05---sArvadhAtukaprakaraNam-adantam-aGgam/07---divAdigaNaH
05---sArvadhAtukaprakaraNam-adantam-aGgam/07---divAdigaNaH
दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन् विकरणप्रत्ययः विहितः अस्ति | सर्वप्रथमं कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाध्य दिवादिभ्यः श्यन् (३.१.६९) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां दिवादिभ्यः श्यन् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप् इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः दिवादिभ्यः श्यन्, कर्तरि शप् इत्यस्य अपवादभूतसूत्रम् | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र दिवादिभ्यः श्यन् इति सूत्रस्य कार्यं सिध्यति |
दिवादिभ्यः श्यन् (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव् आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन् प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दिवादिभ्यः धातुभ्यः श्यन् प्रत्ययः परश्च कर्तरि सार्वधातुके |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
अयं श्यन्-प्रत्ययः शित् इति कारणतः तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात् कारणात्, श्यन्-प्रत्यये परे, सार्वधातुकार्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम् | परन्तु श्यन् अपित्, अतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत् | ङिद्वत् अतः क्क्ङिति च (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
प्रश्नः उदेति यत् श्यन्-प्रत्ययस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु ? यथा दिव्-धातुः + तिप् | तिप् तु सार्वधातुकः अतः अनेन किमर्थं न गुणः ? उत्तरम् अस्ति यत् श्यनः विधानं नित्यम्, तिपः गुणकार्यम् अनित्यम् इति कारणेन गुणकार्यं निषिद्धम् | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (परिभाषा ३८) | अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति |
नित्यम् | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्, तस्यां दशायां यत् अपरं सूत्रम् अस्ति, तत् नित्यसूत्रम् इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम् अस्ति, तदा तत् सूत्रं प्रथममेव प्रवर्तनीयम् | नित्यम् इत्यस्मात् कारणात् बलवत् | अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति |
तर्हि आहत्य दिवादिगणे श्यन् विहितः; श्यन् च ङिद्वत् | अस्य एकः परिणामः गुणनिषेधः | परन्तु प्रत्ययस्य ङित् ङिद्वत् च भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |
यः कोऽपि प्रत्ययः कित् ङित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | दिवादौ पी + श्यन् + ते → पीयते | पुष् + श्यन् + ति → पुष्यति | क्क्ङिति च (१.१.५) |
२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां धातूनाम् इत्-संज्ञकः इत् (ह्रस्वः इकारः) नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | भ्रंश् + श्यन् + ति → भ्रश्यति | भ्रंश् + श्यन् + शतृ → भ्रश्यत् | अनिदितां हल उपधाया क्ङिति (६.४.२४) |
३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्यध् + श्यन् + ति → विध्यति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
अन्यानि कित्-ङित्-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |
सम्प्रति धातूनाम् आयोजनशैली एकवारं स्मारणीया | एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते |
धातवः चतुर्दशविधाः
एकवारम् धातूनां आयोजन-पद्धतिः का, किमर्थं च इति स्मरणीया |
वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्, बहून् शब्दान् जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम् अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते |
परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम् | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः— नव अजन्तधातूनां श्रेण्यः, पञ्च च हलन्तधातूनां श्रेण्यः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम् अनुसृत्य भवति | नाम अन्तिमवर्णात् प्राक् यः वर्णः, तम् अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |
अधुना दिवादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम् | दिवादिगणः प्रथमधातुगणसमूहे, नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम् | श्यन्-प्रत्ययस्य शकारस्य इत्-संज्ञा लशक्वतद्धिते (१.३.८) इति सूत्रेण, नकारस्य इत्-संज्ञा हलन्त्यम् (१.३.३) इति सूत्रेण, तस्य लोपः (१.३.९) इत्यनेन तयोर्लोपः; य इत्यवश्यिष्यते | दिवादिगणीयः धातुः यः कोऽपि भवतु नाम, अङ्गस्य अन्ते "य" इत्यस्य अकारः भवति एव | यथा नृत् + य → नृत्य |
पूर्वमेव अस्माभिः सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) तिङ्-प्रत्ययाः साधिताः | पूर्वतनेपाठे अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम् | अधुना दिवादिगणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम् इति ज्ञेयम् | एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते; हस्ते अङ्गम् अस्ति चेत्, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता |
तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्; अङ्गं ज्ञायते चेत्, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |
एकवारं दिवादिगणे, चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम | तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्ताङ्गस्य ज्ञानेन, सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते | अत्र दृष्टान्ते परस्मैपदे नश्-धातुः, अङ्गम् अस्ति नश् + श्यन् → नश्य |
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ति तः अन्ति नश्यति नश्यतः नश्यन्ति
सि थः थ नश्यसि नश्यथः नश्यथ
मि वः मः नश्यामि नश्यावः नश्यामः
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
तु, तात् ताम् अन्तु नश्यतु / नश्यतात् नश्यताम् नश्यन्तु
०, तात् तम् त नश्य/नश्यतात् नश्यम् नश्यत
आनि आव आम नश्यानि नश्याव नश्याम
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त् ताम् अन् अनश्यत् अनश्यताम् अनश्यन्
स् तम् त अनश्यः अनश्यतम् अनश्यत
अम् व म अनश्यम् अनश्याव अनश्याम
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
इत् इताम् इयुः नश्येत् नश्येताम् नश्येयुः
इः इतम् इत नश्येः नश्येतम् नश्येत
इयम् इव इम नश्येयम् नश्येव नश्येम
दिवादिगणे, आत्मनेपदे विद्-धातुः, अङ्गम् अस्ति विद् + श्यन् → विद्य
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ते इते अन्ते विद्यते विद्येते विद्यन्ते
से इथे ध्वे विद्यसे विद्येथे विद्यध्वे
ए वहे महे विद्ये विद्यावहे विद्यामहे
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
ताम् इताम् अन्ताम् विद्यताम् विद्येताम् विद्यन्ताम्
स्व इथाम् ध्वम् विद्यस्व विद्येथाम् विद्यध्वम्
ऐ आवहै आमहै विद्यै विद्यावहै विद्यामहै
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त इताम् अन्त अविद्यत अविद्येताम् अविद्यन्त
थाः इथाम् ध्वम् अविद्यथाः अविद्येथाम् अविद्यध्वम्
इ वहि महि अविद्ये अविद्यावहि अविद्यामहि
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
ईत ईयाताम् ईरन् विद्येत विद्येयाताम् विद्येरन्
ईथाः ईयाथाम् ईध्वम् विद्येथाः विद्येयाथाम् विद्येध्वम्
ईय ईवहि ईमहि विद्येय विद्येवहि विद्येमहि
अग्रे केवलम् अङ्गं च लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |