05 - अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनम्‌

From Samskrita Vyakaranam
Revision as of 01:13, 18 June 2021 by Sharmila (talk | contribs)

05---sArvadhAtukaprakaraNam-adantam-aGgam/05---aGgasya-siddha-tiGpratyayAnAM-ca-saMyojanam
Jump to navigation Jump to search
ध्वनिमुद्रणानि -
2016 वर्गः
१) angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-1_2016-11-09
२) angasya-ca-siddha-tingpratyayAnAM-ca-saMyojanam-2_2016-11-16  
2015 वर्गः
१) adantAnga-tingpratyayayoH_sanyojanam--1_2015-05-12
२) adantAnga-tingpratyayayoH_sanyojanam--2_2015-05-19



एतावता सार्वधातुकलकाराणां (लट्‌, लोट्‌, लङ्‌, विधिलिङ्‌ इत्येषाम्‌) अङ्गम्‌ अदन्तं यत्र, तत्र अङ्गं निष्पन्नम्‌ अपि च सिद्ध-तिङ्‌प्रत्ययाः प्राप्ताः | अधुना तयोः संयोजनं क्रियते; फलं तिङन्तपदं—लोके विख्यातं क्रियापदम्‌ |


अत्र अस्ति दीक्षितपुष्पा-महोदयायाः पद्धतेः वैलक्षण्यम्‌ | अङ्गम्‌ अदन्तं चेत्‌, एकवारं लटि, लोटि, लङि, विधिलिङि च अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च संयोजनं परिशील्य, अग्रे भ्वादिगणे, दिवादिगणे, तुदादिगणे, चुरादिगणे—एषु चतुर्षु लकारेषु सर्वाणि रूपाणि ज्ञास्यन्ते | भव, नृत्य, लिख, चोरय एतानि अङ्गानि सर्वाणि अदन्तानि इति कारणेन यद्यपि भिन्न-धातुगणेषु सन्ति, परन्तु कार्यं पूर्णतया समानम्‌ | अतः अस्य पाठस्य अनन्तरं यदा भ्वादिगणस्य, दिवादिगणस्य, तुदादिगणस्य, चुरादिगणस्य च क्रमेण वैशिष्ट्यम्‌ अवलोकयिष्यामः, तदा केवलम्‌ अदन्तम्‌ अङ्गं निर्मातव्यम्‌ अस्माभिः | ततः चतुर्णां धातुगणानां सर्वेषां धातूनाम्‌ (997+140+157+409 = 1703) लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते | भवति, भवतु, अभवत्‌, भवेत्‌ इति यथा, तथैव नृत्यति, नृत्यतु, अनृत्यत्‌ , नृत्येत्‌; लिखति, लिखतु, अलिखत्‌, लिखेत्‌; चोरयति, चोरयतु, अचोरयत्‌, चोरयेत्‌ | अतः अग्रिमेषु पाठेषु केवलं लट्‌-लकारस्य प्रथमपुरुषैकवचनान्तरूपं 'भवति' प्रदर्श्यते | ततः अग्रे सर्वं बुद्धम्‌ एव !


सूत्राणि


अङ्गस्य सिद्ध-तिङ्‌प्रत्ययानां च मेलनार्थम्‌ अपेक्षितानि सूत्राणि इमानि—


अतो गुणे (६.१.९७)

अदेङ्‌ गुणः (१.१.२)

अतो दीर्घो यञि (७.३.१०१)

वृद्धिरेचि (६.१.८८)

लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१)

ससजुषो रुः (८.२.६६)

खरवसानयोर्विसर्जनीयः (८.३.१५)

आद्गुणः (६.१.८७)

आडजादीनाम्‌ (६.४.७२)

आटश्च (६.१.९०)


अङ्गस्य तिङ्‌प्रत्ययस्य च संयोजन-कार्यम्‌


कार्यार्थम्‌ अधः यत्र कस्यचित्‌ सूत्रस्य आवश्यकता अस्ति, तत्र दक्षिणतः सूत्रं दत्तम्‌ | किमपि सूत्रं न लिखितं चेत्‌, केवलं द्वयोः अंशयोः संमेलनं भवति | यथा पठ + ति = पठति — अत्र केवलम्‌ अंशयोः संयोजनं; कस्यापि सूत्रस्य आवश्यकता नास्ति |


A. परस्मैपदे अङ्ग-तिङ्‌प्रत्यय-संयोजनम्‌‌


परस्मैपदे धातुः = पठ्‌, अङ्गम्‌ = पठ


१. लट्‌-लकारः


लटि सिद्ध-तिङ्‌प्रत्ययाः—

ति     तः   अन्ति

सि     थः    थ

मि     वः     मः


कार्यम्‌—

पठ + ति = पठति

पठ + तः = पठतः

पठ + अन्ति = पठन्ति     अतो गुणे (६.१.९६) [गुणः = अ, ए, ओ]

पठ + सि = पठसि

पठ + थः = पठथः

पठ + थ = पठथ

पठ + मि = पठामि         अतो दीर्घो यञि (७.३.१०१) [= यञ्‌-आदि-सार्वधातुकः प्रत्ययः परः चेत्, अदन्त-अङ्गस्य अन्तिमस्वरः दीर्घः भवति |]

पठ + वः = पठावः         अतो दीर्घो यञि (७.३.१०१)

पठ + मः = पठामः         अतो दीर्घो यञि (७.३.१०१)


अतो गुणे (६.१.९७) = अपदान्तात्‌ अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः स्यात्‌ | गुणः इत्युक्तौ अ, ए, ओ | इदं सूत्रं वृद्धिरेचि (६.१.८८), अकः सवर्णे दीर्घः (६.१.१०१) इत्यनयोः अपवादसूत्रम्‌ | अतः पञ्चम्यन्तं, गुणे सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | उस्यपदान्तात्‌ (६.१.९६) इत्यस्मात्‌ अपदान्तात्‌ अपि च एङि पररूपम्‌ (६.१.९४) इत्यस्मात्‌ पररूपम्‌ इत्यनयोः अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अपदान्तात्‌ अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम्‌ |


अदेङ्‌गुणः (१.१.२) = ह्रस्व-अकारः, एकारः, ओकारः (एङ्) एषां वर्णानां गुणसंज्ञा स्यात्‌ | अत्‌ एङ्‍ च गुणसंज्ञः स्यात्‌ इति | अत्‌ च एङ्‌ च अदेङ्‌ | अदेङ्‌ प्रथमान्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | सूत्रं स्वयं सम्पूर्णम्— अत्‌ एङ्‌ गुणः |


वृद्धिरेचि (६.१.८८) = अवर्णात्‌ एचि परे पूर्वपरयोः स्थाने वृद्धिसंज्ञक-एकादेशः स्यात्‌ | वृद्धिः प्रथमान्तम्‌, एचि सप्तम्यन्तं, द्विपदमिदं सूत्रम्‌ | आद्‌गुणः (६.१.८७) इत्यस्मात्‌ आत्‌ इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ एचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌ |


अकः सवर्णे दीर्घः (६.१.१०१) = अक्‌-वर्णात्‌ सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात्‌ | अक्‌ प्रत्याहारः = अ, इ, उ, ऋ, ऌ | अकः पञ्चम्यन्तं, सवर्णे सप्तम्यन्तं, दीर्घः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम्‌ |


अतो दीर्घो यञि (७.३.१०१) = अदन्ताङ्गस्य दीर्घत्वं यञादि-सार्वधातुकप्रत्यये परे | यञ्‌ प्रत्याहारः = य व र ल ञ म ङ ण न झ भ | अतः षष्ठ्यन्तं, दीर्घः प्रथमान्तं, यञि सप्तम्यन्तं, त्रिपदमिदं सूत्रम्‌ | तुरुस्तुशम्यमः सार्वधातुके (७.३.९५) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ अङ्गं यस्य अन्ते ह्रस्व-अकारः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः; यस्मिन्‌ विधिस्तदादावल्ग्रहणे (१.१.७२, वार्तिकम्‌ २९) इत्यनेन यञि सार्वधातुके इत्युक्तौ यञादि-सार्वधातुके | अनुवृत्ति-सहितसूत्रम्‌— अतः अङ्गस्य दीर्घः यञि सार्वधातुके |


२. लोट्‌-लकारः


लोटि सिद्ध-तिङ्‌प्रत्ययाः—

तु, तात्‌     ताम्‌     अन्तु

०, तात्‌     तम्‌       त

आनि       आव     आम


कार्यम्‌—

पठ + तु = पठतु

पठ + ताम्‌ = पठताम्‌

पठ + अन्तु = पठन्तु         अतो गुणे (६.१.९७)

पठ + ० = पठ

पठ + तम्‌ = पठतम्‌

पठ + त = पठत

पठ + आनि = पठानि        अकः सवर्णे दीर्घः (६.१.१०१)

पठ + आव = पठाव          अकः सवर्णे दीर्घः (६.१.१०१)

पठ + आम = पठाम          अकः सवर्णे दीर्घः (६.१.१०१)


३. लङ्‌-लकारः


लङि सिद्ध-तिङ्‌प्रत्ययाः—

त्‌      ताम्‌     अन्‌

स्‌      तम्‌       त

अम्‌     व        म

अ + पठ = अपठ इति अङ्गम्‌     लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१)


कार्यम्‌—

अपठ + त्‌ = अपठत्‌

अपठ + ताम्‌ = अपठताम्‌

अपठ + अन्‌ = अपठन्‌           अतो गुणे (६.१.९७)

अपठ + स्‌ = अपठः             ससजुषोरुः इत्यनेन स्‌-स्थाने रु, खरवसानयोर्विसर्जनीयः इत्यनेन रु-स्थाने विसर्गः

अपठ + तम्‌ = अपठतम्‌

अपठ + त = अपठत

अपठ + अम्‌ = अपठम्‌           अतो गुणे (६.१.९७)

अपठ + व = अपठाव             अतो दीर्घो यञि (७.३.१०१)

अपठ + म = अपठाम             अतो दीर्घो यञि (७.३.१०१)


लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) = लुङ्‌ लङ्‌ लृङ्‌ च परं चेत्‌, धातुरूपि-अङ्गस्य अट्‌-आगमो भवति; स च अडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | लुङ्‌ च लङ्‌ च लृङ्‌ च तेषामितरेतरद्वन्द्वः लुङ्‌लङ्लृङः, तेषु लुङ्‌लङ्‌लृङ्क्षु | लुङ्‌लङ्‌लृङ्क्षु सप्तम्यन्तम्‌, अट्‌ प्रथमान्तम्‌, उदात्तः प्रथमान्तं, त्रिपदमिदं सूत्रम्‌ | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अङ्गस्य अट्‌ उदात्तः लुङ्‌लङ्‌लृङ्क्षु |


ससजुषो रुः (८.२.६६) = पदान्ते सकारस्य च सजुष्‌-शब्दस्य षकारस्य च स्थाने रु-आदेशो भवति | येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन न केवलं यत्‌ पदं सकारः अस्ति, अपि तु यस्य पदस्य अन्ते सकारः अस्ति | अलोऽन्त्यस्य (१.१.५२) इत्यनेन पदान्तस्य वर्णस्य स्थाने रु-आदेशः न तु पूर्णपदस्य | सश्च सजुश्च ससजुषौ, इतरेतरद्वन्द्वः, तयोः ससजुषोः | ससजुषोः षष्ठ्यन्तं, रुः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | पदस्य (८.१.१६) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— ससजुषोः पदस्य रुः |


खरवसानयोर्विसर्जनीयः (८.३.१५) = खरि अवसाने च पदान्ते रेफस्य स्थाने विसर्गादेशो भवति | खर्‍ च अवसानं च खरवसाने तयोरितरेतरद्वन्द्वः, तयोः खरवसानयोः | खरवसानयोः सप्तम्यन्तं, विसर्जनीयः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | रो रि (८.३.१४) इत्यस्मात् रः इत्यस्य अनुवृत्तिः | पदस्य (८.१.१६) इत्यस्य अधिकारः | रः 'पदस्य' इत्यस्य विशेषणम्‌; येन विधिस्तदन्तस्य (१.१.७२) इत्यनेन तादृशम्‌ पदं यस्य अन्ते रेफः अस्ति; अलोऽन्त्यस्य (१.१.५२) इत्यनेन अन्तिमवर्णस्य स्थाने आदेशः | तयोर्य्वावचि संहितायाम्‌ (८.२.१०८) इत्यस्मात् संहितायाम्‌ इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— रः पदस्य विसर्जनीयः खरवसानयोः संहितायाम्‌ |


४. विधिलिङ्‌-लकारः


विधिलिङि सिद्ध-तिङ्‌प्रत्ययाः—

इत्‌     इताम्‌     इयुः

इः      इतम्‌      इत

इयम्‌    इव       इम

आद्गुणः (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः


कार्यम्‌—

पठ + इत्‌ = पठेत्‌            आद्गुणः (६.१.८७) [अपि च अग्रे सर्वत्र]

पठ + इताम्‌ = पठेताम्‌

पठ + इयुः = पठेयुः

पठ + इः = पठेः

पठ + इतम्‌ = पठेतम्‌

पठ + इत = पठेत

पठ + इयम्‌ = पठेयम्‌

पठ + इव = पठेव

पठ + इम = पठेम


आद्‌गुणः (६.१.८७) = अ-वर्णात्‌ अचि परे पूर्वपरयोः स्थाने गुणसंज्ञकः एकादेशः स्यात्‌ | अत्र अचि परे इत्यस्य इकि परे इति फलितः अर्थः यतः अकारात्‌ अकारः चेत्‌ कार्यं बाधितम्‌ अकः सवर्णे दीर्घः इत्यनेन; अकारात्‌‍ एच्‌ चेत् कार्यं बाधितं वृद्धिरेचि इत्यनेन सूत्रेण च | आत्‌ पञ्चम्यन्तं, गुणः प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः; एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आत्‌ अचि पूर्वपरयोः एकः गुणः संहितायाम्‌ |


B. आत्मनेपदे अङ्ग-तिङ्‌प्रत्यय-संयोजनम्‌‌


आत्मनेपदे धातुः = एध्‌, अङ्गम्‌ = एध


१. लट्‌-लकारः


लटि सिद्ध-तिङ्‌प्रत्ययाः—

ते      इते     अन्ते

से      इथे      ध्वे

ए      वहे      महे


कार्यम्‌—

एध + ते = एधते

एध + इते = एधेते            आद्गुणः (६.१.८७)

एध + अन्ते = एधन्ते         अतो गुणे (६.१.९७)

एध + से = एधसे

एध + इथे = एधेथे             आद्गुणः (६.१.८७)

एध + ध्वे = एधध्वे

एध + ए = एधे               अतो गुणे (६.१.९७)

एध + वहे = एधावहे         अतो दीर्घो यञि (७.३.१०१)

एध + महे = एधामहे         अतो दीर्घो यञि (७.३.१०१)


२. लोट्‌-लकारः


लोटि‌ सिद्ध-तिङ्‌प्रत्ययाः—

ताम्‌     इताम्‌     अन्ताम्‌

स्व      इथाम्‌      ध्वम्‌

ऐ       आवहै      आमहै


कार्यम्‌—

एध + ताम्‌ = एधताम्‌

एध + इताम्‌ = एधेताम्‌         आद्गुणः (६.१.८७)

एध + अन्ताम्‌ = एधन्ताम्‌      अतो गुणे (६.१.९७)

एध + स्व = एधस्व

एध + इथाम्‌ = एधेथाम्‌         आद्गुणः (६.१.८७)

एध + ध्वम्‌ = एधध्वम्‌

एध + ऐ = एधै                 वृद्धिरेचि (६.१.८८)

एध + आवहै = एधावहै         अकः सवर्णे दीर्घः (६.१.१०१)

एध + आमहै = एधामहै         अकः सवर्णे दीर्घः (६.१.१०१)


३. लङ्‌-लकारः


लङि‌ सिद्ध-तिङ्‌प्रत्ययाः—

त      इताम्‌     अन्त

थाः    इथाम्‌     ध्वम्‌

इ       वहि       महि


आ + एध = ऐध इति अङ्गम्‌   आडजादीनाम्‌ (६.४.७२), आटश्च (६.१.९०)


कार्यम्‌—

ऐध + त = ऐधत

ऐध + इताम्‌ = ऐधेताम्‌        आद्गुणः (६.१.८७)

ऐध + अन्त = ऐधन्त         अतो गुणे (६.१.९७)

ऐध + थाः = ऐधथाः

ऐध + इथाम्‌ = ऐधेथाम्‌        आद्गुणः (६.१.८७)

ऐध + ध्वम्‌ = ऐधध्वम्‌

ऐध + इ = ऐधे                  आद्गुणः (६.१.८७)

ऐध + वहि = ऐधावहि         अतो दीर्घो यञि (७.३.१०१)

ऐध + महि = ऐधामहि         अतो दीर्घो यञि (७.३.१०१)


आडजादीनाम्‌ (६.४.७२) = लुङ्‌ लङ्‌ लृङ्‌ च परे चेत्‌, अजादिधातुरूपि-अङ्गस्य आट्‌-आगमो भवति; स च आडागमः उदात्त-संज्ञकः | आद्यन्तौ टकितौ (१.१.४६) इत्यनेन अङ्गात्‌ प्राक्‌ आयाति | अच्‌ आदिर्येषां ते, अजादयः बहुव्रीहिः; तेषाम्‌ अजादीनाम्‌ | आट्‌ प्रथमान्तम्‌, अजादीनाम्‌ षष्ठ्यन्तं, द्विपदमिदं सूत्रम् | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यस्मात्‌ लुङ्‌लङ्‌लृङ्क्षु, उदात्तः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— अजादीनाम्‌ अङ्गस्य आट्‌ उदात्तः लुङ्‌लङ्‌लृङ्क्षु |


आटश्च (६.१.९०) = आडागमात्‌ अचि परे पूर्वपरयोः वृद्धिरेकादेशो भवति | आटः पञ्चम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको यणचि (६.१.७७) इत्यस्मात्‌ अचि इत्यस्य अनुवृत्तिः | वृद्धिरेचि (६.१.८८) इत्यस्मात्‌ वृद्धिः इत्यस्य अनुवृत्तिः | एकः पूर्वपरयोः (६.१.८४), संहितायाम्‌ (६.१.७१) इत्यनयोः अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— आटः च अचि पूर्वपरयोः एकः वृद्धिः संहितायाम्‌ |


धेयं यत्‌ उपरितने उदाहरणे एध्‌-धातोः आदौ एकारः अस्ति अतः आ + ए → ऐ इति वृद्धिः तु भवति एव | परन्तु धातुः इकारादिः उकारादिः वा चेत्‌, आ + इ / आ + उ → गुणः भवति स्म | एतदर्थम्‌ आटश्च (६.१.९०) इत्यनेन वृद्धिः भवति न तु गुणः | यथा परस्मौपदे, तुदादिगणे इष्‌-धातुः, इषुगमियमां छः (७.३.७७) इति सूत्रेण वक्ष्यमाणेन धात्वादेशेन शिति परे षकारस्य स्थाने छकारः, इष्‌ + श → अङ्गम्‌ इच्छ | लटि इच्छति; लङि आडागमं कृत्वा आ + इच्छ | अत्र सामान्यगुणसन्धिना आद्गुणः (६.१.८७) इत्यनेन 'एच्छत्‌' इति भवति स्म | परन्तु अत्र आटश्च (६.१.९०) इत्यनेन परत्वात्‌ वृधिरादेशो भवति इति कृत्वा ऐच्छत्‌ |


४. विधिलिङ्‌-लकारः


विधिलिङि‌ सिद्ध-तिङ्‌प्रत्ययाः—

ईत       ईयाताम्‌      ईरन्‌

ईथाः     ईयाथाम्‌     ईध्वम्‌

ईय       ईवहि        ईमहि


आद्गुणः (६.१.८७) = विधिलिङ्गि सर्वत्र प्रसक्तिः


कार्यम्‌—

एध + ईत = एधेत                 आद्गुणः (६.१.८७) [अपि च अग्रे सर्वत्र]

एध + ईयाताम्‌ = एधेयाताम्‌

एध + ईरन्‌ = एधेरन्‌

एध + ईथाः = एधेथाः

एध + ईयाथाम्‌ = एधेयाथाम्‌

एध + ईध्वम्‌ = एधेध्वम्‌

एध + ईय = एधेय

एध + ईवहि = एधेवहि

एध + ईमहि = एधेमहि

इति सार्वधातुकलकारेषु अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनम्‌ | फलं क्रियापदमिति |


Swarup - April 2013 (Updated May 2015)



५ - अङ्गस्य सिद्ध-तिङ्प्रत्ययानां च संयोजनम्‌.pdf (68k) Swarup Bhai, Mar 31, 2019, 6:16 AM v.1