1 - मा भूत्
मा भूत्
विद्याधरी-ग्रन्थे, पृष्ठसङ्ख्या ३७—
"तत्र विद्यमानः कश्चित् विलक्षणः पदार्थः, लोके, वैशिष्ट्यं, गुणः इति वा प्रसिद्धः यः लक्ष्यसमानजातीयाः यावन्तः, तेषु सर्वत्र स्यात्, एवं लक्ष्यविजातीयाः ये तेषु मा भूत्, सः तल्लक्षणमिति उच्यते |”
प्रश्नः— 'भूत्' इति कीदृशरूपं, कस्मिन् अर्थे च |
उत्तरम्— अत्र मा भूत्, इत्यस्य वैशिष्ट्यद्वयम्—
१) लुङ्-लकारः अस्ति; सामान्यतया रूपम् अस्ति 'अभूत्' | परन्तु यदा मा-शब्दः पूर्वम् अस्ति, तदा अडागमः न भवति | अतः 'भूत्' इति रूपं, न तु 'अभूत्' |
२) लुङ्-लकारस्य अर्थः अद्यतन-भूतकालः | परन्तु अत्र लोट्-लकारार्थे भवति | अतः अर्थः 'मा भवतु' इति अस्ति |
एतदर्थं सूत्रद्वयम् अस्ति—
माङि लुङ् (३.३.१७५) = माङ्-शब्दात् धातुतः लुङ्-लकारः भवति | अनेन मा इत्यस्मात्, धातुः, यस्मात् लुङ्-लकारस्य सिद्धप्रत्ययः | सर्वलकारापवादः | सर्वेषां लकाराणाम् अर्थे भवति | अनुवृत्ति-सहितसूत्रम्— माङि धातोः लुङ् प्रत्ययः परश्च |
न माङ्योगे (६.४.७४) = माङ् इति अव्ययस्य योगे अट् आट् च आगमौ न भवतः | लुङ्, लङ्, लृङ् इत्येषु लकारेषु, माङ्योगे आगमनिषेधः, इति सन्दर्भः बोध्यः | माङो योगो माङ्योगः षष्ठीतत्पुरुषः, तस्मिन् | न अव्ययपदं, माङ्योगे सप्तम्यन्तं, द्विपदमिदं सूत्रम् | लुङ्लङ्लृङ्क्ष्वडुदात्तः (६.४.७१) इत्यस्मात् अट् इत्यस्य अनुवृत्तिः | आडजादीनाम् (६.४.७२) इत्यस्मात् आट् इत्यस्य अनुवृत्तिः | अनुवृत्ति-सहितसूत्रम्— माङ्योगे अङ्गस्य अट् आट् न |
Swarup – October 2015