यते |


अष्टाध्यायी अपि तथा—भाषायाः पाकशाला | यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं, सर्वं अस्मिन्‌ ग्रन्थे अस्ति | परन्तु एकत्र न; श्रेणीम्‌ अनुसृत्य पृथक्‌ पृथक्‌ कोशेषु स्थाप्यते | प्रत्येकं कोशस्य नाम "प्रकरणम्‌" इति | णत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम्‌ इत्यादिकम्‌ |


भोजनस्य निर्माणार्थं केवलं सामग्री आवश्यकी इति न; मार्गनिर्देशोऽपि आवश्यकः | ओदनं निर्मातुं सर्वप्रथमं तण्डुलस्य प्रक्षालनं, तदा जले स्थापनं, तदा जलस्य क्वथनम्— एतादृशी सूचना अपेक्षिता | इयं पाककृतिः इति वदामः |


प्रक्रिया


यथा भोजननिर्माणविषये पाककृतिः, तथा भाषाक्षेत्रे प्रक्रिया | पदस्य निरमाणार्थं कानि सोपानानि सन्ति अपि च केन क्रमेण इति सूचना प्रक्रिया | जि + अ + ति → जयति— अस्य कार्यस्य कृते कानि सूत्राणि अपेक्षितानि, केन क्रमेण च इति प्रक्रिया |


जि + लट्‌ इति विवक्षा; वर्तमाने लट्‌ (३.२.१२३) लस्य (३.४.७७), शेषे प्रथमः (१.४.१०८) तिप्तस्झिसिप्थस्थमिब्वस्मस्तातांझथासाथांध्वमिड्वहिमहिङ् (३.४.७८)

जि + तिप्‌ हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९)

जि + ति कर्तरि शप्‌ (३.१.६८)

जि + शप्‌ + ति लशक्वतद्धिते (१.३.८), हलन्त्यम्‌ (१.३.३), तस्य लोपः (१.३.९)

जि + अ + ति तिङ्‌-शित्‌सार्वधातुकम्‌ (३.४.११३), सार्वधातुकार्धधातुकयोः (७.३.८४)

जे + अ + ति एचोऽयवायावः (६.१.७७) (एकारस्य स्थाने अय्‌)]

ज्‌ + अय्‌ + अ + ति → वर्णानां मेलने → जयति इति क्रियापदं निष्पन्नम्‌ |


अत्र एका प्रक्रिया प्रदर्शिता | जयति इति पदं कथं निर्मीयते इति प्रदर्शितम्‌ | सूत्राणां सङ्ख्याः दृश्यन्ताम्‌; इमानि सूत्राणि विभिन्नेभ्यः अध्यायेभ्यः पादेभ्यश्च स्वीकृतानि इति कारणतः तेषां प्रक्रिया-सन्दर्भ-पठनेन सूत्रार्थो नैव अवगतः अस्माभिः |


प्रक्रियायाः किञ्चन फलं तु अस्त्येव; अनेन पदनिर्माणक्रिया बुद्धा | परन्तु सूत्रस्य अवगमनार्थम्‌ अस्माकं क्लेशो भवति यतः यथा उक्तं पूर्वम्‌, सूत्रं स्वयं सम्पूर्णं वाक्यं न | सूत्रस्य पूरणार्थं वाक्यम्‌ अपेक्षितम्‌; तच्च वाक्यं न प्राप्यते प्रक्रियायाम्‌ अपि तु प्रकरणे एव |


प्रकरणम्‌


अष्टाध्यायी प्रकरणस्य आधारेण विरचितः | एकस्मिन्‌ प्रकरणे— यथा णत्वप्रकरणं, द्वित्वप्रकरणं वा—वारं वारम् एकप्रकारकं कार्यं भवति | द्वित्वप्रकरणस्य उदाहरणं स्वीक्रियताम्‌ | द्वित्वप्रकरणे धातोः द्वित्वं सिध्यति (दा → दादा → ददा → ददाति) | पाणिनीयव्याकरणे पञ्चसु स्थलेषु द्वित्वं भवति—श्लौ (जुहोत्यादिगणे), लिटि, चङि (लुङ्‌-लकारे), सनि, यङि च | एषां पञ्चानां कृते द्वित्वप्रकरणं वर्तते | तत्र द्वादश सूत्राणि सन्ति (६.१.१ – ६.१.१२) यत्र सर्वं द्वित्वसम्बद्धकार्यं सिद्धम्‌ | अस्य प्रकरणस्य पठनेन महान्‌ लाभः अयं यत्‌ अस्माकं द्वित्वविषये नैपुण्यं जायते—भाषायां यत्र यत्र द्वित्वं भवति, तत्र तत्र आनन्देन कर्तुं शक्नुमः |


प्रकरणस्य द्वितीयलाभः यत्‌ तत्र अनुवृत्तिः सर्वत्र अनुस्यूता, अतः सूत्रावगमनं सुकरम्‌ | अत्र द्वित्वप्रकरणे प्रथमसूत्रम्‌— एकाचो द्वे प्रथमस्य (६.१.१) | इमानि त्रीणि पदानि एकाचो, द्वे, प्रथमस्य एकैकस्मिन्‌ सूत्रे (६.१.१२-पर्यन्तम्‌‍) आगत्य उपविशन्ति | यतः अस्मिन्‌ प्रकरणे तुल्यं कार्यं (द्वित्वम्‌) वारं वारं क्रियते, अतः वारं वारं समानशब्दानाम्‌ आवश्यकता भवति एषु द्वादशसु सूत्रेषु |


पाणिनिः सूत्रस्य लघुत्वम्‌ इच्छति | अतः यत्‌ पदं दत्तं पूर्वस्मिन्‌ सूत्रे, तत्‌ पुनः अग्रिमे सूत्रे साक्षात्‌ न दीयते; पाठकैः अवगम्यते यत्‌ सः अर्थः पुनः आयाति तस्मिन्‌ सूत्रेऽपि | इयम्‌ अनुवृत्तिः इति पूर्वम्‌ उक्तम्‌ | एवं रीत्या यदा अष्टाध्यायी-क्रमेण सूत्राणि पठामः, तदा सौकर्येण सूत्राणि पूरयितुं शक्नुमः येन प्रत्येकं सूत्रं पूर्णं वाक्यं भवेत्‌ | अनेन सूत्रार्थः मनसि स्फुरितो विद्यते |


E. इत्‌संज्ञा-प्रकरणम्‌


अत्र एकस्य प्रकरणस्य पूर्णम्‌ उदाहरणं दीयते | अनेन प्रकरणं कथं कार्यं करोति इति दृश्यते | अन्यच्च इत्‌-संज्ञा नाम का इति अस्माभिः ज्ञायते |


पाणिनीयव्याकरणे मूलधातुषु, प्रत्ययेषु, आदेशेषु, आगमेषु च बहुवारं केचन वर्णाः उपस्थिताः ये न तिष्ठन्ति | इमे वर्णाः इत्‌-संज्ञकाः अथवा अनुबन्धाः इत्युच्यन्ते | इत्‌-संज्ञा एकं चिह्नम्‌ अस्ति यस्य अर्थः अयमेव यत्‌ अस्य वर्णस्य लोपो भविष्यति | केषां केषां वर्णानाम्‌ इत्‌ संज्ञा भवति इति ज्ञायते इत्‌-संज्ञा-विधायक-सूत्रैः | अष्टाध्याय्यां कश्चन प्रकरणं वर्तते इत्‌-संज्ञा नाम्ना, येन सर्वम्‌ इत्‌-संज्ञाविधायक-कार्यं क्रियते | प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात्‌ (१.३.२) आरभ्य, अष्टमसूत्रपर्यन्तम्‌ (१.३.८) ‌इत्‌-संज्ञा प्रकरणम्‌ इति |


प्रश्नः उदेति अनुबन्धाः किमर्थं युज्यन्ते पाणिनिना यदि तेषां लोपः भवति एव ? अनुबन्धाः अपगच्छन्ति, परन्तु तैः सङ्केतः दीयते कार्यार्थम्‌ | यथा कश्चन प्रत्ययः अस्ति "शप्‌" | तस्य शकारस्य इत्‌-संज्ञा, पकारस्य च इत्‌-संज्ञा | अनुबन्धलोपानन्तरम्‌ "अ" इत्येव अवशिष्यते | शकारपकारयोः इत्‌-संज्ञा इत्यनेन धातोः स्वरपरिवर्तनं भवति | भू + शप्‌ + ति → अनुबन्धलोपे → भू + अ + ति → शप्‌-प्रत्ययस्य कारणेन ऊकारः ओकारः भवति (गुणः) → भो + अ + ति → सन्धिः → भव + ति → भवति |


तर्हि क्रियापदविषये मूलधातुः कः, अपि च अनुबन्धानां निष्कासनानन्तरं किम्‌ अवशिष्यते इति प्रथमम्‌ अवगन्तव्यम्‌ | परं तस्मात्‌ धातोः विहितः यः प्रत्ययः अस्ति, तस्मिन्‌ अपि अनुबन्धाः के, किं च अवशिष्यते | तदा एव अग्रे क्रियापदं निर्मातुं शक्नुयाम | सुबन्तपदविषये (नामपदविषये) अपि तथा; प्रथमं कार्यम्‌ अस्ति प्रकृति-प्रत्यययोः अनुबन्धलोपः | तदा एव पदनिर्माणम्‌ |


वृत्तान्ते डुपचँष्‌ (पाके) इति मूलस्वरूपं, पचति इति क्रियापदम्‌ | तत्र सामान्यतया धातुः "पच्‌" इति वदामः; परन्तु मूलतया डुपचँष्‌ इति स्वरूपं वर्तते | तत्र केचन अनुबन्धाः सन्ति— आरम्भे डु, अन्ते षकारः अपि च चकारोत्तरवर्ती अँकारः | चकारात्‌ उत्तरं वर्तते इति चकारोत्तरवर्ती | वर्ती इत्यस्य प्रातिपदिकं वर्तिन्‌, वृत्‌ धातोः | त्रयाणाम्‌ अपि‌ अनुबन्धानाम्‌ इत्‌-संज्ञा भवति, परं लोपः भवति; पच्‌ इत्येव अवशिष्यते | ततः परम्‌ अस्माभिः प्रत्ययः कः इति चिन्तनीयं, यथा तव्यत्‌ | तत्र तकारस्य इत्‌-संज्ञा लोपः च, तव्य इति अवशिष्यते | तर्हि पच्‌ + तव्य इति स्थितिः | एतादृश्यां स्थित्याम्‌ इदानीं कार्यस्य आरम्भः भवति, येन पक्तव्यम्‌ इति रूपं निष्पद्येत |


एवमपि धेयं, केचन धातवः प्रत्ययाः अपि तादृशाः सन्ति, येषु अनुबन्धाः न भवन्ति | यथा भू धातुः, भू सत्तायाम्‌— तत्र कोऽपि अनुबन्धः नास्ति | प्रत्ययेषु यथा "अ" प्रत्ययः, तत्र अनुबन्धः नास्ति |


उपदेशेऽजनुनासिक इत् (१.३.२) इति प्रथमम्‌ इत्‌-संज्ञा-विधायकं सूत्रम्‌ | उपदेशावस्थायां यः अच्‌ अनुनासिकः अस्ति, तस्य इत्‌-संज्ञां करोति इदं सूत्रम्‌ | उपदेशः नाम धातुः, प्रत्ययः, आदेशः, आगमो वा | अनुनासिकः अच्‌ नाम यस्मिन्‌ अचि ँ इति अनुनासिकचिह्नम्‌ अस्ति | बृहद्धातुकुसुमाकरे पश्यन्ति चेत्‌, धातुषु न कुत्रापि अनुनासिकचिह्नं दृश्यते | किमर्थम्‌‍ इत्युक्ते एकं पूर्णं स्वरविज्ञानं वर्तते; प्राचीनकाले इदं विज्ञानं ज्ञायते स्म | अद्य प्रायः इदं विज्ञानं न लभ्यते अतः अस्मिन्‌ आधुनिकयुगे, स्वरविषये अस्माकं क्लेशः | तद्विज्ञानस्य अभावे बृहद्धातुकुसुमाकरेऽपि अनुनासिकचिह्नानि न दत्तानि | किन्तु वयं फलं दृष्ट्वा अनुमानं कर्तुं शक्नुमः यत्र अनुनासिकचिह्नं स्यात्‌ | नाम यत्र मूलधातौ कश्चन स्वरः आसीत्‌ यत्‌ लौकिकधातौ नास्ति, तत्र अवगम्यते यत्‌ सः स्वरः अनुनासिकः आसीत्‌ अतः उपदेशेऽजनुनासिक इत् इति सूर्त्रेण तस्य लोपः जातः | अद्य इदम्‌ इत्थम्‌ इति वक्तुं कश्चन अन्योपायः नास्ति; ऊहया एव बोध्यम्‌ | यथा गम्‌ऌ धातुः, अत्रः ऌ इति अच्‌ वर्णः अनुनासिकः अस्ति अतः उपदेशेऽजनुनासिक इत् इति सूत्रेण तस्य इत्‌-संज्ञा भवति; तस्य लोपः इत्यनेन लोपः; गम्‌ इति अवशिष्यते | ऌ अनुनासिकः अस्ति इति कथं ज्ञातम्‌ ? फलं दृष्ट्वा | प्रक्रियायां लोके च गम्‌ इत्येव दृश्यते अतः ऌ इत्यस्य लोपः जातः; लोपः जातः चेत्‌ उपदेशेऽजनुनासिक इत् इत्येव सूत्रेण अर्हति स्म, अतः ऌ अनुनासिकः स्यात्‌ इति अनुमानम्‌ अस्माकम्‌ |


(एतदपि धेयं यत्‌, यदि स्वरः अपरेण वर्णेन सह उपस्थितः, तर्हि कुत्रचित् तयोः एकं "unit” कृत्वा‌ अपरेण सूत्रेण इत्‌-संज्ञा क्रियेत; यथा डुपचष्‌ इत्यस्मिन्‌ डकारोत्तरवर्ती यः उकारः अस्ति, सः उकारः अनुनासिकः नास्ति | तत्र "डु" इत्येव एकम्‌ unit अस्ति अतः अपरेण सूत्रेण इत्‌-संज्ञा साध्येत |)


तर्हि प्रथमं कार्यम्‌ इत्‌-संज्ञा इति | तदर्थं षट्‍ सूत्राणि सन्ति; तेषु त्रीणि सूत्राणि धातुषु अपि प्रत्ययेषु अपि, नाम सर्वेषु उपदेशेषु प्रयुज्यन्ते; त्रीणि केवलं प्रत्ययेषु एव प्रयुज्यन्ते, न धातुषु |


प्रत्ययेषु अपि, धातुषु अपि—

१. उपदेशेऽजनुनासिक इत् (१.३.२; SK ३) = उपदेशे अच्‌ अनुनासिकः इत् | नाम कस्मिन्‌ अपि उपदेशे यः कोऽपि अच्‌-वर्णः अनुनासिकः अस्ति, तस्य इत्‌-संज्ञा भवति | उपदेशे सप्तम्यन्तम्‌, अच्‌ प्रथमान्तम्‌, अनुनासिकः प्रथमान्तम्‌, इत्‌ प्रथमान्तम्‌, अनेकपदमिदं सूत्रम्‌ | अनुवृत्ति-सहित-सूत्रम्— उपदेशे अच्‌ अनुनासिकः इत् | (अनुवृत्तिः नास्ति |)

२. हलन्त्यम्‌ (१.३.३, SK १) = उपदेशे अन्त्यं हल्‌ इत्‌ स्यात्‌ | नाम यस्य कस्य अपि उपदेशस्य अन्ते हल्‌ वर्णः भवति, तस्य हल्‌-वर्णस्य इत्‌-संज्ञा भवति | हल्‌ प्रथमान्तम्‌, अन्त्यं प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहित-सूत्रम्— उपदेशे हल्‌ अन्त्यम्‌ इत् |

३. न विभक्तौ तुस्माः (१.३.४, SK १९०) = विभक्त्यां तवर्गीयवर्णः, सकारः, मकारः च इत्‌-सज्ञकाः न भवन्ति | तुश्च स्‌ च मश्च, तेषाम्‌ इतरेतरद्वन्द्वः, तुस्माः | न अव्ययपदं, विभक्तौ सप्तम्यन्तं, तुस्माः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अनुवृत्ति-सहित-सूत्रम्— विभक्तौ तुस्माः न इतः | [विभक्तिश्च (१.४.१०४) इत्यनेन सुप्‌-प्रत्ययाः तिङ्‌-प्रत्ययाः च सर्वे विभक्ति-संज्ञकाः |]

४. आदिर्ञिटुडवः (१.३.५, SK २२८९) = उपदेशस्य आदौ ञि वा टु वा डु वा अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | ञि, टु, डु-- एते निबन्धाः धातुषु एव भवन्ति अतः इदं सूत्रं वस्तुतः धातूनां कृते | ञिः च, टुः च, डुः च, तेषाम्‌‍ इतरेतरद्वद्वः ञिटुडु, बहुवचने ञिटुडवः (गुरु शब्दः इव) | आदिः प्रथमान्तं‌, ञिटुडवः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | आदिः ञिटुडवः उपदेशे इत्‌‍ | अनुवृत्ति-सहित-सूत्रम्— उपदेशे आदिः ञिटुडवः इत् |


प्रत्ययेषु एव--

१. षः प्रत्ययस्य (१.३.६, SK ४७४) = प्रत्ययस्य आदिः षः इत्‌ | नाम प्रत्ययस्य आदौ षकारः अस्ति चेत्‌, तस्य इत्‌-संज्ञा भवति | षः प्रथमान्तं, प्रत्ययस्य षष्ठ्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहित-सूत्रम्— प्रत्ययस्य आदिः षः इत् |

२. चुटू (१.३.७, SK १८९) = प्रत्ययस्य आदौ चवर्गीयः (च्‌, छ्‌, ज्‌, झ्‌, ञ्‌), अथवा टवर्गीयः (ट्‌, ठ्‌, ड्‌, ढ्‌, ण्‌) वर्णः भवति चेत्‌, तस्य वर्णस्य इत्‌-संज्ञा भवति | चुश्च टुश्च तयोः इतरेतरद्वन्द्वः, चुटू (द्विवचने, गुरु-शब्दः इव) | चुटू प्रथमान्तम्‌, एकपदमिदं सूत्रम्‌ | यथा ण्वुल्‌ → वु अवशिष्यते | अनुवृत्ति-सहित-सूत्रम्— प्रत्ययस्य आदी चुटू इतौ | वचनविपरिणामं कृतम्‌ |

३. लशक्वतद्धिते (१.३.८, SK १९५) = प्रत्ययस्य आदि लशकु इत्‌ अतद्धिते | नाम प्रत्ययस्य आदौ लकारः, शकारः, अथवा कवर्गीयः (क्‌, ख्‌, ग्‌, घ्‌, ङ्‌) वर्णः अस्ति चेत्‌, तस्य इत्‌ संज्ञा भवति | लश्च, शश्च, कुश्च, तेषां समाहारद्वन्द्वः, लशकु | न तद्धितम्‌, अतद्धितं, तस्मिन्‌ अतद्धिते | लशकु प्रथमान्तम्‌, अतद्धिते सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | अनुवृत्ति-सहित-सूत्रम्— प्रत्ययस्य आदि लशकु इत् अतद्धिते |


एकवारं यदा कस्यचित्‌ वर्णस्य भागस्य वा इत्‌-संज्ञा भवति, तदा तस्य लोपः इति सूत्रेण, तस्य लोपो भवति |

तस्य लोपः (१.३.९, SK ६२) = इत्‌-संज्ञकस्य वर्णस्य लोपो भवति | तस्य षष्ठ्यन्तं, लोपः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः, षष्ठ्यर्थे | अनुवृत्ति-सहित-सूत्रम्— तस्य इतः लोपः |


अनुवृत्तिः


एतेषाम्‌ अनुवृत्ति-क्रमः सुलभः | पश्यन्तु | उपदेशेऽजनुनासिक इत् (१.३.२) इत्यस्मिन्‌ न काऽपि अनुवृत्तिः | सर्वं सूत्रे एव वर्तते | हलन्त्यम्‌ (१.३.३) इत्यस्मिन्‌ सूत्रे उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे अन्त्यं हल्‌ इत्‌” इति वाक्यम्‌ | न विभक्तौ तुस्माः (१.३.४) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ “इत्‌" इत्यस्य अनुवृत्तिः | अतः "विभक्तौ तुस्माः न इतः इति वाक्यम्‌ | पुनः आदिर्ञिटुडवः (१.३.५) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ सूत्रात्‌ "उपदेशे", “इत्‌" इत्यनयोः अनुवृत्तिः | अतः "उपदेशे आदिः ञिटुडवः इत्‌” इति वाक्यम्‌ | षः प्रत्ययस्य (१.३.६) इत्यस्मिन्‌ आदिर्ञिटुडवः इत्यस्मात्‌ "अदिः”, उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "इत्‌", अतः "प्रत्ययस्य आदिः षः इत्" इति वाक्यम्‌ | चुटू (१.३.७) इत्यस्मिन्‌ षः प्रत्ययस्य इत्यस्मात्‌ "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "इत्‌", अतः "प्रत्ययस्य आदिः चुटू इत्‌" इति वाक्यम्‌ | लशक्वतद्धिते (१.३.८) इत्यस्मिन्‌ पुनः षः प्रत्ययस्य इत्यस्मात्‌ "प्रत्ययस्य", आदिर्ञिटुडवः इत्यस्मात्‌ "आदिः", उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ "इत्‌", अतः "प्रत्ययस्य आदिः ल, श, कु अतद्धिते इत्‌" इति वाक्यम्‌ | तस्य लोपः (१.३.९) इत्यस्मिन्‌ उपदेशेऽजनुनासिक इत् इत्यस्मात्‌ इत्‌ इत्यस्य अनुवृत्तिः अतः "तस्य इतः लोपः" इति वाक्यम्‌ |


धेयं यत्‌ सिद्धान्तकौमुद्याः इत्‌संज्ञा-सम्बद्धसूत्राणां सूत्रसङ्ख्याः क्रमेण न वर्धन्ते | पठनेन अनुवृत्तिः न स्फुटा अतः सूत्रार्थः नावगम्यते |


अभ्यासः

धातवः—

डुपचँष्‌ = "डु" आदिर्ञिटुडवः इत्यनेन इत्‌-संज्ञा, हलन्त्यम्‌ इत्यनेन षकारस्य इत्‌-संज्ञा, चकारोत्तरवर्ती अँकारः उपदेशेऽजनुनासिक इत् इत्यनेन इत्‌-संज्ञा, तस्य लोपः इत्येनेन सर्वेषां लोपः → पच्‌ इति धातुः

लिखँ = उपदेशेऽजनुनासिक इत् इत्यनेन अँकारस्य इत्‌-संज्ञा → लिख्‌ इति धातुः

डुकृञ्‌ =

ञिमिदाँ =

गम्‌ऌँ =


प्रत्ययाः—

णिच्‌

षाकन्‌‌ =

जुस्‌ =

टा =

शप्‌ =

ङस्‌ =

श्ना =

क्त =

ष्वुञ्‌ =

ण्वुल्‌ =

ख्युन्‌ =

श्यन्‌ =

ल्युट्‌ =

तृच्‌ =

ष्वुन्‌ =

तव्य्त्‌ =

शानच्‌ =

अनीयर्‍ =

शतृ =


अवधेयम्‌— यत्र प्रत्ययाः समानाः दृश्यन्ते, अनुबन्धैः ते भिद्यन्ते | अनुबन्धैः विभिन्नकार्याणि सिध्यन्ति | यथा प्रत्ययस्य ण्‌ वा ञ्‌ वा अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य वृद्धिः; प्रत्ययस्य क्‌ वा ङ्‌ वा अनुबन्धः चेत्‌, धातोः कस्यापि स्वरस्य गुणः वृद्धिः वा न भवति | ण्‌, ञ्‌, क्‌, ङ्‌ इत्येतान्‌ अनुबन्धान्‌ विहाय प्रत्ययस्य अन्यः कोऽपि अनुबन्धः चेत्‌, धातोः अन्तिम-स्वरस्य गुणः | एतादृशानि कार्याणि भवन्ति | एतदर्थं प्रत्ययस्य ण्‌-अनुबन्धः चेत्‌, सङ्क्षेपे तस्य नाम णित्‌ (णकारः इत्‌ यस्य सः णित्‌); क्‌-अनुबन्धः चेत्‌ सङ्क्षेपे तस्य नाम कित्‌ (ककारः इत्‌ यस्य सः कित्‌) इत्यादिकम्‌ |

Swarup – August 2014

---------------------------------

धेयम्‌-- If you would like to receive notification via email whenever a new page (new lesson) gets added to our site, click here and fill in your email address. New lessons are added every few weeks.

Also we have multiple classes conducted via conference call, on the subjects of Paniniiya Vyakaranam, Nyaya shastram, and also a bhAShA-varga for those wanting to refine their language skills. All classes are free, and people can join from anywhere in the world via local phone call or internet, whichever is more convenient. For class schedules and connect info, click here.

To join a class, or for any questions feel free to contact Swarup [<dinbandhu@sprynet.com> ].


Presentation 1 - पाणिनीयव्याकरण-परिचयः १ - प्रकरण-प्रक्रिया-भेदः.pdf (108k) Swarup Bhai, Nov 12, 2019, 11:16 PM v.1