05---sArvadhAtukaprakaraNam-adantam-aGgam/07---divAdigaNaH: Difference between revisions
No edit summary |
No edit summary |
||
Line 1: | Line 1: | ||
[[Category:Pages with broken file links]] |
|||
<big>दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन् विकरणप्रत्ययः विहितः अस्ति | सर्वप्रथमं '''कर्तरि शप्''' (३.१.६८) इत्यनेन शप् विहितः, तदा '''कर्तरि शप्''' इति सूत्रं प्रबाध्य '''दिवादिभ्यः श्यन्''' (३.१.६९) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां '''दिवादिभ्यः श्यन्''' स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | '''कर्तरि शप्''' इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः '''दिवादिभ्यः श्यन्''', '''कर्तरि शप्''' इत्यस्य अपवादभूतसूत्रम् | '''पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः''' इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र '''दिवादिभ्यः श्यन्''' इति सूत्रस्य कार्यं सिध्यति |</big> |
|||
Enter data |
|||
<big>'''दिवादिभ्यः श्यन्''' (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव् आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''कर्तरि शप्''' (३.१.६८) इत्यस्मात् '''कर्तरि''' इत्यस्य अनुवृत्तिः; '''सार्वधातुके यक्''' (३.१.६७) इत्यस्मात् '''सार्वधातुके''' इत्यस्य अनुवृत्तिः | '''प्रत्ययः''' (३.१.१), '''परश्च''' (३.१.२) इत्यनयोः अधिकारः; '''धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्''' (३.१.२२) इत्यस्मात् '''धातोः''' इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— '''दिवादिभ्यः धातुभ्यः श्यन् प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |</big> |
|||
<big>'''कर्तरि शप्''' (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— '''धातोः शप् प्रत्ययः''' '''परश्च कर्तरि सार्वधातुके''' |</big> |
|||
<big>अयं श्यन्-प्रत्ययः शित् इति कारणतः '''तिङ्शित्सार्वधातुकम्''' (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात् कारणात्, श्यन्-प्रत्यये परे, '''सार्वधातुकार्धधातुकयोः''' (७.३.८४) '''पुगन्तलघूपधस्य च''' (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम् | परन्तु श्यन् अपित्, अतः '''सार्वधातुकमपित्''' (१.२.४) इति सूत्रेण ङिद्वत् | ङिद्वत् अतः '''क्क्ङिति च''' (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |</big> |
|||
<big>'''सार्वधातुकमपित्''' (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | '''गाङ्कुटादिभ्योऽञ्णिन्ङित्''' (१.२.१) इत्यस्मात् '''ङित्''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''सार्वधातुकम् अपित् ङित्''' |</big> |
|||
<big>'''क्क्ङिति च''' (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः '''खरि च''' इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | '''इको गुणवृद्धी''' (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; '''न धातुलोप आर्धधातुके''' (१.१.४) इत्यस्मात् '''न''' इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— '''क्क्ङिति च इकः गुणवृद्धी न''' |</big> |
Revision as of 00:45, 30 May 2021
दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन् विकरणप्रत्ययः विहितः अस्ति | सर्वप्रथमं कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाध्य दिवादिभ्यः श्यन् (३.१.६९) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां दिवादिभ्यः श्यन् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप् इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः दिवादिभ्यः श्यन्, कर्तरि शप् इत्यस्य अपवादभूतसूत्रम् | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र दिवादिभ्यः श्यन् इति सूत्रस्य कार्यं सिध्यति |
दिवादिभ्यः श्यन् (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव् आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन् प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दिवादिभ्यः धातुभ्यः श्यन् प्रत्ययः परश्च कर्तरि सार्वधातुके |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
अयं श्यन्-प्रत्ययः शित् इति कारणतः तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात् कारणात्, श्यन्-प्रत्यये परे, सार्वधातुकार्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम् | परन्तु श्यन् अपित्, अतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत् | ङिद्वत् अतः क्क्ङिति च (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |