05---sArvadhAtukaprakaraNam-adantam-aGgam/07---divAdigaNaH
05---sArvadhAtukaprakaraNam-adantam-aGgam/07---divAdigaNaH
दिवादिगणे, कर्त्रर्थे सार्वधातुकप्रत्यये परे धातुभ्यः श्यन् विकरणप्रत्ययः विहितः अस्ति | सर्वप्रथमं कर्तरि शप् (३.१.६८) इत्यनेन शप् विहितः, तदा कर्तरि शप् इति सूत्रं प्रबाध्य दिवादिभ्यः श्यन् (३.१.६९) आगत्य कार्यं करोति | किमर्थम् ? अस्यां दशायां दिवादिभ्यः श्यन् स्वस्य कार्यं न करोति चेत् इदं सूत्रं निरवकाशं भविष्यति | कर्तरि शप् इत्यस्य अन्यत्रलब्धावकाशः अस्ति | अतः दिवादिभ्यः श्यन्, कर्तरि शप् इत्यस्य अपवादभूतसूत्रम् | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः इति परिभाषया यत् सूत्रं अपवादः अस्ति, तत् अपरस्य अपेक्षया बलवत् | अतः अत्र दिवादिभ्यः श्यन् इति सूत्रस्य कार्यं सिध्यति |
दिवादिभ्यः श्यन् (३.१.६९) = दिवादिगणे स्थितेभ्यः धातुभ्यः श्यन्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | दिव् आदिर्येषां ते, दिवादयः बहुव्रीहिसमासः, तेभ्यः दिवादिभ्यः | दिवादिभ्यः पञ्चम्यन्तं, श्यन् प्रथमान्तं, द्विपदमिदं सूत्रम् | कर्तरि शप् (३.१.६८) इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः; सार्वधातुके यक् (३.१.६७) इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः | प्रत्ययः (३.१.१), परश्च (३.१.२) इत्यनयोः अधिकारः; धातोरनेकाचो हलादेः क्रियासमभिहारे यङ् (३.१.२२) इत्यस्मात् धातोः इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— दिवादिभ्यः धातुभ्यः श्यन् प्रत्ययः परश्च कर्तरि सार्वधातुके |
कर्तरि शप् (३.१.६८) = धातुतः शप्-प्रत्ययः भवति, कर्त्रर्थक-सार्वधातुकप्रत्यये परे | अनुवृत्ति-सहितसूत्रम्— धातोः शप् प्रत्ययः परश्च कर्तरि सार्वधातुके |
अयं श्यन्-प्रत्ययः शित् इति कारणतः तिङ्शित्सार्वधातुकम् (३.४.११३) इति सूत्रेण सार्वधातुकप्रत्ययः | तस्मात् कारणात्, श्यन्-प्रत्यये परे, सार्वधातुकार्धधातुकयोः (७.३.८४) पुगन्तलघूपधस्य च (७.३.८६) इति सूत्राभ्यां गुणकार्यं विहितम् | परन्तु श्यन् अपित्, अतः सार्वधातुकमपित् (१.२.४) इति सूत्रेण ङिद्वत् | ङिद्वत् अतः क्क्ङिति च (१.१.५) इति कारणतः यत्र यत्र गुण-कार्यं विहितम्, तत्र तत्र निषिद्धम् |
सार्वधातुकमपित् (१.२.४) = अपित् सार्वधातुकम् ङित् इव अस्ति | सार्वधातुकम् प्रथमान्तम्, अपित् प्रथमान्तं, द्विपदमिदं सूत्रम् | गाङ्कुटादिभ्योऽञ्णिन्ङित् (१.२.१) इत्यस्मात् ङित् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— सार्वधातुकम् अपित् ङित् |
क्क्ङिति च (१.१.५) = यः प्रत्ययः गित्, कित् अथवा ङित् अस्ति, अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणतः इकः स्थाने गुणः वा वृद्धिः वा भवति स्म, सः (गुणः वृद्धिः) न भवति | ग् च क् च ङ् च तेषाम् इतरेतरद्वन्द्वः क्क्ङः; क्क्ङः इतः यस्य सः क्क्ङित्, तस्मिन् परे क्क्ङिति | द्वन्द्वगर्भबहुव्रीहिसमासः | अत्र ग्-स्थाने ककारः खरि च इत्यनेन चर्त्वसन्धिः | क्क्ङिति सप्तम्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | इको गुणवृद्धी (१.१.३) इत्यस्य पूर्णतया अनुवृत्तिः; न धातुलोप आर्धधातुके (१.१.४) इत्यस्मात् न इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितं सूत्रम्— क्क्ङिति च इकः गुणवृद्धी न |
प्रश्नः उदेति यत् श्यन्-प्रत्ययस्य आगमनात् प्रागेव किमर्थं न गुणकार्यं भवतु ? यथा दिव्-धातुः + तिप् | तिप् तु सार्वधातुकः अतः अनेन किमर्थं न गुणः ? उत्तरम् अस्ति यत् श्यनः विधानं नित्यम्, तिपः गुणकार्यम् अनित्यम् इति कारणेन गुणकार्यं निषिद्धम् | पूर्वपरनित्यान्तरङ्गापवादानामुत्तरोत्तरं बलीयः (परिभाषा ३८) | अनेन पूर्वसूत्रस्य अपेक्षया परसूत्रं बलवत् भवति; परसूत्रस्य अपेक्षया नित्यसूत्रं बलवत् भवति; नित्यसूत्रस्य अपेक्षया अन्तरङ्गसूत्रं बलवत् भवति; अन्तरङ्गसूत्रस्य अपेक्षया अपवादसूत्रं बलवत् भवति |
नित्यम् | कृताकृतप्रसङ्गी यः विधिः भवति, सः नित्यः इत्युच्यते | समानकाले समानस्थले द्वयोः सूत्रयोः प्रसक्तिरस्ति इति चिन्तयतु | द्वयोर्मध्ये एकस्य सूत्रस्य प्रवृत्तिः कारिता; तदनन्तरमपि अपरस्य सूत्रस्य पुनः प्राप्तिः अस्ति चेत्, तस्यां दशायां यत् अपरं सूत्रम् अस्ति, तत् नित्यसूत्रम् इत्युच्यते | नित्यं नाम तस्य प्रसक्तिः पूर्वमपि आसीत्, अनन्तरमपि अस्ति | यदा किञ्चन सूत्रं नित्यम् अस्ति, तदा तत् सूत्रं प्रथममेव प्रवर्तनीयम् | नित्यम् इत्यस्मात् कारणात् बलवत् | अतः पूर्वसूत्रं नित्यम् अस्ति चेत् पूर्वसूत्रं सत्यपि पूर्वम् आयाति |
तर्हि आहत्य दिवादिगणे श्यन् विहितः; श्यन् च ङिद्वत् | अस्य एकः परिणामः गुणनिषेधः | परन्तु प्रत्ययस्य ङित् ङिद्वत् च भवनेन केवलं गुणनिषेधः सिद्धः इति न; तस्य अनेके प्रभावाः सन्ति | तेषु त्रयः प्रमुखाः अधोलिखिताः |
यः कोऽपि प्रत्ययः कित् ङित् वा भवति, तं प्रत्ययं निमित्तीकृत्य पूर्वं स्थिते अङ्गे यथासङ्गं त्रीणि विशिष्टकार्याणि प्रवर्तनीयानि—
१) अङ्गान्ते उपधायां च इकः गुणः निषिद्धः | दिवादौ पी + श्यन् + ते → पीयते | पुष् + श्यन् + ति → पुष्यति | क्क्ङिति च (१.१.५) |
२) अनिदित्-धातूनाम् उपधायां न्-लोपः | येषां धातूनाम् इत्-संज्ञकः इत् (ह्रस्वः इकारः) नास्ति, तेषां धातूनाम् उपधायां नकारः अस्ति चेत्, तस्य लोपो भवति | भ्रंश् + श्यन् + ति → भ्रश्यति | भ्रंश् + श्यन् + शतृ → भ्रश्यत् | अनिदितां हल उपधाया क्ङिति (६.४.२४) |
३) सम्प्रसारणिनां धातूनाम् सम्प्रसारणम् | यण्-स्थाने इक्-आदेशः (यण्-सन्धौ यथा भवति, तस्य विपरीतक्रमः), किति ङिति प्रत्यये परे | व्यध् + श्यन् + ति → विध्यति | ग्रहि ज्या वयि व्यधि वष्टि विचति वृश्चति पृच्छति भृज्जतीनां ङिति च (६.१.१६) |
अन्यानि कित्-ङित्-निमित्तकानि कार्याणि यथासङ्गं वक्ष्यन्ते |
सम्प्रति धातूनाम् आयोजनशैली एकवारं स्मारणीया | एकैकस्मिन् पाठे अनया शैल्या धातूनां चिन्तनं प्रवर्तिष्यते |
धातवः चतुर्दशविधाः
एकवारम् धातूनां आयोजन-पद्धतिः का, किमर्थं च इति स्मरणीया |
वयं जानीमः यत् पाणिनेः सूत्राणि आधारीकृत्य प्रातिपदिकानि तदन्तपदम् अनुसृत्य आयोजितानि—पुंसि अकारान्तशब्दाः, देव इव; इकारान्तशब्दाः, मुनि इव; उकारान्तशब्दाः, गुरु इव; ऋकारान्तशब्दाः, कर्तृ इव | स्त्रियां लता, नदी, मति, धेनु, मातृ; क्लीबे वन, मधु, वारि अपि तथा | नाम देवशब्दः बहूनां शब्दानां प्रतिनिधिः, अतः देवशब्दं जानीमश्चेत्, बहून् शब्दान् जानीमः एव | अपि च प्रक्रियादृष्ट्या, सिद्धान्तकौमुद्यां प्रातिपदिकानां कृते तादृशी व्यवस्था अस्ति एव | रामशब्दस्य व्युत्पत्तिः प्रदर्शिता; इयं च व्युत्पत्तिः सर्वेषाम् अकारान्त-पुंलिङ्गशब्दानां कृते प्रतिनिधिः | तथैव अग्रेऽपि सर्वेषां प्रातिपदिकानां कृते |
परन्तु यद्यपि धातूनां कृते अपि पाणिनीयसूत्राणि तथैव व्यवस्थापितानि, तथापि एतावता केनापि तादृशम् आयोजनं न कृतम् | न सिद्धान्तकौमुद्यां, न वा अन्यत्र | अधुनैव प्रथमवारम् ऐतिहासिकी पद्धतिः अक्रियत मात्रा दीक्षितपुष्पया | तया सर्वे द्विसहस्रं धातवः चतुर्दशसु भागेषु विभक्ताः— नव अजन्तधातूनां श्रेण्यः, पञ्च च हलन्तधातूनां श्रेण्यः | अजन्तधातवः अन्त्यक्रमेण आयोजिताः; हलन्तधातवः उपधा-क्रमेण विभक्ताः | किमर्थं तथा ? पाणिनेः सूत्राणि तथा सन्ति | अजन्तधातूनां कृते सूत्राणां कार्यम् अन्तिमस्वरम् अनुसृत्य भवति | अतः मात्रा एवमेव रीत्या अजन्तधातवः विभक्ताः—अकारान्ताः, आकारान्ताः, इकारान्ताः, ईकारान्ताः, उकारान्ताः, ऊकारान्ताः, ऋकारान्ताः, ॠकारान्ताः, एजन्ताः च | हलन्तधातूनां कृते पाणिनेः सूत्राणां कार्यं उपधाम् अनुसृत्य भवति | नाम अन्तिमवर्णात् प्राक् यः वर्णः, तम् अनुसृत्य इति | अतः तत्र हलन्तधातूनां कृते अदुपधाः, इदुपधाः, उदुपधाः, ऋदुपधाः, शेषधातवः चेति |
अधुना दिवादिगणे सार्वधातुकलकाराणां रूपाणि कथं भवन्ति इति वीक्षताम् | दिवादिगणः प्रथमधातुगणसमूहे, नाम अस्मिन् गणे अङ्गं सर्वत्र अदन्तम् | श्यन्-प्रत्ययस्य शकारस्य इत्-संज्ञा लशक्वतद्धिते (१.३.८) इति सूत्रेण, नकारस्य इत्-संज्ञा हलन्त्यम् (१.३.३) इति सूत्रेण, तस्य लोपः (१.३.९) इत्यनेन तयोर्लोपः; य इत्यवश्यिष्यते | दिवादिगणीयः धातुः यः कोऽपि भवतु नाम, अङ्गस्य अन्ते "य" इत्यस्य अकारः भवति एव | यथा नृत् + य → नृत्य |
पूर्वमेव अस्माभिः सार्वधातुकलकारेषु (लट्, लोट्, लङ्, विधिलिङ् इत्येषु) तिङ्-प्रत्ययाः साधिताः | पूर्वतनेपाठे अदन्ताङ्ग-तिङ्प्रत्यययोः संयोजनं कथं भवति परस्मैपदे आत्मनेपदे च इति अवलोकितम् | अधुना दिवादिगणे यावन्तः धातवः सन्ति, तेषां सर्वेषां धातूनां कृते अङ्ग-निर्माण-विधिः अस्माभिः ज्ञायेत | अङ्गस्य सामान्य-चिन्तनं किं, विशेष-चिन्तनं किम् इति ज्ञेयम् | एकवारम् अङ्गं निर्मितं, ततः अग्रे चतुर्णां लकाराणां कृते अवशिष्टं सर्वं (सिद्धतिङ्प्रत्ययाः के, अपि च अङ्ग-तिङ्प्रत्यय-संयोजनविधिः) अस्माभिः ज्ञायते एव | अतः आहत्य, अधुना केवलम् अदन्तम् अङ्गम् अपेक्ष्यते; हस्ते अङ्गम् अस्ति चेत्, लटि, लोटि, लङि, विधिलिङि च तिङन्तबुद्धिः प्राप्ता |
तर्हि अस्माकं कुञ्चिका अस्ति अङ्गम्; अङ्गं ज्ञायते चेत्, लटि, लोटि, लङि, विधिलिङि च सर्वाणि रूपाणि ज्ञायन्ते |
एकवारं दिवादिगणे, चतुर्णां लकाराणां तिङन्तरूपाणि कथं सन्ति इति पश्येम | तदा एवमेव अग्रे कस्यचिदपि धातोः अदन्ताङ्गस्य ज्ञानेन, सर्वाणि तिङन्तरूपाणि ज्ञास्यन्ते | अत्र दृष्टान्ते परस्मैपदे नश्-धातुः, अङ्गम् अस्ति नश् + श्यन् → नश्य |
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ति तः अन्ति नश्यति नश्यतः नश्यन्ति
सि थः थ नश्यसि नश्यथः नश्यथ
मि वः मः नश्यामि नश्यावः नश्यामः
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
तु, तात् ताम् अन्तु नश्यतु / नश्यतात् नश्यताम् नश्यन्तु
०, तात् तम् त नश्य/नश्यतात् नश्यम् नश्यत
आनि आव आम नश्यानि नश्याव नश्याम
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त् ताम् अन् अनश्यत् अनश्यताम् अनश्यन्
स् तम् त अनश्यः अनश्यतम् अनश्यत
अम् व म अनश्यम् अनश्याव अनश्याम
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
इत् इताम् इयुः नश्येत् नश्येताम् नश्येयुः
इः इतम् इत नश्येः नश्येतम् नश्येत
इयम् इव इम नश्येयम् नश्येव नश्येम
दिवादिगणे, आत्मनेपदे विद्-धातुः, अङ्गम् अस्ति विद् + श्यन् → विद्य
लटि सिद्ध-प्रत्ययाः— लट्-लकारे तिङन्तरूपाणि—
ते इते अन्ते विद्यते विद्येते विद्यन्ते
से इथे ध्वे विद्यसे विद्येथे विद्यध्वे
ए वहे महे विद्ये विद्यावहे विद्यामहे
लोटि सिद्ध-प्रत्ययाः— लोट्-लकारे तिङन्तरूपाणि—
ताम् इताम् अन्ताम् विद्यताम् विद्येताम् विद्यन्ताम्
स्व इथाम् ध्वम् विद्यस्व विद्येथाम् विद्यध्वम्
ऐ आवहै आमहै विद्यै विद्यावहै विद्यामहै
लङि सिद्ध-प्रत्ययाः— लङ्-लकारे तिङन्तरूपाणि—
त इताम् अन्त अविद्यत अविद्येताम् अविद्यन्त
थाः इथाम् ध्वम् अविद्यथाः अविद्येथाम् अविद्यध्वम्
इ वहि महि अविद्ये अविद्यावहि अविद्यामहि
विधिलिङि सिद्ध-प्रत्ययाः— विधिलिङ्-लकारे तिङन्तरूपाणि—
ईत ईयाताम् ईरन् विद्येत विद्येयाताम् विद्येरन्
ईथाः ईयाथाम् ईध्वम् विद्येथाः विद्येयाथाम् विद्येध्वम्
ईय ईवहि ईमहि विद्येय विद्येवहि विद्येमहि
अग्रे केवलम् अङ्गं च लट्-लकारस्य प्रथमपुरुषैकवचनान्तरूपं दीयेते | ततः चतुर्णां लकारणां सर्वाणि रूपाणि ज्ञायन्ते |
दिवादिगणः (140 धातवः)
A. सामान्यधातवः (115 धातवः)
एषां धातूनां कृते किमपि कार्यं नास्ति | केवलं वर्णमेलनम् | इगन्तधातुः वा लघु-इगुपधधातुः वा चेत् सार्वधातुकमपित् (१.२.४), क्क्ङिति च (१.१.५) इत्याभ्यां गुणनिषेधः |
आकारान्तधातवः (1 धातुः)
माङ् माने (मापनार्थे) → मा → मा + श्यन् → माय इति अङ्गम् → माय + ते → लटि मायते
ईकारान्तधातवः (10 धातवः)
सर्वे आत्मनेपदिनः | गुणनिषेधत्वात् अत्रापि किमपि अङ्गकार्यं नास्ति | अपि च ई + य इत्यनयोः संयोजनेन सन्धिकार्यं नास्ति | अतः केवलं वर्णमेलनम्—
पीङ् पाने → पी + श्यन् → पी + य → पीय इति अङ्गम् → पीय + ते → पीयते (पिबति इत्यर्थः)
ईङ् गतौ → ई + श्यन् → ईय → ईयते (गच्छति इत्यर्थः)
प्रीङ् प्रीतौ → प्री + श्यन् → प्रीय → प्रीयते (प्रसन्नः भवति)
रीङ् स्रवणे → री + श्यन् → रीय → रीयते (जलं वहति)
व्रीङ् वृणोत्यर्थे → व्री + श्यन् → व्रीय → व्रीयते (आच्छादयति)
डीङ् विहायसा गतौ → डी + श्यन् → डीय → डीयते (पक्षी डीयते)
दीङ् क्षये → दी + श्यन् → दीय → दीयते (क्षीणः भवति, न्यूनीभवति)
धीङ् आधारे → धी + श्यन् → धीय → धीयते (धारणं करोति)
मीङ् हिंसायाम् → मी + श्यन् → मीय → मीयते (हिंसां कारोति)
लीङ् श्लेषणे → ली + श्यन् → लीय → लीयते (विलीनः भवति)
ऊकारान्तधातवः (2 धातू)
द्वावपि आत्मनेपदिनौ |
षूङ् प्राणिप्रसवे → सू + श्यन् → सू + य → सूय इति अङ्गम् → सूय + ते → सूयते (जनयति, प्रसूयते)
दूङ् परितापे → दूय → दूयते (दुःखी भवति)
अदुपधधातवः (19 धातवः)
णश अदर्शने → नश् + श्यन् → नश् + य → नश्य इति अङ्गम् → नश्य + ति → नश्यति
शक विभाषितो-मर्षणे → शक् + श्यन् → शक्य इति अङ्गम् → शक्य + ति/ते → शक्यति/ते (शक्नोति)
अण प्राणने → अण् + श्यन् → अण् + य → अण्य + ते → अण्यते (जीवितः तिष्ठति)
पद गतौ → पद् + श्यन् → पद् + य → पद्य → पद्य + ते → पद्यते (गच्छति, भवति, घटितो भवति)
रध् → रध्य → रध्यति, मन् → मन्य → मन्यते, तप् → तप्य → तप्यति, शप् → शप्य → शप्यति, णभ → नभ् → नभ्य → नभ्यति, अस् → अस्य → अस्यति, जस् → जस्य → जस्यति, तस् → तस्य → तस्यति, दस् → दस्य → दस्यति, वस् → वस्य → वस्यति, मस् → मस्य → मस्यति, स्नस् → स्नस्य → स्नस्यति, नह् → नह्य → नह्यति
इदुपधधातवः (17 धातवः)
ष्विदा गात्रप्रक्षरणे (स्वेदस्य आगमनम्) → स्विद् + श्यन् → स्विद्य इति अङ्गम् → स्विद्य + ति → स्विद्यति
क्लिद् → क्लिद्य → क्लिद्यति
क्ष्विद् → क्ष्विद्य → क्ष्विद्यति
खिद दैन्ये → खिद् + श्यन् → खिद्य → खिद्य + ते → खिद्यते
विद सत्तायाम् → विद् + श्यन् → विद्य → विद्य + ते → विद्यते
षिधु संराद्धौ → सिध् + श्यन् → सिध्य इति अङ्गम् → सिध्य + ति → सिध्यति
डिप् → डिप्य → डिप्यति
क्षिप प्रेरणे (तुदादौ क्षिपति, चुरादौ क्षिपयति) → क्षिप् + श्यन् → क्षिप्य → क्षिप्य + ति → क्षिप्यति
तिम् → तिम्य → तिम्यति
स्तिम् → स्तिम्य → स्तिम्यति
क्लिश उपतापे (क्लेश-प्राप्तिः) → क्लिश् → क्लिश् + श्यन् → क्लिश्य इति अङ्गम् → क्लिश्य + ते → क्लिश्यते
लिश → लिश् → लिश्य → लिश्यते
क्लिष → क्लिष् → क्लिष्य → क्लिष्यति
इष गतौ → इष् → इष्य → इष्यति
रिष हिंसायाम् → रिष् → रिष्य → रिष्यति
बिस → बिस् → बिस्य → बिस्यति
ष्णिह प्रीतौ → स्निह् + श्यन् → स्निह्य इति अङ्गम् → स्निह्य + ति → स्निह्यति
उदुपधधातवः (38 धातवः)
बुध अवगमने → बुध् + श्यन् → बुध्य इति अङ्गम् → बुध्य + ते → बुध्यते
युध संप्रहारे → युध् + श्यन् → युध्य इति अङ्गम् → युध्य + ते → युध्यते
क्रुध क्रोधे → क्रुध् + श्यन् → क्रुध्य इति अङ्गम् → क्रुध्य + ति → क्रुध्यति
क्षुध बुभुक्षायाम् → क्षुध् + श्यन् → क्षुध्य इति अङ्गम् → क्षुध्य + ति → क्षुध्यति
शुध शौचे → शुध् + श्यन् → शुध्य इति अङ्गम् → शुध्य + ति → शुध्यति
कुप क्रोधे → कुप् + श्यन् → कुप्य इति अङ्गम् → कुप्य + ति → कुप्यति
पुष पुष्टौ → पुष् + श्यन् → पुष्य इति अङ्गम् → पुष्य + ति → पुष्यति
शुष शोषणे (शुष्कः भवति) → शुष् + श्यन् → शुष्य इति अङ्गम् → शुष्य + ति → शुष्यति
तुष प्रीतौ (सन्तुष्टः भवति) → तुष् + श्यन् → तुष्य इति अङ्गम् → तुष्य + ति → तुष्यति
ऋदुपधधातवः (13 धातवः)
सृज विसर्गे (त्यजति) → सृज् + श्यन् → सृज्य इति अङ्गम् → सृज्य + ते → सृज्यते
नृती गात्रविक्षेपे → नृत् + श्यन् → नृत्य इति अङ्गम् → नृत्य + ति → नृत्यति
तृप प्रीणने (तृप्तः भवति, प्रसन्नः भवति) → तृप् + श्यन् → तृप्य इति अङ्गम् → तृप्य + ति → तृप्यति
हृष तुष्टौ (हर्षः आयाति) → हृष् + श्यन् → हृष्य इति अङ्गम् → हृष्य + ति → हृष्यति
ऋधौ वृद्धौ (वर्धने) → ऋध् + श्यन् → ऋध्य इति अङ्गम् → ऋध्य + ति → ऋध्यति
कृश तनूकरणे (कृशः भवति) → कृश् + श्यन् → कृश्य इति अङ्गम् → कृश्य + ति → कृश्यति
तृष् → तृष्यति, गृध् → गृध्यति, दृप् → दृप्यति, भृश् → भृश्यति, वृश् → वृश्यति, मृष् → मृष्यति/ते
शेषधातवः (15 धातवः)
पुष्प विकसने → पुष्प् + श्यन् → पुष्प्य इति अङ्गम् → पुष्प्य + ति → पुष्प्यति
दीपी दीप्तौ (प्रकाशते) → दीप् + श्यन् → दीप्य इति अङ्गम् → दीप्य + ति → दीप्यति
पूरी आप्यायने (पूरणे) → पूर् + श्यन् → पूर्य इति अङ्गम् → पूर्य + ति → पूर्यति
व्रीड् → व्रीड्यति, राध् → राध्यति, स्तीम् → स्तीम्यति
B. विशेषधातवः (25 धातवः)
1. अनिदित्-धातूनाम् उपधायां नकारलोपः (2 धातू)
यस्य धातोः ह्रस्व-इकारस्य इत्-संज्ञा भवति, सः धातुः इदित् इति उच्यते | यः धातुः इदित्, नास्ति, सः अनिदित् इत्युच्यते | अनिदितां धातूनाम् उपधायाः नकारस्य लोपः भवति किति ङिति प्रत्यये परे | दिवादिगणे तादृशौ द्वौ धातू स्तः, रञ्ज रागे → रञ्ज्, भ्रंशु अधःपतने → भ्रंश् च | श्यन् ङिद्वत् अतः श्यनि परे अनयोः धात्वोः न-लोपो भवति |
धातुपाठे अनुस्वारः, वर्गीयव्यञ्जनानां पञ्चमसदस्याः च, इमे सर्वे मूले दन्त्य-नकारः एव इति बोध्यम् | तदा सन्धिकार्येण नकारस्य स्थाने अनुस्वारः, ततः अग्रे च यथासङ्गम् अनुस्वारस्य स्थाने अन्यानि वर्गीयव्यञ्जनानि आयान्ति |
अतः दिवादिगणे रञ्ज्-धातोः मूलरूपम् अस्ति वस्तुतः रन्ज्; भ्रंश्-धातोः मूलरूपम् अस्ति भ्रन्श् | यथा—
रन्ज् → नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → रंज् → अनुस्वारस्य ययि परसवर्णः इत्यनेन ययि परे अनुस्वारस्य स्थाने परसवर्णादेशः → रञ्ज् | अतः धातुः अस्ति रञ्ज्, परन्तु उपधायां नकारः अस्ति इति बोध्यम् |
रञ्ज् → दिवादिभ्यः श्यन् (३.१.६९) इत्यनेन दिवादौ श्यन् भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → रञ्ज् + श्यन् → अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → रज् + य → रज्य इति अङ्गम् → रज्य + ति → रज्यति
अयं रञ्ज्-धातुः भ्वादौ अपि अस्ति | तत्र शप् इति विकरणं; शप् च न कित् न वा ङित् अतः अनिदितां हल उपधाया क्ङिति (६.४.२४) इति सूत्रेण नलोपः न भवति | परन्तु तत्रापि नलोपः इष्टः, अतः पानिणिना तदर्थं विशिष्टसूत्रं विरचितम्—
रञ्जेश्च (६.४.२६) = रञ्ज्-धातोः अपि नकारस्य लोपः भवति शपि परे | रञ्जेः षष्ठ्यन्तं, च अव्ययपदं, द्विपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् नलोपः इत्यस्य अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— रञ्जेः च अङ्गस्य नलोपः शपि |
भ्वादिगणे रजति/रजते इति रूपे भवतः |
भ्रन्श् → नश्चापदान्तस्य झलि इत्यनेन झलि परे अपदान्तस्य नकारस्य स्थाने अनुस्वारादेशः → भ्रंश् | शकारः ययि नास्ति, अतः परसवर्णादेशः न भवति | तर्हि धातुः भ्रंश्, परन्तु उपधायां नकारः अस्ति इति बोध्यम् |
भ्रंश् → दिवादिभ्यः श्यन् (३.१.६९) इत्यनेन दिवादौ श्यन् भवति कर्त्रर्थे सार्वधातुकप्रत्यये परे → भ्रंश् + श्यन् → अनिदितां हल उपधाया क्ङिति (६.४.२४) इत्यनेन ङिति प्रत्यये परे उपधायां स्थितस्य नकारस्य लोपः → भ्रश् + य → भ्रश्य इति अङ्गम् → भ्रश्य + ति → भ्रश्यति
अयं भ्रंश्-धातुः भ्वादौ अपि अस्ति | तत्र न-लोपः न भवति, भ्रंशते इति रूपम् |
अनिदितां हल उपधाया क्ङिति (६.४.२४) = येषां हलन्त-धातूनां ह्रस्व-इकारस्य इत्-संज्ञा नास्ति, तेषाम् उपधायां नकारः अस्ति चेत्, तस्य नकारस्य लोपः भवति किति ङिति प्रत्यये परे | इत् इत् अस्ति येषां ते इदितः, न इदितः, अनिदितः, बहुव्रीहिगर्भः नञ्तत्पुरुषसमासः, तेषाम् अनिदिताम् | क् च ङ् च तयोः इतरेतरद्वन्द्वः क्ङौ | क्ङौ इतौ यस्य सः क्ङित्, द्वन्द्वगर्भः बहुव्रीहिसमासः, तस्मिन् क्ङिति | अनिदितां षष्ठ्यन्तं, हलः षष्ठ्यन्तम्, उपधाया षष्ठ्यन्तं, क्ङिति सप्तम्यन्तम्, अनेकपदमिदं सूत्रम् | श्नान्नलोपः (६.४.२३) इत्यस्मात् न, लोपः इत्यनयोः अनुवृत्तिः | अङ्गस्य (६.४.१) इत्यस्य अधिकारः | अनुवृत्ति-सहित-सूत्रम्— अनिदितां हलः अङ्गस्य उपधायाः नः लोपः क्ङिति |
अनुस्वारादेशः— नश्चापदान्तस्य झलि |
नश्चापदान्तस्य झलि (८.३.२४) = अपदान्तस्य नकारस्य मकारस्य च स्थाने अनुस्वारादेशो भवति झलि परे | झल्-प्रत्याहारे वर्गस्य प्रथमः, द्वितीयः, तृतीयः, चतुर्थः च वर्णाः अपि च श्, ष्, स्, ह् इति वर्णाः अन्तर्भूताः | पदस्य अन्तः पदान्तः, न पदान्तः अपदान्तः तस्य अपदान्तस्य | नः षष्ठ्यन्तं, च अव्ययपदम्, अपदान्तस्य षष्ठ्यन्तं, झलि सप्तम्यन्तं, अनेकपदमिदं सूत्रम् | मोऽनुस्वारः (८.३.२३) इत्यस्मात् मः इत्यस्य अनुवृत्तिः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अपदान्तस्य मः नः च अनुस्वारः झलि संहितायाम् |
परसवर्णादेशः— अनुस्वारस्य ययि परसवर्णः |
अनुस्वारस्य ययि परसवर्णः (८.४.५८) = अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे | परस्य सवर्णः, परसवर्णः, षष्ठी तत्पुरुषः | अनुस्वारस्य षष्ठ्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम् | यय्-प्रत्याहारे श्, ष्, स्, ह् एतान् वर्जयित्वा सर्वे हल्-वर्णाः अन्तर्भूताः | तयोर्य्वावचि संहितायाम् (८.२.१०८) इत्यस्मात् संहितायाम् इत्यस्य अधिकारः | अनुवृत्ति-सहितसूत्रम्— अनुस्वारस्य ययि परसवर्णः संहितायाम् |
परसवर्णः इत्युक्ते अनुस्वारात् परः यः वर्णः, तस्य सवर्णः | सवर्णः नाम अनुस्वारात् परः यः वर्णः तस्य वर्णस्य वर्गे ये स्थिताः ते | अनुस्वारस्य स्थाने तेषु परसवर्णेषु अन्यतमः आदिष्टः भवतु | परन्तु तेषु परसवर्णेषु अस्माभिः कः अपेक्षितः ? स्थानेऽन्तरतमः (१.१.५०) सूचयति यत् यस्य स्थाने आदेशो भवति तस्य अन्तरतमो नाम सदृश आदिष्टो भवतु | वर्गीयव्यञ्जनेषु अनुस्वारस्य सदृशः पञ्चमसदस्यः एव | अतः स्थानेऽन्तरतमः इत्यस्य साहाय्येन अनुस्वारस्य ययि परसवर्णः इत्यनेन अनुस्वारस्य स्थाने अग्रिमवर्णस्य वर्गीयपञ्चमादेशो भवति | यथा—अंग → अङ्ग, मंच → मञ्च, मंता → मन्ता |
धेयम्— श्, ष्, स्, ह् इति वर्णाः यय्-प्रत्याहारे न सन्ति इति कारणेन एषु परेषु अनुस्वारस्य परसवर्णादेशो नैव भवति | यथा—रंस्यते = रंस्यते, नंस्यति = नंस्यति, संगंस्यते = संगंस्यते |
स्थानेऽन्तरतमः (१.१.५०) = प्रसङ्गे (स्थानं, गुणं, प्रमाणम्, अर्थम् इत्येषु अन्यतमम् अनुसृत्य) तुल्यतम आदेशो भवतु | यत्र यत्र स्थानेन निर्णेतुं शक्येत तत्र तत्र स्थानमेव निर्णयस्य आधारः | स्थाने सप्तम्यन्तम्, अन्तरतमः प्रथमान्तं, द्विपदमिदं सूत्रम् | इदं सूत्रं परिभाषा-सूत्रम् | यत्र (१) आदेशः अपेक्षितः, अपि च (२) अनेकानां वर्णानां ग्रहणम् अस्ति, अपि च (३) तेषु कः वर्णः गृहीतः स्यात् इत्यर्थं कोऽपि नियमः नास्ति, तस्यां दशायां यत् सूत्रम् आगत्य नियमति तत् परिभाषा-सूत्रम् इत्युच्यते | अत्र प्रसङ्गे तुल्यतम आदेश इति उक्तम् | "प्रसङ्ग" इत्युक्ते यत्र प्राप्तिरस्ति | तुल्यता, समानता, सादृश्यम् इत्यस्य आधारेण आदेशस्य विधानं चेत्, तर्हि स्थानम्, अर्थं, गुणं, प्रमाणं वा अनुसृत्य तुल्यता परिशील्यताम् | सर्वप्रथमं स्थानं; स्थानं नोपलभ्यते चेत्, गुणः; गुणः नोपलभ्यते चेत् प्रमाणं, प्रमाणं नोपलभ्यते चेत् अर्थः इति निर्णयस्य आधारः | आधिक्येन स्थानम् अनुसृत्य एव आदेशो भवति; अपरेषां प्रसङ्गः विरलः |
(१) स्थानम्
मुखे स्थानस्य सादृश्यम् अनुसृत्य आदेशो निर्णीयते | यथा—
अकः सवर्णे दीर्घः (६.१.१०१) = अक्-वर्णात् सवर्णे अचि परे पूर्वपरयोः स्थाने दीर्घसंज्ञक-एकादेशः स्यात् | अनुवृत्ति-सहितसूत्रम्— अकः सवर्णे अचि पूर्वपरयोः एकः दीर्घः संहितायाम् |
दण्ड + अग्रम् → दण्डाग्रम् | अत्र द्वौ अपि अकारौ कण्ठ्यौ, नाम कण्ठे उत्पन्नौ | अतः तयोः स्थाने यः दीर्घादेशो भवति, सोऽपि कण्ठः भवेत् सम्भवति चेत् | तत्र दीर्घः आकारः कण्ठ्यः, अतः स एव आदेशो भवति |