05---sArvadhAtukaprakaraNam-adantam-aGgam/07---divAdigaNaH

From Samskrita Vyakaranam
Jump to navigation Jump to search



दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन्‌ विकरणप्रत्ययः विहितः अस्ति | सर्वप्रथमं कर्तरि शप्‌ (३.१.६८) इत्यनेन शप्‌ विहितः, तदा कर्तरि शप्‌ इति सूत्रं प्रबाध्य दिवादिभ्यः श्यन्‌ (३.१.६९) आगत्य कार्यं करोति | किमर्थम्‌ ? अस्यां दशायां दिवादिभ्यः श्यन्‌ स्वस्य कार्यं न करोति चेत्‌ इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप्‌ इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः दिवादिभ्यः श्यन्‌, कर्तरि शप्‌ इत्यस्य अपवादभूतसूत्रम्‌ | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत्‌ सूत्रं अपवादः अस्ति, तत्‌ अपरस्य अपेक्षया बलवत्‌ | अतः अत्र दिवादिभ्यः श्यन्‌ इति सूत्रस्य कार्यं सिध्यति |

दिवादिभ्यः श्यन्‌ (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव्‌ आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन्‌ प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप्‌ (३.१.६८) इत्यस्मात्‌ कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक्‌ (३.१.६७) इत्यस्मात्‌ सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ्‌ (३.१.२२) इत्यस्मात्‌ धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्‌— दिवादिभ्यः धातुभ्यः श्यन्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |

कर्तरि शप्‌ (३.१.६८) = धातुतः शप्‌-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्‌— धातोः शप्‌ प्रत्ययः परश्च कर्तरि सार्वधातुके |

अयं श्यन्‌-प्रत्ययः शित्‌ इति कारणतः तिङ्‌शित्सार्वधातुकम्‌ (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात्‌ कारणात्‌, श्यन्‌-प्रत्यये परे, सार्वधातुकार्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम्‌ | परन्तु श्यन्‌ अपित्‌, अतः सार्वधातुकमपित्‌ (१.२.४) इति सूत्रेण ङिद्वत्‌ | ङिद्वत्‌ अतः क्क्ङिति च (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्‌, तत्र तत्र निषिद्धम्‌ |

सार्वधातुकमपित्‌ (१.२.४) = अपित्‌ सार्वधातुकम्‌ ङित्‌ इव अस्ति | सार्वधातुकम्‌ प्रथमान्तम्‌, अपित्‌ प्रथमान्तं, द्विपदमिदं सूत्रम्‌ | गाङ्‌कुटादिभ्योऽञ्णिन्ङित्‌ (१.२.१) इत्यस्मात्‌ ङित्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— सार्वधातुकम्‌ अपित्‌ ङित् |

क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्‌, कित्‌ अथवा ङित्‌ अस्ति, अपि च तस्मा‌त्‌ प्रत्ययात्‌ पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग्‌ च क्‌ च ङ्‌ च तेषाम्‌ इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्‌, तस्मिन्‌ परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्‌-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम्‌ | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात्‌ इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्‌— क्क्ङिति च इकः गुणवृद्धी न |